०४ मन्त्रगताः विशेषशब्दार्थाः

अजाः छागाः अवयः मेषाः ते उभयेऽपि इत्यर्थः २. अनशनम् - स्थावरम् वृक्षगुल्मलतादिरूपम् । ३. अन्यः पन्थाः - मार्गान्तरम् । उपायान्तरम् । ४. अमृतत्वम् - मोक्षत्वम् । ५. अमृत: - मुक्तः । । ६. अमृतं - जरामराणादिरहितं नित्यवस्तु जातम् । ७. अमृतं - अविनाशिरूपम् । ८. असुराः भगवदाज्ञातिवृत्तिशीलाः । ९. आरण्यान् - अरण्ये भवान् आरण्यान् पशून् श्वापादीन् सप्त । १०. ईशानः - स्वामी । ११. उभयादतः १२. ऋचः १३. ग्राम्याः

उभयतोदन्ताः । मुखस्य ऊर्ध्वाधोभागयोः उभयोरपि दन्तवन्तः । ऋग्वेदा: एकविंशतिशाखाः । ग्रामे भवाः ग्राम्याः तान् मेषादीन् सप्त । १४. छन्दांसि - गायत्र्यादीनि । । १५. देवा: - मुमुक्षवः । भगवदाज्ञानुवृत्तिशीला: १६. धाता - चतुर्मुखः १७. धीरः - धिया रमते इति धीरः । धीमतां अग्रेसरः । १८. पारः १९. पुरुषः 0 ऊर्ध्वदेशः । D नारायणः । २०. पूर्वे - पुरातनाः । २१. पृषदाज्यम् - दधिमिश्रमाज्यम् । २२. प्रौक्षन् - प्रोक्षणसंस्कारमकुर्वन् । २३. महान्तः २४. यजुः अपरिच्छेद्यस्वरूपगुणविभूतिकः सर्वस्मात्परः । एकाधिकशतशाखा: यजुर्वेदः । २५. यज्ञः - देवतोद्देशेन द्रव्यत्यागः । २६. विद्वान् प्रपन्नः पुरुषः । । २७. विराट - विशेषेण राजते इति विराट् । परमपुरुषः ।________________

128 पुरुषसूक्तम् २८. शक्रः शचीपतिः इन्द्रः । २९. सर्वहुतः - सर्वं हूयतेऽस्मै इति सर्वहुत् तस्मात् । सर्वविधद्रव्यत्यागजन्य- फलभाज इत्यर्थः । सर्वं हूयते इति वा सर्वहुत् । तस्मात् पशुपुत्रादि सर्वविध- फलाभिलाषिकर्तृक अग्नीन्द्रादि सर्वदेवतोद्देश्यक यज्ञाराध्यात् इत्यर्थः । प्राप्यभूताः । ३०. साध्याः

३१. सामानि सामवेदाः सहस्रशाखाः ।

३२. साशनं - जङ्गमम् देवमनुष्यादिरूपम् ।________________

अ. पु अ. सं अग्निपुराणम् अथर्वसंहिता अ.प अथर्वपरिशिष्टम् बृ. उ. ऋ.सं. ऋग्वेदसंहिता बृ.दे.