अनुशासनम्
भास्करोक्त-विनियोगः
1जघनेनाग्निं प्राङ्मुख उपविश्य
अथैनं याम्येन नवर्चेन पराचा ऽनुशासति - प्र केतुनेति ॥
विश्वास-प्रस्तुतिः
प्र के॒तुना॑ बृह॒ता भा॑त्य॒ग्निरा॒विर्विश्वा॑नि वृष॒भो रो॑रवीति ।
दि॒वश्चि॒दन्ता॒दुप॒ मामु॒दान॑ड॒पामु॒पस्थे॑ महि॒षो व॑वर्ध ।
मूलम्
प्र के॒तुना॑ बृह॒ता भा॑त्य॒ग्निरा॒विर्विश्वा॑नि वृष॒भो रो॑रवीति ।
दि॒वश्चि॒दन्ता॒दुप॒ मामु॒दान॑ड॒पामु॒पस्थे॑ महि॒षो व॑वर्ध ।
भट्टभास्कर-टीका
सर्वास्त्रिष्टुभः, विशेषो वक्ष्यते । अयम् अग्निः केतुना केतुस्थानीयेन धूमसमूहेन बृहता महता प्रभाति प्रकर्षेण दीप्यते आविर्विश्वानि भुवनान्य् आविष्कृण्वानः प्रकाशयन् वृषभः । लुप्तोपममेतत्, वृषभ इव रोरवीति शब्दायते । देवाह्वानकाले दिवश्चिदन्ताद् द्युलोकस्यापि समीपादागत्य माम् उप उदानट् । नशिरदर्शनार्थों लोके, वेदे तु बाहुल्येन प्राप्त्यर्थः । मत्समीपं प्राप्तवान् । अयमेव च अग्निर् अपाम् उपस्थे समुद्रे अन्तरिक्षे वा महिषः महान् ववर्ध ववृधे बाडबरूपेण वैद्युतरूपेण वा । एवम्भूतेन अग्निना दह्यमानस् त्वम् इष्टां गतिं गच्छ ।।
सायण-टीका
कल्पः -
“अथैनं नव-ऋचेन याम्येन सूक्तेनोपतिष्ठते ‘प्र केतुना’
इति । तत्र प्रथमाम् आह -
अयम् अग्निर् बृहता प्रौढेन केतुना ध्वज-स्थानीयेन ज्वाला-विशेषेण प्र भाति प्रकर्षेण भासते। स चाविर्भूतो वृषभः कामानां वर्षकः सन् विश्वानि फलान्य् उद्दिश्य रोरवीत्य् अतिशयेन ध्वनिं करोति। दिवो ऽन्ताच् चित् स्वर्गस्यावसान-देशाद् अप्य् उपेत्य मां मदीयं यजमानं प्रेतम् उदानट्, उत्कर्षेण व्याप्तवान्। स्वर्गस्योपरि स्वयं पूर्वम् अवस्थितो ऽपि मदीयं प्रेतम् अनुग्रहीतुम् एवात्रागतवान् इत्य् अर्थः। स चाग्निर् अपां प्राप्तव्यानां फलानाम् उपस्थे समीपे महिषो ववर्धात्यधिको यथा भवति तथा वृद्धिं प्राप्तवान्।
विश्वास-प्रस्तुतिः
इ॒दन्त॒ एकं॑ प॒र ऊ॑त॒ एक॑न्तृ॒तीये॑न॒ ज्योति॑षा॒ संवि॑शस्व ।
सव्ँ॒ वेश॑नस्त॒नुवै॒ चारु॑रेधि प्रि॒यो दे॒वानां॑ पर॒मे स॒धस्थे॑ ।
मूलम्
इ॒दन्त॒ एकं॑ प॒र ऊ॑त॒ एक॑न्तृ॒तीये॑न॒ ज्योति॑षा॒ संवि॑शस्व ।
सव्ँ॒ वेश॑नस्त॒नुवै॒ चारु॑रेधि प्रि॒यो दे॒वानां॑ पर॒मे स॒धस्थे॑ ।
भट्टभास्कर-टीका
2इदमिति ॥ हे प्रेत! ते तव इदमेकं शरीरं यद् इदानीं दह्यते परः, सकारान्तमेतन् नपुंसकलिङ्ङ्गं परशब्देन समानार्थम् । दृश्यते चान्यत्रापि - ‘परोरजास्ते पञ्चमः पादः'5 । उकारो निपातश्चार्थे, ‘निपातस्य च’ इति दीर्घः । परश्च एकं तव शरीरं यज् जन्मान्तरे गृहीष्यते । इदानीं तु तृतीयेन शरीरेण ज्योतिषा द्योतमानेन संविशस्व स्वर्गाद्यनुभवाय संवेशनः सङ्गतश्च सन् तनुवै तन्वा चारुः प्रियश्च पश्यतां सन् देवानां सम्बन्धिनि परमे सधस्थे यत्र सह तिष्ठन्ति तत्र स्वर्गाख्ये स्थाने एधि भव ॥
सायण-टीका
अथ द्वितीयाम् आह -
हे अग्ने, ते तव स्वाभाविकम् इदम् एकं ज्योतिः। ऊ अपि च परः परस्तात् प्रेत-शरीरे स्थितं ते त्वदीयम् एकं ज्योतिः। तद् उभयम् अपि तृतीयेन ज्योतिषा परमात्म-रूपेण संविशस्व संयोजयस्व। तनुवै स्वकीयस्य शरीरस्य संवेशनः परमात्म-ज्योतिषा संयोजयिता देवानां प्रियस् त्वं चारुर् एधि रमणीयो भव। कुत्रेति तद् उच्यते - परमे उत्कृष्टे सधस्थे सहोपवेशन-स्थाने।
विश्वास-प्रस्तुतिः
नाके॑ सुप॒र्णमुप॒ यत्पत॑न्तँ हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा ।
हिर॑ण्यपक्षव्ँ॒वरु॑णस्य दू॒तय्ँय॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम् ।
मूलम्
नाके॑ सुप॒र्णमुप॒ यत्पत॑न्तँ हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा ।
हिर॑ण्यपक्षव्ँ॒वरु॑णस्य दू॒तय्ँय॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम् ।
भट्टभास्कर-टीका
3नाक इति ॥ नाके अन्तरिक्षे उपपतन्तम् उपगच्छन्तं सुपर्णं शोभनपतनं यत् । द्वितीयैकवचनस्य लुक् । यं त्वा त्वां हिरण्यपक्षं हिरण्यवदुज्ज्वलपार्श्वं वरुणस्य सर्वेषां वरणीयस्य योनौ स्थाने लोके यमस्य दूतम् । लुप्तोपममेतत् । दूतमिव भुरण्युम् । गत्यर्थोऽयम् । दूतवच्छीघ्रगन्तारं शकुनं शक्तं यं त्वाम् एवम्भूतं हृदा वेनन्तः कामयमाना एते अमात्या अभ्यचक्षत अभिचक्षते अभिमुखं वदन्ति । यमिति वचनात् क्रियापदाश्रयणे साकाङ्क्षत्वाच्च स त्वमित्यध्याहारेण उत्तरम् । यद्वा - एधीत्यनेन एकवाक्यता नेया ॥
सायण-टीका
अथ तृतीयाम् आह -
हे अग्ने, त्वाम् ऋत्विजो हृदा स्वकीयेन मनसा वेनन्तः कामयमाना यद् यदाभ्यचक्षताभितः ख्यापितवन्तः, तदा त्वं तुष्टो भवेति शेषः। कीदृशं त्वाम् - नाके स्वर्गे उपपतन्तं समीपे प्रतिगच्छन्तम्। अत एव सुपर्णं शोभन-पक्षोपेतम्। हिरण्य-पक्षं सुवर्णमय-पक्षोपेतम्। वरुणस्य दूतं वरुणेन प्रेर्यमाणम्। यमस्य योनौ स्थान-विशेषे भुरण्युं भरण-शीलं भोग-संपादकम् इत्य् अर्थः। शकुनं पक्ष्याकारम्।
विश्वास-प्रस्तुतिः
अति॑द्रव सारमे॒यौ श्वानौ॑ चतुर॒क्षौ श॒बलौ॑ सा॒धुना॑ प॒था ।
अथा॑ पि॒तॄन्त्सु॑वि॒दत्राँ॒ अपी॑हि य॒मेन॒ ये स॑ध॒मादं॒ मद॑न्ति ।
मूलम्
अति॑द्रव सारमे॒यौ श्वानौ॑ चतुर॒क्षौ श॒बलौ॑ सा॒धुना॑ प॒था ।
अथा॑ पि॒तॄन्त्सु॑वि॒दत्राँ॒ अपी॑हि य॒मेन॒ ये स॑ध॒मादं॒ मद॑न्ति ।
भट्टभास्कर-टीका
4अतिद्रवेति ॥ सारमेयौ सरमाया देवशुन्याः पुत्रौ श्वानौ चत्वार्य् अक्षीणि ययोस्तौ चतुरक्षौ शबलौ नानावर्णौ एवंविधौ श्वानौ साधुना कण्टकादिरहितेन पथा गच्छन् अतिद्रव अतीत्य द्रव अतिद्रुत्य च अथ अनन्तरं पितॄन् सुविदत्रान् शोभनज्ञानान् अपीह्य् अपिगच्छ ये पितरः यमेन सधमादं मदन्ति । ओदनपाकं पचतीतिवत् कर्मता ॥
सायण-टीका
अथ चतुर्थीम् आह -
हे ऽग्ने, साधुना पथा समीचीनेन मार्गेण श्वानाव् उभाव् अतिद्रवातिक्रम्य गच्छ। यम-संबन्धिनौ यौ श्वानौ प्रेतस्य बाधकौ तौ परित्यज्य समीचीनेन मार्गेण प्रेतं नयेत्य् अर्थः। कीदृशौ श्वानौ? सारमेयौ सरमा नाम काचित् प्रसिद्धा शुनी तस्याः पुत्रौ, चतुरक्षाव् उपरि-भागे पुनर् अप्य् अक्षि-द्वयं ययोस् तादृशौ। अथ शोभन-मार्गेण गमनान्तरं ये पितरो यमेन सध-मादं सह हर्षं मदन्ति प्राप्नुवन्ति तान् सुविदत्रान् सुष्ठ्व् अभिज्ञान् पितॄन् अपीहि प्राप्नुहि।
विश्वास-प्रस्तुतिः
यौ ते॒ श्वानौ॑ यमरक्षि॒तारौ॑ चतुर॒क्षौ प॑थि॒रक्षी॑ नृ॒चक्ष॑सा ।
ताभ्याँ॑ राज॒न्परि॑ देह्येनँ स्व॒स्ति चा॑स्मा अनमी॒वञ्च॑ धेहि । (6)
मूलम्
यौ ते॒ श्वानौ॑ यमरक्षि॒तारौ॑ चतुर॒क्षौ प॑थि॒रक्षी॑ नृ॒चक्ष॑सा ।
ताभ्याँ॑ राज॒न्परि॑ देह्येनँ स्व॒स्ति चा॑स्मा अनमी॒वञ्च॑ धेहि । (6)
भट्टभास्कर-टीका
5यौ त इति ॥ हे यम! यौ ते तव रक्षितारौ श्वानौ चतुरक्षौ पथिरक्षी पथां रक्षितारौ नृचक्षसा नृचक्षसौ नृणां सुकृतां दुष्कृतां च द्रष्टारौ । हे राजन्! यम! ताभ्याम् एनं प्रेतं परिदहि रक्षार्थं देहि । अस्मै प्रेताय स्वस्त्य् अविनाशं च धेहि देहि । अमीवा रोगस् तदभावोऽनमीवं च धेहि ॥
सायण-टीका
अथ पञ्चमीम् आह -
हे यम, ते त्वदीयौ श्वानौ यौ विद्येते ताभ्यां श्वाभ्यां हे राजन्न् एनं प्रेतं परिदेहि प्रयच्छ। कीदृशौ श्वानौ? रक्षितारौ यम-गृहस्य रक्षकौ। नृ-चक्षसौ मनुष्यैः ख्याप्यमानौ, श्रुति-स्मृति-पुराणाभिज्ञाः पुरुषास् तौ प्रख्यापयन्ति, ताभ्यां श्वाभ्यां दत्वाऽस्मै प्रेताय स्वस्ति च क्षेमम् अपि अनमीवं च रोगाभावम् अपि धेहि संपादय।
विश्वास-प्रस्तुतिः
उ॒रु॒ण॒साव॑सु॒तृपा॑वुलुम्ब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ वशाँ॒ अनु॑ ।
ताव॒स्मभ्य॑न्दृ॒शये॒ सूर्या॑य॒ पुन॑र्दत्ता॒ वसु॑म॒द्येह भ॒द्रम् ।
मूलम्
उ॒रु॒ण॒साव॑सु॒तृपा॑वुलुम्ब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ वशाँ॒ अनु॑ ।
ताव॒स्मभ्य॑न्दृ॒शये॒ सूर्या॑य॒ पुन॑र्दत्ता॒ वसु॑म॒द्येह भ॒द्रम् ।
भट्टभास्कर-टीका
6उरुणसौ पृथुनासिकौ असुतृपौ भक्ष्यमाणानां दुष्कृताम् असुभिस् तृप्तौ उलुम्बलौ उरुबलौ । छान्दसौ वर्णविकारोपजनौ । यमस्य दूतौ प्रेषकरौ वशान् । वश कान्तौ । आत्मन इष्टान् अनु तान् प्रतिचरतः यावेवम्भूतौ श्वानौ तौ अस्मभ्यं मृतस्य पुत्रादिभ्यः दृशये दर्शनाय सूर्याय । षष्ठ्यर्थे चतुर्थी । सूर्यस्य दर्शनार्थ असुं प्राणम् अस्य पित्रादेर्मरणेन गतप्रायम् अद्य पुनः दत्ताम् । लोट्प्रथमपुरुषद्विवचनान्तमेतत् । संहितापाठे मकारस्य वकारश्छान्दसः । मकारमेव बह्वृचाः पठन्ति - ‘पुनर्दतामसुम्’ इति । इह शरीरे भद्रं सर्वोपद्रवरहितम् असुं दत्ताम् इति ॥
सायण-टीका
अथ षष्ठीम् आह -
हे यम-संबन्धिनौ दूताव् अवशान् स्वाधीनान् प्राणिनो ऽनुपलक्ष्य सर्वत्र चरतः। कीदृशौ, उरु-णसौ दीर्घ-नासिकायुक्तौ, असु-तृपौ प्राणिनाम् असून् स्वीकृत्य तैस् तृप्यन्तौ। उलुम्बलौ प्रभूत-बल-युक्तौ ताव् उभौ दूतौ सूर्याय दृशये सूर्यस्य दर्शनार्थम् अद्य दिन इह कर्मणि भद्रम् असुं समीचीनं प्राणं पुनर् अप्य् अस्मभ्यं दत्तौ प्रयच्छताम्।
विश्वास-प्रस्तुतिः
सोम॒ एके॑भ्यः पवते घृ॒तमेक॒ उपा॑सते ।
येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ।
मूलम्
सोम॒ एके॑भ्यः पवते घृ॒तमेक॒ उपा॑सते ।
येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ।
भट्टभास्कर-टीका
7सोम इति ॥ एकेभ्यो देवेभ्यः सोमः पवते रक्षति । एके देवा घृतमुपासते भागत्वेन । येभ्यश्च देवेभ्यः मधु प्रधावति ‘मधुना जुहोति । महत्यै वा एतद्देवतायै रूपम् । यन्मधु'6 इत्यश्वमेधे दर्शनात् । तान् सोमपानाज्यपान्मधुपांश्च । चिदिति पादपूरणे । एव अवधारणे । तानेव तु त्वम् अपिगच्छताद् अपिगच्छ तैः सस्थानो भव ॥
सायण-टीका
अथ सप्तमीम् आह -
एकेभ्यः केषांचिद् यजमानानाम् अर्थे सोमः पवते वस्त्रेण शोधितः पूतो भवति। एके ऽन्ये केचिद् यजमाना घृतम् उपासते घृत-द्रव्योपलक्षितं हविर्-यज्ञम् अनुतिष्ठन्ति। येभ्यो येषाम् अर्थे मधु प्रधावति “असौ वा आदित्यो देव-मधु” इत्यादिका मधु-विद्या प्रवर्तते, यद् “अथर्वाङ्गिरसो मधोः कूल्या” इत्यादि-मधु-प्राप्ति-फलको ब्रह्म-यज्ञो येषाम् अर्थे प्रवर्तते, तांश् चित् सर्वान् अप्य् अयं प्रेतो ऽपि गच्छताद् एव सर्वथा प्राप्नोत्य् एव। सोम-याजिनां दर्श-पूर्णमास-याजिनां ब्रह्म-यज्ञ-मधु-विद्याद्य्-अनुष्ठातॄणां यः पुण्य-लोकः सो ऽयम् अस्य भवत्व् इत्य् अर्थः।
विश्वास-प्रस्तुतिः
ये युद्ध्य॑न्ते प्र॒धने॑षु॒ शूरा॑सो॒ ये त॑नु॒त्यजः॑ ।
ये वा॑ स॒हस्र॑दक्षिणा॒स्ताँ श्चि॑दे॒वापि॑ गच्छतात् ।
मूलम्
ये युद्ध्य॑न्ते प्र॒धने॑षु॒ शूरा॑सो॒ ये त॑नु॒त्यजः॑ ।
ये वा॑ स॒हस्र॑दक्षिणा॒स्ताँ श्चि॑दे॒वापि॑ गच्छतात् ।
भट्टभास्कर-टीका
8य इति ॥ ये क्षत्रियाः प्रधनेषु प्रकृष्टधनेषु सङ्ग्रामेषु युध्यन्ते युध्वा च जयन्ति । ये शूरासः शूरास् तनुत्यजो ऽभिमुखाहतास् तनूस्त्यजन्ति, न पुनः पृष्ठतः कृत्य पलायन्ते । ये वा यज्वानः सहस्रदक्षिणा बहुदक्षिणास् तांश्चिदेवापिगच्छतात् ॥
सायण-टीका
अथाष्टमीम् आह -
ये क्षत्रियाः प्रधनेषु प्रकृष्ट-धन-निमित्तेषु सङ्ग्रामेषु युध्यन्ते युद्धं कुर्वन्ति। तत्रापि ये शूरासः शूरा भटास् तनु-त्यजो युद्धाभिमुख्येन शरीरं त्यजन्ति। अथवा ये पुरुषाः सहस्र-दक्षिणा विश्वजिद्-आदि-क्रतुषु सहस्र-दक्षिणायुक्ताः। तांश् चिद् इत्यादि पूर्ववत्। युद्धाभिमुख्येन मृतस्योत्तम-लोकः स्मर्यते -
द्वाव् इमौ पुरुषौ लोке सूर्य-मण्डल-भेदिनौ।
परिव्राड् योग-युक्तश् च रणे चाभिमुखे हतः॥
इति।
“धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते”
इति च।
विश्वास-प्रस्तुतिः
तप॑सा॒ ये अ॑नाधृ॒ष्यास्तप॑सा॒ ये सुव॑र्ग॒ताः ।
तपो॒ ये च॑क्रि॒रे म॒हत्ताँश्चि॑दे॒वापि॑ गच्छतात् ।
मूलम्
तप॑सा॒ ये अ॑नाधृ॒ष्यास्तप॑सा॒ ये सुव॑र्ग॒ताः ।
तपो॒ ये च॑क्रि॒रे म॒हत्ताँश्चि॑दे॒वापि॑ गच्छतात् ।
भट्टभास्कर-टीका
9तपसेति ॥ तपसा ये अनाधृष्या अनभिभवनीया ब्रह्मचारिणः । तपसा अतिथिपूजनादिना ये सुवः स्वः गता ये च तपोमहच्चक्रिरे वानप्रस्थाः सन्न्यासिनश्च तांश्चिदिति गतम् ॥
सायण-टीका
अथ नवमीम् आह -
ये पुरुषा अस्मिल्ँ लोके तपसा युक्ताः सन्तो ऽनाधृष्याः केनाप्य् अतिरस्कार्या वर्तन्ते। ये चान्ये स्वानुष्ठितेन तपसा स्वर्गं गताः। ये चान्ये महत् तपश् चक्रिरे। अनेन तपस्वित्व-मात्रम् उक्तम्। अनाधृष्या इत्य् अनेनाणिमादि-सिद्धि-पर्यन्तं तपो विवक्षितम्। तांश् चिद् इत्यादि पूर्ववत्।
सङ्गाहः
भास्करोक्त-विनियोगः
10जघनेन दहनदेशम् उदीचीस्
तिस्त्रः कर्षूः खात्वा
ऽश्मभिः सिकताभिश्च प्रकीर्य
अयुग्भिर् उद-कुम्भैर् अपः प्रवर्त्य
तासु ज्ञातयः सङ्गाहन्ते - अश्मन्वतीरिति ॥
विश्वास-प्रस्तुतिः
अश्म॑न्वती रेवती॒स्सँ र॑भध्व॒ मुत्ति॑ष्ठत प्रत॑रता सखायः ।
अत्रा॑ जहाम॒ ये अस॒न्नशे॑वाश्शि॒वान् व॒यम॒भि वाजा॒नुत्त॑रेम । (7)
मूलम्
अश्म॑न्वती रेवती॒स्सँ र॑भध्व॒ मुत्ति॑ष्ठत प्रत॑रता सखायः ।
अत्रा॑ जहाम॒ ये अस॒न्नशे॑वाश्शि॒वान् व॒यम॒भि वाजा॒नुत्त॑रेम । (7)
भट्टभास्कर-टीका
अश्मभिः पाषाणैः सिकताभिश्च तद्वतीः रेवतीर् उदकाख्येन धनेन तद्वतीः। ‘रयेर्मतौ बहुलम्’ इति सम्प्रसारणम् । एवम्भूताः कः संरभध्वम् उत्तिष्ठत प्रतरत च कर्षूर् हे सखायः! समानख्यातयो ज्ञातयः! अत्र कर्षूः श्मशाने वा जहाम परित्यजामः । ये अस्माकम् अशेवा असुखाः । शेवमिति सुखनाम । असन् । अस्तेः पञ्चमो लकारः । स्युर् यान्यस्माकमसुखानि तान्यत्रैव जहाम । शिवांस्तु वाजान् अभि । वाजानित्यन्ननाम । शिवान्यन्नानि प्रत्य् उत्तरेम कर्षूभ्यः ॥
सायण-टीका
कल्पः -
“जघनेन दहन-देशम् उदीचीस् तिस्रः कर्षूः खात्वा अश्मभिः सिकताभिश् च प्रकीर्य अयुग्मैर् उद-कुम्भैर् अपः परिप्लाव्य तासु ज्ञातयः संगाहन्ते, ‘अश्मन्वती रेवतीर्’
इति”। पाठस् तु -
कर्षूः कुल्याः, तत्रत्यास्व् अप्स्व् अवगाहनाय ज्ञातयः परस्परं संबोध्यन्ते - हे सखायो, ऽश्मन्वतीः पाषाण-युक्ता रेवतीर् धन-हेतु-भूता अपः संरभध्वं प्रविशत। उत्तिष्ठतोत्साह-वन्तः सन्तः प्रत्युद्गच्छत। अनेन क्रमेण प्रतरत कुल्या-त्रयं प्रकर्षेण तरत। अत्रास्मिन् दहन-देशे ऽशेवाः सेवितुम् अशक्या दुःख-विशेषा ये केचिद् असं पूर्वम् आसंस् तान् सर्वान् जहीम परित्यजाम। शिवान् सुख-हेतून् वाजान् गति-विशेषान् अन्न-विशेषान् वाभिलक्ष्य वयम् उत्तरेमोत्तीर्णा भवाम।
सर्पणम्
भास्करोक्त-विनियोगः
11जघनेन कर्षूः पलाश-शाखे शमीशाखे वा निघ्नन्ति
ते अन्तरेण सर्पन्ति - यद्वा इति ॥
विश्वास-प्रस्तुतिः
यद्वै दे॒वस्य॑ सवि॒तुः प॒वित्रँ॑ स॒हस्र॑धारव्ँ॒ वित॑तम॒न्तरि॑क्षे ।
येनापु॑ना॒दिन्द्र॒मना॑र्त॒मार्त्यै॒ तेना॒हं माँ स॒र्वत॑नुं पुनामि ।
मूलम्
यद्वै दे॒वस्य॑ सवि॒तुः प॒वित्रँ॑ स॒हस्र॑धारव्ँ॒ वित॑तम॒न्तरि॑क्षे ।
येनापु॑ना॒दिन्द्र॒मना॑र्त॒मार्त्यै॒ तेना॒हं माँ स॒र्वत॑नुं पुनामि ।
भट्टभास्कर-टीका
वै प्रसिद्धौ । देवस्य सवितुः सम्बन्धि यत् पवित्रं सर्वशोधयितृसहस्रधारं सहस्रसङ्ख्याकम् अन्तरिक्षे विततं रश्मिजालम् । येन रश्मिजालेन इन्द्रमनार्तं कर्तुम् आर्त्यै आर्त्या अपुनात् शोधितवान् कः? सवितैव तेनाहं मां सर्वतनुं समस्तावयवयुक्तम् अन्तर्बहिश्च पुनामि शोधयामि ॥
सायण-टीका
कल्पः -
“जघनेन कर्षूः पर्ण-शाखे निहत्य अबलेन शुल्बेन बध्वा विनिःसर्पन्ति - ‘यद् वै देवस्य सवितुः पवित्रं सहस्र-धारं विततम् अन्तरिक्षे। येनापुनाद् इन्द्रम् अनार्तम् आर्त्यै तेनाहं मां सर्व-तनुं पुनामि’
इति”।
सवितुः प्रेरकस्य सूर्यस्य देवस्य संबन्धि पवित्रं शुद्धि-कारणं यद् वै यद् एव शुल्बं सहस्र-धारं बहु-सन्धिकम् अन्तरिक्षे विततं प्रसृतं, येन सूर्य-रूपेण शुल्बेन पुरा आर्त्या आर्तेः सकाशाद् इन्द्रम् अनार्तम् अपुनाद् आर्तो यथा न भवति तथा शोधितवान्। तेन शुल्बेनाहं प्रेतस्य ज्ञातिं मां मद्-रूपां सर्व-तनुं कृत्स्न-शरीरं पुनामि शोधयामि।
भास्करोक्त-विनियोगः
12जघन्योऽध्वर्युश्शाखे व्युदस्यति - या राष्ट्रादिति ॥
विश्वास-प्रस्तुतिः
या रा॒ष्ट्रात्प॒न्नादप॒ यन्ति॒ शाखा॑ अ॒भिमृ॑ता नृ॒पति॑मि॒च्छमा॑नाः ।
धा॒तुस्तास्सर्वाः॒ पव॑नेन पू॒ताः प्र॒जया॒स्मान्र॒य्या वर्च॑सा॒ सँसृ॑जाथ ।
मूलम्
या रा॒ष्ट्रात्प॒न्नादप॒ यन्ति॒ शाखा॑ अ॒भिमृ॑ता नृ॒पति॑मि॒च्छमा॑नाः ।
धा॒तुस्तास्सर्वाः॒ पव॑नेन पू॒ताः प्र॒जया॒स्मान्र॒य्या वर्च॑सा॒ सँसृ॑जाथ ।
भट्टभास्कर-टीका
येषु जीवत्स्वन्यो म्रियते ते अभिमृता ज्ञातयः नृपतिं स्वामिनम् इच्छमाना इच्छन्तः राष्ट्राद् राष्ट्रस्थानीयाद् अस्मदमात्यसङ्घातात् पन्नात् स्वामिनाशेन विपन्नान् निस्सृत्य याश्शाखाः । व्यत्ययेन द्वयोर्बहुवचनम् । ये शाखे अपयन्त्य् अन्तरागच्छन्ति । ता यूयं सर्वाः शाखा धातुर् आदित्यस्य पवनेन रश्मिजालेन पूता अस्मान् प्रजया पुत्रादिकया रय्या धनेन वर्चसा दीप्तया संसृनाथ । पञ्चमो लकारः । संसृष्टान् कुरुत । सर्वत्र जात्यपेक्षं [वा] बहुवचनम् ॥
सायण-टीका
कल्पः -
जघन्यो व्युदस्यति - ‘या राष्ट्रात् पन्नाद् अपयन्ति शाखा अभिमृता नृपतिम् इच्छमानाः। धातुस् ताः सर्वाः पवनेन पूताः प्रजयास्मान् रय्या वर्चसा संसृजाथ’
इति।
शुल्बस्याधस्ताद् ये ज्ञातयो निर्गच्छन्ति तेषां मध्ये पश्चान् निर्गच्छन् दहन-कर्ता पुरुषः शाखा-द्वयम् अनेन मन्त्रेण व्युदस्येत्। अभिमृता अनुक्रमेण पूर्वं मृताः पुरुषा नृपतिम् इच्छमाना मनुष्याणां पालकं स्वामिनम् इच्छन्तः पन्नात् प्राप्ताद् राष्ट्राद् याः शाखा अपयन्त्य् अपसारयन्ति, ताः सर्वाः शाखा धातुः-संबन्धिना पवनेन शुद्धि-हेतुना पूताः शोधिताः। तादृश्यो हे शाखा, अस्मान् प्रजादिभिः संसृजाथ संयोजयत।
अवगाहान्तम्
भास्करोक्त-विनियोगः
13आदित्यम् उपतिष्ठन्ते अमात्याः - उद्वयमिति ॥
विश्वास-प्रस्तुतिः
उद्व॒यन्तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् ।
दे॒वन्दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ।
मूलम्
उद्व॒यन्तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् ।
दे॒वन्दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ।
भट्टभास्कर-टीका
तमस उपरि स्थितम् उत्तरम् उत्कृष्टं ज्योतिः । देवत्रा ‘देवमनुष्य’ इत्यादिना सप्तम्यन्तात् त्राप्रत्ययः । देवेषु मध्ये उत्कृष्टज्योतिरित्यन्वय एवम्भूतं सूर्यं देवमुत्पश्यन्त उर्ध्वं पश्यन्तः वयम् उत्तमं ज्योतिर् ब्रह्माख्यम् अगन्म गच्छेम ॥
सायण-टीका
कल्पः -
‘उद् वयं तमसस् परीत्य आदित्यम् उपस्थाय’
इति ।
पाठस्तु -
उद् वयं तमसस् परि पश्यन्तो ज्योतिर् उत्तरम्।
देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम्॥
वयं तमस उत्तरं ज्योतिस् तमसो विनाशकत्वेनोत्कृष्टं सूर्य-संबद्धं ज्योतिर् उत् परि पश्यन्त उत्कर्षेण सर्वतो ऽवलोकयन्तो देवत्रा देवेषु मध्ये सूर्यं देवम् उत्तमं ज्योतिर् उप अगन्म प्राप्ताः स्मः।
भास्करोक्त-विनियोगः
14अपोऽवगाहन्ते - धातेति ॥
विश्वास-प्रस्तुतिः
धा॒ता पु॑नातु सवि॒ता पु॑नातु ।
अ॒ग्नेस्तेज॑सा॒ सूर्य॑स्य॒ वर्च॑सा ॥ (8)
मूलम्
धा॒ता पु॑नातु सवि॒ता पु॑नातु ।
अ॒ग्नेस्तेज॑सा॒ सूर्य॑स्य॒ वर्च॑सा ॥ (8)
भट्टभास्कर-टीका
धाता आदित्यः पुनात्व् अस्मान्, सविता सर्वस्यानुज्ञाता । केन पुनातु - अग्नेस्तेजसा सूर्यस्य वर्चसा च ॥
इत्यारण्यके चतुर्थे तृतीयोऽनुवाकः ॥
सायण-टीका
कल्पः -
अनवेक्षमाणा अपो ऽवगाहन्ते - ‘धाता पुनातु सविता पुनातु’
इति ।
“अग्नेस् तेजसा सूर्यस्य वर्चसेति” मन्त्र-शेषः। धाता जगतः स्रष्टा प्रजापतिर् अग्नि-संबन्धेन तेजसा पुनातु शोधयतु। सविता प्रेरको देवः सूर्य-संबन्धिना तेजसा पुनातु॥
इति श्रीमत्-सायणाचार्य-विरचिते माधवीये वेदार्थ-प्रकाशे कृष्ण-यजुर्वेदीय-तैत्तिरीयारण्यक-भाष्ये षष्ठ-प्रपाठके तृतीयो ऽनुवाकः ॥३॥