०८ चरूपध्नम्

भास्करोक्त-विनियोगः

1तत्र पञ्च चरून् उपदधाति - प्रथमा जगती ।
द्वितीया द्विपदा गायत्री ।
शिष्टं यजुः ।
तेषाम् अभिधारणानि घृतं शृतं क्षीरं दधि मध्वित्य् अपूपाभिधाना भवन्ति ।

विश्वास-प्रस्तुतिः

अ॒पू॒पवा॑न्घृ॒तवाँ॑श्च॒रुरेह सी॑दतूत्तभ्नु॒वन्पृ॑थि॒वीन्द्यामु॒तोपरि॑ ।
यो॒नि॒कृतः॑ पथि॒कृत॑स्सपर्यत॒ ये दे॒वाना॑ङ्घृ॒तभा॑गा इ॒ह स्थ ।

मूलम्

अ॒पू॒पवा॑न्घृ॒तवाँ॑श्च॒रुरेह सी॑दतूत्तभ्नु॒वन्पृ॑थि॒वीन्द्यामु॒तोपरि॑ ।
यो॒नि॒कृतः॑ पथि॒कृत॑स्सपर्यत॒ ये दे॒वाना॑ङ्घृ॒तभा॑गा इ॒ह स्थ ।

भट्टभास्कर-टीका

अपूपवान् अपूपेन अभिधानेन तद्वान् घृतेन अभिघारणेन तद्वान् एवम्भूतश् चरुर् इह स्थाने आसीदतु उत्तभ्नुवन् दृढीकुर्वन् पृथिवीं द्यामप्युपर्य् उत्तभ्नुवन् । ये देवानां मध्ये इह कर्मणि घृतभागाः स्थ ते यूयं योनिकृतः प्रेतानां योग्यस्य स्थानस्य कर्तारः पथिकृतस् तेष्वपि यूयमेव च मार्गस्य कर्तार इमं चरुं सपर्यत बहुमानेन स्वीकुरुत ॥

विश्वास-प्रस्तुतिः

ए॒षा ते यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हे॑ऽसौ ।

मूलम्

ए॒षा ते यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हे॑ऽसौ ।

भट्टभास्कर-टीका

2-4अथ प्रेतम् एषा त इत्य् असौ यज्ञशर्मन् !

विश्वास-प्रस्तुतिः

दशा॑क्षरा॒ ताँ र॑क्षस्व॒ ताङ्गो॑पायस्व॒ तान्ते॒ परि॑ददामि॒ तस्या॑न्त्वा॒ मा द॑भन्पि॒तरो॑ दे॒वता॑ ।

मूलम्

दशा॑क्षरा॒ ताँ र॑क्षस्व॒ ताङ्गो॑पायस्व॒ तान्ते॒ परि॑ददामि॒ तस्या॑न्त्वा॒ मा द॑भन्पि॒तरो॑ दे॒वता॑ ।

भट्टभास्कर-टीका

दशाक्षरेत्यादि स्वधाया विशेषणम् । दशाक्षरा विराट् छन्दः ।
तद्वत् कामदुधा एषा स्वधा तां स्वधां रक्षस्व रक्षितां गोपायस्व गोपाय गुप्तं कुरु । यथा अन्ये न जानन्ति तां ते तुभ्यं परिददामि रक्षार्थं ददामि । तस्यां विद्यमानायां त्वा त्वां मा दभन् मा हिंसिषुः पितरो देवता ।

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या ।

मूलम्

प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या ।

भट्टभास्कर-टीका

प्रजापतिस्त्वा सादयत्व् इत्यादि गतम् । एतेन उत्तरा व्याख्याताः ।

विश्वास-प्रस्तुतिः

अ॒पू॒पवा॑ञ् छृ॒तवा॑न् क्षी॒रवा॒न् दधि॑वा॒न् मधु॑माँश् च॒रुरेह सी॑दतु+उत्तभ्नु॒वन् पृ॑थि॒वीन् द्याम् उ॒तोपरि॑ ।

मूलम्

अ॒पू॒पवा॑ञ्छृ॒तवा॑न्क्षी॒रवा॒न्दधि॑वा॒न्मधु॑माँश्च॒रुरेह सी॑दतूत्तभ्नु॒वन्पृ॑थि॒वीन्द्यामु॒तोपरि॑ ।

भट्टभास्कर-टीका

ते सानुषङ्गाः प्रदृश्यन्ते - अपूपवाञ्च्छृतवांश्चरुर् ये देवानां शृतभागाः शताक्षरा तां रक्षस्वेत्यादि गतम् । अपूपवान् क्षीरवांश्चरुर्

विश्वास-प्रस्तुतिः

यो॒नि॒कृतः॑ पथि॒कृत॑स् सपर्यत

मूलम्

यो॒नि॒कृतः॑ पथि॒कृत॑स्सपर्यत

विश्वास-प्रस्तुतिः

ये दे॒वानाँ॑ शृ॒तभा॑गाः क्षी॒रभा॑गा॒ दधि॑भागा॒ मधु॑भागा इ॒ह स्थ ।

मूलम्

ये दे॒वानाँ॑ शृ॒तभा॑गाः क्षी॒रभा॑गा॒ दधि॑भागा॒ मधु॑भागा इ॒ह स्थ ।

भट्टभास्कर-टीका

अपक्वं पयः क्षीरम् । पक्वं शृतम् ।

विश्वास-प्रस्तुतिः

ए॒षा ते॑ यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हे॑ऽसौ ।
श॒ताक्ष॑रा स॒हस्रा॑क्षरा॒युता॑क्ष॒राऽच्यु॑ताक्षरा

मूलम्

ए॒षा ते॑ यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हे॑ऽसौ ।
श॒ताक्ष॑रा स॒हस्रा॑क्षरा॒युता॑क्ष॒राऽच्यु॑ताक्षरा

भट्टभास्कर-टीका

शताक्षरादयश्छन्दोविशेषाः । अच्युताक्षरा अविपरीताक्षरा अक्षीणाक्षरा अपरिमिताक्षरेत्यर्थः ॥
इत्यारण्यके चतुर्थे अष्टमोऽनुवाकः ॥

विश्वास-प्रस्तुतिः

ताँ र॑क्षस्व॒
ताङ्गो॑पायस्व॒
तान्ते॒ परि॑ददामि॒
तस्या॑न्त्वा॒ मा द॑भन्पि॒तरो॑ दे॒वता॑ ।
प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या ॥ (20) ॥ 8 ॥

मूलम्

ताँ र॑क्षस्व॒
ताङ्गो॑पायस्व॒
तान्ते॒ परि॑ददामि॒
तस्या॑न्त्वा॒ मा द॑भन्पि॒तरो॑ दे॒वता॑ ।
प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या ॥ (20) ॥ 8 ॥

भट्टभास्कर-टीका

… ये देवानां क्षीरभागाः सहस्राक्षरा तां रक्षस्वेत्यादि गतम् ।