पुरुस्ह-सुक्तम् पुरुष-सूक्तम्

सर्वा अवतारिकाः
त्रिभुवनः - Note

The Puruṣa Sūkta. (From 1 to 18).

भास्करोक्त-विनियोगः

अथ पुरुषानुवाकः - सहस्रशीर्षेयादि ॥
आनुष्टुभस्सर्वोऽनुवाकः, विशेषो वक्ष्यते ।
अग्नौ पुरुषाकृतौ चीयमानायां
पुरुषशिर उपहितस्य शिरः कृत्वा
पुरुषाकृतिम् उपहितां
पुरुषेण नारायणेन यजमान उपतिष्ठते ।

पुरुषमेधे च

‘पशून् उपाकृतान् दक्षिणतोऽवस्थाप्य
ब्रह्मा सहस्रशीर्षा पुरुष इति पुरुषेण नारायणेन पराचा अनुशंसति ।
अथ नारायणाभ्याम् उपस्थानं’

इत्यादिषु विनियोगः ।

अयम् उत्तरश् चानुवाकौ नारायणाख्यौ,
नारायणाख्येन ऋषिणा दृष्टौ ।

आभ्यां च पुरुषाख्यो नारायणः प्रतिपाद्यते ।
उक्तं च - आत्मनि पुरुषावस्थे प्रपञ्चप्रविष्टः पुरुषः, उत्तीर्णः परमात्मेति ।
पुरुषसूक्तमिति चैनं बह्वृचा आहुः ।

अथ ‘सहस्रशीर्षं देवम्’ इत्यपरो नारायणानुवाको भविष्यति,
यत्र परमात्मा प्रणवाख्यो नारायणः प्रतिपाद्यते ।
तस्य अग्न्य्-आदि-श्रौत-पुरुषवत् कर्म-सम्बन्धाभावाद् इहानाम्नानम् ।

सर्वाष् टीकाः …{Loading}…

सायण-भाष्यम्

‘सहस्रशीर्षा’ इति षोडशर्चं षष्ठं सूक्तम् ।
नारायण नामर्षिर्
अन्त्या त्रिष्टुप् शिष्टा अनुष्टुभः ।

अव्यक्त-महद्-आदि-विलक्षणश् चेतनो यः पुरुषः
‘पुरुषाश् च परं किंचित् ’ ( क. उ. ३. ११) इत्य्-आदि-श्रुतिषु प्रसिद्धः स देवता ।

तथा चानुक्रान्तं— सहस्रशीर्षा षोळश नारायणः पौरुषमानुष्टुभं त्रिष्टुबन्तं तु’ इति । गतो विनियोगः ।।

Jamison Brereton

90 (916)
Purusạ
Nārāyaṇa
16 verses: anuṣṭubh, except triṣṭubh 16

This is one of the best-known and most influential hymns of the R̥gveda. Its central symbol is the púruṣa, the “man,” “person,” or “human being.”

On the surface, this hymn tells of the sacrifice of a giant man, from whose parts the world was created. The theme of creation through a cosmic sacrifice is widespread, but this hymn is not simply the retelling of an ancient tradition. The púruṣa here serves as a symbol of the sacrifice itself, which especially in the middle Vedic tradition is a locus of creative power. The púruṣa is thus similar to the later divine figure Prajāpati, who in the Brāhmaṇas personifies the sacrifice.

Indeed this late hymn represents a verse commentary on the sacrifice that prefigures the prose commentaries of the Brāhmaṇas.+++(5)+++

This hymn is also notable because it is the only R̥gvedic mention of the four varṇas, the hierarchical division of the social order that forms the theoretical basis for the caste system. One reason that the hymn may have been included in the R̥gveda to provide a R̥gvedic charter for such a division of society.

The identity of the Man and the sacrifice is established in the opening verse, for his thousand heads, eyes, and feet recall Agni, the sacrificial fire, and his macro cosmic equivalent, the Sun (cf. Brown 1931: 109–10). The Man comprehends the earth and extends beyond it. As Mus (1968: 549) has pointed out, the “ten-fingers’ breadth” by which he exceeds the world measures from the Man’s hairline to his mouth.+++(4)+++ The Man’s mouth represents speech, which marks the boundary between the imperceptible world of thought and the perceptible world created by speech.+++(5)+++

His mouth is also associated with eating, and in verse 2 the Man rises beyond the world “through food,” that is, by making the world his food. In later texts the “eater” is the master and the “eaten” is one who benefits the master (cf. Rau 1957: 34–35). The image may therefore reflect the Man’s dominance over the world.+++(4)+++ See also X.125, in which the mouth is similarly both the locus of speech and the locus of eating.

This theme of dominance or rule continues also in verse 5 in the mutual generation of the Man and the Virāj. The word virā́j can mean either “brilliant” or “ruling, rule.” The latter is the more likely sense here, and therefore this word connects the hymn to Vedic ideals of the king, who in his consecration encompasses the world in a similar way that the Man does here (Proferes 2007: esp. ch. 3). Since the term virā́j is grammatically feminine, it complements púruṣa, which is masculine in grammar and connotation.+++(4)+++

The Man is the “offering” (vs. 6), the sacrificial victim (vs. 15), but more especially he is the sacrifice itself that the gods, the Sādhyas, and seers performed (vs. 7). Through this sacrifice the elements of subsequent sacrifices emerged: the “clotted-mixture” (vs. 8), the verses, chants, meters, and sacrificial formulae (vs. 9), and the sacrificial animals (vs. 10). The parts of the sacrifice also became the three upper varṇas (vss. 11–12): his mouth the brahmins, masters of knowledge and speech; his arms the rulers, the possessors of power; and his thighs the freemen or clansmen, who are the productive support of society. These three classes form parts of the sacrifice because they can participate in the sacrifice. The śūdras or “servants” are not part of the sacrifice but rather emerge from the feet of the Man, a symbol of their low social status and their exclusion from the sacrifice. Finally, the elements of the cosmos and gods themselves come forth from the sacrifice (vss. 13–14). This primeval sacrifice thus establishes the “first foundations” for the performance of the sacrifice or even for the ritual, social, divine, and visible worlds more generally (vs. 16ab), and it creates access to heaven (16cd).

The identity of the Sādhyas (in vss. 7 and 16) is not clear. Their name means “those to be brought to success,” and they appear to be ancient sacrificers whose proper ritual performance has “perfected” them and who have attained god-like status or the status of gods.+++(4)+++

रङ्गनाथः

१ ९० नारायणः । पुरुषः ।अनुष्टुप्, १६ त्रिष्टुप्

विश्वास-टिप्पनी

अधः स्वीया दृष्टिर् लिख्यते, या सायणोक्त्या भिद्यते।

  • पुरुषस्य विभागौ उच्येते ऽत्र पुनःपुनः।
  • परिपूर्णपुरुषः = बहु-देव-पूर्णः सशरीरः। त एव देवाः साध्या ऋषयः, पूर्वे साध्या देवाः।
  • तच्-छरीरम् = एकपाद् (विश्वानि भूतानि, ब्रह्मण्डम्) + त्रिपात् पुरुषो दिवि +++(=परमे व्योम्नि→ Platonic ideal realm/ वैकुण्ठे)+++ वर्तमानः।
  • एकपादो → विराट् (ब्रह्मण्डम् / छन्दः) + ऋतात्मकः पुरुषः।
  • ततः कालम् उपयुज्य, पुरुष-पशोर् विविध-धर्मान् छान्दसान् प्राकृतिकांश् च देवा (साध्या ऋषय इति प्रोक्ता) यज्ञेन +अजनयन्।
  • इयं सृष्टिः पुरुषमेधे ऽनुक्रियत इव।
  • इमा हि मूल-भूताः १६ ऋचः
    पुरुषस्य १६ अङ्गानीव सूचयन्ति,
    यानि शतपथब्राह्मणे प्रयाजानुयाजादि-१६-यज्ञाङ्गैः सङ्गमितानि।
01 सहस्रशीर्षा पुरुषः - अनुष्टुप्
सर्वा अवतारिकाः
सायणोक्त-विनियोगः

एतैरेकादशभिरनुवाकैश्चातुर्होत्रीयचयनमन्त्रा उक्ताः ।

नारायणनाम्ना पुरुषसूक्तनाम्ना च व्यवह्रियमाणोऽनुवाक उच्यते । तस्य विनियोगं महाग्नावापस्तम्ब आह - “पुरस्तात्प्रतीचीं पुरुषाकृतिं चिनोति पुरुषशिरोऽस्याः शिरो भवति, सहस्रशीर्षा पुरुष इत्युपहितां पुरुषेण नारायणेन यजमान उपतिष्ठते” इति । ब्रह्ममेधेऽपि प्रेतदाहोपस्थाने विनियोगं भरद्वाज आह - “नारायणाभ्यामुपस्थानम्” इति । अयं चोत्तरश्चेत्युभावनुवाकौ नारायणसंज्ञौ नारायणाख्येन केनचिदृषिणा दृष्टत्वात्, जगत्कारणस्य नारायणाख्यस्य पुरुषस्य प्रतिपादकत्वाच्च ।

तत्रास्मिन्द्वादशेऽनुवाके प्रथमामृचमाह -

विश्वास-प्रस्तुतिः …{Loading}…

+++(बहु-देवता-सङ्ग्रहात्)+++ सह᳓स्र+++(~अनन्त)+++शीर्षा पु᳓रुषः।
सहस्राक्षः᳓ सह᳓स्रपात् ।
स᳓ +++(वक्ष्यमाणां विराजं)+++ भू᳓मिं विश्व᳓तो वृत्वा᳓ ।
अ᳓त्यतिष्ठद् दशाङ्गुल᳓म् । १
+++(मुख-मूर्ध्नोर् अन्तरं दशाङ्गुलम्, वाचिक+अव्यक्त-कल्पनयोश् चेति केचित्।)+++

02 पुरुष एवेदम् - अनुष्टुप्
सर्वा अवतारिकाः
भट्टभास्करः - अवतारिका

इदानीं पुरुषस्य वैश्वरूप्यमाह - पुरुष एवेति ॥

सायणोक्त-विनियोगः

अथ द्वितीयामाह -

विश्वास-प्रस्तुतिः …{Loading}…

+++(स्व-शरीरैकदेशेन)+++ पु᳓रुष एवे᳓दँ᳓ स᳓र्वम् ।
य᳓द् भूतं᳓ य᳓च् च भ᳓व्यम्।
उत᳓+++(→तथा देवात्मभिः)+++ +अमृतत्व᳓स्ये᳓शानः +++(परमे व्योम्नि)+++ ।
य᳓द्+++(→यस्माद्)+++ +++(ब्रह्माण्डरूपेण)+++ अ᳓न्नेन+++(=अशितेन)+++ +अतिरो᳓हति । ३

03 एतावानस्य महिमातो - अनुष्टुप्
सर्वा अवतारिकाः
सायणोक्त-विनियोगः

अथ तृतीयामाह -

विश्वास-प्रस्तुतिः …{Loading}…

एता᳓वान् +++(ब्रह्माण्डम् इति)+++ अस्य महिमा᳓ ।
अ᳓तो+++(→ततोऽपि)+++ ज्या᳓याँश् च पू᳓रुषः ।
+++(कथम् इति चेत्-)+++
पा᳓दोऽस्य वि᳓श्वा भूता᳓नि ।
+++(अवशिष्टस्)+++ त्रिपा᳓द् +++(अंशः पर-देवतापूर्णः)+++ अस्यामृ᳓तं +++(=अविनाशी)+++ दिवि᳓+++(=परमे व्योम्नि)+++ ।

04 त्रिपादूर्ध्व उदैत्पुरुषः - अनुष्टुप्
सर्वा अवतारिकाः
सायणोक्त-विनियोगः

अथ चतुर्थीमाह -

विश्वास-प्रस्तुतिः …{Loading}…

+++(सो ऽयं)+++ त्रिपा᳓द्+++(→त्रिविक्रम-सूचना)+++ ऊर्ध्व᳓ उ᳓दैत् पु᳓रुषः +++(शिष्टस्यापेक्षया)+++।
+++(पूर्वोक्त-)+++पा᳓दो ऽस्येहा᳓ऽऽभवात् पु᳓नः +++(पुनःपुनः)+++ ।
त᳓तो +++(पादः)+++ वि᳓ष्वङ्+++(=सर्वतो)+++ व्य᳙क्रामत् +++(वक्ष्यमाण-जननाय)+++।
साशनानशने᳓+++(=जीवाजीवे [वस्तू])+++ अभि᳓+++(लक्ष्य)+++ । ४

05 तस्माद्विराळजायत विराजो - अनुष्टुप्
सर्वा अवतारिकाः
सायणोक्त-विनियोगः

अथ पञ्चमीमाह -

विष्वङ्व्यक्रामदिति यदुक्तं तदेव प्रपञ्च्यते -

विश्वास-प्रस्तुतिः …{Loading}…

+++(पादांशात्)+++ त᳓स्माद् विरा᳓ड्+++(→पुरुष-मेध-ब्राह्मणे छन्दोऽपि)+++ +++(ब्रह्माण्ड-शरीरम्)+++ अजायत ।
+++(तस्माद्)+++ विरा᳓जो अ᳓धि पू᳓रुषः +++(ऋतात्मना /पुरुषमेध-कर्मरूपेण अजायत)+++ ।
स᳓ जातो᳓ अ᳓त्यरिच्यत -
+++(क्वेति चेत् -)+++ पश्चा᳓द् +++(विराजम्)+++ भू᳓मिम् अ᳓थो +++(जीवानाम्)+++ पुरः᳓+++(=पूर्वम्)+++। ५

06 यत्पुरुषेण हविषा - अनुष्टुप्
सर्वा अवतारिकाः
सायणोक्त-विनियोगः

अथ षष्ठीमाह -

विश्वास-प्रस्तुतिः …{Loading}…

य᳓त् +++(वक्ष्यमाणेन कालभागेन)+++ पु᳓रुषेण हवि᳓षा ।
+++(त्रिपादङ्गभूता)+++ देवा᳓ यज्ञ᳓म् अ᳓तन्वत ।
+++(पुरुष-हविषो विभागाः -)+++ वसन्तो᳓ अस्यासीद् आ᳓ज्यम् ।
ग्रीष्म᳓ इध्मः᳓ शर᳓द् +++(अन्नादिरूपम्)+++ +हविः᳓ । ६

07 सप्तास्यासन् परिधयः
सर्वा अवतारिकाः
सायणोक्त-विनियोगः

अथ सप्तमीमाह -

विश्वास-प्रस्तुतिः …{Loading}…

सप्ता᳓ऽस्याऽऽसन् परिध᳓यः ।
त्रिः᳓ सप्त᳓ +++(२१!)+++ समि᳓धः कृताः᳓ +++(इध्म-सन्नाहः!)+++।
+++(त्रिपादङ्गभूता)+++ देवा᳓ य᳓द् यज्ञं᳓ तन्वानाः᳓ ।
अ᳓बध्नन् +++(एकपात्)+++ पु᳓रुषं पशु᳓म् । ७

08 तं यज्ञम् - अनुष्टुप्
सर्वा अवतारिकाः
सायणोक्त-विनियोगः

अथाष्टमीमाह -

विश्वास-प्रस्तुतिः …{Loading}…

तं᳓ यज्ञं᳓+++(~तत्साधनभूतं पशुं)+++ बर्हि᳓षि प्रौ᳓क्षन् ।
पु᳓रुषं जात᳓म् अग्रतः᳓ ।
ते᳓न +++(वक्ष्यमाणा)+++ देवा᳓ अयजन्त -
+++(अविशिष्टा नानापात्रेषु पश्चात्)+++ साध्या᳓ ऋ᳓षयश् च ये᳓ । ८

09 तस्माद्यज्ञात्सर्वहुतः सम्भृतम् - अनुष्टुप्
सर्वा अवतारिकाः
सायणोक्त-विनियोगः

अथ नवमीमाह -

विश्वास-प्रस्तुतिः …{Loading}…

त᳓स्माद् यज्ञा᳓त् सर्वहु᳓तः ।
+++(पशुनिर्माणाय तज्-जातकर्मणे वापि)+++ सं᳓भृतं +++(हविश्शेषं घनीभवद् दधिमिश्रं वा)+++ पृषद्+++(=बिन्द्व्)+++-आज्य᳓म् ।
पशूँ᳓स् ताँ᳓श् +++(सूच्यमानान्)+++ चक्रे - वायव्या᳓न् ।
आरण्या᳓न् ग्राम्याँ᳓श् च ये᳓ । ९

10 तस्माद्यज्ञात्सर्वहुत ऋचः - अनुष्टुप्
सर्वा अवतारिकाः
सायणोक्त-विनियोगः

अथ दशमीमाह -

विश्वास-प्रस्तुतिः …{Loading}…

त᳓स्माद् यज्ञा᳓त् सर्वहु᳓त
ऋ᳓चः सा᳓मानि जज्ञिरे
छ᳓न्दांसि जज्ञिरे त᳓स्माद्
य᳓जुस् त᳓स्माद् अजायत

11 तस्मादश्वा अजायन्त - अनुष्टुप्
सर्वा अवतारिकाः
सायणोक्त-विनियोगः

अथैकादशीमाह -

विश्वास-प्रस्तुतिः …{Loading}…

त᳓स्माद् अ᳓श्वा अजायन्त ।
ये᳓ के᳓ चोभया᳓दतः+++(=दन्तावलिद्वयाः)+++ ।
गा᳓वो ह जज्ञिरे त᳓स्मात् ।
त᳓स्माज् जाता᳓ अजाव᳓यः । ११

12 यत्पुरुषं व्यदधुः - अनुष्टुप्
सर्वा अवतारिकाः
सायणोक्त-विनियोगः

अथ द्वादशीमाह -

प्रश्नोत्तररूपेण ब्राह्मणादिसृष्टिं वक्तुमत्र ब्रह्मवादिनां प्रश्ना उच्यन्ते -

विश्वास-प्रस्तुतिः …{Loading}…

+++(देवाः)+++ य᳓त् +++(एकपात्)+++पु᳓रुषं +++(पशुं)+++ व्य᳙दधुः +++(बलौ)+++।
कतिधा᳓ व्य᳙कल्पयन् ?
मु᳓खं कि᳓म् अस्य कौ᳓ बाहू᳓ ?
का᳓व्+++(←वकारो न शाकले)+++ ऊरू᳓ पा᳓दाव् उच्येते ? १२

13 ब्राह्मणोऽस्य मुखमासीद्बाहू - अनुष्टुप्
सर्वा अवतारिकाः
सायणोक्त-विनियोगः

अथ त्रयोदशीमाह -

विश्वास-प्रस्तुतिः …{Loading}…

ब्राह्मणो᳙ ऽस्य मु᳓खम् आसीद्
बाहू᳓ राजनि᳓यः कृतः᳓
ऊरू᳓ त᳓द् अस्य य᳓द् वइ᳓श्यः
पद्भ्यां᳓ शूद्रो᳓ अजायत

14 चन्द्रमा मनसो - अनुष्टुप्
सर्वा अवतारिकाः
सायणोक्त-विनियोगः

अथ चतुर्दशीमाह -

विश्वास-प्रस्तुतिः …{Loading}…

चन्द्र᳓मा म᳓नसो जातः᳓ ।
च᳓क्षोः+++(=चक्षुषः)+++ सू᳓र्यो अजायत ।
मु᳓खाद् इ᳓न्द्रश् चाग्नि᳓श् च ।
प्राणा᳓द् वायु᳓र् अजायत । १४

15 नाभ्याम् - अनुष्टुप्
सर्वा अवतारिकाः
सायणोक्त-विनियोगः

अथ पञ्चदशीमाह -

विश्वास-प्रस्तुतिः …{Loading}…

ना᳓भ्या आसीद् अन्त᳓रिक्षम् ।
शीर्ष्णो᳓+++(=मूर्ध्ना)+++ द्यौः᳓ स᳓मवर्तत ।
पद्भ्यां᳓ भू᳓मिर् दि᳓शः श्रो᳓त्रात् ।
त᳓था लोकाँ᳓ अकल्पयन् । १५

पुरुषस्तुतिः, यज्ञस्तुतिः
सर्वा अवतारिकाः
भट्टभास्करः - अवतारिका

वेदेत्यादयः तिस्रस्त्रिष्टुभः ॥

सायणोक्त-विनियोगः

अथ षोडशीमाह -

विश्वास-प्रस्तुतिः …{Loading}…

वे᳓दाह᳓म् एतं᳓ पु᳓रुषं महा᳓न्तम् ।
आदित्य᳓वर्णं त᳓मसस् तु᳓ पारे᳓ ।
स᳓र्वाणि रूपा᳓णि विचि᳓त्य धी᳓रः ।
ना᳓मानि कृत्वा᳓ ऽभिव᳓दन् य᳓द् आ᳓स्ते । १६

सर्वा अवतारिकाः
सायणोक्त-विनियोगः

अथ सप्तदशीमाह -

विश्वास-प्रस्तुतिः …{Loading}…

धाता᳓ पुर᳓स्ताद् य᳓म् +++(पुरुषम्)+++ उदाजहा᳓र,,
शक्रः᳓ प्र᳓ विद्वा᳓न्, प्रदि᳓शश् च᳓तस्रः ।
त᳓म् एवं᳓ विद्वा᳓न् अ-मृ᳓त इह᳓ भवति ।
ना᳓न्यः᳓ प᳓न्था अ᳓यनाय विद्यते । १७

16 यज्ञेन यज्ञमयजन्त - त्रिष्टुप्
सर्वा अवतारिकाः
सायणोक्त-विनियोगः

अथाष्टादशीमाह -

अत्र कृत्स्नानुवाकतात्पर्यं संक्षिप्योपन्यस्यति -

विश्वास-प्रस्तुतिः …{Loading}…

+++(सर्वहुद्-)+++यज्ञे᳓न यज्ञ᳓म् अयजन्त देवाः᳓ ।
ता᳓नि ध᳓र्माणि प्रथमा᳓न्य् आसन् ।
+++(य एवं विदुः)+++ ते᳓ ह ना᳓कं +++(यज्ञैः)+++ महिमा᳓नः+++(=पूजयन्तः)+++ सचन्त+++(=प्राप्नुवन्ति, तैत्तिरीये - “सचन्ते” )+++,,
य᳓त्र पू᳓र्वे +++(नानापात्रेषु पश्चात्)+++ साध्याः᳓ स᳓न्ति देवाः᳓ । १८

[[71]]

- सायणो [ऽत्र](https://archive.org/stream/Anandashram_Samskrita_Granthavali_Anandashram_Sanskrit_Series/ASS_036_Taittiriya_Aranyakam_With_Sayana_Bhashya_Part_1_-_Babasastri_Phadke_1898#page/n197/mode/1up) ।
॥ उत्तरनारायणम् ॥
सर्वा अवतारिकाः
भास्करोक्त-विनियोगः

‘उत्तरनारायणेन आदित्यम् उपस्थाय’ इत्य् आदौ विनियोगः ।
त्रैष्टुभस् सर्वो ऽनुवाकः, विशेषो वक्ष्यते ॥

सायणोक्त-विनियोगः

अथोत्तरनारायणाख्यः कश्चिदनुवाकस्तस्य च विनियोगं पुरुषमेध आपस्तम्ब आह - “उत्तरनारायणेनाऽऽदित्यमुपस्थाय” इति ।

तत्र प्रथमामृचमाह -

विश्वास-टिप्पनी

सन्दर्भार्थम् आदौ पुरुषसूक्तम् ईक्षताम्।

त्रिभुवनः - Note

Concluding portion of the Puruṣa-Sūkta. (From 1 to 5).

विश्वास-प्रस्तुतिः …{Loading}…

अद्भ्यः᳓ सं᳓भूतः पृथिव्यै᳓+++(व्याः)+++ र᳓साच् च +++(विराट् ब्रह्माण्डरूपः)+++।
विश्व᳓-कर्मणः+++(=परिपूर्णपुरुषात् पुरुषसूक्तोक्तात्)+++ स᳓मवर्तता᳓धि ।
त᳓स्य त्व᳓ष्टा+++(=त्रिपात् पुरुषः)+++ विद᳓धद् रूप᳓म् एति ।
त᳓त् पु᳓रुषस्य वि᳓श्वम् आजा᳓नम् अ᳓ग्रे । १

सर्वाष् टीकाः …{Loading}…

त्रिभुवनः

He was born of the waters and the elixirs of the earth; he moved round in the rule of Viśvakarman (causer of the world); Tvaṣṭṛ makes the forms of him; I know that (greatness) of the Puruṣa (person) first.

मूलम्

अ॒द्भ्यः संभू॑तः पृथि॒व्यै रसा॑च्च । वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताधि॑ । तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे॑ । १

पद-पाठः (यान्त्रिकः - 1/19 व्यत्यस्त-स्वराः)
  • अद्भ्यः᳓ (TS-20/319, RV-12/532, TB-8/86, AV-5/324, SB-M-37/760, SB-K-42/744, VS-M-2/26, VS-K-2/63, KS-1/99, MS-19/374)
  • सं᳓भूतः (TB-1, AV-0/2, SB-M-1/3, SB-K-1/3, MS-1/2, स᳓म् (TS-547, RV-608, SB-K-1517, VS-K-82, KS-174, MS-668) + भूतः᳓ (TS-5/65, RV-1/22, TB-4/14, AV-6/74, SB-M-4/303, SB-K-16/290, VS-M-0/19, VS-K-0/23, KS-2/21, MS-14/66), पा॰ ६.२.४९)
  • पृथिव्यै᳓ (TS-24, RV-6, TB-10, AV-6, SB-M-30, SB-K-18, VS-M-10, VS-K-11, KS-7, MS-11)
  • र᳓सात् (प्रातिपदिकम् र᳓स (MW), MS-1)
  • च (अनुदात्तम्, पा॰ ८.१.१८, TS-1411, RV-1096, AV-1417, SB-K-2881, VS-K-747, KS-766, MS-1700)
  • विश्व᳓-कर्मणः (TS-0/33, RV-0/5, TB-0/4, AV-0/12, SB-M-0/53, SB-K-0/45, VS-M-1/20, VS-K-1/25, KS-0/15, MS-1/26, वि᳓श्व (MW) + क᳓र्मणः (TS-0/25, RV-2/34, TB-2/24, AV-1/42, SB-M-31/331, SB-K-20/281, VS-M-0/15, VS-K-0/15, KS-1/13, MS-1/26), बहुव्रीहौ विश्वं संज्ञायाम् पा॰ ६.२.१०६)
  • स᳓म् (TS-547, RV-608, TB-22, SB-K-1517, VS-K-82, KS-174, MS-668)
  • अवर्तत (तिङन्तम् अनुदात्तम्, पा॰ ८.१.२८, TS-9, RV-5, SB-K-17, KS-2, MS-10)
  • अ᳓धि (TS-118, RV-310, TB-13, TK-1, SB-K-203, VS-K-29, KS-47, MS-200)
  • त᳓स्य (TS-178/4763, RV-88/3136, TB-65/1327, TK-19/135, AV-124/3165, SB-M-739/20457, SB-K-728/20018, VS-M-11/268, VS-K-21/395, KS-67/1225, MS-226/5550)
  • त्व᳓ष्टा (TS-30, RV-42/43, TB-12, AV-29/30, SB-M-28, SB-K-30, VS-M-13, VS-K-13, KS-7, MS-42/43)
  • विद᳓धत् (RV-3, AV-2, SB-M-3, SB-K-3, VS-M-1, MS-3)
  • रूप᳓म् (TS-83/144, RV-18/37, TB-25/38, TK-1, AV-15/46, SB-M-320/480, SB-K-306/460, VS-M-18/30, VS-K-23/34, KS-3/11, MS-79/137)
  • एति (तिङन्तम् अनुदात्तम्, पा॰ ८.१.२८, TS-152, RV-120, SB-K-293, VS-K-4, KS-18, MS-136)
  • त᳓त् (TS-687/4763, RV-552/3136, TB-135/1327, TK-6/135, AV-391/3165, SB-M-6429/20457, SB-K-6056/20018, VS-M-1/268, VS-K-2/395, KS-156/1225, MS-1125/5550)
  • पु᳓रुषस्य (TS-3/92, RV-1/14, TB-5/40, AV-11/106, SB-M-41/496, SB-K-42/498, VS-M-0/9, VS-K-0/13, KS-7/30, MS-13/116)
  • वि᳓श्वम् (TS-24/283, RV-140/1116, TB-5/73, AV-59/353, SB-M-31/248, SB-K-27/219, VS-M-16/143, VS-K-21/192, KS-14/118, MS-33/301)
  • आ᳓-जानम् → आ-जा᳓नम् (प्रातिपदिकम् आ-जा᳓न (MW), गतिकारकोपपदात् कृत् पा॰ ६.२.१३९ — सायणः, MS-1; भास्करमते आ᳓ + अजानम् तिङन्तम् मूले आ॒जा॑नम्)
  • अ᳓ग्रे (TS-48/78, RV-42/68, TB-17/24, AV-46/64, SB-M-282/346, SB-K-259/329, VS-M-1/2, VS-K-6/8, KS-7/8, MS-77/126)
भट्टभास्कर-टीका

अद्भ्यस् सम्भूत इत्य् आदि ॥

(‘उत्तरनारायणेन आदित्यम् उपस्थाय’ इत्य् आदौ विनियोगः ।
त्रैष्टुभस् सर्वो ऽनुवाकः, विशेषो वक्ष्यते ॥)
अद्भ्यः अबादिभ्यः पञ्चभ्यो भूतेभ्यः सम्भूतः उत्पन्नः पृथिव्यै पृथिव्याः रसात् अन्नात् च उत्पन्नः ततो विश्वकर्मणः विश्वस्य कर्तुः अधि ऐश्वर्य-विषयम् अधि समवर्तत सम्यक् सम्पन्नः प्रजापतिः ।
ततः तस्य रूपं विदधत् कुर्वन् त्वष्टा तद्-रूपम् एति सर्वाणि अङ्गानि विकर्तृत्वेन वायुरूपः प्रविशति तत् सर्वं पुरुषस्य प्रभावम् अहं आजानं आजानामि पुरुष एव सर्वं करोतीति अग्रे प्रथमम् एव जानामि । छान्दसम् आकारस्य ह्रस्वत्वम् । यद्वा - अद्भ्यस् सम्भूतः प्रथम-परिणामः प्रजापतिः । ततः पृथिव्याः रसात् अन्नात् संभूतो वैराजः प्रजापतिः । ततः त्वष्टा विकुर्वन् वायुरूपस् तदीयानि अङ्गानि गच्छतीति तृतीयः परिणामः । तत् सर्वं परस्य पुरुषस्य प्रभाव इति प्रथमम् एवाहं ज्ञातवान् इति ॥

सायण-टीका

योऽयं विराड्रूपो नारायणाख्यः पुरुषः सोऽयमद्भ्यः सम्भूतः सर्वत्र व्याप्तेषु जलेषु क्षीरमध्ये मण्डवद्ब्रह्माण्डगोलकमुत्पन्नम् । न केवलमद्भ्य एव किंतु पृथिव्यै रसाच्च भूम्याः सम्बन्धी योऽयं रसः सारस्तस्मादप्युत्पन्नः । “मण्डस्य योऽयं घनीभावः स पार्थिवः ये च तन्मध्ये द्रवांशास्त आप्याः, यत्कठिनं सा पृथिवी, यद्द्रवं तदापः” इत्यादिश्रुतेः । विश्वकर्मणो जगत्कर्तुः परमेश्वरादधिसमवर्तताऽऽधिक्येन निष्पन्नो योऽयं ब्रह्माण्डाभिमानी चेतनः पुमान्सोऽयमीश्वरांशस्तस्य विराट्पुरुषस्य रूपं चतुर्दशलोकरूपावयवसंस्थानं विदधन्निष्पादयंस्त्वष्टा विश्वकर्मा जगदीश्वरः । एति प्रवर्तते । पुरुषस्य विराडाख्यस्य सम्बन्धि तद्विश्वं प्रसिद्धं देवमनुष्यादिरूपं सर्वं जगदग्रे सृष्ट्यादावाजानं सर्वत उत्पन्नम् ।

सर्वा अवतारिकाः
सायणोक्त-विनियोगः

अथ द्वितीयामाह -

विश्वास-प्रस्तुतिः …{Loading}…

वे᳓दाह᳓म् एतं᳓ पु᳓रुषं महा᳓न्तम् ।
आदित्य᳓-वर्णं त᳓मसः पर᳓स्तात् ।
त᳓म् एवं᳓ विद्वा᳓न् अमृ᳓त इह᳓ भवति ।
ना᳓न्यः᳓ प᳓न्था विद्यते᳓ ऽयनाय । २

सर्वाष् टीकाः …{Loading}…

Griffith

I know this mighty Purusha whose colour is like the Sun, beyond the reach of darkness. He only who knows him leaves Death behind him. There is no path save this alone to travel.

मूलम् - माध्यन्दिनम्

वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑मादि॒त्यव॑र्णं॒ तम॑सः प॒रस्ता॑त्।
तमे॒व वि॑दि॒त्वाति॑ मृ॒त्युमे॑ति॒ नान्यः पन्था॑ विद्य॒तेऽय॑नाय ॥१८ ॥

मूलम् - तैत्तिरीयारण्यकम्

वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑म् । आ॒दि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात् । तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒तेय॑ऽनाय । २

पदपाठः - दयानन्दादि

वेद॑। अ॒हम्। ए॒तम्। पुरु॑षम्। म॒हान्त॑म्। आ॒दि॒त्यव॑र्ण॒मित्या॑दि॒त्यऽव॑र्णम्। तम॑सः। प॒रस्ता॑त्। तम्। ए॒व। वि॒दि॒त्वा। अति॑। मृ॒त्युम्। ए॒ति॒। न। अ॒न्यः। पन्थाः॑। वि॒द्य॒ते॒। अय॑नाय। १८।

पदपाठः - काण्वः

वेद। अहम्। एतम्। पुरुषम्। महान्तम्। आदित्यवर्णम्। तमसः। परस्तात्। तम्। एव। विदित्वा। अतिमृत्युम्। एति। न। अन्यः। पन्थाः। विद्यते। अयनाय। २।

पद-पाठः (यान्त्रिकः - तैत्तिरीयारण्यकम् - 1/19 व्यत्यस्त-स्वराः)
  • वे᳓द (TS-128, RV-26/31, TB-149/151, TK-71/72, AV-143/145, SB-M-194/200, SB-K-329, VS-M-4, VS-K-4, KS-17, MS-140)
  • अह᳓म् (TS-162/565, RV-198/1306, TB-18/114, AV-253/1248, SB-M-19/174, SB-K-254/728, VS-M-4/127, VS-K-15/178, KS-58/242, MS-160/641)
  • एत᳓म् (TS-137/1674, RV-34/320, TB-60/353, TK-2/39, AV-57/339, SB-M-86/592, SB-K-673/10669, VS-M-3/8, VS-K-12/26, KS-15/287, MS-145/2587)
  • पु᳓रुषम् (TS-6/92, RV-5/14, TB-6/40, AV-31/106, SB-M-41/272, SB-K-74/498, VS-M-4/9, VS-K-4/13, KS-6/30, MS-7/116)
  • महा᳓न्तम् (TS-1/2, RV-8/17, AV-2/7, SB-M-1/2, SB-K-5/9, VS-K-1/2, MS-2)
  • आदित्य᳓-वर्णम् (आदित्य᳓ (MW) + व᳓र्ण (MW), बहुव्रीहौ प्रकृत्या पूर्वपदम् पा॰ ६.२.१)
  • त᳓मसः (TS-4/33, RV-21/112, TB-0/2, AV-5/51, SB-M-2/24, SB-K-10/82, VS-M-2/11, VS-K-2/14, KS-0/16, MS-9/52)
  • प᳓रस्तात् → पर᳓स्तात् (TS-22, RV-5, TB-11, SB-K-24, VS-K-3, KS-1, MS-6)
  • त᳓म् (TS-356/4763, RV-540/3136, TB-140/1327, AV-432/3163, SB-M-294/2303, SB-K-1304/20018, VS-M-50/268, VS-K-63/395, KS-117/1225, MS-528/5550)
  • एव᳓म् (TS-274/281, RV-1, TB-184/189, TK-34, AV-149/150, SB-M-133/134, SB-K-1075/1115, VS-M-1/2, VS-K-2/3, KS-46/54, MS-288/336)
  • विद्वा᳓न् (TS-93, RV-94, TB-31, TK-1, AV-58, SB-M-8, SB-K-127, VS-M-11, VS-K-13, KS-24, MS-86/88)
  • अमृ᳓तः (TS-4/64, RV-18/187, TB-1/12, AV-6/96, SB-M-1/18, SB-K-47/312, VS-K-1/20, KS-0/30, MS-6/84)
  • इह᳓ (TS-100, RV-277, TB-22, AV-262, SB-K-166, VS-K-39, KS-43, MS-103)
  • भवति (तिङन्तम् अनुदात्तम्, पा॰ ८.१.२८, TS-539, RV-27, SB-K-1293, VS-K-1, KS-52, MS-319)
  • न᳓ (TS-758, RV-2095, SB-K-2328, VS-K-139, KS-139, MS-806)
  • अन्यः᳓ (TS-28/165, RV-58/176, TB-4/27, AV-33/106, SB-M-2/20, SB-K-98/340, VS-M-1/2, VS-K-3/13, KS-4/31, MS-41/208)
  • प᳓न्थाः (TS-8/72, RV-17/149, TB-0/7, AV-4/75, SB-M-1/10, SB-K-8/52, VS-M-1/20, VS-K-1/34, KS-0/21, MS-4/60)
  • विद्यते (तिङन्तम् अनुदात्तम्, पा॰ ८.१.२८, RV-1, SB-K-1, VS-K-2)
  • अ᳓यनाय (TS-0/4, RV-0/1, AV-0/8, SB-K-1/9, MS-0/1, प्रातिपदिकम् अ᳓यन (MW))
उवट-टीका

वेदाहम् वेद अहम् एतं पुरुषम् महान्तम् आदित्य-वर्णम् तमसः परस्तात्।
तम् एव विदित्वा अतिमृत्युम् एति न अन्यः पन्था विद्यते अयनाय।
ऋषेः प्रतिवचनम्।
अहम् एतं पुरुषं वेद।
महान्तं देश-कालाद्य्-अवच्छेद-रहितम्।
आदित्य-वर्णं स्व-प्रकाशम्।
तमसः [[परस्तातविद्यायाः|परस्तात् अविद्यायाः]] भेद-दर्शनम्।
तम् एव विदित्वा अतिमृत्युम् एति अतिक्रम्य मृत्युं तं पुरुषम् अनुप्रविशति।
न अन्यः पन्था मार्गः तस्यायनाय गमनाय विद्यते॥ १८॥

महीधर-टीका

एतं महान्तं सर्वोत्कृष्टं पुरुषं सूर्य-मण्डल-स्थम् अहं वेद जानामि इति ऋषेर् वचनम्।
कीदृशम्।
आदित्य-वर्णम् आदित्यस्येव वर्णो यस्य तम्।
उपमान्तराभावात् स्वोपमम्। तथा तमसः परस्ताद् दूरतरम्। तमो-रहितम् इत्य् अर्थः। तमः-शब्देनाविद्योच्यते।
तम् एवादित्यं विदित्वा ज्ञात्वा मृत्युम् अत्य् एति अतिक्रामति परं ब्रह्म गच्छति।
अयनायाश्रयायान्यः पन्था मार्गः न विद्यते।
सूर्य-मण्डलान्तः-पुरुषम् आत्म-रूपं ज्ञात्वैव मुक्तिः॥ १८॥

सायण-टीका (काण्वी)

द्वितीयम् [[आहयथोक्तं|आह- यथोक्तं]] विराट्-पुरुषस्य ध्यानं तद् एव [[संसार-निर्वर्तकम्|संसार-निवर्तकम्]] इति [[प्रतिवाद्यते|प्रतिपाद्यते]] ।
तत्रादौ मन्त्र-द्रष्टा स्वकीयं ज्ञानात् उद्भवं प्रकटयति ।
[[तमशः|तमसः]] अज्ञानात् अन्धकारात् आदित्य-वर्णं आदित्यवत् प्रकाशमानं स्व-तेजसा अज्ञानम् अधःकृत्य वर्तमानम् इत्य् अर्थः ।
पुरुषः पुरि शेते इति पुरुषः तम् अनेन प्राप्तं परिच्छेदं वारयति महान्तम् इति पदेन ।
महान्तम् अपरिच्छिन्नम् ।
एवं साक्षात् अपरोक्षं पुरुषम् अहं शोधित-त्वं-पदार्थः अहं वेद जानामि ध्यानेन सर्वदा अनुभवामि इत्य् अर्थः ।
तं सर्व-वेदान्त-प्रतिपाद्यं पुरुषं विदित्वा एव मृत्युं संसारम् अतिक्रामति ।
“कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः” (गीता अ. ३ । २०) कर्मणा एव संसार-निवृत्तिः इति ।
एवम् [[आदितमं तं|आदि-मतं]] व्यावर्तयितुम् एव-कारः ।
तस्यैव प्रदर्शनं नान्य इत्यादि ।
अयनाय [[स्व-स्वरूप्राप्तये|स्व-स्वरूप-प्राप्तये]] ज्ञानात् अन्यः पन्था न विद्यते ॥
तृतीयम् आह-

आनन्दबोध-टीका

एवं प्रतीयमानं पुरुषम् ।
पुरि शेत इति पुरुषस् तम् ।
अनेन प्राप्तं परिच्छेदं व्यावर्तयति - महान्तम् इति ।
महान्तम् [[अपरिच्छिन्न मनन्तम्|अपरिच्छिन्नम् अनन्तम्]] ।
आदित्य-वर्णम् आदित्यस्य वर्ण इव वर्णो यस्य स आदित्य-वर्णः, स्वयं-प्रकाश इत्य् अर्थः ।
तमसः परस्तात् ।
अज्ञानान्धकाराद् उपरि स्व-तेजसा [[ऽज्ञाना- न्धकारमधःकृत्य|ऽज्ञानान्धकारम् अधः-कृत्य]] वर्तमानम् एतं महान्तम् आदित्यान्तः-स्थं पूर्णं पुरुषम् एतं साक्षाद् अपरोक्ष-रूपम् ।
अहं शोधित-तत्त्वं-पदार्थो ऽहम् ।
वेद जानामि ।
एतं पुरुषं महान्तम् [[आदित्य-वर्णे|आदित्य-वर्णं]] पुरुषं वेद, आदित्य-वर्णं महान्तं पुरुषम् एतं पुरुषं वेदेत्य् एवं व्यतिहारेणाहं वेद जानामि ।
सर्व-वेदान्तैस् तात्पर्येण [[प्रति- पाद्यार्थमाह|प्रतिपाद्यार्थम् आह]] - तम् एव विदित्वातिमृत्युम् एति ।
‘सहस्रशीर्षा’ [३५।१] इत्य्-आदिना यो ऽभिहितः परमेश्वरस् तम् एव विदित्वा नान्यं तं विदित्वैव ।
मृत्युं मृत्यु-युक्तं संसारम् ।
अत्येति अतिक्रामति न कर्मणा ।
अथ तम् एव तं विदित्वैव मृत्युम् अत्येति ।
मृत्युम् अतिक्रम्य एति स्व-स्वरूपं प्राप्नोति ।
पर-ब्रह्म एति गच्छति इत्य् उपचारः ।
पक्षान्तर-शङ्कां [[निरस्यति - " नान्यः|निरस्यति - नान्यः]] पन्था विद्यते ऽयनाय ।
अयनाय गमनाय स्व-स्वरूप-प्राप्तये ।
अन्यः पन्था [[मार्गों|मार्गो]] न विद्यते ॥ १८ ॥

त्रिभुवनः

I know this great Puruṣa of the colour of the sun, out of the darkness; he, who knows him thus, becomes immortal here; there is no other way for reaching the (immortality).

भट्टभास्कर-टीका

वेदाहमित्यादि गतम् ॥ तमसः परस्तात् तमश्शीलं विकारजातं तमः ततः परस्तात् स्थितं महान्तं पुरुषमहं वेद। एवं तं विद्वान् अमृतो भवति, अन्यः पन्थाः अयनाय अमृतत्वप्राप्तये साधनभूतो न विद्यते । अयनशब्दो लित्स्वरेणाद्युदात्तः, तेनैकादेशे एकार उदात्तः ॥

सायण-टीका (आरण्यकी)

पूर्ववद्व्याख्येयम् ।

अधिमन्त्रम् (VC)
  • आदित्यो देवता
  • उत्तरनारायण ऋषिः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

अब विद्वान् जिज्ञासु के लिये कैसा उपदेश करे, इस विषय को अगले मन्त्र में कहा है ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे जिज्ञासु पुरुष ! (अहम्) मैं जिस (एतम्) इस पूर्वोक्त (महान्तम्) बड़े-बड़े गुणों से युक्त (आदित्यवर्णम्) सूर्य के तुल्य प्रकाशस्वरूप (तमसः) अन्धकार वा अज्ञान से (परस्तात्) पृथक् वर्त्तमान (पुरुषम्) स्वस्वरूप से सर्वत्र पूर्ण परमात्मा को (वेद) जानता हूँ (तम्, एव) उसी को (विदित्वा) जान के आप (मृत्युम्) दुःखदायी मरण को (अति, एति) उल्लङ्घन कर जाते हो, किन्तु (अन्यः) इससे भिन्न (पन्थाः) मार्ग (अयनाय) अभीष्ट स्थान मोक्ष के लिये (न, विद्यते) नहीं विद्यमान है ॥१८ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - यदि मनुष्य इस लोक-परलोक के सुखों की इच्छा करें तो सबसे अति बड़े स्वयंप्रकाश और आनन्दस्वरूप अज्ञान के लेश से पृथक् वर्त्तमान परमात्मा को जान के ही मरणादि अथाह दुःखसागर से पृथक् हो सकते हैं, यही सुखदायी मार्ग है, इससे भिन्न कोई भी मनुष्यों की मुक्ति का मार्ग नहीं है ॥१८ ॥

दयानन्द-सरस्वती (सं) - विषयः

अथ विज्ञानं जिज्ञासवे कथमुपदिशेदित्याह ॥

दयानन्द-सरस्वती (सं) - पदार्थः

पदार्थान्वयभाषाः - हे जिज्ञासोऽहं यमेतं महान्तमादित्यवर्णं तमसः परस्ताद्वर्त्तमानं पुरुषं वेद तमेव विदित्वा भवान् मृत्युमत्येति। अन्यः पन्था अयनाय न विद्यते ॥१८ ॥

दयानन्द-सरस्वती (सं) - भावार्थः

भावार्थभाषाः - यदि मनुष्या ऐहिकपारमार्थिके सुखे इच्छेयुस्तर्हि सर्वेभ्यो बृहत्तमं स्वप्रकाशानन्दस्वरूपमज्ञानलेशाद् दूरे वर्त्तमानं परमात्मानं ज्ञात्वैव मरणाद्यगाधदुःखसागरात् पृथग्भवितुं शक्नुवन्त्ययमेव सुखप्रदो मार्गोऽस्ति। अस्मादन्यः कश्चिदपि मनुष्याणां मुक्तिमार्गो न भवति ॥१८ ॥

सविता जोशी ← दयानन्दः (म) - भावार्थः

भावार्थभाषाः - माणसे जर इहलोक व परलोकाच्या सुखाच्या इच्छा बाळगतील, तर महान स्वयंप्रकाशी (सूर्याप्रमाणे) आनंदस्वरूप, (अंधःकारापासून) अज्ञानापासून दूर असलेल्या परमेश्वराला जाणूनच मृत्यू वगैरेच्या दुःख सागरातून पृथक होऊ शकतील. हाच (खरा) सुखदायक मार्ग आहे यापेक्षा कोणताही वेगळा असा मुक्तीचा मार्ग नाही.

सर्वा अवतारिकाः
सायणोक्त-विनियोगः

अथ तृतीयामाह -

विश्वास-प्रस्तुतिः …{Loading}…

+++(त्रिपात्)+++ प्रजा᳓पतिश् चरति ग᳓र्भे अन्तः᳓ ।
अ᳓जायमानो+++(←माध्यन्दिन-स्वरः)+++ बहुधा᳓ वि᳓जायते +++(सहस्रशीर्षा!)+++।
त᳓स्य धी᳓राः प᳓रिजानन्ति यो᳓निम् ।
म᳓रीचीनां +++(ऋषीणां)+++ पद᳓म् इच्छन्ति वेध᳓सः +++(त्रिपादश् [च])+++। ३

सर्वाष् टीकाः …{Loading}…

त्रिभुवनः

Prajāpati moves in the womb of the creation; he becomes born in various forms, (though really) being unborn (1). The wise ones know the cause of that; the sages wish the foot of the rays.

मूलम्

प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मानो बहु॒धा विजा॑यते । तस्य॒ धीराः॒ परि॑जानन्ति॒ योनि॑म् । मरी॑चीनां प॒दमि॑च्छन्ति वे॒धसः॑ । ३

पद-पाठः (यान्त्रिकः)
  • प्रजा᳓पतिः (TS-172/437, RV-5, TB-93/258, AV-50/76, SB-M-153/276, SB-K-529/769, VS-M-13/30, VS-K-13/42, KS-34/48, MS-190/297)
  • चरति (तिङन्तम् अनुदात्तम्, पा॰ ८.१.२८, TS-22, RV-25, SB-K-75, VS-K-7, KS-5, MS-33)
  • ग᳓र्भे (TS-3/66, RV-9/95, TB-1/14, AV-5/66, SB-M-3/84, SB-K-6/135, VS-M-1/15, VS-K-3/21, KS-2/24, MS-0/67)
  • अन्तः᳓ (TS-81/87, RV-154, TB-2, AV-102, SB-M-2, SB-K-117/122, VS-M-2, VS-K-6/9, KS-26, MS-79/81)
  • अ᳓-जायमानः (VS-K-1, पा॰ ६.२.२)
  • बहुधा᳓ (TS-3, RV-9, TB-1, TK-1, SB-K-6, VS-K-1, KS-2, MS-7)
  • वि᳓ (TS-379, RV-952, TB-35, TK-2, SB-K-637, VS-K-49, KS-135, MS-527)
  • जायते (तिङन्तम् अनुदात्तम्, पा॰ ८.१.२८, TS-66, RV-17, SB-K-124, VS-K-6, KS-10, MS-54)
  • त᳓स्य (TS-178/4763, RV-88/3136, TB-65/1327, TK-19/135, AV-124/3163, SB-M-277/2303, SB-K-728/20018, VS-M-11/268, VS-K-21/395, KS-67/1225, MS-226/5550)
  • धी᳓राः (TS-3/11, RV-22/52, TB-0/1, AV-2/13, SB-M-2/5, SB-K-4/11, VS-M-3/7, VS-K-3/9, KS-3/4, MS-3/14)
  • प᳓रि (TS-222, RV-506, TB-24, SB-K-390, VS-K-41, KS-87, MS-238)
  • जानन्ति (तिङन्तम् अनुदात्तम्, पा॰ ८.१.२८, TS-2, RV-1, SB-K-7)
  • यो᳓निम् (TS-34/170, RV-62/110, TB-4/17, AV-26/45, SB-M-10/88, SB-K-33/261, VS-M-5/19, VS-K-5/23, KS-13/61, MS-24/208)
  • म᳓रीचीनाम् (TS-0/1, RV-1/2, AV-0/3, SB-M-0/4, SB-K-0/12, VS-K-0/3, KS-0/1, MS-0/2)
  • पद᳓म् (TS-15/39, RV-46/95, TB-2/6, AV-16/29, SB-M-11/28, SB-K-27/61, VS-M-4/8, VS-K-7/13, KS-12/17, MS-14/33)
  • इच्छन्ति (तिङन्तम् अनुदात्तम्, पा॰ ८.१.२८, RV-2, SB-K-1)
  • वेध᳓सः (TS-4/6, RV-25/41, TB-0/2, AV-6/10, SB-K-0/1, VS-M-0/1, VS-K-0/1, KS-0/3, MS-2/5)
भट्टभास्कर-टीका

प्रजापतिरिति ॥ आत्मसमष्टिः प्रजानां पतिः जीवात्मा अन्तर्गर्भे चरति सर्वेषु शरीरेषु आब्रह्ममशकं स्वयं अजायमान एव बहुप्रकारशरीरसम्बन्धेन विविधं जायमान इव भवति । तस्यैतस्य जायमानस्य योनिं कारणं शरीरसम्बन्धकारणं वा धीराः धीमन्तः परिजानन्ति सर्वात्मना जानन्ति । कीदृशाः? ये वेधसः विधातारः प्रकृष्टज्ञानाः मरीचीनां पदं रश्मीनां पदं स्थानं आदित्यात्मानं इच्छन्ति याथात्म्येन विजानन्ति, प्रविशन्ति वा । ते तं योनि जानन्ति । नान्यत् [नान्यैः] ज्ञातुं शक्यते । ‘सूर्य आत्मा’ इति च श्रुतिः ॥

सायण-टीका

ब्रह्माण्डरूपे गर्भेऽन्तर्मध्ये प्रजापतिर्विग्रहवान्भूत्वा चरति । स च वास्तवेन रूपेण सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिश्रुत्या प्रतिपादनादजायमान एव तथाऽपि मायिकेन रूपेण बहुधा स्थावरजङ्गमादिबहुप्रकारो विशेषेण जायते । तस्य प्रजापतेर्योनिं जगत्कारणरूपं वास्तवं स्वरूपं धीरा धैर्यवन्तो योगेन निरुद्धेन्द्रिया महात्मानो जानन्ति । वेधसो विधातारः सृष्टिकर्तारस्तमेवोपास्य मरीचीनां मरीच्यत्रिप्रमुखानां(णां) महर्षीणां पदं जगदुत्पादकत्वलक्षणमिच्छन्ति ।

सर्वा अवतारिकाः
भट्टभास्करः - अवतारिका

यो देवेभ्य इत्याद्ये अनुष्टुभौ ॥ अधुना स एव आदित्वो वर्ण्यते ।

सायणोक्त-विनियोगः

अथ चतुर्थीमाह -

विश्वास-प्रस्तुतिः …{Loading}…

यो᳓ देवे᳓भ्य आत᳓पति+++(=काशते, माध्यन्दिनतः)+++ ।
यो᳓ देवा᳓नां पुरो᳓हितः ।
पू᳓र्वो यो᳓ देवे᳓भ्यो जातः᳓ ।
न᳓मो रुचा᳓य+++(=रोचमानाय)+++ ब्रा᳓ह्मये+++(=वेदवेद्याय परिपूर्णपुरुषाय)+++ । ४

सर्वाष् टीकाः …{Loading}…

Griffith

He who gives light and heat to Gods, first, foremost Agent of the Gods, Born ere the Gods—to him the bright, the holy One, be reverence

मूलम् - माध्यन्दिनम्

यो दे॒वेभ्य॑ऽआ॒तप॑ति॒ यो दे॒वानां॑ पु॒रोहि॑तः।
पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तो नमो॑ रु॒चाय॒ ब्राह्म॑ये ॥२० ॥

मूलम् - तैत्तिरीयारण्यकम्

यो दे॒वेभ्य॒ आत॑पति +++(आ॒तप॑ति॒ माध्यन्दिने)+++ ।
यो दे॒वानां॑ पु॒रोहि॑तः । पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः ।
नमो॑ रु॒चाय॒ ब्राह्म॑ये । ४

पदपाठः - दयानन्दादि

यः। दे॒वेभ्यः॑। आ॒तप॒तीत्या॒ऽतप॑ति। यः। दे॒वाना॑म्। पु॒रोहि॑त॒ इति॑ पु॒रःऽहि॑तः। पूर्वः॑। यः। दे॒वेभ्यः॑। जा॒तः। नमः॑। रु॒चाय॑। ब्राह्म॑ये। २०।

पदपाठः - काण्वः

यः। दे॒वेभ्यः॑। आ॒तप॒तीत्या॒ऽतप॑ति। यः। दे॒वाना॑म्। पु॒रोहि॑त॒ इति॑ पु॒रःऽहि॑तः। पूर्वः॑। यः। दे॒वेभ्यः॑। जा॒तः। नमः॑। रु॒चाय॑। ब्राह्म॑ये। ४।

पद-पाठः (यान्त्रिकः - तैत्तिरीयारण्यकम्)
  • यः᳓ (TS-687/3383, RV-1038/4011, TB-127/728, TK-27/66, AV-928/3116, SB-M-376/1139, SB-K-1905/8438, VS-M-41/244, VS-K-81/456, KS-223/818, MS-852/3763)
  • देवे᳓भ्यः (TS-101/1025, RV-60/1342, TB-33/242, AV-40/705, SB-M-119/567, SB-K-210/1945, VS-M-42/257, VS-K-59/350, KS-40/317, MS-138/1216)
  • आ (तिङि चोदात्तवति पा॰ ८.१.७१, TS-5, TB-213, SB-M-601)
  • त᳓पति (यद्वृत्तान्नित्यम् पा॰ ८.१.६६, TS-1, SB-K-3, VS-K-1)
  • यः᳓ (TS-687/3383, RV-1038/4011, TB-127/728, TK-27/66, AV-928/3116, SB-M-376/1139, SB-K-1905/8438, VS-M-41/244, VS-K-81/456, KS-223/818, MS-852/3763)
  • देवा᳓नाम् (TS-184/1287, RV-188/1354, TB-64/393, AV-110/706, SB-M-194/955, SB-K-295/1945, VS-M-35/307, VS-K-59/438, KS-67/317, MS-211/1218)
  • पुरो᳓हितः (TS-4/7, TB-1, SB-M-3/7, SB-K-0/5, VS-M-4/5, VS-K-5/6, KS-2/3, MS-6/10)
  • पू᳓र्वः (TS-20/81, RV-18/115, TB-1/31, AV-17/88, SB-M-13/101, SB-K-21/184, VS-M-3/16, VS-K-3/15, KS-2/15, MS-15/100)
  • यः᳓ (TS-687/3383, RV-1038/4011, TB-127/728, TK-27/66, AV-928/3116, SB-M-376/1139, SB-K-1905/8438, VS-M-41/244, VS-K-81/456, KS-223/818, MS-852/3763)
  • देवे᳓भ्यः (TS-101/1025, RV-60/1342, TB-33/242, AV-40/705, SB-M-119/567, SB-K-210/1945, VS-M-42/257, VS-K-59/350, KS-40/317, MS-138/1216)
  • जातः᳓ (TS-24/65, RV-53/144, TB-3/16, AV-30/94, SB-M-4/18, SB-K-39/82, VS-M-15/21, VS-K-20/33, KS-9/17, MS-26/57)
  • न᳓मः (TS-291/315, RV-49/137, TB-28/36, AV-230/244, SB-M-35, SB-K-100/102, VS-M-177/181, VS-K-206/226, KS-291/305, MS-286/313)
  • रुचा᳓य (TS-0/6, RV-0/2, TB-0/1, AV-0/1, SB-K-0/1, VS-M-1/5, VS-K-1/5, MS-0/7, प्रातिपदिकम् रुच᳓ (MW))
  • ब्रा᳓ह्मये (VS-M-1, VS-K-1, तद्धितः ञ्नित्यादिर्नित्यम् पा॰ ६.१.१९७)
उवट-टीका

यो देवेभ्यः।
यः देवेभ्यः आतपति यः देवानां।
पुरः हितः।
पूर्वः यः देवेभ्यः जातः नमः रुचाय ब्राह्मये।
अग्रे यो देवेभ्यः।
योगिनस् तं नमन्ति ध्यायन्ति।
यो देवेभ्यः सर्वेभ्यः आतपति अतिशयेन तेजसा तपति आदित्य-रूपेणेत्य् अर्थः।
[[यश्व|यश् च]] देवानां पुरो ऽग्रे इन्द्रत्वेन स्थितः।
यश् च पूर्वः अग्रे ब्रह्म-रूपेण देवेभ्यो जातः।
तस्मै रुचाय तेजसे ब्राह्मये ब्रह्म-पुरुषापत्याय नमः॥ २०॥

महीधर-टीका

यः प्रजा-पतिर् आदित्य-रूपो देवेभ्यो ऽर्थायातपति द्योतते।
यश् च देवानां पुरो-हितः सर्व-कार्येष्व् अग्रे नीतः।
यश् च देवेभ्यः सकाशात् पूर्वः जातः प्रथमम् उत्पन्नः तस्मै आदित्याय नमः।
कीदृशाय।
रोचते ऽसौ रुचस् तस्मै दीप्यमानाय ‘इगुपध-’ (पा. ३. १. १३५) इति क-प्रत्ययः।
तथा ब्राह्मये ब्रह्मणो ऽपत्यं ब्राह्मिः।
इञि टि-लोपः।
ब्रह्मावयव-भूताय वा॥ २०॥

सायण-टीका (काण्वी)

चतुर्थम् आह - पदच्छेदः स्पष्टः ॥२०॥
यः परमेश्वरः देवेभ्यः देवार्थम् आतपति सर्वत्र प्रकाशते ।
देवानां देवत्व-सिद्धये तत्तत् हृदयेषु चैतन्य-रूपेण आविर् भवति, यः च देवानां पुरोहितः बृहस्-पतिः बभूव ।
“बृहस्पतिर् देवानां पुरोहितः” (श. का. ५ । अ. ३ । ब्रा. १ । कं. २) इति श्रुतेः ।
यः च देवेभ्यः पूर्वः जातः प्रथम-भावि-हिरण्य-गर्भ-रूपेण उत्पन्नः “हिरण्यगर्भः समवर्तताग्रे” (यजु.,) इति श्रुतेः, तादृशाय रुचाय रोचमानाय स्वयं-प्रकाशाय ब्राह्मये पर-ब्रह्म-स्वरूपाय, ब्रह्मणा वेदेन प्रतिपाद्याय वा नमो ऽस्तु नमस्कारः अस्तु ।
[[पञ्चममाहः|पञ्चमम् आह]]—

आनन्दबोध-टीका

देवेभ्यः अर्थाय ।
आतपति आतपं करोति प्रकाशयति प्रकाश्यते च ।
यो देवानां पुरोहितः ।
यश् च देवानाम् अग्रतः स्थित्वा हितम् आचरति ।
पूर्वो यो देवेभ्यः ।
यश् च देवेभ्यः पूर्वः सर्व-देवाग्रणीर् जातः ।
तस्मै ब्राह्मये रुचाय नमः ।
ब्रह्मणो योग्यं [[ब्राहां|ब्राह्मं]] तस्मै [[अब्राह्मये|ब्राह्मये]] ।
रुचाय रोचमानाय दीप्यमानायादित्याय नमः ॥ २० ॥

त्रिभुवनः

Salutation to that shining Brahman, who shines for the sake of the gods, who is the priest of the gods and who was born before the gods.

भट्टभास्कर-टीका

यो देवेभ्यः सर्वविकारेभ्यः आतपति समन्तात्तपति सर्वेभ्यो रश्मिमद्भ्योऽधिकं तपति अव्यक्तात्मस्वरूपादागत्य तपनेन सर्वान् विकारान् उत्पाद्य अनुगृह्णाति । यश्च तेषां देवानां देवादीनां विकाराणां पुरोहितः पुरस्तात् स्थितः। तेषां अनुज्ञानार्थं उदयादिना उपकरोति । यश्च पूर्वः प्रथम एव देवेभ्यो जातः सर्वविकाराणां अग्रे जातः । तस्मै रुचाय रोचनशीलाय परमेश्वरदीप्तिमूर्तये । इगुपधलक्षणः कः । ब्राह्मये ब्रह्मणोऽपत्याय । छान्दस इञ् , बाह्वादिर्वा द्रष्टव्यः । तस्मै नम इति ॥

सायण-टीका (आरण्यकी)

यः परमेश्वरो देवेभ्यो देवार्थमातपति सर्वत्र प्रकाशते, देवानां देवत्वसिद्धये तत्तद्हृदयेषु चैतन्यरूपेण प्रविश्याऽऽविर्भवति । यश्च देवानां पुरोहितो बृहस्पतिर्बभूव “बृहस्पतिर्देवानां पुरोहितः” इति श्रुतेः । यश्च देवेभ्यः पूर्वो जातः प्रथमभावी हिरण्यगर्भरूपेणोत्पन्नः “हिरण्यगर्भः समवर्तताग्रे” इति श्रुतेः । तादृशाय रुचाय रोचमानाय स्वयंप्रकाशाय ब्राह्मये परब्रह्मस्वरूपाय ब्रह्मणा वेदेन प्रतिपाद्याय वा नमो नमस्कारोऽस्तु ।

अधिमन्त्रम् (VC)
  • सूर्य्यो देवता
  • उत्तरनारायण ऋषिः
  • अनुष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

अब सूर्य्य कैसा है, इस विषय को अगले मन्त्र में कहा है ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! (यः) जो सूर्यलोक (देवेभ्यः) उत्तम गुणोंवाले पृथिवी आदि के अर्थ (आतपति) अच्छे प्रकार तपता है (यः) जो (देवानाम्) पृथिवी आदि लोकों के (पुरोहितः) प्रथम से हितार्थ बीच में स्थित किया (यः) जो (देवेभ्यः) पृथिवी आदि से (पूर्वः) प्रथम (जातः) उत्पन्न हुआ उस (रुचाय) रुचि करानेवाले (ब्राह्मये) परमेश्वर के सन्तान के तुल्य सूर्य्य से (नमः) अन्न उत्पन्न होता है ॥२० ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे मनुष्यो ! जिस जगदीश्वर ने सबके हित के लिये अन्न आदि की उत्पत्ति के निमित्त सूर्य्य को बनाया है, उसी परमेश्वर की उपासना करो ॥२० ॥

दयानन्द-सरस्वती (सं) - विषयः

अथ सूर्यः कीदृश इत्याह ॥

दयानन्द-सरस्वती (सं) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्याः ! यो देवेभ्य आतपति यो देवानां पुरोहितो यो देवेभ्यः पूर्वो जातस्तस्माद् रुचाय ब्राह्मये नमो जायते ॥२० ॥

दयानन्द-सरस्वती (सं) - भावार्थः

भावार्थभाषाः - हे मनुष्याः ! येन जगदीश्वरेण सर्वेषां हितायान्नाद्युत्पादननिमित्तः सूर्य्यो निर्मितस्तमेव सततमुपासीध्वम् ॥२० ॥

सविता जोशी ← दयानन्दः (म) - भावार्थः

भावार्थभाषाः - हे माणसांनो ! ज्या ईश्वराने सर्वांच्या हितासाठी अन्न निर्माण व्हावे म्हणून सूर्य उत्पन्न केलेला आहे. त्याच परमेश्वराची उपासना करा.

सर्वा अवतारिकाः
सायणोक्त-विनियोगः

अथ पञ्चमीमाह -

विश्वास-प्रस्तुतिः …{Loading}…

रु᳓चं ब्राह्म᳓म् जन᳓यन्तः +++(विद्यया)+++।
देवा᳓ अ᳓ग्रे त᳓द् अब्रुवन् ।
य᳓स् त्वा +एवं᳓ ब्राह्मणो᳓ विद्या᳓त् -
त᳓स्य देवा᳓ असन् व᳓शे । ५

सर्वाष् टीकाः …{Loading}…

Griffith

Thus spake the Gods at first, as they begat the bright and holy One: The Brahman who may know thee thus shall have the Gods in his control.

मूलम् - माध्यन्दिनम्

रु॒चं ब्रा॒ह्मं ज॒नय॑न्तो दे॒वाऽअग्रे॒ तद॑ब्रुवन्।
यस्त्वै॒वं ब्रा॑ह्म॒णो वि॒द्यात् तस्य॑ दे॒वाऽअ॑स॒न् वशे॑ ॥२१ ॥

मूलम् - तैत्तिरीयारण्यकम्

रुचं॑ ब्रा॒ह्मम् ज॒नय॑न्तः । दे॒वा अग्रे॒ तद॑ब्रुवन् । यस्त्वै॒वं ब्रा॑ह्म॒णो वि॒द्यात् । तस्य॑ दे॒वा अस॒न् +++(अ॒स॒न् माध्यन्दिने)+++ वशे॑ । ५

पदपाठः - दयानन्दादि

रु॒चम्। ब्रा॒ह्मम्। ज॒नय॑न्तः। दे॒वाः। अग्रे॑। तत्। अ॒ब्रु॒व॒न्। यः। त्वा॒। ए॒वम्। ब्रा॒ह्म॒णः। वि॒द्यात्। तस्य॑। दे॒वाः। अ॒स॒न्। वशे॑। २१।

पदपाठः - काण्वः

रु॒चम्। ब्रा॒ह्मम्। ज॒नय॑न्तः। दे॒वाः। अग्रे॑। तत्। अ॒ब्रु॒व॒न्। यः। त्वा॒। ए॒वम्। ब्रा॒ह्म॒णः। वि॒द्यात्। तस्य॑। दे॒वाः। अ॒स॒न्। वशे॑। ५।

पद-पाठः (यान्त्रिकः - तैत्तिरीयारण्यकम् - 1/16 व्यत्यस्त-स्वराः)
  • रु᳓चम् (TS-29/50, RV-0/12, TB-1/4, AV-0/1, SB-M-3/6, SB-K-9/18, VS-M-6/18, VS-K-6/18, KS-0/3, MS-16/35)
  • ब्राह्म᳓म् (AV-0/1, SB-M-1, SB-K-1/2, VS-M-1, VS-K-1, प्रातिपदिकम् ब्राह्म᳓ (MW))
  • जन᳓यन्तः (RV-4/5, TB-1, AV-1/2, SB-M-0/5, SB-K-0/3, VS-M-1, VS-K-1, MS-0/2)
  • देवाः᳓ (TS-376/1025, RV-238/1342, TB-38/242, TK-3/8, AV-283/705, SB-M-106/567, SB-K-984/1945, VS-M-22/257, VS-K-19/350, KS-89/317, MS-453/1216)
  • अ᳓ग्रे (TS-48/78, RV-42/68, TB-17/24, AV-46/64, SB-M-36/45, SB-K-259/329, VS-M-1/2, VS-K-6/8, KS-7/8, MS-77/126)
  • त᳓त् (TS-687/4763, RV-552/3136, TB-135/1327, TK-6/135, AV-391/3163, SB-M-47/2303, SB-K-6056/20018, VS-M-1/268, VS-K-2/395, KS-156/1225, MS-1125/5550)
  • अब्रुवन् (तिङन्तम् अनुदात्तम्, पा॰ ८.१.२८, TS-55, RV-3, SB-K-102, VS-K-1, KS-8, MS-28)
  • यः᳓ (TS-687/3383, RV-1038/4011, TB-127/728, TK-27/66, AV-928/3116, SB-M-376/1139, SB-K-1905/8438, VS-M-41/244, VS-K-81/456, KS-223/818, MS-852/3763)
  • त्वा (अनुदात्तम्, पा॰ ८.१.१८, TS-814, RV-590, AV-538, SB-K-675, VS-K-525, KS-326, MS-812)
  • एव᳓म् (TS-274/281, RV-1, TB-184/189, TK-34, AV-149/150, SB-M-133/134, SB-K-1075/1115, VS-M-1/2, VS-K-2/3, KS-46/54, MS-288/336)
  • ब्राह्मणः᳓ (TS-32/73, RV-4/12, TB-21/38, AV-8/77, SB-M-24/59, SB-K-79/191, VS-M-1/5, VS-K-2/8, KS-6/15, MS-42/90)
  • विद्या᳓त् (TS-1, RV-1, TB-1, SB-K-31, VS-K-1, KS-1, MS-2; यद्वृत्तान्नित्यम्, पा॰ ८.१.६६)
  • त᳓स्य (TS-178/4763, RV-88/3136, TB-65/1327, TK-19/135, AV-124/3163, SB-M-277/2303, SB-K-728/20018, VS-M-11/268, VS-K-21/395, KS-67/1225, MS-226/5550)
  • देवाः᳓ (TS-376/1025, RV-238/1342, TB-38/242, TK-3/8, AV-283/705, SB-M-106/567, SB-K-984/1945, VS-M-22/257, VS-K-19/350, KS-89/317, MS-453/1216)
  • अ᳓सन् → असन् (तिङन्तम् अनुदात्तम्, पा॰ ८.१.२८, TS-3, RV-2, SB-K-4, VS-K-1, MS-3)
  • व᳓शे (TS-5/62, RV-2/22, TB-0/6, TK-1, AV-8/81, SB-M-1/13, SB-K-0/30, VS-M-2/10, VS-K-1/9, KS-0/17, MS-1/55)
उवट-टीका

रुचं ब्राह्मम्।
रुचं ब्राह्मम् जनयन्तः देवाः अग्रे [[ततब्रुवन्|तद् अब्रुवन्]]।
यः त्वा एवम् ब्राह्मणः विद्यात् तस्य देवाः असन् वशे।
रुचं देदीप्यमानं ब्राह्मं ब्रह्मण उत्पन्नं जनयन्तः सृष्ट्य्-अर्थम् देवा योगिनः तेजसा दीप्यमानाः [[यतब्रुवन्|यद् अब्रुवन्]] यद् ब्रूयुः अग्रे प्रथमतः।
किम् ऊचुः।
[[अपरोपि|अपरो ऽपि]] यो ब्राह्मणः स ब्रह्म विद्याज् जानीयात् तस्य देवा असन् वशे।
सो ऽपि सनकादीनां स्थानं गच्छतीत्य् अर्थः॥ २१॥

महीधर-टीका

देवाः दीप्यमानाः प्राणाः रुचं शोभनं ब्राह्मं ब्रह्मणो ऽपत्यम् आदित्यं जनयन्तः उत्पादयन्तः अग्रे प्रथमं तत् वचो ऽब्रुवन् ऊचुः।
‘ब्राह्मो जातौ’ (पा॰ ६। ४। १७१) इति निपातः।
तत् किम् अत आह।
यो ब्राह्मणः हे आदित्य, त्वा त्वाम् एवम्-उक्त-विधिना उत्पन्नं विद्याज् जानीयात् तस्य ब्राह्मणस्य देवा वशे असन् वश्या भवन्ति।
आदित्योपासिता जगत्-पूज्यो भवतीत्य् अर्थः॥ २१॥

सायण-टीका (काण्वी)

देवाः सर्वे अग्रे सृष्ट्य्-आदौ [[ब्रह्म-विद्य(|ब्रह्म-विद्या-]]सम्प्रदाय-प्रवर्तन-काले ब्राह्मं रुचं पर-ब्रह्म-सम्बन्धि चैतन्यं जनयन्तः विद्यया प्रादुर्भावयन्तः तत्त्वं ब्राह्म-तत्त्वं सम्बोध्य तत् अवेक्ष्यमाणं वाक्यम् उक्तवन्तः अग्रे वक्ष्यमाणं [[सूचयन्यः|सूचयन्तः]] ।
[[कि|किं]] तद् वाक्यम् इति तत् उच्यते - यः कश्चित् ब्राह्मणः पुमान् त्वाम् एवं यथोक्त-प्रकारेण विद्यात् तस्य ब्रह्म-विदः सर्वे देवाः वशे [[असत्|असन्]] अधीना भवन्ति ।
अयं हि तेषाम् अन्तर्यामी परमात्मा भवति, तस्मात् देवाः एतद्-अधीनाः, न तु अस्य देवाः ईश्वराः ।
एषः अर्थः ब्राह्मणे विस्पष्टम् उक्तः ।
“य एवं वेदाहम् अस्मीति स [[इद|इदं]] [[सर्व|सर्वं]] भवति तस्य ह न [[देवाश्चनो भूत्वा ईशत|देवाश् च नाभूत्या ईशते]] आत्मा ह्य् [[एषा सम्भवति|एषां स भवति]]” इति ।

आनन्दबोध-टीका

रुचं रोचमानम् ।
ब्राह्मं ब्रह्मावयव-भूतम् ।
‘[ ब्राह्मोऽ] जातौ ’ [ ६।४।१७१ ] इत्य् अणि टि-लोपे च ब्राह्मम् इति भवति ।
रुचं ब्राह्मं देदीप्यमानं ब्राह्मं ब्राह्मण-जातिम् ।
जनयन्त उत्पादयन्तो देवाः । अग्रे प्रथमम् । तत् तद् इदम् एवाब्रुवन् ।
यस् त्वैवं ब्राह्मणो विद्यात् ।
यस् त्वा एवम् ।
त्वा रुचं ब्राह्मं ब्राह्मण-जातिं त्वाम् ।
एवं पूर्वोक्त-प्रकारेण, पर-ब्रह्मैव ब्राह्मण-जातिर् इति यो ब्राह्मणो विद्यात् । तस्य ब्राह्मणस्य । वशे देवा असन् अभवन् भवन्ति । पर-ब्रह्म-वश-वर्तिनो देवास् तद्-अंश-भूतस्यापि वश-वर्तिनो भवन्तीत्य् अर्थः ॥ २१ ॥

त्रिभुवनः

The gods, while producing the lights of the Brahman (consciousness), said in the first time; “who knows thus of Brahman, the gods live according to his wish”.

भट्टभास्कर-टीका

रुचमिति ॥ एवं महानुभावं रुचं रोचनशीलं ब्राह्मं ब्रह्मणोऽपत्यम् । अजातित्वाट्टिलोपः । तमेवादित्यं जीवात्मना स्थितं जनयन्तः ब्राह्मणाः आत्मवन्तः स्यामेति ईशं शरीरे सन्निधापयन्तः देवाः इन्द्रियाणि अग्रे पूर्वमेव अब्रुवन् सृष्ट्यादौ आत्मना समयमिव कृतवन्तः । तत् तदानीं जन्मकाल एव यो ब्राह्मणः त्वा त्वां एवं जीवात्मना स्थितं विद्वान् एवं सृष्टयादिप्रवृत्तं यः त्वां विद्वान् यथावत् जानन् भवति, तस्य वशे असन् भवन्ति देवाः इन्द्रियाणि जितेन्द्रियो मुक्तो भवति । यद्वा - देवादयः स तस्य वशे तिष्ठन्ति विधेया भवन्ति । अस्तेर्लटि शपो लुक् ॥

सायण-टीका (आरण्यकी)

देवाः सर्वेऽग्रे सृष्ट्यादौ ब्रह्मविद्यासम्प्रदायप्रवर्तनकाले ब्राह्मं रुचं परब्रह्मसम्बन्धि चैतन्यं जनयन्तो विद्यया प्रादुर्भावयन्तस्तद्ब्रह्मतत्वं सम्बोध्याब्रुवन्वक्ष्यमाणं वाक्यमुक्तवन्तः ।

किं तद्वाक्यमिति तदुच्यते -

हे परमात्मन्यः कश्चिद्ब्राह्मणः पुमांस्त्वामेवं यथोक्तप्रकारेण विद्यात्तस्य ब्रह्मविदः सर्वे देवा वशेऽसन्नधीना भवन्ति, स्वयं हि तेषां देवानामन्तर्यामी परमात्मा भवति, तस्माद्देवा एतदधीना न त्वस्य देवा ईश्वराः । एतमेवार्थं वाजसनेयिनो विस्पष्टमामनन्ति - “य एवं वेदाहं ब्रह्मास्मीति स इदँ सर्वं भवति तस्य देवाश्च नाभूत्या ईशते, आत्मा ह्येषाँ स भवति” इति ।

अधिमन्त्रम् (VC)
  • विश्वेदेवा देवताः
  • उत्तरनारायण ऋषिः
  • अनुष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

अब विद्वानों का कृत्य कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे ब्रह्मनिष्ठ पुरुष ! जो (रुचम्) रुचिकारक (ब्राह्मम्) ब्रह्म के उपासक (त्वा) आपको (जनयन्तः) सम्पन्न करते हुए (देवाः) विद्वान् लोग (अग्रे) पहिले (तत्) ब्रह्म, जीव और प्रकृति के स्वरूप को (अब्रुवन्) कहें (यः) जो (ब्राह्मणः) ब्राह्मण (एवम्) ऐसे (विद्यात्) जाने (तस्य) उसके वे (देवाः) विद्वान् (वशे) वश में (असन्) हों ॥२१ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - यही विद्वानों का पहिला कर्त्तव्य है कि जो वेद, ईश्वर और धर्मादि में रुचि, उपदेश, अध्यापन, धर्मात्मता, जितेन्द्रियता, शरीर और आत्मा के बल को बढ़ाना, ऐसा करने से ही सब उत्तम गुण और भोग प्राप्त हो सकते हैं ॥२१ ॥

दयानन्द-सरस्वती (सं) - विषयः

अथ विद्वत्कृत्यमाह ॥

दयानन्द-सरस्वती (सं) - पदार्थः

पदार्थान्वयभाषाः - हे ब्रह्मनिष्ठ ! ये रुचं ब्राह्मं त्वा जनयन्तो देवा अग्रे तदब्रुवन् यो ब्राह्मण एवं विद्यात् तस्य ते देवा वशे असन् ॥२१ ॥

दयानन्द-सरस्वती (सं) - भावार्थः

भावार्थभाषाः - इदमेवाऽऽद्यं विद्वत्कृत्यमस्ति यद्वेदेश्वरधर्मादिषु रुचिरुपदेशेनाध्यापनधार्मिकत्वजितेन्द्रियत्व-शरीरात्मबलवर्द्धनमेवं कृते सति सर्वे दिव्या गुणा भोगाश्च प्राप्तुं शक्याः ॥२१ ॥

सविता जोशी ← दयानन्दः (म) - भावार्थः

भावार्थभाषाः - विद्वानांचे पहिले कर्तव्य असे आहे की, (त्यांनी लोकांना सांगावे की) जी माणसे ईश्वर, धर्मामध्ये अभिरूची, उपदेश, अध्यापन, धार्मिकता, जितेंद्रियता, शरीर व आत्मशक्ती वाढवितात त्यांना सर्व उत्तम गुण व भोग प्राप्त होतात.

परिपूर्णपुरुषध्यानम्
सर्वा अवतारिकाः
सायणोक्त-विनियोगः

अथ यजुरात्मानं कंचिन्मन्त्रमाह -

त्रिभुवनः - अवतारिका

A Yajus Mantra.

विश्वास-प्रस्तुतिः - ०१ ह्रीश् च

ह्री᳓श् च ते लक्ष्मी᳓श् च प᳓त्न्यौ ।

सर्वाष् टीकाः
त्रिभुवनः

(O Ātman:) the goddess of shyness and the goddess of prosperity are your wives;

मूलम्

ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ॑ ।

पद-पाठः (यान्त्रिकः)
  • ह्रीः᳓ (SB-K-1, प्रातिपदिकम् ह्री᳓ (MW))
  • च (अनुदात्तम्, पा॰ ८.१.१८, TS-1411, RV-1096, AV-1405, SB-K-2881, VS-K-747, KS-766, MS-1700)
  • ते (अनुदात्तम्, पा॰ ८.१.१८, TS-541, RV-1280, AV-1022, SB-K-719, VS-K-345, KS-298, MS-668)
  • लक्ष्मीः᳓ (TS-0/2, RV-1, AV-4, SB-K-2, VS-K-1/2, MS-2)
  • च (अनुदात्तम्, पा॰ ८.१.१८, TS-1411, RV-1096, AV-1405, SB-K-2881, VS-K-747, KS-766, MS-1700)
  • प᳓त्न्यौ (TS-0/39, RV-0/25, TB-0/16, TK-1/2, AV-0/20, SB-M-0/71, SB-K-0/116, VS-M-0/8, VS-K-0/14, KS-0/8, MS-0/73)
सायण-टीका

ह्रीर्लज्जाभिमानिनी देवता । लक्ष्मीरैश्वर्याभिमानिनी देवता । हे परमात्मन् ह्रीश्च लक्ष्मीश्च ते तव पत्न्यौ भार्यास्थानीये ।

विश्वास-प्रस्तुतिः - ०२ अहोरात्रे

अहोरात्रे᳓ पार्श्वे᳓ ।

सर्वाष् टीकाः
त्रिभुवनः

the days and the nights are the sides;

मूलम्

अ॒हो॒रा॒त्रे पा॒र्श्वे ।

पद-पाठः (यान्त्रिकः)
  • अहोरात्रे᳓ (TS-10/39, RV-0/1, TB-12/19, TK-4/6, AV-14/23, SB-M-14/21, SB-K-0/12, VS-M-0/1, VS-K-4/5, KS-6/9, MS-28/46)
  • पार्श्वे᳓ (TS-2/6, RV-0/1, AV-4/9, SB-M-3/5, SB-K-6/10, VS-M-1/2, VS-K-1/3, MS-1/4)
सायण-टीका

ये चाहोरात्रे ते पार्श्वद्वयस्थानीये ।

विश्वास-प्रस्तुतिः - ०३ नक्षत्राणि

न᳓क्षत्राणि रूप᳓म् ।

सर्वाष् टीकाः
त्रिभुवनः

the stars are the forms;

मूलम्

नक्ष॑त्राणि रू॒पम् ।

सायण-टीका

नक्षत्राण्याकाशे दृश्यमानानि रूपं तव शरीरस्थानीयम् ।

विश्वास-प्रस्तुतिः - ०४ अश्विनौ

अश्वि᳓नौ व्या᳓त्तम् +++(=मुखम्)+++ ।
+++(अश्विनयोः खल्ववर्तत विशुवस्थानम् पुरा।)+++

सर्वाष् टीकाः
त्रिभुवनः

Aśvins are the opened (mouth);

मूलम्

अ॒श्विनौ॒ व्यात्त॑म् ।

पद-पाठः (यान्त्रिकः)
  • अश्वि᳓नौ (TS-21/63, RV-11/122, TB-5/18, AV-6/45, SB-M-7/10, SB-K-61/120, VS-M-0/13, VS-K-2/23, KS-1/32, MS-19/130)
  • व्या᳓त्तम् (TS-1, SB-M-1/2, VS-M-1, VS-K-1)
सायण-टीका

अश्विनौ यौ देवौ तौ तव व्यात्तं विवृतं मुखस्थानीयम् ।

विश्वास-प्रस्तुतिः - ०५ इष्टम् मनिषाण

इष्ट᳓म् मनिषाण+++(=यच्छ)+++ ।

सर्वाष् टीकाः
त्रिभुवनः

grant the desired (thing);

मूलम्

इ॒ष्टम् म॑निषाण ।

पद-पाठः (यान्त्रिकः)
  • इष्ट᳓म् (TS-3/13, RV-1/12, TB-1/3, AV-6/10, SB-M-3/8, SB-K-21/51, VS-M-1/3, VS-K-2/5, KS-2, MS-9/24)
  • मनिषाण (तिङन्तम् अनुदात्तम्, पा॰ ८.१.२८)
सायण-टीका

तथाविध हे विराट्पुरुषेष्टमस्मदपेक्षितमात्मबोधं मनिषाणानुमन्यस्व देहीत्यर्थः ।

विश्वास-प्रस्तुतिः - ०६ अमुं मनिषाण

अमुं᳓ +++(स्वर्लोकं)+++ मनिषाण ।

सर्वाष् टीकाः
त्रिभुवनः

grant that (heaven);

मूलम्

अ॒मुं म॑निषाण ।

पद-पाठः (यान्त्रिकः)
  • अमु᳓म् (TS-34/211, RV-2/51, TB-9/39, AV-65/188, SB-M-3/20, SB-K-98/658, VS-M-0/5, VS-K-0/2, KS-16/35, MS-68/236)
  • मनिषाण (तिङन्तम् अनुदात्तम्, पा॰ ८.१.२८)
सायण-टीका

अमुं लोके दृश्यमानं गवाश्वादिकं मनिषाण प्रयच्छ ।

विश्वास-प्रस्तुतिः - ०७ सर्वम् मनिषाण

स᳓र्वम् मनिषाण । ६

सर्वाष् टीकाः
त्रिभुवनः

grant all (for me).

मूलम्

सर्व॑म् मनिषाण । ६

पद-पाठः (यान्त्रिकः)
  • स᳓र्वम् (TS-49/281, RV-19/68, TB-29/109, TK-9/35, AV-108/443, SB-M-449/1221, SB-K-832/2224, VS-M-10/39, VS-K-9/41, KS-8/43, MS-69/419)
  • मनिषाण (तिङन्तम् अनुदात्तम्, पा॰ ८.१.२८)
भट्टभास्कर-टीका

ह्रीश्चेत्यादिकं यजुः ॥ ह्रीः लज्जा लक्ष्मीः श्रीः ते उभे तव पत्न्यौ सहधर्मचारिण्यौ, हे आत्मन् ! अहोरात्रे अहश्च रात्रिश्च पार्श्वस्थानीये । पशूनां समूहः पार्श्वं, ‘पशोर्णस् वक्तव्यः’ । घटिकासमूहात्मके अहोरात्रे पार्श्वस्थानीये धारकत्वसामान्यात् । नक्षत्राणि चन्द्रयुतानि तव रूपं रूपणनिमित्तानि,नक्षत्रयुक्तचन्द्राधीनकालनिबन्धनत्वात् जीवानां स्थितेः । अश्विनौ द्यावापृथिव्यौ व्यात्तं व्यात्तास्यस्थानीयौ, विश्वं निगिरतः तव व्यापकत्वात् तद्देवत्यत्वाद्वा द्यावापृथिव्योरश्वित्वम् । स त्वमेवं महाभागो मम इष्टं ईप्सितं आत्मबोधलक्षणं मनिषाण अनुमन्यस्व, देहीति यावत् । मनोतेर्व्यत्ययेन श्नाप्रत्ययः, ‘हलश्नश्शानज्झौ’ विकरणत्वेन सिप इडागमः, धात्वन्तरं वा छान्दसं द्रष्टव्यम् । अमुमिति विशेषार्थं, आयुश्च गां च अश्वं च देहि । किंबहुना ऐहिकमामुष्मिकं वा सर्वमिष्टं देहीति ॥

सायण-टीका

किं बहुना सर्वं मनिषाणैहिकमामुष्मिकं वा सर्वमिष्टं देहि ॥