लोष्ठोपधानम्
भास्करोक्त-विनियोगः
1प्रतिदिशं विधृति-लोष्टानन्वीक्षमाण उपदधाति - उत्ते तभ्नोमीत्यादिभिः प्रतिमन्त्रं प्रथमा जगती । द्वितीया त्रिष्टुप् । तृतीया संस्तारपङ्क्तिः । चतुर्थी मध्येज्योतिर्जगती ॥
विश्वास-प्रस्तुतिः
उत्ते॑ तभ्नोमि पृथि॒वीन्त्वत्परी॒मल्लों॒कन्नि॒दध॒न्मो अ॒हँ रि॑षम् ।
ए॒ताँ स्थूणां॑ पि॒तरो॑ धारयन्तु॒ तेऽत्रा॑ य॒मस्साद॑नात्ते मिनोतु ।
मूलम्
उत्ते॑ तभ्नोमि पृथि॒वीन्त्वत्परी॒मल्लों॒कन्नि॒दध॒न्मो अ॒हँ रि॑षम् ।
ए॒ताँ स्थूणां॑ पि॒तरो॑ धारयन्तु॒ तेऽत्रा॑ य॒मस्साद॑नात्ते मिनोतु ।
भट्टभास्कर-टीका
हे प्रेत ! ते तव त्वदर्थं पृथिवीम् उत्तभ्नोमि विधृतिलोष्टैर्दृढीकरोमि त्वत् । षष्ठ्यर्थे पञ्चमी । पर्य् उपरि तवोपरि इमं लोकं निदधत् स्थापयन् अहं मा उ मैव रिषं रिष्टो हिंसितो मा भूवम् । एतां स्थूणां चितिलक्षणां ते त्वदर्थं पितरो धारयन्त्व् अत्र चितौ यमस् ते सादनात् सदनं गृहं मिनोतु ॥
विश्वास-प्रस्तुतिः
उप॑सर्प मा॒तरं॒ भूमि॑मे॒तामु॑रु॒व्यच॑सं पृथि॒वीँ सु॒शेवा॑म् ।
ऊर्ण॑म्रदा युव॒तिर्दक्षि॑णावत्ये॒षा त्वा॑ पातु॒ निर्ऋ॑त्या उ॒पस्थे॑ ।
मूलम्
उप॑सर्प मा॒तरं॒ भूमि॑मे॒तामु॑रु॒व्यच॑सं पृथि॒वीँ सु॒शेवा॑म् ।
ऊर्ण॑म्रदा युव॒तिर्दक्षि॑णावत्ये॒षा त्वा॑ पातु॒ निर्ऋ॑त्या उ॒पस्थे॑ ।
भट्टभास्कर-टीका
2उपसर्पेति ॥ सर्वस्य मातृस्थानीयाम् एतां भूमिम् उपसर्प उपगच्छ हे प्रेत! उरुव्यचसं महावकाशां पृथिवीं क्रियाशब्दोऽयम् । प्रथितां विस्तीर्णां सुशेवां सुसुखाम् एषा च भूमिर् ऊर्णम्रदा ऊर्णावन् मृदुतरा स्त्रीवत् सुखकरी मिश्रयित्री वा धान्यादीनां दक्षिणावती दानस्य निमित्तभूता त्वा त्वां निर्ऋत्या उपस्थे विभक्तिव्यत्ययः । मृत्युदेवताया उपस्थात् पार्श्वात् पातु ॥
विश्वास-प्रस्तुतिः
उछ्म॑ञ्चस्व पृथिवि॒ मा विबा॑धिथा स्सूपाय॒नास्मै॑ भव सूपवञ्च॒ना ।
मा॒ता पु॒त्रय्ँयथा॑सि॒चाभ्ये॑नं भूमि वृणु ।
मूलम्
उछ्म॑ञ्चस्व पृथिवि॒ मा विबा॑धिथा स्सूपाय॒नास्मै॑ भव सूपवञ्च॒ना ।
मा॒ता पु॒त्रय्ँयथा॑सि॒चाभ्ये॑नं भूमि वृणु ।
भट्टभास्कर-टीका
3उदिति ॥ श्वसितेरन्तर्भावितण्यर्थस्यैतद्रूपम् । हे पृथिवि! इमं प्रेतम् उच्छ्मञ्चस्व उच्छ्वासय मा विबाधिथा मा विबाधिष्टाः । छान्दसस्सिज्लोपः । अस्मै अस्य प्रेतस्य सूपायना सूपगमना भव सूपवञ्चना सुप्रतिष्ठाना सूपवश्वना अथ चरणीया भव । किञ्च - हे भूमि! एनम् अभिवृणु छादय । यथा माता पुत्रं बालम् अङ्कगतं सिचा वस्त्रदशया अभिवृणोति तद्वत् ॥
विश्वास-प्रस्तुतिः
उ॒छ्मञ्च॑माना पृथि॒वी हि तिष्ठ॑सि स॒हस्रं॒ मित॒ उप॒ हि श्रय॑न्ताम् ।
ते गृ॒हासो॑ मधु॒श्चुतो॒ विश्वाहा॑स्मै शर॒णास्स॒न्त्वत्र॑ ।
मूलम्
उ॒छ्मञ्च॑माना पृथि॒वी हि तिष्ठ॑सि स॒हस्रं॒ मित॒ उप॒ हि श्रय॑न्ताम् ।
ते गृ॒हासो॑ मधु॒श्चुतो॒ विश्वाहा॑स्मै शर॒णास्स॒न्त्वत्र॑ ।
भट्टभास्कर-टीका
4उच्छ्मञ्चमानेति ॥ हिशब्दो हेतौ । यस्मात् त्वां पृथिवी विस्तिर्णा उच्छ्मञ्चमाना एतं प्रेतं मातेव बहुमन्यमाना तिष्ठसि । यस्माच्च सहस्रं मितः । वचनव्यत्ययः । मिताः शर्करा उपश्रयन्ताम् उपश्रयन्ते समन्ताद् धारयन्ति । लडर्थे लोट् । यस्मादेवं तस्मात् ते प्रकृताः पृथिवीशर्करा गृहसामानाधिकरण्यात् पुंस्त्वम् । गृहासः गृहभूता मधुश्चुतः मधुरसस्य अन्नस्य मधुन एव वा क्षरितारः विश्वाहा सर्वदा अस्मै प्रेताय शरणा आश्रयभूताः सन्तु भवन्त्व् अत्र लोके ॥
धाना-परिकिरणम्
भास्करोक्त-विनियोगः
5तिलमिश्राभिर्धानाभिस् त्रिर् अपसव्यं परिकिरति - एणीरित्य् अस्तारपङ्क्तिः ॥
विश्वास-प्रस्तुतिः
एणी॑र्धा॒ना हरि॑णी॒रर्जु॑नीस्सन्तु धे॒नवः॑ ।
तिल॑वत्सा॒ ऊर्ज॑मस्मै॒ दुहा॑ना॒ विश्वाहा॑ स॒न्त्वनप॑स्फुरन्तीः ।
(17)
मूलम्
एणी॑र्धा॒ना हरि॑णी॒रर्जु॑नीस्सन्तु धे॒नवः॑ ।
तिल॑वत्सा॒ ऊर्ज॑मस्मै॒ दुहा॑ना॒ विश्वाहा॑ स॒न्त्वनप॑स्फुरन्तीः ।
(17)
भट्टभास्कर-टीका
एतशब्दात् ‘वर्णादनुदात्तात्’ इत्यादिना ङीप्नकारयोश्छान्दस णत्वम्, ‘वा छन्दसि’ इति जसि पूर्वसवर्णः । एणीः श्वेता धाना भ्रष्टा यवा हरिणीर् हरितवर्णाः । अर्जुनीः शुद्धा भर्जनविशेष वर्णभेदा एवम्भूता धाना अस्मै प्रेताय धेनवः सन्तु तद्वत् कामदुधास्सन्तु । तिलवत्सा मिश्रितास् तिलास् तासां वत्सत्वेन रूप्यन्ते तिलैर्वा वत्सस् तद्वत्यः । उर्जम् अन्नं बलं वा दुहानाः क्षरन्त्यः विश्वाहा विश्वेष्वहस्सु सर्वदा अनपस्फुरन्तीर् अचलन्त्यः सन्तु ॥
जलम्स्
भास्करोक्त-विनियोगः
6अन्तश्शरा[श्शराव]स्थजलं दक्षिणत उपदधाति - एषेति ॥
विश्वास-प्रस्तुतिः
ए॒षा ते॑ यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हे ।
अक्षि॑ति॒र्नाम॑ ते असौ ।
मूलम्
ए॒षा ते॑ यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हे ।
अक्षि॑ति॒र्नाम॑ ते असौ ।
भट्टभास्कर-टीका
हे प्रेत! यमसादने यमराष्ट्रं यत् ते गृहं तत्र एषा स्वधा निधीयते स्थाप्यते । सा ते अक्षितिर् नाम प्रसिद्ध्य् अक्षीणा ह्य् असाविति प्रेतस्य नाम सम्बुद्ध्या निर्देशः यज्ञशर्मन् ।।
बर्हिः
भास्करोक्त-विनियोगः
7समूलं बर्हिर्दक्षिणा स्तृणाति - इदमिति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः
इ॒दं पि॒तृभ्यः॒ प्रभ॑रेम ब॒र्हिर्दे॒वेभ्यो॒ जीव॑न्त॒ उत्त॑रं भरेम ।
तत्त्व॑मारो॒हासो॒ मेघ्यो॒ भवय्ँ॑य॒मेन॒ त्वय्ँय॒म्या॑ सव्विंदा॒नः ।
मूलम्
इ॒दं पि॒तृभ्यः॒ प्रभ॑रेम ब॒र्हिर्दे॒वेभ्यो॒ जीव॑न्त॒ उत्त॑रं भरेम ।
तत्त्व॑मारो॒हासो॒ मेघ्यो॒ भवय्ँ॑य॒मेन॒ त्वय्ँय॒म्या॑ सव्विंदा॒नः ।
भट्टभास्कर-टीका
इदं बर्हिः प्रभरेम प्रहरेम । ‘हृग्रहोर्भः’ इति भः । प्रहरेम स्थापयामः । देवेभ्यः देवत्वमापन्नेभ्यः जीवन्तः स्वस्थास्सन्तः वयम् उत्तरम् उत्कृष्टतरं यथा तथा भरेम । उत्तरमिति विशेषविवक्षया पुनर्वचनम् । तद् बर्हिस् त्वमारोह असौ यज्ञशर्मन् । ओकारपाठस्तु छान्दसः । मेघ्यः मेघस्थितः वायुर् भवन् अनुस्वारस्तु छान्दसः । प्रेतत्वादन्तरिक्षे चरन् यमेन यम्या च संविदान ऐकमत्यं गतस् तत्र गतस् तयोरनुज्ञां लभमानः यमी यमस्य स्वसा भार्या वा ॥
परिधिः
भास्करोक्त-विनियोगः
8पालाशान् परिधीन् चतुरः प्रतिदिशं प्रसव्यं परिदधाति - मा त्वेति द्वाभ्याम् ॥
पूर्वया पूर्वापरौ । उत्तरया दक्षिणोत्तरौ ।
विश्वास-प्रस्तुतिः
मा त्वा॑ वृ॒क्षौ संबा॑धिष्टा॒म्मा मा॒ता पृ॑थिवि॒ त्वम् ।
पि॒तॄन् ह्यत्र॒ गच्छा॒स्येधा॑सय्ँयम॒राज्ये॑ ।
मूलम्
मा त्वा॑ वृ॒क्षौ संबा॑धिष्टा॒म्मा मा॒ता पृ॑थिवि॒ त्वम् ।
पि॒तॄन् ह्यत्र॒ गच्छा॒स्येधा॑सय्ँयम॒राज्ये॑ ।
भट्टभास्कर-टीका
हे प्रेत! त्वां वृक्षौ तद्विकारौ परिधी मा बाधिष्टां मा बाधिषाताम् । हे पृथिवि! त्वं च सर्वमाता सती इमं प्रेतं मा बाधिष्ठाः । हे प्रेत! त्वं हि यत्र स्थाने स्थितान् पितॄन् गच्छासि गच्छेस् तत्र यमराज्ये त्वम् एधास्य् अहं च अत्रैव लोके एधासम् एधिषीय ॥
विश्वास-प्रस्तुतिः
मा त्वा॑ वृ॒क्षौ संबा॑धेथां॒ मा मा॒ता पृ॑थि॒वी म॒ही ।
वै॒व॒स्व॒तँ हि गच्छा॑सि यम॒राज्ये॒ विरा॑जसि ।
मूलम्
मा त्वा॑ वृ॒क्षौ संबा॑धेथां॒ मा मा॒ता पृ॑थि॒वी म॒ही ।
वै॒व॒स्व॒तँ हि गच्छा॑सि यम॒राज्ये॒ विरा॑जसि ।
भट्टभास्कर-टीका
9उत्तमे मन्त्रे पूर्वम् अर्धं गतम् । मही महती वैवस्वतं गच्छासि गच्छेर् गत्वा च यमराज्ये स्थाने विराजसि विराज ॥
इष्टकाः
भास्करोक्त-विनियोगः
10मध्ये इषीका निदधाति - नळमित्यनुष्टुभा ॥
विश्वास-प्रस्तुतिः
न॒ळं प्ल॒वमारो॑है॒तन्न॒ळेन॑ प॒थोऽन्वि॑हि ।
स त्व॑न्न॒ळप्ल॑वो भू॒त्वा॒ सन्त॑र॒ प्रत॒रोत्त॑र ।
(18)
मूलम्
न॒ळं प्ल॒वमारो॑है॒तन्न॒ळेन॑ प॒थोऽन्वि॑हि ।
स त्व॑न्न॒ळप्ल॑वो भू॒त्वा॒ सन्त॑र॒ प्रत॒रोत्त॑र ।
(18)
भट्टभास्कर-टीका
यो जले प्लवते न मज्जति स प्लवः नळेः कल्पितम् एतं प्लवम् आरोह तेन नळेन प्लवेन सर्वान् मार्गान् अन्विह्य् अनुगच्छ । स त्वं नः कल्पितप्लवो भूत्वा यत्तरितव्यं नद्यादि मार्गे सन्तर प्रतर प्रकर्षेण तर उत्तर उत्तरपारं प्राप्नुहि ।।
अस्थि-निर्वापः
भास्करोक्त-विनियोगः
11अस्थीनि तेषु दर्भेषु निवपति - सवितेत्यादि ॥
विश्वास-प्रस्तुतिः
स॒वि॒तैतानि॒ शरी॑राणि पृथि॒व्यै मा॒तुरु॒पस्थ॒ आद॑धे ।
तेभ्यः॑ पृथिवि॒ शं भ॑व ।
मूलम्
स॒वि॒तैतानि॒ शरी॑राणि पृथि॒व्यै मा॒तुरु॒पस्थ॒ आद॑धे ।
तेभ्यः॑ पृथिवि॒ शं भ॑व ।
भट्टभास्कर-टीका
गता । तेभ्यः शरीरेभ्यः हे पृथिवि ! त्वं शम्भव ॥
उपस्थानम्
भास्करोक्त-विनियोगः
12यथाङ्गमङ्गानि सन्निधायोपतिष्ठते - तत्र मन्त्रः - षड्ढोता सूर्यं ते चक्षुरिति ॥
विश्वास-प्रस्तुतिः
षड्ढो॑ता॒ सूर्य॑न्ते॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्याञ्च॒ गच्छ॑ पृथि॒वीञ्च॒ धर्म॑णा ।
अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः ।
मूलम्
षड्ढो॑ता॒ सूर्य॑न्ते॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्याञ्च॒ गच्छ॑ पृथि॒वीञ्च॒ धर्म॑णा ।
अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः ।
भट्टभास्कर-टीका
‘सूर्यं ते चक्षुः । वातं प्राणः’ इति षड्ढोता पूर्वमेव व्याख्यातः । इयानेव भेदस् ते तव स्वभूतं चक्षुरिन्द्रियं सूर्यं साकाङ्क्षत्वात् समानार्थायामृचि दर्शनाच्च गच्छत्विति गम्यते । एवं वातं प्राण इत्यादावपि द्रष्टव्यम् । द्यां पृष्ठं; स्पर्शनात् पृष्ठम् । त्वयि पृष्ठलग्नं सूक्ष्मशरीरं द्युलोकं गच्छतु । आप्नोतेर् आत्मा व्यापी श्रोत्रेन्द्रियम् अन्तरिक्षं स्वप्रकृतिं गच्छतु । अङ्गैर् अङ्गानि । विभक्तिव्यत्ययः । यज्ञं गच्छत्व् अङ्गैर्वा त्वं यज्ञं गच्छ यज्ञाङ्गं शरीरम् आप्नुहि शरीरे भस्मीभूते पृथिवीं गच्छ तया सह एकीभव । एतावानेव मन्त्रः । ‘वाचस्पते'20 इत्यादिकस्तु मन्त्रशेषो ग्रहाभिधानाख्यो होमेष्वेवोक्तः पुरस्तात् । ‘सूर्यं ते चक्षुः’ इति गतम् ॥
कुम्भ-व्युदासः
भास्करोक्त-विनियोगः
13भुक्तभोगेन वाससा कुम्भं निमृज्य
शिरसा उपरि दक्षिणां व्युदस्यति - परमिति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः
परं॑ मृत्यो॒ अनु॒परे॑हि॒ पन्थाय्ँ॒
यस् ते॒ स्व इत॑रो देव॒-याना॑त् ।
चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒
मा नः॑ प्र॒जाँ री॑रिषो॒ मोत वी॒रान् ।
मूलम्
परं॑ मृत्यो॒ अनु॒परे॑हि॒ पन्थाय्ँ॒यस्ते॒ स्व इत॑रो देव॒याना॑त् ।
चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा नः॑ प्र॒जाँ री॑रिषो॒ मोत वी॒रान् ।
भट्टभास्कर-टीका
वस्यमानं वासो मृत्युत्वेन रूप्यते । हे मृत्यो! देवा येन पथा यान्ति स देव यानः पन्थास् तं विना परम् अन्यं पन्थां पन्थानम् अनुपरेह्य् अनुपरागच्छ तद्गामिनं जनम् अनुवर्तस्व । अयं पुनरस्मत्पिता देवयानं पन्थानमभिप्रस्थितस् तं माऽनुपरागच्छ । किञ्च - चक्षुष्मांश्च त्वं भवसि । ब्रुवतो मे श्रद्धां द्रष्टुं शृण्वंश्च भवसि । न अनादरेण पराङ्मुखः । अतश् चक्षुष्मते च शृण्वते च ब्रवीमि । किं ब्रवीषि? नो ऽस्माकं प्रजां दुहितृदौहित्रादि मा रीरिषः मा हिंसीः । मा उत मोत मा च वीरान् पुत्रपौत्रादिकान् ॥
अवोक्षणम्
भास्करोक्त-विनियोगः
14उदपात्रेणोदुम्बर-शाखयाऽवोक्षति - शं वात इति ॥
विश्वास-प्रस्तुतिः
शव्ँ वात॒श्शँ हि ते॒ घृणि॒श्शमु॑ ते स॒न्त्वोष॑धीः ।
कल्प॑न्ताम्मे॒ दिश॑श्श॒ग्माः ।
मूलम्
शव्ँ वात॒श्शँ हि ते॒ घृणि॒श्शमु॑ ते स॒न्त्वोष॑धीः ।
कल्प॑न्ताम्मे॒ दिश॑श्श॒ग्माः ।
भट्टभास्कर-टीका
वातस् ते शम् अस्तु । घृणिर् आदित्यः सोऽपि ते शम् अस्तु । ओषधीर् ओषधयश्च ते शं सन्तु । मे मह्यं दिशः शग्माः सुखा भवन्तु ॥
इष्टकाः
भास्करोक्त-विनियोगः
15-16इष्टकाः प्रतिदिशम् अनन्वीक्षमाण उपदधाति -
मध्ये पञ्चमीम् ।
विश्वास-प्रस्तुतिः
पृ॒थि॒व्यास् त्वा॑ लो॒के सा॑दयाम्य्
अ॒मुष्य॒ शर्मा॑सि पि॒तरो॑ दे॒वता॑ ।
प्र॒जाप॑तिस् त्वा सादयतु॒ तया॑ दे॒वत॑या ।
मूलम्
पृ॒थि॒व्यास्त्वा॑ लो॒के सा॑दयाम्य॒मुष्य॒ शर्मा॑सि पि॒तरो॑ दे॒वता॑ ।
प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या ।
भट्टभास्कर-टीका
तस्माद् दक्षिणे षष्ठीम् । पृथिव्यास्त्वा यस्य लोकस्य पृथिव्य् अधिष्ठात्री स पृथिव्या लोकस् तत्र त्या त्वां सादयामि हे इष्टके !
अमुष्य नामनिर्देशष्षष्ठया यज्ञशर्मणः शर्म शरणम् असि पितरश्च देवता! त्वा त्वां प्रजापतिः सादयतु ।
सा च त्वं तया देवतया अङ्गिरस इव ध्रुवा सीद निश्चला सीद । एतेन उत्तरा व्याख्याताः ।
विश्वास-प्रस्तुतिः
अ॒न्तरि॑क्षस्य त्वा [लो॒के सा॑दयाम्य्
अ॒मुष्य॒ शर्मा॑सि पि॒तरो॑ दे॒वता॑ ।
प्र॒जाप॑तिस् त्वा सादयतु॒ तया॑ दे॒वत॑या ।]
मूलम्
अ॒न्तरि॑क्षस्य त्वा
भट्टभास्कर-टीका
तत्र च आदितस्त्रिषु लोकेषु सादयामीत्यादेरनुषङ्गः ।
विश्वास-प्रस्तुतिः
दि॒वस्त्वा॑ [लो॒के सा॑दयाम्य्
अ॒मुष्य॒ शर्मा॑सि पि॒तरो॑ दे॒वता॑ ।
प्र॒जाप॑तिस् त्वा सादयतु॒ तया॑ दे॒वत॑या ।]
मूलम्
दि॒वस्त्वा॑
विश्वास-प्रस्तुतिः
दि॒शान्त्वा॒ [लो॒के सा॑दयाम्य्
अ॒मुष्य॒ शर्मा॑सि पि॒तरो॑ दे॒वता॑ ।
प्र॒जाप॑तिस् त्वा सादयतु॒ तया॑ दे॒वत॑या ।]
मूलम्
दि॒शान्त्वा॒
विश्वास-प्रस्तुतिः
नाक॑स्य त्वा पृ॒ष्ठे [सा॑दयाम्य्
अ॒मुष्य॒ शर्मा॑सि पि॒तरो॑ दे॒वता॑ ।
प्र॒जाप॑तिस् त्वा सादयतु॒ तया॑ दे॒वत॑या ।]
मूलम्
नाक॑स्य त्वा
भट्टभास्कर-टीका
चतुर्थे, पञ्चमे च सादयामीत्यादेर् अनुषङ्गः ।
नाकस्य सुवर्गस्य लोकस्य पृष्ठे प्रधाने सादयामि
विश्वास-प्रस्तुतिः
ब्र॒ध्नस्य॑ त्वा वि॒ष्टपे॑ सादयाम्य॒मुष्य॒ शर्मा॑सि पि॒तरो॑ दे॒वता॑ ।
प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या ॥ (19)
मूलम्
ब्र॒ध्नस्य॑ त्वा वि॒ष्टपे॑ सादयाम्य॒मुष्य॒ शर्मा॑सि पि॒तरो॑ दे॒वता॑ ।
प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या ॥ (19)
भट्टभास्कर-टीका
ब्रध्नस्य आदित्यस्य विष्टपे विगततापे स्थाने सादयामीत्यादिः ॥
इत्यारण्यके चतुर्थे सप्तमोऽनुवाकः ॥