अवोक्षणम्
भास्करोक्त-विनियोगः
1अस्थिसञ्चयने क्षीरमिश्रोदकेन
उदुम्बर-शाखया
अस्थीन्य् अवोक्षति - यं त इति पञ्चभिः ॥
विश्वास-प्रस्तुतिः
यन्ते॑ अ॒ग्निमम॑न्थाम वृष॒भाये॑व॒ पक्त॑वे ।
इ॒मन्तँ श॑मयामसि क्षी॒रेण॑ चोद॒केन॑ च ।
मूलम्
यन्ते॑ अ॒ग्निमम॑न्थाम वृष॒भाये॑व॒ पक्त॑वे ।
इ॒मन्तँ श॑मयामसि क्षी॒रेण॑ चोद॒केन॑ च ।
भट्टभास्कर-टीका
हे प्रेत! यम् अग्निं ते त्वदर्थम् अमन्थाम आधानकाले मथितवन्तः वयं वृषभायेव । द्वितीयार्थे चतुर्थी । वृषभमिव पक्तवे । तुमर्थे तवेप्रत्ययः । यथा आतिथ्यादौ वृषभं पक्तुमग्निं मन्थति तद्वत् त्वदर्थमग्निम् अमन्थाम तमिमम् अग्निं शमयामसि शमयामः केन ? क्षीरेण चोदकेन च मिश्रितेन ॥
सायण-टीका
कल्पः -
“अपरेद्युस् तृतीयस्यां पञ्चम्यां सप्तम्यां वास्थीनि संचिन्वन्ति, क्षीरोत्सिक्तेनोदकेनोदुम्बर-शाखया प्रक्काथयञ् शरीराण्य् अवोक्षति - ‘यं ते अग्निम् अमन्थाम’
इति पञ्चभिः । तत्र प्रथमाम् आह -
हे प्रेत-शरीर, ते तव पक्तवे पाकार्थं वृषभायेव यथा पशवे तथा यम् अग्निम् अमन्थाम। पशु-बन्धेषु हि पशोः पाकार्थम् अग्निर् मथ्यते “निर्मन्थ्यं वा कुर्याद्” इति श्रुतेः। तम् इमम् अग्निम् अनेन क्षीरेण चोदकेन च शमयामसि शान्तं कुर्मः।
विश्वास-प्रस्तुतिः
यन्त्वम॑ग्ने स॒मद॑ह॒स्त्वमु॒ निर्वा॑पया॒ पुनः॑ ।
क्या॒म्बूरत्र॑ जायतां पाकदू॒र्वा व्य॑ल्कशा ।
मूलम्
यन्त्वम॑ग्ने स॒मद॑ह॒स्त्वमु॒ निर्वा॑पया॒ पुनः॑ ।
क्या॒म्बूरत्र॑ जायतां पाकदू॒र्वा व्य॑ल्कशा ।
भट्टभास्कर-टीका
2यं त्वमिति ॥ हे अग्ने! त्वं यं समदहः सम्यग्दग्धवानसि त्वमु तमु । छन्दसो वकारोपजनः । तथैव बह्वृचाः पठन्ति । तमेव पुनर्निर्वापय शान्तं कुरु । किञ्च - अत्र श्मशाने क्याम्बू: शैवालविशेषः कियद् अम्बु उत्पत्तिस्थानमस्येति सः । अत्र प्रदेशे जायताम् एवन्नामायं देशः सिक्तोऽस्तु यथा शैवालमपि जायते तथा पाकदूर्वा बालाऽपि दूर्वा, व्यल्कशा विविधाङ्कुरा जायताम् ॥
सायण-टीका
अथ द्वितीयाम् आह -
हे अग्ने, त्वं यं प्रेत-देहं सम् अदहः सम्यग् दग्धवान् असि। त्वम् उ तादृशस् त्वम् एव पुनर् निर्वापयेतः स्थानात् पुनर् अपि निःसारय। अत्र देहे क्याम्बूः कियतापि अम्बुना युक्ता काचिद् ओषधिः पाकदूर्वाल्पया दूर्वया युक्ता व्यल्कशा विविध-शाखायुक्ता जायताम् उत्पद्यताम्।
विश्वास-प्रस्तुतिः
शीति॑के॒ शीति॑कावति॒ ह्लादु॑के॒ ह्लादु॑कावति ।
म॒ण्डू॒क्या॑ सुसङ्ग॒मये॒मँ स्व॑ग्निँ श॒मय॑ ।
मूलम्
शीति॑के॒ शीति॑कावति॒ ह्लादु॑के॒ ह्लादु॑कावति ।
म॒ण्डू॒क्या॑ सुसङ्ग॒मये॒मँ स्व॑ग्निँ श॒मय॑ ।
भट्टभास्कर-टीका
3शीतिके इति ॥ कुम्भोदकं वृष्टिरूपेण रूप्यते शीतिका वृष्टिः । शीताधिदेवतेत्यन्ये । हे शीतिके! शीतिकावति! शीतिका कम्पकरव्याधिरतिशैत्येन समुत्पद्यते । तद्वति! अत्यन्तशैत्यवति! । ह्लादुके! सर्वस्य ह्लादयित्रि! ह्लादुकावति ! अत्यन्तह्लादनवति ! त्वमिमं प्रदेशं मण्डूक्या मण्डूकस्त्रिया सुसङ्गमय । इमं चाग्निं सुष्ठु शमय । इममग्निं शमयित्वा प्रदेशमिमं तथा शीतं कृत्वा यथा न कदाचिदपि स्थानमिदं मण्डूकी जहाति ॥
सायण-टीका
अथ तृतीयाम् आह -
शीतेन जलेन युक्ता भूमिः शीतिका, ह्लादकारिणा क्षीरेण युक्ता भूमिर् ह्लादुका। हे शीतिके भूमे, शीतिकावति शीतिका-भूमि-युक्ते स्थाने, हे ह्लादुके ह्लादुकावति ह्लादुकायुक्ते स्थान-विशेषे, मण्डूक्यासु मण्डूक-प्लवन-योग्यास्व् अप्सु संगमयेमं प्रेत-देहं प्रापय। अग्निं च सुष्ठु शमय।
विश्वास-प्रस्तुतिः
शन्ते॑ धन्व॒न्या आप॒श्शमु॑ ते सन्त्वनू॒क्याः॑ ।
शन्ते॑ समु॒द्रिया॒ आप॒श्शमु॑ ते सन्तु॒ वर्ष्याः॑ ।
मूलम्
शन्ते॑ धन्व॒न्या आप॒श्शमु॑ ते सन्त्वनू॒क्याः॑ ।
शन्ते॑ समु॒द्रिया॒ आप॒श्शमु॑ ते सन्तु॒ वर्ष्याः॑ ।
भट्टभास्कर-टीका
4शं त इति ॥ हे प्रेत ! धन्वन्या मरुभूमिधन्वा तत्र भवा आपः धन्वन्यास् तव शं भवन्तु । अनूक्या अनुदको देश अनूकः । दकारलोपश् छान्दसः । तत्र भवा अनूक्यास् ता अप्यापः शं ते सन्तु भवन्तु । उकारः पादपूरणः । समुद्रे अन्तरिक्षे भवाः समुद्रिया वर्ष्याः ॥
सायण-टीका
अथ चतुर्थीम् आह -
धन्वनि मरु-देशे भवा धन्वन्यास् तादृश्य आपो हे प्रेत-देह, ते तव शं सन्तु सुख-हेतवो भवन्तु। अनूप-देशे भवा अनूप्या आपः ते शं सन्तु सुख-हेतव एव भवन्तु। तथा समुद्रे भवाः समुद्रिया वर्षे भवा वर्ष्यास् ताः सर्वा अपि ते सुख-हेतवो भवन्तु।
विश्वास-प्रस्तुतिः
शन्ते॒ स्रव॑न्तीस्त॒नुवे॒ शमु॑ ते सन्तु॒ कूप्याः॑ ।
शन्ते॑ नीहा॒रो व॑र्षतु॒ शमु॒ पृष्वाऽव॑शीयताम् ।
(9)
मूलम्
शन्ते॒ स्रव॑न्तीस्त॒नुवे॒ शमु॑ ते सन्तु॒ कूप्याः॑ ।
शन्ते॑ नीहा॒रो व॑र्षतु॒ शमु॒ पृष्वाऽव॑शीयताम् ।
(9)
भट्टभास्कर-टीका
5शं ते स्रवन्तीर् नद्यादिषु स्रवन्त्य आपस् ते तनुवे तन्वै शरीराय शं भवन्तु । कूपे भवाः कूप्याः । नीहारो हिमानी स च ते शं वर्षतु सुखवृष्टिं करोतु । पृष्वा अवश्यायोदकं साऽपि शं भूत्वा अवशीयताम् अवपततु ॥
सायण-टीका
अथ पञ्चमीम् आह -
स्रवन्तीर् नदी-गता आपो हे प्रेत, ते तनुवे शं सुख-हेतवो भवन्तु। कूपे भवाः कूप्याः, ताश् च ते सुख-हेतवो भवन्तु। नीहारो हिम-रूपस् ते सुखार्थं वर्षतु वृष्टि-वत् स्रवतु। पृष्वा जल-बिन्दुः शमु सुखार्थम् एवावशीयताम् अधः पततु।
स्रुवाहुतयः
भास्करोक्त-विनियोगः
6अतएव श्मशानाग्नेर् दक्षिणतोऽङ्गारान्निर्वृत्य तिस्रस्स्रुवाहुतीर्जुहोति - अवसृजेति तिसृभिः ॥
विश्वास-प्रस्तुतिः
अव॑ सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धाभिः॑ ।
आयु॒र्वसा॑न॒ उप॑ यातु॒ शेषँ॒ सङ्ग॑च्छतान्त॒नुवा॑ जातवेदः ।
मूलम्
अव॑ सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धाभिः॑ ।
आयु॒र्वसा॑न॒ उप॑ यातु॒ शेषँ॒ सङ्ग॑च्छतान्त॒नुवा॑ जातवेदः ।
भट्टभास्कर-टीका
हे अग्ने ! त्वमिमं प्रेतं पितृभ्यः पुनरवसृज । वीप्सालोपोऽत्र द्रष्टव्यः - पुनःपुनरवसृज देहि युष्माभिरयं समानो जात इति पुनरुक्त्वा समर्पयेत्यर्थः । यः प्रेतस् ते तुभ्यम् आहुतः संस्कारार्थं त्वयि क्षिप्तस्सन् चरति । लुप्तसनर्थमेतत् । पितॄन् प्रति जिगमिषति । केन हेतुना - स्वधाभिर् अन्नैः पितृभ्यः पुत्रादिभिर् दातव्यैर् हेतुभूतैः । आयुर् जीवितं वसान आच्छादयन् जीवेनाधिष्ठितस्सन् शेषं भुक्तावशिष्टं कर्मफलम् उपयातु उपभुङ्क्ताम् । तदर्थं च तनुवा तन्वा सूक्ष्मशरीरेण सङ्गच्छतां हे जातवेदः! सङ्गच्छस्व ॥
सायण-टीका
कल्पः -
“अत एवाङ्गारान् दक्षिणा निर्वर्त्य तिस्रः स्रुवाहुतीर् जुहोति - ‘अवसृजेति प्रतिमन्त्रम्”
इति । तत्र प्रथमाम् आह -
हे अग्ने, यः प्रेतः पुमानाहुतश् चितौ मन्त्रेण समर्पितः सन् स्वधाभिः स्वधाकार-समर्पितैर् उदकादिभिः सह चरति। तं प्रेतं पितृभ्यः पितृ-प्राप्त्यर्थं पुनर् अवसृज भूयः प्रेरय। अयं प्रेत आयुर् वसान आच्छादयन्न् आयुष युक्त इत्य् अर्थः। शेषं भोगम् उपयातु प्राप्नोतु। हे जातवेदः, सो ऽयं प्रेतस् तनुवा संगच्छतां शरीरेण संगतो भवतु।
विश्वास-प्रस्तुतिः
सङ्ग॑च्छस्व पि॒तृभि॒स्सँ स्व॒धाभि॒स्समि॑ष्टापू॒र्तेन॑ पर॒मे व्यो॑मन् ।
यत्र॒ भूम्यै॑ वृ॒णसे॒ तत्र॑ गच्छ॒ तत्र॑ त्वा दे॒वस्स॑वि॒ता द॑धातु ।
मूलम्
सङ्ग॑च्छस्व पि॒तृभि॒स्सँ स्व॒धाभि॒स्समि॑ष्टापू॒र्तेन॑ पर॒मे व्यो॑मन् ।
यत्र॒ भूम्यै॑ वृ॒णसे॒ तत्र॑ गच्छ॒ तत्र॑ त्वा दे॒वस्स॑वि॒ता द॑धातु ।
भट्टभास्कर-टीका
7हे प्रेत! पितृभिस्सङ्गच्छस्व पितृगणैरन्तर्भव । ततः स्वधाभिर् अपि सङ्गच्छस्व इष्टापूर्तफलेन च सङ्गच्छस्व! क्व परमे व्योमन् विशिष्टस्थाने स्वर्गाख्ये । पश्चाच्च भूम्यै भूम्यास्सम्बन्धिनि यत्र प्रदेशे वृणसे जन्म प्रार्थयसे तत्र प्रदेशे गच्छ तत्र त्वा देवः सविता दधातु उत्पादयतु ॥
सायण-टीका
अथ द्वितीयाम् आह -
हे प्रेत, त्वं पितृभिः संगच्छस्व संगतो भव। परमे व्योमन्न् उत्कृष्टे स्वर्गे इष्टा-पूर्तेन श्रौत-स्मार्त-कर्म-फलेन संगतो भव। भूम्यै भूम्यां यत्र यस्मिन् देश-विशेषे वृणसे जन्म प्रार्थयसे तत्र गच्छ। सविता देवस् त्वां तत्र दधातु स्थापयतु।
विश्वास-प्रस्तुतिः
यत्ते॑ कृ॒ष्णश्श॑कु॒न आ॑तु॒तोद॑ पिपी॒लस्स॒र्प उ॒त वा॒ श्वाप॑दः ।
अ॒ग्निष्टद्विश्वा॑दनृ॒णङ्कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा॑ह्म॒णमा॑वि॒वेश॑ ।
मूलम्
यत्ते॑ कृ॒ष्णश्श॑कु॒न आ॑तु॒तोद॑ पिपी॒लस्स॒र्प उ॒त वा॒ श्वाप॑दः ।
अ॒ग्निष्टद्विश्वा॑दनृ॒णङ्कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा॑ह्म॒णमा॑वि॒वेश॑ ।
भट्टभास्कर-टीका
8यत्त इति ॥ कृष्णः शकुनः यत् तव अङ्गम् आतुतोद आपीडयत् पिपीलः पिपीलिका सर्प उत वा श्वापदः सृगालादिस् तत् सर्वम् अयम् अग्निर् विश्वाद् विश्वमत्तीति विश्वात् कृत्स्नभक्षयिता अनृणम् अवश्यप्रतिकर्तव्यत्वादृणशब्देन गदो रोगो लक्ष्यते । अगदम् । तथैव बह्वृचाः पठन्ति - ‘अनिष्टद्विश्वादगदं’ इति । कृणोतु करोतु । सोमश्च अनृणं करोतु यस्सोमो ब्राह्मणम् । जातावेकवचनम् । ब्राह्मणान् । तथैव ब्रह्वृचाः । आविवेश आविशत्य् आविश्य तिष्ठति ‘अग्नीषोमीयो हि ब्राह्मणः’ इति ॥
सायण-टीका
अथ तृतीयाम् आह -
हे प्रेत, तव देहे कृष्णः शकुनः पक्षि-विशेषो यद् अङ्गम् आतुतोदेषद् व्यथितम् अकरोत्। पिपीलः पिपीलिका वा सर्पो वा यद् अङ्गम् आतुतोद। उत वाथवा श्वापदो ऽन्यो ऽपि जीवो व्यापत्ति-हेतुर् आतुतोद। अयम् अग्निर् देवस् तद् अङ्गं विश्वात् सर्वस्माद् उपद्रवाद् अनृणम् ऋण-रहितम् उपद्रव-रहितं कृणोतु करोतु। यश् च सोमो ब्राह्मण एतदीये ब्राह्मण-शरीर आवि वेश याग-काले प्रविष्टान् सो ऽप्य् अनृणं करोतु।
सञ्चयनम्
भास्करोक्त-विनियोगः
9अयुजः स्त्रियस्सञ्चिन्वन्ति, तत्र प्रथमाया मन्त्रः - उत्तिष्ठति ॥
विश्वास-प्रस्तुतिः
उत्ति॒ष्ठात॑स् त॒नुवँ॒ संभ॑रस्व॒
मेह गात्र॒म् अव॑हा॒ मा शरी॑रम् ।
यत्र॒ भूम्यै॑ वृ॒णसे॒ तत्र॑ गच्छ॒
तत्र॑ त्वा दे॒वस् स॑वि॒ता द॑धातु ।
मूलम्
उत्ति॒ष्ठात॑स्त॒नुवँ॒ संभ॑रस्व॒ मेह गात्र॒मव॑हा॒ मा शरी॑रम् ।
यत्र॒ भूम्यै॑ वृ॒णसे॒ तत्र॑ गच्छ॒ तत्र॑ त्वा दे॒वस्स॑वि॒ता द॑धातु ।
भट्टभास्कर-टीका
हे प्रेत! अतः श्मशानाद् उत्तिष्ठ। उत्थाय च तनुवं तन्वम् इतस्ततो विप्रकीर्णम् अस्थिशरीरं सम्भरस्व कुम्भे सम्भृतं कुर्व् इह श्मशाने गात्रं स्वल्पमपि माऽवहा मा अवहासीर् मा त्याक्षीर् मा शरीरं मा च स्थूलम् अङ्गम् । सम्भृत्य च यत्र भूम्यै इत्यादि गतम् ॥
सायण-टीका
कल्पः -
“अथैनद् आदग्धम् उद-कुम्भैः स्ववोक्षितम् अवोक्ष्य यास्य स्त्रीणां मुख्या सा सव्ये पाणौ नील-लोहिताभ्यां सूत्राभ्यां विग्रथ्याश्मानम् अन्व् आपास्थाय अपामार्गेण सकृद् उपमृज्य ततः शिरस्थो वास्थि गृह्णाति - ‘उत्तिष्ठातस् तनुवं संभरस्व मेह गात्रम् अवहा मा शरीरम्। यत्र भूम्यै वृणसे तत्र गच्छ तत्र त्वा देवः सविता दधात्व्’ इति, ‘इदं ते एकम्’ इति द्वितीयं ‘पर ऊत एकम्’ इति तृतीयं ‘तृतीयेन ज्योतिषा संविशस्व’ इति चतुर्थं ‘संवेशनस् तनुवै चारुर् एधि’ इति पञ्चमं ‘प्रियो देवानां परमे सधस्थ’ इति षष्ठम्”
इति। हे प्रेत, अतो ऽस्माद् दहन-देशाद् उत्तिष्ठ। तनुवं शरीरं संभरस्व संपादय, इह दहन-देशे गात्रम् अङ्गम् एकम् अपि मावहा मा परित्यज। शरीरम् अपि मावहा मा परित्यज। “यत्रेत्यादि” पूर्ववत्।
विश्वास-प्रस्तुतिः
इ॒दन्त॒ एकं॑ प॒र ऊ॑त॒ एक॑न्
तृ॒तीये॑न॒ ज्योति॑षा॒ संवि॑शस्व ।
सव्ँ॒ वेश॑नस् त॒नुवै॒ चारु॑रेधि
प्रि॒यो दे॒वानां॑ पर॒मे स॒धस्थे॑ ।
मूलम्
इ॒दन्त॒ एकं॑ प॒र ऊ॑त॒ एक॑न्तृ॒तीये॑न॒ ज्योति॑षा॒ संवि॑शस्व ।
सव्ँ॒ वेश॑नस्त॒नुवै॒ चारु॑रेधि प्रि॒यो दे॒वानां॑ पर॒मे स॒धस्थे॑ ।
भट्टभास्कर-टीका
??
सायण-टीका
हे प्रेत, ते तव संबन्धीदम् एकम् अस्थि, ऊ अपि च परः परस्तात् ते तव संबन्ध्य् एकम् अस्थि, हे प्रेतैतद् अस्थि-रूपेण पूर्व-द्वयापेक्षया तृतीयेन ज्योतिषा प्रकाशेन संविशस्व संयुक्तो भव। तनुवै शरीर-सिद्ध्य्-अर्थं संवेशनः सर्वेषाम् अस्थ्नां योजयिता चारुर् एधि रमणीयो भव। परमे सधस्थ उत्कृष्टे सहोपवेशन-स्थाने देवानां प्रियो भव।
भास्करोक्त-विनियोगः
11अथ अध्वर्युः कुम्भे सम्भृतान्यस्थीन्यादाय उत्तिष्ठति - उत्तिष्ठेति ॥
विश्वास-प्रस्तुतिः
उत्ति॑ष्ठ॒ प्रेहि॒ प्रद्र॒वौकः॑ कृणुष्व पर॒मे व्यो॑मन् ।
य॒मेन॒ त्वय्ँय॒म्या॑ सव्ँ विदा॒नोत्त॒मन्नाक॒मधि॑ रोहे॒मम् ।
मूलम्
उत्ति॑ष्ठ॒ प्रेहि॒ प्रद्र॒वौकः॑ कृणुष्व पर॒मे व्यो॑मन् ।
य॒मेन॒ त्वय्ँय॒म्या॑ सव्ँ विदा॒नोत्त॒मन्नाक॒मधि॑ रोहे॒मम् ।
भट्टभास्कर-टीका
अस्थिरूपं प्रत्युच्यते - हे प्रेत! इत उत्तिष्ठ उत्थाय च प्रेहि गच्छ गच्छंश्च प्रद्रव शीघ्रं गच्छ प्रद्रुत्य च परमे व्योमन् उत्कृष्ट स्थाने ओकः वासस्थानं कृणुष्व कुरु । ओकः करणप्रकारः - यमी यमस्य स्वसा यमेन यम्या च संविदान एकमतिभ्यामनुज्ञातस् त्वम् उत्तमं नाकं प्रसिद्धम् अधिरोह आरोह । संविदानोत्तममिति छान्दसो गुणः ॥
सायण-टीका
कल्पः -
“अथैतान्य् अस्थीन्य् अद्भिः प्रक्षाल्य कुम्भे वा सते वा कृत्वादायोपोत्तिष्ठति - ‘उत्तिष्ठ प्रेहि प्रद्रवौकः कृणुष्व परमे व्योमन्। यमेन त्वं यम्या संविदान उत्तमं नाकम् अधिरोहेमम्’
इति”।
हे प्रेत, अस्मात् स्थानाद् उत्तिष्ठ। उत्थाय च प्रेहि प्रकर्षेण गच्छ। गमन-काले ऽपि प्रद्रव शीघ्रं गच्छ। गत्वा च परमे व्योमन्न् उत्कृष्टे स्वर्ग ओकः कृणुष्व स्थानं कुरु। कृत्वा च त्वं यमेन यम्या च स्त्री-पुरुषाभ्याम् उभाभ्यां सह संविदान ऐकमत्यं प्राप्तः सन्न् इमम् उत्तमं नाकं स्वर्ग-भोगम् अधिरोह प्राप्नुहि।
विश्वास-प्रस्तुतिः
अश्म॑न्वती रेवती॒र् यद्वै दे॒वस्य॑ सवि॒तुः प॒वित्रय्ँ॒
या रा॒ष्ट्रात्प॒न्नाद् उद्व॒यन् तम॑स॒स् परि॑ धा॒ता पु॑नातु ।
मूलम्
अश्म॑न्वती रेवती॒र्यद्वै दे॒वस्य॑ सवि॒तुः प॒वित्रय्ँ॒ या रा॒ष्ट्रात्प॒न्नादुद्व॒यन्तम॑स॒स्परि॑ धा॒ता पु॑नातु ।
भट्टभास्कर-टीका
12-16अश्मन्वतीरित्यादयः पञ्च गताः7 कर्ष्वादि समानम् ॥
होमः
भास्करोक्त-विनियोगः
17अथ अस्थीनि पिष्ट्वा आज्येन संसृज्य अग्निहोत्रहवण्या जुहोति सोमयाजिनः - अस्मादिति ॥
विश्वास-प्रस्तुतिः
अ॒स्मात्त्वमधि॑ जा॒तो॑ऽसि॒ त्वद॒यञ्जा॑यतां॒ पुनः॑ ।
अ॒ग्नये॑ वैश्वान॒राय॑ सुव॒र्गाय॑ लो॒काय॒ स्वाहा॑ ॥ (10)
मूलम्
अ॒स्मात्त्वमधि॑ जा॒तो॑ऽसि॒ त्वद॒यञ्जा॑यतां॒ पुनः॑ ।
अ॒ग्नये॑ वैश्वान॒राय॑ सुव॒र्गाय॑ लो॒काय॒ स्वाहा॑ ॥ (10)
भट्टभास्कर-टीका
अधिः पञ्चम्यर्थानुवादी । हे अग्ने! अस्माद् यजमानात् त्वमधिजातोस्य् आधानकाले । अयं त्व् इदानीं त्वत्तो ऽधिजायताम् अग्नये तुभ्यं वैश्वानराय विश्वेषां नराणामयमुपास्यः वैश्वानरः सुवर्गाय लोकाय तत्प्राप्तिहेतुभूताय तदभिमानिने वा दत्तमस्तु ।
इत्यारण्यके चतुर्थे चतुर्थोऽनुवाकः ॥
सायण-टीका
कल्पः -
“शम्यां पलाशे वा कुम्भं निधाय जघनेन कुम्भं कर्ष्वादि-समानम् आ स्नानान् मृदा स्नातीत्य् एके”
इति। तत्र पूर्वोक्तानां मन्त्राणां प्रतीकानि दर्शयति -
सोम-याजिनस् तु पुनर्-दहनं कर्तव्यं “पुनर्-दहनान्तं सोम-याजिन” इति सूत्रे ऽभिहितत्वात्। तत्-प्रकारस् तु कल्पे दर्शितः -
“अथ यदि पुनर् धक्ष्यन्तः स्युर् अत एवाङ्गारान् दक्षिणा निर्वर्त्य तिस्रो रात्रीर् इध्वा दहनवद् अवकाशं जोषयित्वाग्निम् उपसमाधाय संपरिस्तीर्यापरेणाग्निं दर्भान् संस्तीर्य तेषु कृष्णाजिने शम्यायां दृषद्-उपलाभ्याम् अवाञ्जनं शरीराणि सुसंपिष्टानि पेषयित्वाज्य-कुम्भे समुदायुत्याग्निहोत्र-हवण्या जुहोत्य् ‘अस्मात् त्वम् अधिजातो ऽसि’
इति ।
पाठस् तु -
अस्मात्त्वमधि जातोऽस्ययं त्वदधिजायतां।
अग्नये वैश्वानराय सुवर्गाय लोकाय स्वाहा
इति ॥
इति श्रीमत्-सायणाचार्य-विरचिते माधवीये वेदार्थ-प्रकाशे कृष्ण-यजुर्वेदीय-तैत्तिरीयारण्यक-भाष्ये षष्ठ-प्रपाठके चतुर्थो ऽनुवाकः ॥४॥