+०४ पितृ-मेधादि

Source: भास्करः

विश्वास-प्रस्तुतिः ...{Loading}...

सन् त्वा॑ सिञ्चामि॒ यजु॑षा
प्र॒जाम् आयु॒र् धन॑ञ् च ।+++(4)+++
बृह॒स्-पति॑-प्रसूतो॒
यज॑मान इ॒ह मा रि॑षत् ॥

सर्वाष् टीकाः ...{Loading}...

Keith

By the Yajus I pour on thee
Offspring, life, and wealth.
Instigated by Brhaspati may the sacrificer here come to no harm.

मूलम्

सन्त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जामायु॒र्धन॑ञ्च ।
बृह॒स्पति॑प्रसूतो॒ यज॑मान इ॒ह मा रि॑षत् ॥

पद-पाठः

समिति॑ । त्वा॒ । सि॒ञ्चा॒मि॒ । यजु॑षा । प्र॒जामिति॑ प्र-जाम् । आयुः॑ । धन॑म् । च॒ ॥ बृह॒स्पति॑प्रसूत॒ इति॒ बृह॒स्पति॑-प्र॒सू॒तः॒ । यज॑मानः । इ॒ह । मा॒ । रि॒ष॒त् ॥

भट्टभास्कर-टीका

संसिञ्चामि सह सिञ्चामि हे स्कन्न त्वां प्रजामायुर्धनञ्च प्रजादिभिस्सह त्वामेकत्र सिश्चामि यजुषाऽनेन मन्त्रेण । यजनसाधनं यजुः । अपेतस्कन्नत्वदोषं प्रजादिसावनं त्वामनेन सेचनेन करोमीत्यर्थः । बृहस्पतिप्रसूतः स्वयमेव बृहस्पतिना प्रसूतोऽनुज्ञातोऽहं करोमि, न पुनर्यथारुचि । तस्माद्यजमान इहास्मिन् स्कन्नापराधे मा रिषत् मा बाधि । रिष्यतेश्छान्दसोऽङ् पुषादिर्वा कर्तव्यः । बृहतां पतिः बृहस्पतिः । ‘तद्बृहतोः करपत्योः’ इति सुक् । तेन प्रसूत इति । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । तत्र च ‘उभे वनस्पत्यादिषु युगपत्’ इति पूर्वोत्तरयोर्युगपत्प्रकृतिस्वरत्वम् । बृहच्छब्दः प्रायेण समासे आद्युदातः, अन्यत्रान्तोदात्तः ॥

सायण-टीका

तत्र प्रथमानुवाक आज्यग्रहणानुमन्त्रणमन्त्राः प्राधान्येनाभिधीयन्ते।
कल्पः — “सं त्वा सिञ्चामीति तत्सँ सिञ्चेदभि वा मन्त्रयेत” इति। तदिति स्कन्नमाज्यमुच्यते। यस्याऽऽज्यमनुत्पूतँ स्कन्देदित्यादिना स्कन्दनस्य प्रकृतत्वात्। यदि शुद्धप्रदेशे स्कन्देत्तदानीमनेन मन्त्रेण पुनः पात्रे प्रक्षिपेत्। अशुचिप्रदेशे स्कन्दने त्वभिमन्त्रणम्।

पाठस्तु -
सं त्वा सिञ्चामीति। हे स्कन्नाज्य बृहस्पतिप्रेरितोऽहं प्रजादीन्संपादयेयम। त्वामनेन यजुषा मन्त्रेण पात्रे सम्यक्सिञ्चामि। इह कर्मणि यजमानः स्कन्दनापराधेन मा रिषन्मा हिंस्यताम्। अयं मन्त्र आध्वर्यवः। अतो यजमानस्यान्यत्वेनोक्तिरविरुद्धा।