०२ स्रुवाहुतयः

भास्करोक्त-विनियोगः

1अथ नव स्रुवाहुतीर् जुहोति - य एतस्येति ॥ सर्वाणि यजूंषि ।

मूलम् - संयुक्तम्

य ए॒तस्य॑ प॒थो गो॒प्तार॒स्तेभ्य॒स्स्वाहा॒
य ए॒तस्य॑ प॒थो र॑क्षि॒तार॒स्तेभ्य॒स्स्वाहा॒
य ए॒तस्य॑ प॒थो॑भिऽर॑क्षि॒तार॒स्तेभ्य॒स्स्वाहा॑
ऽऽख्या॒त्रे स्वाहा॑ऽपाख्या॒त्रे स्वाहा॑
ऽभि॒लाल॑पते॒ स्वाहा॑ऽप॒लाल॑पते॒ स्वाहा॒
ऽग्नये॑ कर्म॒कृते॒ स्वाहा॒
यमत्र॒ नाधी॒मस्तस्मै॒ स्वाहा॑ ।

विश्वास-प्रस्तुतिः

य ए॒तस्य॑ प॒थो गो॒प्तार॒स्तेभ्य॒स् स्वाहा॑

मूलम्

य ए॒तस्य॑ प॒थो गो॒प्तार॒स्तेभ्य॒स्स्वाहा॒

भट्टभास्कर-टीका

येन पथा प्रेतो गच्छत्य् एतस्य पथः ये गोप्तारः सुखेनातिवाहयितारस् तेभ्यस्स्वाहा हुतमस्तु ।

सायण-टीका

अथ षष्ठ-प्रपाठके द्वितीयो ऽनुवाकः

कल्पः -

“पर्णमयेन स्रुवेणोपघातं जुहोति - ‘य एतस्य पथो गोप्तारस् तेभ्यः स्वाहेति’ नव स्रुवाहुतीः”

इति। उपघातम् उपहत्योपहत्य सकृत्-सकृद् अवदायेत्य् अर्थः। पाठस् तु -

एतस्य पथो मृतेन गन्तव्यस्य स्वर्ग-मार्ग-विषयस्य मार्गस्य रक्षका देवास् त्रि-विधा गोप्तृ-रक्षितृ-अभिरक्षितृ-नामकाः, ते च क्रमेण त्रिषु स्थानेषु तिष्ठन्ति। तादृशा ये सन्ति तेभ्यः स्वाहुतम् इदम् अस्तु। यजमान-कीर्तेः प्रकटयिता कश्चिद् देवः ख्याता तस्मै स्वाहुतम् इदम् अस्तु। स हि तुष्टः सन् देव-लोके ख्यातिं करिष्यति। अपकीर्तेः प्रकटयिता कश्चिद् अपाख्याता तस्मै स्वाहुतम् इदम् अस्तु। स च तुष्टो ऽपकीर्तिं वर्जयति। देवानाम् अग्रे सु-कृतं साकल्येन यः कथयति सो ऽभिलालपन्। तद् यो ऽपलपति सो ऽपलालपन्। ताभ्यां स्वाहुतम् इदम् अस्तु। पूर्ववद् इष्ट-प्राप्त्य्-अनिष्ट-परिहारौ योजनीयौ। पूर्वानुष्ठित-कर्मणाम् एतस्य च कर्मणो निष्पादको यो ऽग्निस् तस्मै कर्म-कृते स्वाहुतम् इदम् अस्तु। यं वा ऽन्य-देव-मन्त्रोपयुक्तं वयं नाधीमो न स्मरामस् तस्मै स्वाहुतम् इदम् अस्तु।

विश्वास-प्रस्तुतिः

य ए॒तस्य॑ प॒थो॑भिऽर॑क्षि॒तार॒स्तेभ्य॒स्स्वाहा॑

मूलम्

य ए॒तस्य॑ प॒थो॑भिऽर॑क्षि॒तार॒स्तेभ्य॒स्स्वाहा॑

भट्टभास्कर-टीका

येऽप्य् एतत्पथो रक्षितारः मार्गस्य सम्यङ्निपादयितारः । अभिरक्षितारो ऽभितस्स्थित्वा पालयितारः ।

विश्वास-प्रस्तुतिः

आ॒ख्या॒त्रे स्वाहा॑

मूलम्

आ॒ख्या॒त्रे स्वाहा॑

भट्टभास्कर-टीका

आख्याता सम्यक् पथामाख्याता

विश्वास-प्रस्तुतिः

अ॒पा॒ख्या॒त्रे स्वाहा॑

मूलम्

अ॒पा॒ख्या॒त्रे स्वाहा॑

भट्टभास्कर-टीका

अपाख्याता अधार्मिकेभ्यो ऽसन्मार्गख्यापयिता ।

विश्वास-प्रस्तुतिः

अ॒भि॒लाल॑पते॒ स्वाहा॑

मूलम्

अ॒भि॒लाल॑पते॒ स्वाहा॑

भट्टभास्कर-टीका

अभिलालपते अभिगम्य पुनःपुनः मार्गम् आचक्षाणाय इतइतो भवतीति ।

विश्वास-प्रस्तुतिः

अ॒प॒लाल॑पते॒ स्वाहा॒

मूलम्

अ॒प॒लाल॑पते॒ स्वाहा॒

भट्टभास्कर-टीका

अपलालपते असद्भ्यो ऽसन्मार्गं पुनःपुनो ऽपालपते नेह पन्था नेह पन्था इति ।

विश्वास-प्रस्तुतिः

अ॒ग्नये॑ कर्म॒कृते॒ स्वाहा॒

मूलम्

अ॒ग्नये॑ कर्म॒कृते॒ स्वाहा॒

भट्टभास्कर-टीका

कर्मकृते हव्यकव्यादिवहनकर्मकारिणे ।

विश्वास-प्रस्तुतिः

यम् अत्र॒ नाधी॒मस्तस्मै॒ स्वाहा॑ ।

मूलम्

यमत्र॒ नाधी॒मस्तस्मै॒ स्वाहा॑ ।

भट्टभास्कर-टीका

यं चाग्निम् अन्यमप्य् अत्र प्रकरणे स्मर्तव्यम् अङ्गभूतं नाधीमः न स्मरामो ऽनाम्नानान् नाधीमहे वा तस्मै स्वाहेति ॥

विश्वास-प्रस्तुतिः

यस् त॑ इ॒द्ध्मञ् ज॒भर॑त् सिष्विदा॒नो
मू॒र्धानव्ँ॑ वात॒ तप॑ते त्वा॒या ।
दिवो॒ विश्व॑स्मात् सीमघाय॒त उ॑रुष्यः ।

मूलम्

यस्त॑ इ॒द्ध्मञ्ज॒भर॑त्सिष्विदा॒नो मू॒र्धानव्ँ॑ वात॒ तप॑ते त्वा॒या ।
दिवो॒ विश्व॑स्मात्सीमघाय॒त उ॑रुष्यः ।

भट्टभास्कर-टीका

2यस्त इति त्रिपदा त्रिष्टुप् ॥ हे प्रेत! [हे अग्ने यः राक्षसादिस् ते तव इध्मं जभरद् अपहरत्य् अथवा त्वाया त्वदीयस्य दग्धस्य प्रेतस्य मूर्धानं स्वयं सिष्विदानः स्वेदं प्राप्तस्सन् ततपते अतिशयेन तापं करोति । शास्त्रीयदहनसाधनस्येध्मस्यापहारेण वा स्वकीयस्वेदेन मूर्धानं द्रवीकुर्वन्वा ते शास्त्रीयदाहं विनाश्य स्वर्गं विहन्ति दिवः स्वर्गस्य अघायतो ऽघं पापं विघ्नं य इच्छति तस्माद् विश्वस्मात् सीं सर्वस्मादपि राक्षसादेर् उरुष्यो ऽयं प्रेतो रक्षणीयः] ॥

सायण-टीका

अनन्तर-भाविनोर् मन्त्रयोर् विनियोगो भरद्वाज-बौधायनाभ्याम् अनुक्तत्वाद् ग्रन्थान्तरे द्रष्टव्यः। प्रकरण-बलात् तु होमार्थता प्रतीयते। तत्र प्रथमं मन्त्रम् आह -

हे अग्ने, यो राक्षसादिस् ते तवेध्मं जभरद् अपहरति । अथवा त्वया त्वदीयस्य दग्धव्यस्य प्रेतस्य मूर्धानं स्वयं सिष्विदानः स्वेदं प्राप्तः सन् संस्ततपते ऽतिशयेन तापं करोति। शास्त्रीय-दहन-साधनस्येध्मस्यापहारेण वा स्वकीय-स्वेदेन मूर्धानं द्रवीकुर्वन् वा शास्त्रीय-दाहं विनाश्य स्वर्गं विहन्ति। दिवः स्वर्गस्याघायतो ऽघं पापं विघ्नं य इच्छति तस्माद् विश्वस्मात् सीं सर्वस्माद् अपि राक्षसादेर् उरुष्यो ऽयं प्रेतो रक्षणीयः।

विश्वास-प्रस्तुतिः

अ॒स्मात्त्वमधि॑ जा॒तो॑ऽसि॒ त्वद॒यञ्जा॑यतां॒ पुनः॑ ।
अ॒ग्नये॑ वैश्वान॒राय॑ सुव॒र्गाय॑ लो॒काय॒ स्वाहा॑ ॥ (5)

मूलम्

अ॒स्मात्त्वमधि॑ जा॒तो॑ऽसि॒ त्वद॒यञ्जा॑यतां॒ पुनः॑ ।
अ॒ग्नये॑ वैश्वान॒राय॑ सुव॒र्गाय॑ लो॒काय॒ स्वाहा॑ ॥ (5)

भट्टभास्कर-टीका

3अस्मादित्य् अनुष्टुप् ॥ हे अग्ने ! त्वमस्माद् अधिजातोऽसि पूर्वमिदानीं त्वत्तो ऽयं पुनर्जायतां पुण्यां गतिं प्राप्नोतु । तस्मै तुभ्यम् अग्नये वैश्वानराय सुवर्गाय लोकाय तद्धेतवे स्वाहा हुतमस्तु ॥
इत्यारण्यके चतुर्थे द्वितीयोऽनुवाकः ॥

सायण-टीका

अथ द्वितीयं मन्त्रम् आह -

हे अग्ने, अस्माद् यजमानात् प्रेतात् त्वम् अधिजातो ऽसि। अयं हि कर्मानुष्ठानेन त्वां स्वामिनं संपादितवान्। अतः फल-दशायाम् अयं पुनस् त्वत्तो ऽधिजायतां, त्वम् एव स्वर्ग-लोके यजमानम् उत्पादय। तत्-सिद्ध्य्-अर्थं वैश्वानराय सर्व-पुरुष-हितायाग्नये तुभ्यम् इदं स्वाहुतम् इदम् अस्तु॥

इति श्रीमत्-सायणाचार्य-विरचिते माधवीये वेदार्थ-प्रकाशे कृष्ण-यजुर्वेदीय-तैत्तिरीयारण्यक-भाष्ये षष्ठ-प्रपाठके द्वितीयो ऽनुवाकः ॥२॥