०१ दाहान्तम्

भास्करोक्त-विनियोगः

अथ चतुर्थः प्रपाठकः ॥
1प्रवर्ग्यं ब्रुवता भगवता पुरुषेण कर्तव्यानि दर्शपूर्णमासादीनि संवत्सर-पर्यन्तानि कर्माणि
स-मन्त्र-ब्राह्मणानि विहितानि व्याख्यातानि च अस्माभिः ।
इदानीं मृतस्य संस्काराख्यः पितृमेधाख्यः प्रस्तूयते ।
‘स एष यज्ञायुधी यजमानो ह वै सुवर्गं लोकमेति’
इति श्रुतेः मृतस्यापि संस्कारः श्रौत इष्यते ।
‘प्रत्येकं पुरुषस्य पावनः’ इति च स्मृतिः ।

अत्र पैतृमेधिकान् मन्त्रान् व्याख्यास्यामः ।
प्राजापत्यं काण्डम् ।

‘तत्राहिताग्निम् अग्निभिर् दहन्ति यज्ञपात्रैश्च’ इत्यपि विनियोगः ।

वहनात् प्राक्

आहवनीये होमः

भास्करोक्त-विनियोगः

तत्र प्रेताहवनीये जुह्वा जुहोति - परेयुवांसमिति ॥

विश्वास-प्रस्तुतिः

परेयु+++(यि)+++वाँ᳓सं प्रव᳓तो+++(←प्रवत् →)+++ मही᳓र् अ᳓नु
बहु᳓भ्यः प᳓न्थाम् अन+++(नु)+++पस्पशान᳓म्
वैवस्वतँ᳓ सङ्ग᳓मनञ् ज᳓नानाय्ँ
यमँ᳓ रा᳓जानँ हवि᳓षा दुवस्यत+++(=परिचरत)+++ ।

मूलम्

प॒रे॒यु॒वाँसं॑ प्र॒वतो॑ म॒हीरनु॑ ब॒हुभ्यः॒ पन्था॑मनपस्पशा॒नम् ।
वै॒व॒स्व॒तँ स॒ङ्गम॑न॒ञ्जना॑नाय्ँय॒मँ राजा॑नँ ह॒विषा॑ दुवस्यत ।

भट्टभास्कर-टीका

परेयुवांसम् । उकारश्छान्दसः । बह्वृचाः परेयिवांसमित्येव पठन्ति ।
प्राणिनां शुभाशुभनिरीक्षणार्थं तत इतो गच्छन्तम् । कां प्रति? प्रवतो महीरनु अनुः प्रतेरर्थे । प्रकृष्टार्थवृत्तेः प्रशब्दात् ‘छन्दसि धात्वर्थ’ इति वतिः ।
शसन्तं चैतत् स्त्रीलिङ्गम् । प्रकृष्टा मनुष्या जातिः धर्मादिसप्तपुरुषार्थसम्बन्धात् तत्प्रकर्षः। प्रवत इति च उपलक्षणं - उद्वतो निवत इत्यपि द्रष्टव्यम् । उद्गता देवजातिः। महीः भौतिकीः मनुष्यजातीः प्रति परेयुवांसं
ताभ्य एव च बहुभ्यः पन्थां पन्थानम् अनपस्पशानम् । अनोरुकारस्य अकारश्छान्दसः । उकारमेव बह्वृचाः पठन्ति । स्पशतिर्ज्ञानार्थः, स्पशा इति चारा उच्यन्ते । ते च ज्ञातारः परवृत्तान्तानाम् । तस्य शानचि शपः श्लौ द्विर्वचनम् । आनुपूर्व्येण जानन्तम् अयमस्य मार्गोऽयमस्य मार्ग इति ।
एवंभूतं वैवस्वतं विवस्वतः पुत्रं सङ्गमनं जनानां प्रेतजना यत्र सङ्गच्छन्ते तं सङ्गमनं जनानां यमं राजानम् अनेन आज्याहुतिलक्षणेन हविषा अहं तावद्दुवस्यामि यूयमपि दुवस्यत हे लोकाः!
दुवस्यतिः परिचरणकर्मा कण्ड्वादियगन्तः ॥

सायण-टीका

तेषां च पितृमेध-मन्त्राणां विनियोगो भरद्वाज-कल्पे बौधायन-कल्पे चाभिहितः। तत्र आहिताग्नेर् मरण-संशये दहन-देशं जोषयते दक्षिणा-प्रत्यक्-प्रवणम् इत्यारभ्य भरद्वाज आह -

“अन्वारब्धे मृत आहवनीये स्रुग्-आहुतिं जुहोति परे युवाँ सम्’

इति”। बौधायनो ऽप्य् एवम् एवाह -

“अथ गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्-गृहीतं गृहीत्वा प्रेतस्य दक्षिणं बाहुम् अन्वारभ्य जुहोति ‘परे युवाँसम्’

इति। पाठस् तु -

परे युवाँ सं प्रवतो महीरनु बहुभ्यः पन्थामनपस्पशानम् । वैवस्वतँ संगमनं जनानां यमँ राजानंहविषां दुव्यस्यते,

इति। हे पितृमेध-कर्तारः, पितॄणां राजानं यमं हविषा दुवस्यत प्रीणयत। कीदृशम्? प्रवतः प्रकृष्ट-कर्मवतो भू-लोक-वर्ति-भोग-साधनं पुण्यम् अनुष्ठितवतः पुरुषान् महीस् तत्तद्-भोगोचित-भू-प्रदेश-विशेषान् अनु परेयिवांसं क्रमेण मरणाद् ऊर्ध्वं प्रापितवन्तम्। तथा बहुभ्यः स्वर्गार्थिभ्यः पुण्य-कृद्भ्यः पुण्य-कृताम् अर्थे पन्थानं स्वर्गस्योचितं मार्गम् अनपस्पशानम् अबाधमानम्। पापिन एव पुरुषान् स्वर्ग-मार्ग-बाधेन नरकं प्रापयति न तु पुण्य-कृत इत्य् अर्थः। वैवस्वतं विवस्वतः सूर्यस्य पुत्रम्। जनानां संगमनं पापिनां गन्तव्य-स्थान-रूपम्।

आच्छादनम्

भास्करोक्त-विनियोगः

2मृतम् आपत्तोऽहतेन वाससा प्रोर्णोति - इदं त्वति त्रिष्टुभा जगत्या वा ॥

विश्वास-प्रस्तुतिः

इद᳓न् त्वा व᳓स्त्रं प्रथमं᳓ न्व् आ᳓गन्,
अ᳓पैत᳓द् ऊह य᳓द् इहा᳓बिभः पुरा᳓ ।
इष्टापूर्त᳓म् अ᳓नु सं᳓पश्य द᳓क्षिणाय्ँ
य᳓था ते दत्तं᳓ बहुधा᳓ वि᳓बन्धुषु ।

मूलम्

इ॒दन्त्वा॒ वस्त्रं॑ प्रथ॒मं न्वाग॒न्नपै॒तदू॑ह॒ यदि॒हाबि॑भः पु॒रा ।
इ॒ष्टा॒पू॒र्तमनु॒ संप॑श्य॒ दक्षि॑णाय्ँ॒ यथा॑ ते द॒त्तं ब॑हु॒धा विब॑न्धुषु ।

भट्टभास्कर-टीका

इदं वस्त्रं प्रथमं नूतनं त्वा त्वां नु क्षिप्रम् आगन् आगतवान् । ‘मन्त्रे घस’ इति च्लेर्लुक्, हल्ङयादिलोपः ‘मोनोधातोः’ ।
पूर्वं परिहितम् अपादत्ते - अपैतदिति । एतत् वस्त्रम् अपोह परित्यज प्रेत! यत्वं पुरा इह शरीरे अबिभः भृतवान् धारितवानसि ।

इष्टापूर्तम् इष्टम् अग्निहोत्रादि, पूर्तं तटाकखननादि, तयोस्समाहारद्वंद्वः । तदिष्टापूर्तम् ।
अनुसम्पश्य आनुपूर्व्येण जानीहि इतो गतस्सन् तत्फलमनुभुङ्क्ष्व । दक्षिणा दानं तां च यथा त्वया दत्तं बहुधा बहुप्रकारं विबन्धुषु अनाथेषु विशिष्टेषु वा बन्धुषु ॥

सायण-टीका

कल्पः -

“औदुम्बर्याम् आसन्द्यां कृष्णाजिनं दक्षिणा-ग्रीवम् अधर-लोमास्तीर्य तस्मिन्न् एनम् उत्तानं निपात्य उपान्त-दशेनाहतेन वाससा प्रोर्णोति ‘इदं त्वा वस्त्रम्’

इति”। पाठस् तु -

इदं त्वा वस्त्रं प्रथमं नु आगन्।

हे प्रेत, त्वाम् इदं वस्त्रं प्रथमं नु प्रथमम् एवागन्न् आगच्छतु।

कल्पः -

“अथास्येतरद् अपादत्ते ‘अपैतद् ऊह’ इति तत् पुत्रो भ्राता वान्यः प्रत्यासन्न-बन्धुः प्रतीतः परिधाय”

इति। पाठस् तु -

अपैतद् ऊह यदबिभः पुरा।
इष्टापूर्तमनुसंपश्य दक्षिणां च।
यथा ते दत्तं बहुधा वि बन्धुषु,

इति। हे प्रेत, यद् वस्त्रं पुरा त्वम् अबिभर् धारितवान् असि, एतद् अपोहापसारय। इष्टा-पूर्तं त्वयानुष्ठितं श्रौतं स्मार्तं च यत् कर्म तद् अनुसंपश्य अनुक्रमेण स्मर। दक्षिणां च ब्राह्मणेभ्यो दत्तम् अनुसंपश्य। ते त्वदीयं धनं बन्धुषु प्रीति-दान-रूपेण बहुधा यथा विशेषेण दत्तं तम् अपि प्रकारम् अनुसंपश्य। ततस् तद्-अनुरूपं पुण्य-लोकं गच्छेत्य् अभिप्रायः।

वहनम्

भास्करोक्त-विनियोगः

3 मृतम् अनसा वहति, मनुष्ययानेन वा; अनो-वहन-पक्षे वाहौ युनक्ति -

विश्वास-प्रस्तुतिः

इमौ᳓ युनज्मि ते वह्नी᳓
अ᳓सु-नीथाय वोढ᳓वे
या᳓भ्याय्ँ यम᳓स्य सा᳓दनँ
सु-कृ᳓ताञ् चा᳓पि गच्छतात्

मूलम्

इ॒मौ यु॑नज्मि ते व॒ह्नी असु॑नीथाय वो॒ढवे॑ ।
याभ्याय्ँ॑य॒मस्य॒ साद॑नँ सु॒कृता॒ञ्चापि॑ गच्छतात् ।

भट्टभास्कर-टीका

इमौ वाहौ युनज्मि ते त्वदर्थं वह्नी वोढारौ असुनीथ अप्रशस्तं तस्मै प्रेतकर्मणे वोढवे वोढुं यथा एतौ सम्यग्वहतः । याभ्यां वाहाभ्यां यमस्य सुकृतां च सादनं सदनम् आधिगच्छतात् अपिरभेरर्थे अभिगमिष्यसि ।।

सायण-टीका

इमौ युनज्मि ते वह्ननी असुनीथाय वोढवे । याभ्यां यमस्य सादनँ सुकृतां चापि गच्छतात्।

कल्पः -

“अथैनम् एतया आसन्द्या सह तत्-संस्थेन कटेन वा संवेष्ट्य दासाः प्रवयसो वहेयुर् अथैनम् अनसा वहन्तीत्य् एकेषाम् अनश् चेद् युञ्ज्यात् - ‘इमौ युनज्मि ते वह्नी असुनीथाय वोढवे। याभ्यां यमस्य सादनं सु-कृतां चापि गच्छतात्’

इति”।

हे प्रेत, ते तवासुनीथाय प्राण-सदृशस्य शरीरस्य नयनाय वोढवे शकटं वोढुं वह्नी वोढाराव् इमौ बलीवर्दौ युनज्मि शकटे योजयामि। याभ्यां बलीवर्दाभ्यां यमस्य सादनं स्थानं सु-कृतां चापि पुण्य-कृतां पुरुषाणाम् अपि स्थानं गच्छताद् गमिष्यसि। तादृशौ युनज्मीत्य् अन्वयः।

भास्करोक्त-विनियोगः

4वोढृभिरादीयमानं प्रेतमनुमन्त्रयते - पूषेति ॥ अतः परास्त्रिष्टुभः ।

विश्वास-प्रस्तुतिः

पूषा᳓ त्वेत᳓श् च्यावयतु प्र᳓ विद्वा᳓न्
अ᳓नष्ट-पशुर् भु᳓वनस्य गोपाः᳓ ।
स᳓ त्वैते᳓भ्यः प᳓रिददात् पितृ᳓भ्यो
ऽग्नि᳓र् देवे᳓भ्यस् सुविद᳓त्रेभ्यः ।

मूलम्

पू॒षा त्वे॒तश्च्या॑वयतु॒ प्रवि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः ।
स त्वै॒तेभ्यः॒ परि॑ददात्पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्य॑ स्सुवि॒दत्रे॑भ्यः ।

भट्टभास्कर-टीका

आदित्यानामन्यतमः पूष इतः स्थानात् प्रच्यावयतु अन्यतो नयतु । विद्वान् पथां ज्ञाता अनष्टपशुः दर्शनसाधनत्वात् पशवो रश्मयः । भुवनस्य गोपाः गोपयिता रक्षिता । क्विप् अल्लोपयलोपयोः रूपम् । स च पूषा त्या एतेभ्यः प्रसिद्धेभ्यः पितृभ्यः अग्निष्वत्तादिभ्यः परिददात् रक्षणार्थ दानं परिदानम् । पञ्चमलकार: परिदद्यात् । अग्निस्तु देवेभ्यः परिदद्यात् सुविदत्रेभ्यः विदत्रं ज्ञानं लब्धव्यं वा धनं शोभनज्ञानेभ्यः शोभनधनेभ्यो वा ।।

सायण-टीका

कल्पः -

“अथैनम् आददत आदीयमानम् अनुमन्त्रयते- ‘पूषा त्वेतश् चावयतु प्र विद्वान् अनष्ट-पशुर् भुवनस्य गोपाः। स त्वैतेभ्यः परिददात् पितृभ्यो ऽग्निर् देवेभ्यः सुविदत्रेभ्यः’ इति तृतीयम् एतस्याध्वनो गत्वा निदधाति”

इति।

हे प्रेत, पूषा यो ऽयं पोषक-देवः सो ऽयं त्वाम् इतो देशात् प्रच्यावयतु प्रचालयतु। कीदृशः? विद्वान् गन्तव्य-मार्गाभिज्ञः। अनष्ट-पशुः। वाहका मनुष्या द्वि-पात्-पशवः। अनड्वाहौ चतुष्-पात्-पशू। अनष्टा अनुपद्रुताः पशवो यस्यासाव् अनष्ट-पशुः, वाहकोपद्रव-राहित्येन नेतुं समर्थः। भुवनस्य गोपाः सर्वस्य लोकस्य रक्षकः, स तादृशः पूषा त्वाम् एतेभ्यः पूर्व-सिद्धेभ्यः पितृभ्यः परिददात् प्रयच्छतु। यो ऽग्निस् तव दाहं करिष्यति सो ऽग्निः सुविदत्रेभ्यः सुष्ठु त्वद्-अनुष्ठितं कर्म जानद्भ्यो देवेभ्यस् त्वां प्रयच्छतु।

भास्करोक्त-विनियोगः

5तुरीयम् अध्वनो गत्वाऽऽदीयमानमनुमन्त्रयते - पूषेमा इति ॥

विश्वास-प्रस्तुतिः

पूषे᳓मा᳓ आ᳓शा अ᳓नुवेद स᳓र्वास्
सो᳓ अस्माँ᳓ अ᳓भयतमेन नेषत्
स्वस्ति-दा᳓ अ᳓घृणिस् स᳓र्ववीरो᳓+
ऽप्रयुच्छन्+++(=अप्रमाद्यन्)+++ पुर᳓ एतु प्र᳓ विद्वा᳓न् । (1)

मूलम्

पू॒षेमा आशा॒ अनु॑वेद॒ सर्वा॒स् सो अ॒स्माँ अभ॑यतमेन नेषत् ।
स्व॒स्ति॒दा अघृ॑णि॒स् सर्व॑वी॒रोऽप्र॑युच्छन् पु॒र ए॑तु॒ प्रवि॒द्वान् । (1)

भट्टभास्कर-टीका

पूषा इमाः प्राच्याद्या दिशस्सर्वा अनुवेद आनुपूर्व्येण जानाति स एवंभूतः पूषा अस्मान् । ‘अस्मदोद्वयोश्र’ इति एकस्मिन् बहुवचनम् - ताम् । मृतेन सह एकत्वमापन्नस्य पुत्रादेर्वचनं - यत्र भयगन्धो नास्ति तेन अभयतमेन पथा नेषत् नयतु । स्वस्तिदाः अविनाशस्य दाता अघृणिः अक्रोधः आगतदीप्तिर्वा । आघृणिरिति बह्वृचाः । सर्ववीरः सर्वैः परिचारकपुरुषैस्तद्वान् अप्रयुच्छन् अप्रमाद्यन् पुरः प्रैतु अस्माकम् अग्रतो गच्छतु विद्वान् पथां ज्ञाता ।।

सायण-टीका

कल्पः -

“अथैनम् आददत आदीयमानम् अनुमन्त्रयते - ‘पूषेमा आशा अनु वेद सर्वाः सो ऽस्मान् अभयतमेन नेषत्। स्वस्ति-दा अघृणिः सर्व-वीरो ऽप्रयुच्छन् पुर एतु प्रविद्वान्’ इत्य् अर्धम् अस्याध्वनो गत्वा निदधाति”

इति।

यो ऽयं पूषा देवः सो ऽयम् इमाः सर्वा आशा दिशो ऽनुवेद ‘इयम् अनुकूला दिक्’ इति जानाति। स देवो ऽस्मान् अत्यन्तं भय-रहितेन मार्गेण नेषन् नयतु। कीदृशः पूषा? स्वस्ति-दाः क्षेम-प्रदः। अघृणिर् अदीप्तः, अस्मास्व् अनुग्राही। सर्व-वीरः सर्वेभ्यः प्रतिकूलेभ्यो ऽत्यन्तं शूरः। स तादृशो ऽसाव् अप्रयुच्छन् प्रमादम् अकुर्वन् प्रविद्वान् मार्गं प्रकर्षेण जानन्न् अस्माकं पुरत एतु गच्छतु।

भास्करोक्त-विनियोगः

6पुनस् तुरीयम् अध्वनो गत्वा निधायादीयमानमनुमन्त्रयते - आयुर्विश्वायुरिति ॥

विश्वास-प्रस्तुतिः

आ᳓युर् विश्वा᳓युः प᳓रिपासति त्वा
पूषा᳓ त्वा पातु प्र᳓पथे पुर᳓स्तात् ।
य᳓त्रा᳓सते सु-कृ᳓तो य᳓त्र ते᳓ ययु᳓स्
त᳓त्र त्वा देव᳓स् सविता᳓ दधातु

मूलम्

आयु॑र्वि॒श्वायुः॒ परि॑पासति त्वा पू॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त् ।
यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वस्स॑वि॒ता द॑धातु ।

भट्टभास्कर-टीका

आयुः गमनशीलः विश्वायुः विश्वव्यापी स त्वा परिपासति । लेटि तिपोऽसडागमः । परिपायात् । पूषा च त्वा पातु प्रपथे प्रकृष्टे पथि पुरस्तात् गच्छन् । देवश्च सविता आदित्यानामन्यतमः यत्र स्थाने सुकृत आसते यत्र वा ते ययुः गच्छन्ति तत्र त्वा देवस्सविता दधातु स्थापयतु ॥

सायण-टीका

कल्पः -

“अथैनम् आददत आदीयमानम् अनुमन्त्रयते - ‘आयुर् विश्वायुः परिपासति त्वा पूषा त्वा पातु प्रथमे पुरस्तात्। यत्रासते सु-कृतो यत्र ते ययुस् तत्र त्वा देवः सविता दधात्व्’ इति समस्तम् एतस्याध्वनो गत्वा निदधाति”

इति।

विश्वस्मिन् कर्मण्य् आगच्छतीति विश्वायुर् अग्निः। स चायुर् आयुष्मन्तम् आगतवन्तं त्वां प्रेतं परिपासति परिपालयितुम् इच्छति, दहनार्थम् आगच्छन्तं त्वां प्रतीक्षत इत्य् अर्थः। अयं पूषा प्रथमे प्रकृष्टे मार्गे त्वां पुरस्तात् पातु पुरतो गच्छन् प्रतिबन्धकेभ्यो रक्षोभ्यः पालयतु। यत्र यस्मिन्न् उत्तम-लोके सु-कृतः पूर्वे पुण्य-कृत आसते यत्र च मार्गे ते पुण्य-कृतो ययुः, सविता देवस् तत्र त्वां दधातु स्थापयतु।

राजगवी

भास्करोक्त-विनियोगः

7राजगवीम् उपाकरोति - भुवनस्येति यजुषा ॥

विश्वास-प्रस्तुतिः

भु᳓वनस्य पत इदँ᳓ हविः᳓ ।
अग्न᳓ये रयिम᳓ते स्वा᳓हा ।

मूलम्

भुव॑नस्य पत इ॒दँ ह॒विः ।
अ॒ग्नये॑ रयि॒मते॒ स्वाहा॑ ।

भट्टभास्कर-टीका

हे भुवनस्य पते ! स्वामिन्! अग्ने ! इदं राजगव्याख्यं हविः उपाकरोमीति शेषः । स्रुवेण पात्रेण वा जुहोति - अग्नये रयिमते धनवते स्वाहा हुतमस्तु ॥

सायण-टीका

कल्पः -

“अत्र राज-गवीम् उपाकरोति ‘भुवनस्य पते’ इति जरतीं मुख्यां तज्-जघन्यां कृष्णां कृष्णाक्षीं कृष्ण-वालां कृष्ण-खुराम् अपि वा अक्षि-वाल-खुरम् एवाकृष्णं स्यात्”

इति। पाठस् तु -

भुवनस्य पते।

हे भुवनस्य पते पालक देव, तवेदं राज-गवी-रूपं हविर् उपाकरोमीति शेषः।

अथास्य हविषः स्व-काले प्राप्तो होमः कर्तव्यः। तद्-होम-मन्त्रो ऽत्रैव प्रसङ्गाद् आम्नातः। कल्पः -

तत्रैतद्-धविर् इडापात्र्या चमसेन वा जुहोति, “अग्नये रयिमते स्वाहा”

इति। रयिमते धनवते ऽग्नये स्वाहुतम् इदम् अस्तु।

भास्करोक्त-विनियोगः

8 राजगव्यां शमितृभिर् हन्यमानायां
सव्यानि जानूनि अभिनिघ्नन्तः पांसून् अपमृजन्ते -
पुरुषस्येति अनुष्टुभा ॥

विश्वास-प्रस्तुतिः

पु᳓रुषस्य स-यावर्य्! अ᳓पे᳓द् अघा᳓नि मृज्महे
य᳓था नो अ᳓त्र ना᳓परः पुरा᳓ जर᳓स आ᳓यति

मूलम्

पुरु॑षस्य सयाव॒र्यपेद॒घानि॑ मृज्महे ।
यथा॑ नो॒ अत्र॒ नाप॑रः पु॒रा ज॒रस॒ आय॑ति ।

भट्टभास्कर-टीका

मृतस्य पुरुषस्य सयावरि!। सहपूर्वाद्यातेर्वनिपि ‘वनोरच’ इति ङीब्-रेफौ । पुरुषेण मृतेन सह यात्रीत्येवमामन्त्र्यते । अघानि वयमपमृज्महे पांसुमार्जनव्याजेन त्वद्वधकृतमघमेव वयं परिमृज्मः । इच्छब्द एवार्थः । यथा पांसुमार्जने सति नः अस्मान् अत्र वसतः पुरा जरस: जरायाः प्राक् अपरो मृत्युप्रभृतिः अनिष्टवर्गः नायति तथा अपमृज्मह इति ॥

सायण-टीका

कल्पः -

“तां घ्नन्त्य् उत्सृजन्ति वा। यदि विघ्नन्ति तस्यां निहन्यमानायां सव्यानि जानून्य् अनुनिघ्नन्तः पांसून् अवमृजन्ते पुरुषस्य”

इति। पाठस् तु -

पुरुषस्य सयावर्यपेदघानि मृज्महे।

सह यातुं गन्तुं शीलं यस्या राज-गव्याः सा सयावरी। पुरुषस्य मृतस्य संबन्धिनि हे सयावर्य् अघानि पापानि अपेत्य अपनीयैव मृज्महे, अस्मान् शोधयामः। नो ऽस्माकं जरसो वयो-हानेः पुरापरः पाप्मा कश्चिद् अपि यथा नायति नायागच्छति तथा मृज्मह इति पूर्वत्रान्वयः।

भास्करोक्त-विनियोगः

9अथ तां शमितृभिर् विशस्यमानाम् अनुमन्त्रयते - पुरुषस्येति ॥

विश्वास-प्रस्तुतिः

पु᳓रुषस्य स-यावरि
वि᳓ ते प्राण᳓म् असिस्रसम्
श᳓रीरेण मही᳓म् इ᳓हि, स्वध᳓ये᳓हि पितॄ᳓न्
उ᳓प प्रज᳓या ऽस्मा᳓न् इहा᳓वह

मूलम्

पुरु॑षस्य सयावरि॒ वि ते॑ प्रा॒णम॑सि स्रसम् ।
शरी॑रेण म॒हीमिहि॑ स्व॒धयेहि॑ पि॒तॄनुप॑ प्र॒जया॒ऽस्मानि॒हाव॑ह ।

भट्टभास्कर-टीका

सयावरि! ते तव स्वभूतं प्राणं व्यसि स्रसं विस्रंसयामि । यत् बन्धनस्य विस्त्रंसनं तत् प्राणस्येति रूप्यते । सा त्वं विस्रस्तप्राणा शरीरेण महीं भूमिम् इहि गच्छ मृतो भूमौ पतति । स्वधया मांसरूपया पितॄन् उपेहि अस्मांश्च इह गृहे प्रजया पुत्रपौत्रादिकया आवह सङ्गमय प्रजावतः कुरु ॥

सायण-टीका

कल्पः -

“अथास्याः प्राणान् विस्रंसमानान् अनुमन्त्रयते -‘पुरुषस्य सयावरि वि ते प्राणम् अविस्रसम्। शरीरेण महीम् इहि स्वधयेहि पितॄन् उप प्रजयाऽस्मानिहाऽऽवह’

इति।

हे पुरुषस्य सयावरि राज-गवि, ते तव प्राणं व्यसिस्रसं विस्रस्तं शिथिलं कृतवान् अस्मि। त्वं शरीरेण महीं भूमिम् इहि प्राप्नुहि। स्वधयाऽन्नेन हविः-स्वरूपेण। यद् वामृत-वाची स्वधा-शब्दः। अमृतेन जीव-रूपेण पितॄन् उपेहि। इहास्मिन् लोके प्रजया पुत्रादिकया सहास्मान् आवह क्षेमं प्रापय।

भास्करोक्त-विनियोगः

अस्य मन्त्रस्य नास्मत्सूत्रे विनियोगः ॥

विश्वास-प्रस्तुतिः

मै᳓वम् माँस्ता᳓+++(→मांसतया)+++ प्रिये ऽह᳓न्
देवी᳓ सती᳓ पितृ-लोकय्ँ᳓ य᳓दै᳓षि
विश्व᳓वारा+++(←वरणे)+++ न᳓भसा सव्ँ᳓ व्ययन्त्य्
उभौ᳓ नो लोकौ᳓ प᳓यसा ऽभ्या᳓ववृत्स्व । (2)

मूलम्

मैव॑म्माँ॒स्ता प्रि॑ये॒ऽहन्दे॒वी स॒ती पि॑तृलो॒कय्ँयदैषि॑ ।
वि॒श्ववा॑रा॒ नभ॑सा॒ सव्व्ँय॑यन्त्यु॒भौ नो॑ लो॒कौ पय॑सा॒ऽभ्याव॑वृत्स्व । (2)

भट्टभास्कर-टीका

10मैवमिति त्रिष्टुप् ॥ मांस्तेति तृतीयैकवचनस्याकारः । हे राजगवि! तव या एवंभूता मांस्ता मांसता तया माऽहं प्रिये । छान्दसो ह्रस्वः ।
प्रीतो मा भवामि नह्यहमात्मनः प्रिये त्वां विशसितवान् किन्तर्हि पितॄणामर्थाय ।
अतश्च यदा त्वं देवी सती देवभूयं गता ।

विश्ववारा सर्वेषां वरणीया नभसा आकाशयानेन पितृलोकम् एषि । यदेति वचनात् तदेति गम्यते ।
तदा पयसा इह संव्ययन्ती आच्छादयन्ती नः अस्मान् अभ्याववृत्स्व उभयोरपि लोकयोर् अस्मान् पयस्विनः कुरु

सायण-टीका

कल्पः -

“उपोत्थाय पांसून् अवमृशन्ते ‘मैवं माँस्ता प्रिये ऽहं देवी सती पितृ-लोकं यद् ऐषि। विश्व-वारा नभसा संव्ययन्त्य् उभौ नो लोकौ पयसाभ्याववृत्स्व’

इति।

हे प्रिये राज-गवि, ‘अहम् एवं हताऽस्मीति’ मा माँस्ता मनसि मननं मा कार्षीः। यद्यस्मात् कारणात् त्वं देवी देवतात्मिका सती पितृ-लोकं प्रत्य् ऐषि आगच्छसि। विश्व-वारा सर्वैर् वरणीया प्रार्थनीया। नभसाकाश-मार्गेण संव्ययन्ती द्यु-लोकं संवृण्वती। हे राज-गवि, तथा-विधा त्वं नो ऽस्माकम् उभौ लोकाव् एतल्-लोक-पर-लोकौ पयसा क्षीरेणाभ्याववृत्स्वाभित आवृत्तौ कुरु क्षीर-पूर्णौ कुरु इत्य् अर्थः।

अनुगमनम्

भास्करोक्त-विनियोगः

11मृतस्य पत्नीं दारुचिताम् उपवेशयन्ति - **इयं नारीति ॥ **

विश्वास-प्रस्तुतिः

इय᳓न् ना᳓री पतिलोकव्ँ᳓ वृणाना᳓
नि᳓पद्यत उ᳓प त्वा मर्त्य प्रे᳓तम् ।
वि᳓श्वं पुराण᳓म् अ᳓नु पाल᳓यन्ती
त᳓स्यै प्रजा᳓न् द्र᳓विणञ् चेह᳓ धेहि

मूलम्

इ॒यन्नारी॑ पतिलो॒कव्ँ वृ॑णा॒ना निप॑द्यत॒ उप॑ त्वा मर्त्य॒ प्रेत॑म् ।
विश्वं॑ पुरा॒णमनु॑ पा॒लय॑न्ती॒ तस्यै॑ प्र॒जान्द्रवि॑णञ्चे॒ह धे॑हि ।

भट्टभास्कर-टीका

इयं नारी तव भार्या पतिलोकं पत्युस्तव सालोक्यं वृणाना कामयमाना हे मर्त्य! मरणधर्मन् त्वा त्वां प्रेतम् उप निपद्यते उपशेते । विश्वं कृत्स्नं पुराणं चिरन्तनम् एकपत्नीनां व्रतम् अनुपालयन्ती तस्यै तस्याः प्रजां द्रविणं च इह धेहि स्थापय यथा न ते क्षीयेते तथा कुरु ॥

सायण-टीका

कल्पः -

“अथास्य भार्याम् उपसंवेशयति - ‘इयं नारी पति-लोकं वृणाना निपद्यत उप त्वा मर्त्य प्रेतम्। विश्वं पुराणम् अनुपालयन्ती तस्यै प्रजां द्रविणं चेह धेहि’

इति।

हे मर्त्य मनुष्य, या नारी मृतस्य तव भार्या पति-लोकं वृणाना कामयमाना प्रेतं मृतं त्वाम् उपनिपद्यते समीपे नितरां प्राप्नोति। कीदृशी? पुराणं विश्वम् अनादि-काल-प्रवृत्तं कृत्स्नं स्त्री-धर्मम् अनुक्रमेण पालयन्ती। पति-व्रतानां स्त्रीणां पत्या सहैव वासः परमो धर्मः। तस्यै धर्म-पत्न्यै त्वम् इह लोके निवासार्थम् अनुज्ञां दत्वा प्रजां पूर्वं विद्यमानां पुत्रादिकां द्रविणं धनं च धेहि संपादय, अनुजानीहीत्य् अर्थः।

भास्करोक्त-विनियोगः

12तामुत्थापयति पतिस्थः पतिस्थाने तिष्ठतीति पतिस्थो देवरादिः - उदीर्ष्व नारीति ॥

विश्वास-प्रस्तुतिः

उ᳓दीर्ष्व नार्य् अभि᳓ जीवलोक᳓म्
इता᳓सुम्+++(=गतासुं)+++ एत᳓म् उ᳓पशेष ए᳓हि
हस्त-ग्राभ᳓स्य दिधिषो᳓स्+++(←धा)+++ त्व᳓म् एत᳓त्
प᳓त्युर् जनित्व᳓म् अभि᳓ सं᳓बभूव

मूलम्

उदी॑र्ष्व नार्य॒भि जी॑वलो॒कमि॒तासु॑मे॒तमुप॑शेष॒ एहि॑ ।
ह॒स्त॒ग्रा॒भस्य॑ दिधि॒षोस्त्वमे॒तत्पत्यु॑र्जनि॒त्वम॒भि संब॑भूव ।

भट्टभास्कर-टीका

हे नारि त्वं! इतासुं गतासुं गतप्राणम् एतं पतिम् उपशेषे उपसृत्य शेषे सा उदीर्ष्व उत्तिष्ठ उत्थाय जीवलोकमभ्येहि । न च एवं ते पतिलोकहानिः यतः त्वम् अभिसन्धिमात्रेणैव हस्तग्राभस्य विवाहसमये मन्त्रवत्तव हस्तं गृहीतवतः दिधिषोः गर्भस्य धातुः पत्युः एतज्जनित्वं जन्म लोकान्तरप्राप्तिरूपम् अभिसम्बभूव । पुरुषव्यत्ययः । अभिसम्बभूथेति बह्वृचाः पठन्ति । अभिसम्बभूविथ उत्पद्यमानैव त्वमेवमुत्पन्नाऽसि ॥

सायण-टीका

कल्पः -

“तां प्रति गतः सव्ये प्राणाव् अभिपाद्योत्थापयति - ‘उदीर्ष्व नार्य् अभि जीव-लोकम् इतासुम् एतम् उपशेष एहि। हस्त-ग्राभस्य दिधिषोस् त्वम् एतत् पत्युर् जनित्वम् अभिसंबभूव’

इति।

हे नारि, त्वम् इतासुं गत-प्राणम् एतं पतिम् उपशेष उपेत्य शयनं करोषि। उदीर्ष्वास्मात् पति-समीपाद् उत्तिष्ठ। जीव-लोकम् अभि जीवन्तं प्राणि-समूहम् अभिलक्ष्यैहि आगच्छ। त्वं हस्त-ग्राभस्य पाणि-ग्रहवतो दिधिषोः पुनर्-विवाहेच्छोः पत्युर् एतज् जनित्वं जायात्वम् अभिसंबभूव आभिमुख्येन सम्यक् प्राप्नुहि।

सम्मार्जनम्

भास्करोक्त-विनियोगः

13ब्राह्मणस्य मृतस्य हस्तौ सुवर्णेन निर्मार्ष्टि,
धनुषा राजन्यस्य, मणिना वैश्यस्य,
तत्र मन्त्राः - सर्वत्रादानलिङ्गात्
हस्तगतम् अङ्गुलीयकाद्य् आदाय
तेन सम्मार्ष्टि -

विश्वास-प्रस्तुतिः

सुव᳓र्णँ ह᳓स्ताद् आद᳓दाना मृत᳓स्य
श्रियै᳓ ब्र᳓ह्मणे ते᳓जसे ब᳓लाय ।
अ᳓त्रैव᳓ त्व᳓म् इह᳓ वयँ᳓ सुशे᳓वा
वि᳓श्वास् स्पृ᳓धो अभि᳓मातीर् जयेम

मूलम्

सु॒वर्णँ॒ हस्ता॑दा॒ददा॑ना मृ॒तस्य॑ श्रि॒यै ब्रह्म॑णे॒ तेज॑से॒ बला॑य ।
अत्रै॒व त्वमि॒ह व॒यँ सु॒शेवा॒ विश्वा॒स्स्पृधो॑ अ॒भिमा॑तीर्जयेम ।

भट्टभास्कर-टीका

मृतस्य1 हस्तात् सुवर्णमाददाना आदाय
तव हस्तौ सम्मृजन्त इत्यर्थः ।
एवंभूता वयं श्र्यादिभ्यो भवेम ।
ब्रह्म वेदः तेजः ब्रह्मवर्चसम् अन्यत् प्रसिद्धम् ।

सायण-टीका

कल्पः -

“सुवर्णेन हस्तौ संमार्ष्टि - ‘सुवर्णं हस्ताद् आददाना मृतस्य श्रियै ब्रह्मणे तेजसे बलाय। अत्रैव त्वम् इह वयं सु-शेवा विश्वाः स्पृधो ऽभिमातीर् जयेम’

इति ।

हे नारि, त्वं श्रियै संपद्-अर्थं ब्रह्मणे ब्राह्मण-जात्य्-अर्थं तेजसे कान्त्य्-अर्थं बलाय शरीर-बलार्थं मृतस्य पुरुषस्य हस्तात् सुवर्णम् आददाना सत्य् अत्रैव लोके तिष्ठ। वयम् अपीह लोके सु-शेवाः सुखं सेवमानाः सन्तः स्पृधो ऽस्माभिः सह स्पर्धमाना विश्वा अभिमातीः सर्वाञ् शत्रून् जयेम।

विश्वास-प्रस्तुतिः

ध᳓नुर्् ह᳓स्ताद् आद᳓दाना मृत᳓स्य
श्रियै᳓ क्षत्रा᳓यौ᳓जसे ब᳓लाय ।
अ᳓त्रैव᳓ त्व᳓म् इह᳓ वयँ᳓ सुशे᳓वा
वि᳓श्वास् स्पृ᳓धो अभि᳓मातीर् जयेम

मूलम्

धनु॒र््हस्ता॑दा॒ददा॑ना मृ॒तस्य॑ श्रि॒यै क्ष॒त्रायौज॑से॒ बला॑य ।
अत्रै॒व त्वमि॒ह व॒यँ सु॒शेवा॒ विश्वा॒स्स्पृधो॑ अ॒भिमा॑तीर्जयेम ।

भट्टभास्कर-टीका

अत्रैव दहनदेशे त्वं भव वयं पुनरिह गार्हस्थ्ये स्थिताः सुशेवाः शेवमिति सुखनाम सुसुखास्सन्तः विश्वाः स्पृधः स्पर्धमानाः सङ्ग्रामकारिणीर्वा । अभिमातीः शत्रुजातीः जयेम । धनुरिति । पूर्ववद्व्याख्यातव्यम् । क्षत्रं क्षत्रियभावः ओजः अप्रतिहतप्रतिज्ञत्वम् ।

सायण-टीका

कल्पः -

“धनुर् हस्ताद् आददाना मृतस्य श्रियै क्षत्त्रायौजसे बलाय। अत्रैव त्वम् इह वयं सु-शेवा विश्वाः स्पृधो ऽभिमातीर् जयेम’ इति राजन्यस्य। ‘मणिं हस्ताद् आददाना मृतस्य श्रियै विशे पुष्ट्यै बलाय। अत्रैव त्वम् इह वयं सु-शेवा विश्वाः स्पृधो ऽभिमातीर् जयेम’ इति वैश्यस्य”

इति।

विश्वास-प्रस्तुतिः

म᳓णिँ ह᳓स्ताद् आद᳓दाना मृत᳓स्य
श्रियै᳓ विशे᳓ पु᳓ष्ट्यै ब᳓लाय ।
अ᳓त्रैव᳓ त्व᳓म् इह᳓ वयँ᳓ सुशे᳓वा
वि᳓श्वास् स्पृ᳓धो अभि᳓मातीर् जयेम । (3)

मूलम्

मणिँ॒ हस्ता॑दा॒ददा॑ना मृ॒तस्य॒ श्रि॒यै वि॒शे पुष्ट्यै॒ बला॑य ।
अत्रै॒व त्वमि॒ह व॒यँ सु॒शेवा॒ विश्वा॒स्स्पृधो॑ अ॒भिमा॑तीर्जयेम ।
(3)

भट्टभास्कर-टीका

मणिनेति । पूर्ववत् । विशे वैश्यभावाय ॥

सायण-टीका

एतौ मन्त्रौ पूर्वोक्त-ब्राह्मण-मन्त्रवद् व्याख्येयौ।

दाहः

पात्र-चितिः

भास्करोक्त-विनियोगः

14पात्रेषु चीयमानेषु चमसनिधानमन्त्रः - इममिति ॥

विश्वास-प्रस्तुतिः

इम᳓म् अग्ने चमसं᳓ मा᳓ वि᳓जीह्वरः+++(←ह्वृ कौटिल्ये)+++
प्रियो᳓ देवा᳓नाम् उत᳓ सोम्या᳓नाम् ।
एष᳓ य᳓श् चमसो᳓ देव-पा᳓नस्
त᳓स्मिन् देवा᳓ अमृ᳓ता मादयन्ताम्

मूलम्

इ॒मम॑ग्ने चम॒सं मा विजी॑ह्वरः प्रि॒यो दे॒वाना॑मु॒त सो॒म्याना॑म् ।
ए॒ष यश्च॑म॒सो दे॑व॒पान॒स्तस्मि॑न्दे॒वा अ॒मृता॑ मादयन्ताम् ।

भट्टभास्कर-टीका

प्रक्षेप्स्यमानोऽग्निर्हृदिस्थस्संबोध्यते । हे अग्ने ! इमं चमसं मा विजीह्वरः । ह्वृ कौटिल्ये । कौटिल्यं मा कार्षीः आर्जवेन दह यतोऽयं प्रियो देवानाम् उत सोम्यानां सोमार्हाणाम् ऋत्विजामपि प्रियः देवा ऋत्विजः पानादिगुणयोगात्, प्रसिद्धा एव वा देवाः । ते यत्र पिबन्ति स एष देवपानः चमसः तस्मिन् देवाः अमृताः अमरणधर्माणः मादयन्तां स्वात्मानं मादयन्ते । तस्मात् मा विजीह्वर इति ॥

सायण-टीका

कल्पः -

“कथम् उ खल्व् अस्य पात्राणि प्रयुञ्ज्याद् इति दध्ना सर्पिर्-मिश्रेण पूरयित्वा मुखे ऽग्निहोत्र-हवणीं नासिकयोः स्रुवाव् अक्ष्णोर् हिरण्य-शकलाव् आज्य-स्रुवौ वा प्रत्यस्य कर्णयोः प्राशित्र-हरणं भित्त्वा शिरसि कपालानि ललाटे एक-कपालं शिरस्तः प्रणीता-प्रणयनं चमसं निदधाति -

‘इयम् अग्ने चमसं मा विजीह्वरः प्रियो देवानाम् उत सोम्यानाम्। एष यश् चमसो देव-पानस् तस्मिन् देवा अमृता मादयन्ताम्’

इति”।

हे अग्ने, इमं चमसं मा विजीह्वरः कुटिलं मा कुरु, मा नाशयेत्य् अर्थः। एष चमसो देवानां प्रियः, देवाश् चमसेन सोम-रसं पातुं वाञ्छन्ति, उतापि च सोम्यानां सोम-योग्यानाम् ऋत्विग्-यजमानानां प्रियः। यश् चमसो देव-पानो देवानां पान-हेतुस् तस्मिंश् चमसे ऽमृता देवा मादयन्तां यजमानं हर्षयन्ताम्।

चर्माधानम्

भास्करोक्त-विनियोगः

15राजगव्याश् चर्मणा मृतं प्रोर्णोति - अग्नेर्वर्मेति ॥

विश्वास-प्रस्तुतिः

अग्ने᳓र् व᳓र्म प᳓रि गो᳓भिर्+++(→राजगव्या अवयवैः)+++ व्ययस्व
सं᳓ प्रो᳓र्णुष्व मे᳓दसा पी᳓वसा च ।
ने᳓त् त्वा धृष्णु᳓र् ह᳓रसा ज᳓र्हृषाणो+++(←हृष्)+++
द᳓धद् विधक्ष्य᳓न् प᳓र्य् अङ्ख᳓यातै+++(=व्याप्नुयात्)+++ ।

मूलम्

अ॒ग्नेर्वर्म॒ परि॒ गोभि॑र्व्ययस्व॒ सं प्रोर्णु॑ष्व॒ मेद॑सा॒ पीव॑सा च ।
नेत्त्वा॑ धृ॒ष्णुर् हर॑सा॒ जर्हृ॑षाणो॒ दध॑द्विध॒क्ष्यन्पर्य॒ङ्खया॑तै ।

भट्टभास्कर-टीका

वर्म कवचम् अग्नेर्वर्मभूतं गोभिः राजगव्या अवयवैः पादादिशिरोन्तैश्चर्माश्रयैरात्मशरीरं परिव्ययस्व परितश्छादय हे प्रेत ! । वपयाऽस्य मुखं प्रोर्णोति - सम्प्रोर्णुष्वेति । मेदसा वपया मुखं सम्प्रोणुष्व । कीदृशेन? पीवसा यदुपयुञ्जानाः पीवानो भवन्ति तत् पीवः तादृशेन । एवमाच्छादिते किं भवति? न इत् नेत् नैव त्वा धृष्णुः धर्षणशीलः हरसा स्वेन तेजसा जर्हृषाणः दाह्यलाभेन अत्यन्तं हृष्यन् दधत् चिरमात्मानं स्थापयन् विधक्ष्यन् विविधं धक्ष्यन् भूत्वा नैव त्वां पर्यङ्खयातै सर्वतो व्याप्नुयात् ॥

सायण-टीका

कल्पः -

“अथैनं चर्मणा स-शीर्ष-बाल-पादेनोत्तर-लोम्ना प्रोर्णोति -
‘अग्निर् वर्म परि गोभिर् व्ययस्व संप्रोर्णुष्व मेदसा पीवसा च। नेत् त्वा धृष्णुर् हरसा जर्हृषाणो दधद् विधक्ष्यन् पर्यङ्खयातै’

इति”।

हे वर्म कवच-स्थानीय चर्म-विशेष, अग्नेर् गोभी रश्मिभिः परितो व्ययस्व, एनं प्रेतं संवृतं कुरु। पीवसा स्थूलेन मेदसा च त्वदीयावयवेन मेधो ऽभिधेन प्रोर्णुष्व सम्यग् आच्छादय। धृष्णुर् धार्ष्ण्ये(र्ष्ट्ये)नोपेतोऽयम् अग्निस् त्वा दधद् हे चर्म त्वां धारयन् हरसा स्वकीयेन तेजसा जर्हृषाणो हर्तुम् इच्छन् विधक्ष्यन् विशेषेण दग्धुम् इच्छन्न् उद्युक्तो नेत् पर्यङ्खयातै परितो नैव चालयतु तवापसारणं मा करोतु।

उपोषणम्

भास्करोक्त-विनियोगः

16अथैनम् उपोषयति पुरस्ताद् आहवनीयेन - मैनमिति ॥

विश्वास-प्रस्तुतिः

मै᳓नम् अग्ने वि᳓दहो मा᳓ ऽभि᳓शोचो
मा᳓ऽस्य त्व᳓चञ् चिक्षिपो मा᳓ श᳓रीरम् ।
यदा᳓ शृत᳓ङ् कर᳓वो जातवेदो᳓
ऽथेम् एनं प्र᳓हिणुतात् पितृ᳓भ्यः ।

मूलम्

मैन॑मग्ने॒ विद॑हो॒ माऽभिशो॑चो॒ माऽस्य॒ त्वच॑ञ्चिक्षिपो॒ मा शरी॑रम् ।
य॒दा शृ॒तङ्क॒रवो॑ जातवे॒दोऽथे॑मेनं॒ प्रहि॑णुतात्पि॒तृभ्यः॑ ।

भट्टभास्कर-टीका

हे अग्ने! एनं मा विदहः विदग्धं मा कार्षीः यथाऽस्थ्यादिकमपि दह्यते2 तथा मा धक्षीः माऽभिशोचः अभिरल्पार्थे माऽभिमुखज्वालो दीपिष्ठाः अस्य त्वचम् असृग्धरं ज्वालाग्रैः मा विचिक्षिपः । कथं तर्हि करवाणि यदा शृतं सुष्टु दग्धं करवः करिष्यसि अथ अनन्तरं तदानीमेव । ईमिति पादपूरणे । एनं प्रेतं पितृभ्यः प्रहिणुतात् प्रहिणु प्रगमय पितृपार्श्वं प्रापय ॥

सायण-टीका

कल्पः -

“अथैनम् आदीपयत्य् आदीप्यमानम् अनुमन्त्रयते - ‘मा एनम् अग्ने विदहो माभिशोचो मास्य त्वचं चिक्षिपो मा शरीरम्। यदा शृतं करवो जातवेदो ऽथैनं प्रहिणुतात् पितृभ्यः’

इति ।

हे अग्ने, एनं प्रेतं मा विदहो विशेषेण दग्धं मषी-रूपं मा कुरु। माभिशोचो ऽभितः शोकेन संतापेन युक्तं मा कुरु। अस्य त्वचं मा चिक्षिप इतस् ततो विक्षिप्तां मा कुरु। शरीरम् अपि विक्षिप्तं मा कुरु। हे जातवेदो, यदा शरीरं शृतं पक्वं करवो ऽथैनम् अनन्तरम् एवैनं प्रेतं पुरुषं पितृभ्यः प्रहिणुतात् पितृ-समीपे प्रेरय।

दाहः

भास्करोक्त-विनियोगः

17पश्चात् गार्हपत्येन दहति - शृतमिति ॥

विश्वास-प्रस्तुतिः

शृतय्ँ᳓ यदा᳓ कर᳓सि जातवेदो᳓
+अ᳓थेम् एनं प᳓रिदत्तात् पितृ᳓भ्यः ।
यदा᳓ ग᳓च्छात्य् अ᳓सु-नीतिम् एता᳓म्
अ᳓था देवा᳓नाव्ँ वशनी᳓र् भवाति

मूलम्

शृ॒तय्ँय॒दा क॒रसि॑ जातवे॒दोऽथे॑मेनं॒ परि॑दत्तात्पि॒तृभ्यः॑ ।
य॒दा गच्छा॒त्यसु॑नीतिमे॒तामथा॑ दे॒वानाव्ँ॑वश॒नीर्भ॑वाति ।

भट्टभास्कर-टीका

हे जातवेदः ! यदा त्वेनं शृतं करसि करिष्यसि अथ ईम् अनन्तरम् एनं पितृभ्यः परिदत्तात् रक्षार्थं देहि । किं कारणमेवं प्रार्थ्यते ? उच्यते - यदा एताम् एवंविधाम् असुनीतिं प्राणगतिं गच्छाति गच्छेत् अथ तदा देवानां वशनीः वशवर्ती भवाति भवेत् देवानां यत् वशं तत् प्राप्नोति ॥

सायण-टीका

कल्पः -

“प्रज्वलितम् अनुमन्त्रयते - ‘शृतं यदाकरसि जातवेदो ऽथैनं परिदत्तात् पितृभ्यः। यदा गच्छात्यसुनीतिमेतामथा देवानां वशनीर् भवति’

इति”।

हे जातवेदो, यदा तच् छरीरं शृतं पक्वम् अकः कृतवान् असि तदानीम् एवैनं पितृभ्यः परिदत्तात् प्रयच्छ। यदा अयं प्रेत एताम् अग्निना त्वया कृताम् असु-नीतिं प्राणस्य नयनं प्राण-प्रेरणं गच्छाति प्राप्नोति, अथानन्तरं देवानां वशनीर् भवाति वशं प्राप्तो भवति।

उपस्थानादि

भास्करोक्त-विनियोगः

18दह्यमानमुपतिष्ठते - सूर्यं त इति ॥

विश्वास-प्रस्तुतिः

सू᳓र्यन् ते च᳓क्षुर् गच्छतु, वा᳓तम् आत्मा᳓
द्या᳓ञ् च ग᳓च्छ पृथिवी᳓ञ् च ध᳓र्मणा ।
अपो᳓ वा गच्छ य᳓दि त᳓त्र ते हित᳓म्
ओ᳓षधीषु प्र᳓तितिष्ठा श᳓रीरैः ।+++(5)+++

मूलम्

सूर्य॑न्ते॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्याञ्च॒ गच्छ॑ पृथि॒वीञ्च॒ धर्म॑णा ।
अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः ।

भट्टभास्कर-टीका

हे प्रेत! ते तव स्वभूतं चक्षुः इन्द्रियं तैजसं सूर्यं तेजोरूपं गच्छतु । वातं बाह्यवायुं तव आत्मा प्राणवायुः गच्छतु । उपलक्षणमेतत् - अन्यान्यपि प्राणादीनि पृथिव्यादीनि स्वकारणानि गच्छन्तु । त्वं तु धर्मेण स्वकर्मवशेन द्यां च । चशब्दो वाऽर्थे; द्युलोकं वा गच्छ दिव्यरूपस्सन् । पृथिवीं वा गच्छ मनुष्यादिरूपेण । अपो वा गच्छ मत्स्यादिरूपेण । यदि तत्र हितं जन्म कर्मणा ओषधीषु वा प्रतितिष्ठ स्थावरतां गच्छ शरीरैः शरीरेण तदवयवैश्च ।

‘शरीरजैः कर्मदोषैर्
याति स्थावरतां नरः।’

इति मनुः ॥

सायण-टीका

कल्पः -

“अत्र षड्-ढोतारं व्याचष्टे - ‘सूर्यं ते चक्षुर् गच्छतु वातम् आत्मा द्यां च गच्छ पृथिवीं च धर्मणा। अपो वा गच्छ यदि तत्र ते हितम् ओषधीषु प्रतितिष्ठाः शरीरैः’

इति।

‘सूर्यं ते’ इत्यादि-मन्त्रस्य षड्-ढोतेति नामधेयम्। हे प्रेत, ते त्वदीयं चक्षुर्-इन्द्रियं सूर्यं गच्छतु। आत्मा प्राणो बाह्य-वायुं गच्छतु। त्वम् अपि धर्मणा सु-कृतेन तत्-फलं भोक्तुं द्यु-लोकं भू-लोकं च गच्छ, अपो वा गच्छ। चक्षुरादीन्द्रिय-सामर्थ्यं पुनर्-देह-ग्रहण-पर्यन्तं तत्तद्-अधिष्ठातृ-देवता-गतं त्वया द्यु-लोकादिषु शरीरे स्वीकृते पश्चात् त्वाम् एव प्राप्स्यति। यत्र यस्मिन् लोके ते तव हितं सुखम् अस्ति तत्र गत्वौषधीषु प्रविश्य तद्-द्वारा पितृ-देह-मातृ-देहौ प्रविश्य तत्र तत्रोचितानि शरीराणि स्वीकृत्य तैः शरीरैः प्रतिष्ठितो भव।

भास्करोक्त-विनियोगः

19जघनेन चितिम् अजम् अबलेन शुल्बेन सम्बध्नाति, तं द्रवन्तमनुमन्त्रयते - अज इति ॥

विश्वास-प्रस्तुतिः

अजो᳓ भाग᳓स् त᳓पसा त᳓न् तपस्व
त᳓न् ते शोचि᳓स् तपतु त᳓न् ते अर्चिः᳓ ।
या᳓स् ते शिवा᳓स् तनु᳓वो जातवेदस्
ता᳓भिर् वहेमँ᳓ सुकृ᳓ताय्ँ य᳓त्र लोकाः᳓ ।

मूलम्

अ॒जो भा॒गस्तप॑सा॒ तन्त॑पस्व॒ तन्ते॑ शो॒चिस्त॑पतु॒ तन्ते॑ अ॒र्चिः ।
यास्ते॑ शि॒वास्त॒नुवो॑ जातवेद॒स्ताभि॑र्वहे॒मँ सु॒कृताय्ँ॒यत्र॑ लो॒काः ।

भट्टभास्कर-टीका

एषो ऽजस् तव भागस् तं भागं त्वदीयेन तपसा तापहेतुना औष्ण्येन तपस्व । तपन्तमेव [तमेव] ते शोचिर् दीप्तिस् तपतु, ते अर्चिर् ज्वालाऽपि तमेव तपतु । हे जातवेदः! यास्ते शिवास्तनुवस् ताभिस् तनूभिर् इमं प्रेतम् अजं वा वह त्वं सुकृतां यत्र लोकास् तत्र ॥

सायण-टीका

कल्पः -

“तत्रैतम् अजं चित्यन्तेऽबलेन शुल्बेन बध्नाति - ‘अजो ऽभागस् तपसा तं तपस्व तं ते शोचिस् तपतु तं ते अर्चिः। यास् ते शिवास् तनुवो जातवेदस् ताभिर् वहेमँ सु-कृतां यत्र लोकाः’

इति ।

तत्र चितेः पश्चिम-भागे समीपे केनचिद् अबलेन शुल्बेनाजं बध्नीयात् (बध्नाति), ज्वालया संतप्तः स यथा न द्रवति तथा बध्नीयात्, तदानीम् ‘अजो ऽभाग’ इत्य् एतं मन्त्रं पठेत्। हे अग्ने, अयम् अजो भाग-रहितः। तम् अजं तपसा त्वदीयेन तापेन तपस्व तप्तं कुरु। तथा ते शोचिः शोक-हेतुर् ज्वाला-विशेषस् तं तपतु। तथा अर्चिर् भासको ज्वाला-विशेषस् तम् अजं तपतु। तपः-शोचिर्-अर्चिः-शब्दानां संताप-तारतम्येन भेदः। हे जातवेदः, ते तव यास् तनुवः शिवाः सुख-हेतवो न तु ताप-प्रदास् ताभिर् इमं प्रेतं वह यत्र यस्मिन् लोके सु-कृतां पुण्य-कृतां लोकाः सन्ति तत्र प्रापय।

विश्वास-प्रस्तुतिः

अय᳓व्ँ वै᳓ त्व᳓म्, अस्मा᳓द् अ᳓धि त्व᳓म्
एत᳓द् अय᳓व्ँ वै᳓, त᳓द् अस्य यो᳓निर् असि
वैश्वानरः᳓ पुत्रः᳓ पित्रे᳓ लोक-कृ᳓ज् जातवेदो
व᳓हेमँ᳓+++(←स्वरो योजितः)+++ सुकृ᳓ताय्ँ य᳓त्र लोकाः᳓ । (4)

मूलम्

अ॒यव्ँवै त्वम॒स्मादधि॒ त्वमे॒तद॒यव्ँवै तद॑स्य॒ योनि॑रसि ।
वै॒श्वा॒न॒रः पु॒त्रः पि॒त्रे लो॑क॒कृज्जा॑तवेदो॒ वहे॑मँ सु॒कृताय्ँ॒यत्र॑ लो॒काः । (4)

भट्टभास्कर-टीका

20अयं वा इति ॥ हे जातवेदः! अयम् अङ्गुळ्या निर्दिशन्नाह - अयं वै अजः प्रेतो वा त्वमसि । कुतो ऽस्मादध्य् अस्माज्जातस्त्वमसि हविष्ट्वात् । एतद् एतेन प्रकारेण त्वं च अयमसि । यतो ऽस्य योनिः कारणं त्वमसि । अग्नेस्सर्वकारणत्वात् तस्माद् द्वयोरपि पितृत्वं पुत्रत्वं च प्रतिपादितम् । पुत्रश्च पित्रे लोककृद्भवति पुण्यलोकप्राप्तिहेतुर्भवति । तस्माद् वैश्वानरोऽपि विश्वेषां नराणां स्वामी त्वम् इमं वह प्रापय यत्र स्कृतां लोकास् तत्र ॥

इत्यारण्यके चतुर्थप्रश्ने प्रथमोऽनुवाकः ॥

सायण-टीका

कल्पः -

“अथान्यां जुहोति - ‘अयं वै त्वम् अस्माद् अधि त्वम् एतद् अयं वै तद् अस्य योनिर् असि। वैश्वानरः पुत्रः पित्रे लोक-कृज् जातवेदो वहेमँ सु-कृतां यत्र लोकाः’

इति ।

उपरितनानुवाकोक्तैर् नवभिर् मन्त्रैर् नव हुत्वानंतरम् अन्याम् एताम् ऋचं जुहुयात्। हे जातवेदो, अयम् एव प्रेतः पुरुषस् त्वं, न तस्य तव च भेदो ऽस्ति। अस्माद् अध्य् अस्य प्रेतस्य शरीरस्योपरि त्वम् अग्निर् एतत् प्रत्यक्षं यथा भवति तथा वर्तसे। तस् तस्माद् अत्यन्त-भेदाभावात् कारणाद् अस्य प्रेतस्यायम् एव वैश्वानरस् त्वं योनिर् असि स्थान-प्रदो ऽसि। सर्वत्र हि पुत्रः पित्रे लोक-कृद् भवति। पुं-नाम्नो नरकात् त्रायत इति व्युत्पत्तेः। अयं च पुरा यजमानत्व-दशायां नाना-विधैः कर्मभिर् अग्नेः पालनात् तव पिता। ततो हे जातवेदो, यत्र सु-कृतां पुण्य-कृतां लोकाः स्थानानि सन्ति तत्रेमं प्रेतं पुरुषं वह प्रापय॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये षष्ठप्रपाठके प्रथमोऽनुवाकः ॥१॥