अ. [श्रीभाष्ये पुरुषसूक्तार्थविचारः ] ज्योतिरधिकरणं - (१-१-१०)
एवं प्राप्ते प्रचक्ष्महे ‘ज्योतिश्चरणाभिधानात् ’ । घुसंबन्धितया निर्दिष्टं निरतिशयदीप्तियुक्तं ज्योतिः परमपुरुष एव । कुतः । ’ पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ इत्यस्यैव संबन्धिनश्चरणत्वेन सर्वभूताभिधानात् ॥ (श्री.भा.) एवं प्राप्त इति - चरणत्वेन सर्वभूताभिधानं कारणस्य जीववैलक्षण्यनिश्चायकम्; जीवमात्रस्य सर्वभूतपादवत्त्वानुपपत्तेः । तत एव पुरुषसूक्तप्रत्यभिज्ञापकतया देवताविशेष निश्चयः । तद्द्वारा, दीप्तियोगस्य भौतिकज्योति हेतुतापरिहारश्च भवति । पुरुषसूक्तं क़स्मात् सूत्रकारेण न निरूपितम् । संशयहेत्वभावादिति ब्रूमः । सन्दिग्धे न्यायः प्रवर्त्तते । पुरुषसूक्ते च ज्योतिश्शब्दः छन्दोभिधानादिकं प्रधानक्षेत्रज्ञासाधारणलिङ्गान्तरं वा क्वचिन्न दृश्यते । सर्वभूतपादवत्त्वादिधर्माश्च तयोरसंभाविताः । तर्हि चिदचिद्विलक्षणकारण अस्तित्वविषयस्य प्रथमपादस्यानारम्भः स्यादिति चेन्न; बहूनां वेदान्तवाक्यानां प्रकृतिपुरुषकारणमात्रवादित्वे तद्विरोधेनात्रापि संशयप्रसङ्गात् तेषां भूयसां बलीयस्तया विपरीतनिश्चयप्रसङ्गाच्च तद्व्युदासायारम्भणीयत्वात् । तेषु च प्रकृतिपुरुषविलक्षणविषयतया न्यायतो निश्चितेषु संशयविपर्ययाभावात् पुरुषसूक्तस्य चिदचिद्विलक्षणे परे ब्रह्मणि प्रामाण्यम् अप्रतिभटमवतिष्ठते । अतो न तत्र निरूपणीयम् । तस्य च तत्त्वपरत्वं (पुरुषसूक्तस्य भगवत्परत्वम्) तत्रापि महापुरुषसंज्ञदेवताविशेषविषयत्वमपि अविगीतम्; अनेकोपपत्तिसिद्धञ्च । ‘इदं पुरुषसूक्तं हि सर्ववेदेषु पठ्यते । ऋतं सत्यं च विख्यातं ऋषिसिंहेन चिन्तितम्’ इति मोक्षधर्मे तत्त्वनिष्कर्षकतया व्यासेनोदाहृतम् । अत्र च सर्वेषु वेदेषु पठिततया संनिहितत्वात् तत्तच्छाखागतानां तत्त्वपरवाक्यानाम् आकाङ्क्षितयोग्य- विशेषसमर्पकतया अनुरोद्धव्यमिदम् इत्यवगम्यते । एवं तत्त्वपरस्यास्य सूक्तस्य देवताविशेषपरत्वं दुरपह्नवम् । ‘पुरुषो ह वै नारायणोऽकामयत’ इति बृहदारण्यके पुरुषशब्दस्य नारायणपरत्वदर्शनात् । किञ्च छान्दोग्ये ‘एषा वैष्णवी नाम संहिता एतां प्रयुञ्जन् विष्णुं प्रीणाति’ इत्युक्तम् । आथर्वणे अष्टादशमहाशान्तिप्रकरणे तत्तद्देवत्यशान्तिषु तत्तद्देवत्यमन्त्रविनियोगावसरे, ‘वैष्णव्यां________________
110 पुरुषसूक्तम् पुरुषसूक्तम्’ इति वैष्णव्यां शान्तौ पुरुषसूक्तं विनियुज्यते । तथा ‘आद्ययाऽऽवाहयेद्देवमृचा तु पुरुषोत्तमम्’ इत्यादिना शौनकेन भगवत्समाराधने, ‘जितं ते’ इत्यादिमन्त्रतुल्यं विनियुज्यते । महापुरुषशब्दाश्च कल्पसूत्रकारैः देवताविशेष एव प्रयुक्तः, ‘महादेवं वा महापुरुषं वाऽर्चयेत्’ इति । इह च, ‘वेदाहमेतं पुरुषं महान्तम्’ इत्युच्यते । अतश्च भगवदसाधारण्यम् । तथा ‘पुरुषस्य हरेस्सूक्तं स्वर्यं धन्यं यशस्करम्’ इति च स्मर्यते । तथा ‘योऽनूचानं द्विजं मर्त्यो हतवान् अर्थलोभतः । स पठेत् पौरुषं सूक्तं स्मरन् विष्णुं जले सकृत्’ इति यमस्मृतौ रहस्यप्रायश्चित्तेषूक्तम् । तथा योगवासिष्ठे, ‘आसीन ः प्राङ्मुखः शुद्धः चिन्तयन् मनसा हरिम् । पौरुषेणैव सूक्तेन जुहुयाद्धव्यवाहनम्’ ॥ इत्युक्तम् । लक्ष्मीपतिप्रतिपादकोत्तर- नारायणसमानप्रकरणं चेदम् । ‘सहस्रशीर्षापुरुषः ’ ‘पुरुष एवेदं सर्वम्’ इति नारायणानुवाकैकार्थ्यञ्च प्रतीयते । ‘पुरुष एवेदं सर्वम्’ इति वाक्येन सुबालोपनिषदैकार्थ्यञ्च प्रतीयते । तत्र हि ‘दिव्यो देव एको नारायण:’ इति नारायणपरत्वमवगम्यते । तत्र च, ‘पुरुष एवेदं सर्वम्’ इत्युपसंहृतम् । तथा पुरा ,
‘ब्रह्महत्यादिपापानां सर्वेषामपनुत्तये । पठेत्तु पौरुषं सूक्तमेकान्ते संस्मरन् हरिम्’ ॥ इत्युच्यते । तथा स्कान्दे - ‘यथा भास्करशब्दोऽयमादित्ये प्रतितिष्ठते । यथा चाग्नौ बृहद्भानुर्यथा वायौ सदागतिः ॥ यथा पुरुषशब्दोऽयं वासुदेवे प्रतिष्ठते ( प्रतिष्ठितः ? ) । - तथा शङ्करशब्दोऽयं महादेवे प्रयुज्यते’ इति शंकरशब्ददृष्टान्तत्वेन पुरुषशब्दस्य भगवदसाधारणत्वकथनाच्च पुरुषसूक्तस्य तदसाधारण्यं प्रतीयते । पाद्मे पुराणे नामनिर्वचनाध्याये, ‘पूस्सज्ञे तु शरीरेऽस्मिन् शयनात् पुरुषो हरिः । शकारस्य षकारोऽयं व्यत्यासेन प्रयुज्यते ॥ यद्वा पुरे शरीरेऽस्मिन् आस्ते स पुरुषो हरिः । यदि वा पुरि वासीति पुरुषः प्रोच्यते हरिः ॥________________
अनुबन्धः 111 यदि वा पूर्वमेवासमिति पुरुषं विदुः । यदि वा बहुदानाद्वै विष्णुः पुरुष उच्यते ॥ पूर्णत्वात् पुरुषो विष्णुः पुराणत्वाच्च शार्ङ्गिणः । पुराणभजनाच्चापि विष्णुः पुरुष ईर्यते ॥ यद्वा पुरुषशब्दोऽयं रूढ्या वक्ति जनार्दनम्’ इति च योगरूढत्वमवगम्यते । अतः पुरुषप्रतिपादकं सूक्तं भगवदेसाधारणमिति ‘चरणाभिधानात्’ इति वदता सूत्रकारेण देवताविशेषनिष्कर्षः कृतः । सारे चैवं विशदतममुक्तं भगवता भाष्यकारेण । अतो यथोक्तार्थ उपपन्नः । । अत्र ‘पादोऽस्येति मन्त्रे’ ‘त्रिपादस्यामृतं दिवि’ इति शब्देन द्योतमानसंविदात्म- स्वरूपमुच्यत इति केचिदाहुः । तदानीमस्य दिवीति व्यतिरेकनिर्देशस्य क्लिष्टता स्पष्ट । किञ्च द्युसम्बन्धिप्रत्यभिज्ञापकतया तदेकार्थत्वेन सूत्रकारोदाहते, ‘अथ यदतः परो दिवो ज्योतिर्दीप्यते’ इति वाक्ये पञ्चम्यन्ततया श्रूयमाणेन शब्देन विरोधश्च स्यात् । न हि द्योतमानम् आत्मस्वरूपं स्वस्वरूपात्परं भवति । दिवि हृदयाकाशे स्थितमिति भास्करः । तदयुक्तम्; ‘अतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेषु’ इति श्रुतिविरोधात् । न हि हृदयाकाशो दिव उपरितनेषु लोकेषु वर्तते ॥ परमात्मन आदित्यमण्डलेऽपि अवस्थानात् तद्विषयं तद्वाक्यमिति चेन्न; रविमण्डलस्य भूमेर्योजनलक्षेऽवस्थितस्य विश्वप्रपञ्चबहिर्भावाभावात् ; विश्वसर्वशब्दयोः भूम्यन्तरिक्षमात्रपरत्वे स्वारस्यभङ्गाच्च । किञ्च सप्तम्यन्तपञ्चम्यन्तयोः धुशब्दयोः अविरोधेन अर्थैकत्वं चतुर्थसूत्रे समर्थितम् तच्च तयोः हृदयाकाशरवि- मण्डलपरत्वेऽनुपपन्नम् । विश्वसर्वशब्दस्वारस्यभङ्गप्रसङ्गादेव धुशब्दस्य प्रसिद्धद्युपरत्वं चायुक्तम् ॥ जाग्रत्स्वप्नसुषुप्त्यवस्थासु जीवसञ्चारभूमितया त्रेधा विभक्ताः कार्याकाशप्रदेश- विशेषास्त्रयः पादाः, तदुपलक्षणं कारणब्रह्मस्वरूपं त्रिपादमृतमुच्यते इति चायुक्तम् अस्य त्रिपादिति व्यतिरेकनिर्देशस्य अमुख्यत्वात् । जीवस्य जाग्रदवस्थायां बाह्याकाशः सञ्चारभूमिरिति चायुक्तम् तदानीमपि शरीरान्तर्वर्तित्वात् । स्वप्ने शरीराकाशवर्तित्वमपि अयुक्तम्; ईश्वरसृष्टशरीरैर्बहिरपि अवस्थानात्; तदनभ्युपगमेऽपि पूर्वसंस्कारसहकृत- मनोव्यापारमात्रेण हृदयावस्थानेऽपि जीवस्य स्वानभ्रमोपपत्तेः स्वप्ने जीवस्य ।________________
112 पुरुषसूक्तम् हृदयान्निष्क्रमणस्य निष्प्रमाणकत्वाच्च । ‘हृदि ह्ययमात्मा’ इति जीवस्य स्वतो हृद्यवस्थानं श्रूयमाणं स्वप्नावस्थायां कथं वचनेन विनाऽपोद्यते । तस्मादृचोऽयमर्थः- सर्वा भूतानीति कार्यजगदन्तर्गताचित्संसृष्टचेतना उच्यन्ते । द्युशब्दस्तु समस्तव्यष्टिसमष्टितत्त्वबहिर्भूतस्थानविशेषपरः, ‘विश्वतः पृष्ठेषु सर्वतः पृष्ठेषु’ इति श्रवणात् । विश्वशब्दविवरणं सर्वशब्द इति गत्यभावलिङ्गम् । ‘तथाऽक्षरात्संभवतीह विश्वम्’ इति जगदन्तर्वर्तिव्यष्टिजाते विश्वशब्दप्रयोगात् विश्वशब्दो व्यष्टिपरः । सर्वशब्दः परिशेषात् समष्टितत्त्वपरः । अत एव गद्येऽपि गदितं भाष्यकारै:, ‘समस्तं कार्यकारणजातमतीत्य वर्तमाने’ इति । पुरुषसूक्ते ‘ते ह नाकं महिमानः सचन्ते इति मुक्तप्राप्यदेशस्य नाकशब्देनोक्तत्वात्, मुक्तस्य च दुःखमिश्रकार्यलोकानां हेयत्वात् नास्मा अकं भवतीत्यवयवार्तपौष्कल्योपपत्तेः, तत्रैव ‘तमसः परस्तात्’ इति विशेषितत्वात्, ‘क्षयन्तमस्य रजसः पराके’ इति निवासशब्दात् ‘तदक्षरे परमे व्योमन्’, ‘विश्वं पुराणं तमसः परस्तात्’ इति तमसः परस्य स्थानस्य स्थानिनो ब्रह्मणश्च व्यतिरेकनिर्देशात्, तस्य तमसः परत्वविशेषणेन पुरुषसूक्तप्रत्यभिज्ञानाच्च दिवीत्यप्राकृतं स्थानमुच्यते । त्रिपात्त्वञ्च अप्राकृतैः भोग्यभोगोपकरणभोगस्थानविशेषैः वा भूषणास्त्रादिरूपेण जगदन्तर्गतवस्त्वभिमानिभिः नित्यैः, भगवदनुभवमात्रपरैश्च नित्यसिद्धैः, मुक्तैश्चात्मभिर्वा संभवति । एवञ्चास्य दिवीति व्यतिरेकनिर्देशोऽमृतत्वं च मुख्यं भवतीति ॥ (श्रुतप्रकाशिका)________________
आ. मुद्गलोपनिषदि पुरुषसूक्तार्थ: श्रीमत्पुरुषसूक्तार्थं पूर्णानन्दकलेवरम् । पुरुषोत्तमविख्यातं पूर्णं ब्रह्म भवाम्यहम् ॥ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि । वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि । तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम् । ओं शान्तिः शान्तिः शान्तिः ॥ पुरुषसूक्तार्थनिर्णयं व्याख्यास्यामः । पुरुषसंहितायां पुरुषसूक्तार्थः संग्रहेण प्रोच्यते सहस्रशीर्षेत्यत्र सशब्दोऽनन्तवाचकः । अनन्तयोजनं प्राह दशाङ्गुलवचस्तथा ॥ १ ॥ तस्य प्रथमया विष्णोर्देशतो व्याप्तिरीरिता । द्वितीयया चास्य विष्णोः कालतो व्याप्तिरुच्यते ॥ २ ॥ विष्णोर्मोक्षप्रदत्वं च कथितं तु तृतीयया । एतावानिति मन्त्रेण वैभवं कथितं हरेः ॥ ३ ॥ एतेनैव च मन्त्रेण चतुर्व्यूहो विभाषितः । त्रिपादित्यनया प्रोक्तमनिरुद्धस्य वैभवम् ॥ ४ ॥ तस्माद्विराडित्यनया पादनारायणाद्धरेः । प्रकृतेः पुरुषस्यापि समुत्पत्तिः प्रदर्शिता ॥ ५ ॥ यत्पुरुषेणेत्यनया सृष्टियज्ञः समीरितः । सप्तास्यासन्परिधयः समिधश्च समीरिताः ॥ ६ ॥ तं यज्ञमिति मन्त्रेण सृष्टियज्ञः समीरितः । अनेनैव च मन्त्रेण मोक्षश्च समुदीरितः ॥ ७ ॥ तस्मादिति च मन्त्रेण जगत्सृष्टिः समीरिता । वेदाहमिति मन्त्राभ्यां वैभवं कथितं हरेः ॥ ८ ॥ यज्ञेनेत्युपसंहारः सृष्टेर्मोक्षस्य चेरितः । य एवमेतज्जानाति स हि मुक्तो भवेदिति ॥ ९ ॥ १ ॥
अथ तथा मुद्गलोपनिषदि पुरुषसूक्तस्य वैभवं विस्तरेण प्रतिपादितम् । वासुदेव इन्द्राय भगवज्ज्ञानमुपदिश्य पुनरपि सूक्ष्मश्रवणाय प्रणताय इन्द्राय परमरहस्यभूतं________________
114 पुरुषसूक्तम् पुरुषसूक्ताभ्यां खण्डद्वयाभ्याम् उपादिशत् । द्वौ खण्डौ उच्येते । योऽयमुक्तः स पुरुषो नामरूपज्ञानागोचरं संसारिणाम् अतिदुर्ज्ञेयं विषयं विहाय क्लेशादिभिः संक्लिष्टदेवादिजिहीर्षया सहस्रकलावयवकल्याणं दृष्टमात्रेण मोक्षदं वेषमाददे । तेन वेषेण भूम्यादिलोकं व्याप्यानन्तयोजनमत्यतिष्ठत् । पुरुषो नारायणो भूतं भव्यं भविष्यच्चासीत् । स एष सर्वेषां मोक्षदश्चासीत् । स च सर्वस्मान्महिम्नो ज्यायान् । तस्मान्न कोऽपि ज्यायान् । महापुरुष आत्मानं चतुर्धा कृत्वा त्रिपादेन परमे व्योम्नि चासीत् । इतरेण चतुर्थेन अनिरुद्धनारायणेन विश्वानि आसन् । स च पादनारायणो जगत्स्रष्टुं प्रकृतिम् अजनयत् । स समृद्धकामःसन् सृष्टिकर्म न जज्ञिवान् । सोऽनिरुद्धनारायणस्तस्मै सृष्टिम् उपादिशत् । ब्रह्मन् तव इन्द्रियाणि याजकानि ध्यात्वा कोशभूतं दृढं ग्रन्थिकलेवरं हविर्ध्यात्वा मां हविर्भुजं ध्यात्वा वसन्तकालम् आज्यं ध्यात्वा ग्रीष्मम् इध्मं ध्यात्वा शरदृतुं रसं ध्यात्वा एवमग्नौ हुत्व अङ्गस्पर्शात्कलेवरो वज्रं हीष्यते । ततः स्वकार्यान् सर्वप्राणिजीवान् सृष्ट्वा पश्चाद्याः प्रादुर्भविष्यन्ति । ततः स्थावरजङ्गमात्मकं जगद्भविष्यति । एतेन जीवात्मनोर्योगेन मोक्षप्रकारश्च कथित इत्यनुसंधेयम् । य इमं सृष्टियज्ञं जानाति मोक्षप्रकारं च सर्वमायुरेति ॥ २ ॥ एको देवो बहुधा निविष्ट अजायमानो बहुधा विजायते । तमेतम् अग्निर् इत्यध्वर्यव उपासते । यजुर् इत्येष हीदं सर्वं युनक्ति । साम इति छन्दोगाः । एतस्मिन् हीदं सर्वं प्रतिष्ठितम् । विषमिति सर्पाः । सर्प इति सर्पविदः । ऊर्गिति देवाः । रयिरिति मनुष्याः । मायेत्यसुराः । स्वधेति पितरः । देवजन इति देवजनविदः । रूपमिति गन्धर्वाः गन्धर्व इत्यप्सरसः । तं यथा यथोपासते तथैव भवति । तस्माद् ब्राह्मणः पुरुषरूपं परंब्रह्मैव अहमिति भावयेत् । तद्रूपो भवति । य एवं वेद ॥ ३ ॥ तद्ब्रह्म तापत्रयातीतं षट्कोशविनिर्मुक्तं षडूर्मिवर्जितं पञ्चकोशातीतं षड्भावविकार- शून्यम् एवमादिसर्वविलक्षणं भवति । तापत्रयं तु आध्यात्मिक आधिभौतिक आधिदैविकं कर्तृकर्मकार्य-ज्ञातृज्ञानज्ञेय - भोक्तृभोगभोग्यम् इति त्रिविधम् । त्वङ्मांसशोणिता- स्थिस्नायुमज्जाः षट्कोशाः । कामक्रोधलोभमोहमदमात्सर्यम् इति अरिषड्वर्गः । अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया इति पञ्च कोशाः । प्रियात्मजननवर्धन- परिणामक्षयनाशाः षड्भावाः । अशनायापिपासाशोकमोहजरामरणानीति षडूर्मयः । कुलगोत्रजातिवर्णाश्रमरूपाणि षड्भ्रमाः । एतद्योगेन परमपुरुषो जीवो भवति नान्यः । य एतदुपनिषदं नित्यमधीते सोऽग्निपूतो भवति । स वायुपूतो भवति । स आदित्यपूतो________________
अनुबन्धः 115 भवति । अरोगी भवति । श्रीमांश्च भवति । पुत्रपौत्रादिभिः समृद्धो भवति । विद्वांश्च भवति । महापातकात्पूतो भवति । सुरापानात्पूतो भवति । अगम्यागमनात्पूतो भवति । स्वर्णस्तेयात्पूतो भवति । वेदिजन्महानात्पूतो भवति । गुरोः अशुश्रूषणात्पूतो भवति । अयाज्ययाजनात्पूतो भवति । अभक्ष्यभक्षणात्पूतो भवति । उग्रप्रतिग्रहात्पूतो भवति । परदारगमनात्पूतो भवति । कामक्रोधलोभमोहेर्ष्यादिभिः अबाधितो भवति । सर्वेभ्यः पापेभ्यो मुक्तो भवति । इह जन्मनि पुरुषो भवति । तस्मात् एतत्पुरुषसूक्तार्थम् अतिरहस्यं राजगुह्यं देवगुह्यं गुह्यादपि गुह्यतरं नादीक्षिताय उपदिशेत् । नानूचानाय नायज्ञशीलाय नावैष्णवाय नायोगिने न बहुभाषिणे नाप्रियवादिने नासंवत्सरवेदिने नातुष्टाय नानधीतवेदाय उपदिशेत् । गुरुरपि एवंविच्छुचौ देशे पुण्यनक्षत्रे प्राणानायम्य पुरुषं ध्यायन् उपसन्नाय शिष्याय दक्षिणकर्णे पुरुषसूक्तार्थम् उपदिशेत् विद्वान् । न बहुशो वदेत् । यातयामो भवति । असकृत्कर्णमुपदिशेत् । एतत्कुर्वाणोऽध्येताऽध्यापकश्च इह जन्मनि पुरुषो भवति इत्युपनिषत् ॥ ४ ॥ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि । वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि । तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम् । ओं शान्तिः शान्तिः शान्तिः ॥ ॥ इति मुद्गलोपनिषदि पुरुषसूक्तार्थः समाप्तः ॥________________
इ. श्रीपाञ्चरात्रे पराशरसंहितायां पुरुषसूक्तस्य विनियोगः श्रीभगवानुवाच
[विशिष्टपरमधर्मशास्त्रे सप्तमोऽध्यायः ] अथ वक्ष्ये विधानेन पुंसूक्तस्य चतुर्मुख । न्यासध्यानादिकं सम्यक् विष्णुपूजादिसिद्धये ॥ १ ॥ पुरुषसूक्तस्य ऋष्यादिलक्षणम् - अस्य श्रीपुरुषसूक्तस्य ऋषिर्ब्रह्मेति कथ्यते । अनुष्टुप् छन्दः इत्युक्तः पुरुषोदेवता सदा ॥ २ ॥ परब्रह्मपदं चोक्त्वा रूपे नारायणेति च । प्रणवादि ततो ब्रह्मन् वदेत् ध्यायन् हरिं तथा ॥ ३ ॥ सहस्रशीर्षा पुरुष इति बीजं ततः परम् । साध्या स्सन्ति परं चोक्त्वा वेदर्चेति क्रमात् द्विजः ॥ ४ ॥ ह्रीं बीजमिति देहादे क्लीं शक्तिरिति च क्रमात् । अं कीलकं रं कवचं लमस्रमिति चोच्चरेत् ॥ ५ ॥ ऋग्भिः अङ्गन्यासः - श्यामो वर्ण इति प्रोक्तं ऋचा न्यासं इमं वदेत् । प्रणवेन करन्यासं षट्पदैस्सह विन्यसेत् ॥ ६ ॥ तान्त्रिकेन षडंगं तु न्यासं कुर्याच्च षट्स्वरैः । व्याप्यं तद्व्यापकं कुर्यात् तारबीजेन स द्विजः ॥ ७ ॥ प्रथमां विन्यसेत् वामे द्वितीयां दक्षिणे करे । तृतीयां वामपादे तु चतुर्थी दक्षिणे तथा ॥ ८ ॥ पञ्चमीं वामजानौ त षष्टिं दक्षिणतस्तथा । तु सप्तमीं वामकट्यां तु अष्टमीं दक्षिणे तथा ॥ ९ ॥ नवमीं नाभिमध्ये तु दशमीं हृदये तथा । एकादशी वामबाहौ द्वादशीं दक्षिणे तथा ॥ १० ॥ त्रयोदशीं कण्ठदेशे आस्यदेशे चतुर्दशीम् । अक्ष्णोः पंचदर्शी न्यस्य षोडशीं मूर्ध्नि विन्यसेत् ॥ ११ ॥ एवं न्यासविधिं कृत्वा पञ्चांगानि समाचरेत् । प्रायश्चित्ते जपे चैव विष्णोराराधने तथा ॥ १२ ॥ A A________________
अनुबन्धः पुंसूक्त जपविधिः
117 सर्वालंकारसंयुक्त सर्वायुधधरं विभुम् । विष्णुं तद्वासुदेवं तं नारायणमनामयम् ॥ १३ ॥ ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिंगळम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः । इति ध्यानं तथा कृत्वा पुंसूक्तजपमाचरेत् ॥ १४ ॥ उत्तिष्ठन्मन्त्रसिद्ध्यर्थं अयुतं जपमाचरेत् । सर्वपापविनाशार्थं विष्णुसायुज्यसिद्धये ॥ १५ ॥ महापापयुतो विप्रः पुंसूक्तजपमाचरेत् । धर्मकामार्थमोक्षार्थं एतदेव जपेत् द्विजः ॥ १६ ॥ तन्मन्त्रफलसिद्ध्यर्थं यथाकालं जपेत् द्विजः । कर्पूरचन्दनेनैव सहस्रं तर्पयेत्तथा ॥ १७ ॥ तिलैर्वा पायसेनैव अपामार्गेरुदुम्बरैः । तथा गोघृतसम्मिश्रं होमं कुर्यात् सहस्रकम् ॥ १८ ॥ पुरुषसूक्तजपफलम्
रोगाद्युपद्रवोपेतो दक्षिणाद्यैस्तथा द्विजः । मोक्षे ऋक्षेप्यनुज्ञाते सुपुत्रप्रापणेपि च ॥ १९ ॥ सर्वकामफलावाप्तौ आरोग्ये मृत्युनाशने । चातुरंगविधानेन जपमेतत् समाचरेत् ॥ २० ॥ मोक्षार्थी विष्णुपूजायां एकवारं जपेत् सदा । योऽनूचानो द्विजो मर्त्यो हतवानर्थलोभतः ॥ २१ ॥ स जपेत् पौरुषं सूक्तं जलस्थश्चिन्तयेत् हरिम् । पुंसूक्तन्यासमन्त्रेण विष्णुरूपी भवेत् द्विजः ॥ २२ ॥ किमुताल्पफलान् भोगान् पुंसूक्तस्य फलस्य च । पुंसूक्तस्य च माहात्म्यं वक्तुं श्रोतुं सुदुर्लभम् ॥ २३ ॥ देवतानां ऋषीणां च सत्यमेव चतुर्मुख ॥ २४ ॥ ॥ श्रीपाञ्चरात्रे पराशर संहितायां पुरुषसूक्तस्य विनियोगः समाप्तः ॥________________
अहिर्बुध्यः ई. अहिर्बुध्यसंहितायां पुरुषसूक्तस्य विशेषार्थः [ अध्याय: ५९ ] संभारा देवपत्यश्च दक्षिणा हृदयानि च । रुद्रा ब्रह्माणि चेत्येतन्निगदेन निरूप्यते ॥ १ ॥ सूक्तं तु पौरुषं पुंसः परस्मादुत्थितं पुरा । जगद्धिताय लक्ष्म्याश्च श्रीसूक्तं तत् समुद्गतम् ॥ २ ॥ नानाभेदप्रपाठं तत् पौरुषं सूक्तमुच्यते । । ऋचश्चतस्रः केचित्तु पञ्च षट् सप्त चापरे ॥ ३ ।। ऋचः षोडश चाप्यन्ये तथाष्टादश चापरे । अधीयते तु पुंसूक्तं प्रतिशाखं तु भेदतः ।। ४ ।। समस्तजगदुत्पत्तिहेतुः स्वर्गापवर्गदः । पौरुषो मानुषो यज्ञः सूक्तेऽस्मिन् प्रतिपाद्यते ।। ५ ।। तत्राद्याभिश्चतसृभिश्चातुरात्म्यं विविच्यते । यः परः पुण्डरीकाक्षः परमात्मा सनातनः ।। ६ ।। या च सा जगतां योनिर्लक्ष्मीस्तद्धर्मधर्मिणी । भगवान् वासुदेवोऽसावाद्यया प्रतिपाद्यते ।। ७ ।। सहस्रा सहगा यस्य सहभावमुपेयुषी । श्रीर्नाम परमा शक्तिः पूर्णषाड्गुण्यविग्रहा ।। ८ ।। निःसक्तासक्तको यश्च नित्यं सन् सकलाश्रयः । सहस्रशीर्ष इत्येवं भगवान् परिगीयते ।। ९ ।। पूर्णत्वात् पुरुषो नित्यं पृणातेः पूरणार्थकात् । अश्नोतेरथवाश्नातेरक्षोऽजेरञ्चतेरुत ।। १० ।। अक्षः पुरुष उद्दिष्टो यः प्रकृत्याश्रितो विभुः । पद्यतेः परिणामार्थात् पादित्येष निरुच्यते ।। ११ ।। पादिति प्रकृतिः प्रोक्ता सा नित्यपरिणामिनी । षण्णां गुणानां मध्ये या शक्तिः सा हस्र उच्यते ।। १२ ।। प्रधानपुरुषौ तस्याः सृतौ सर्गे सनातनौ । तामेवापि श्रितावन्ते तौ सहस्रावतः स्मृतौ ।। १३ ।। N________________
अनुबन्धः 119 सहस्रपुरुषाव्यक्तः सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वेत्येतेनैव निरूप्यते ।। १४ ।। यदतीत्य सृतं विश्वं नानासत्तात्मनः स्थितिः । कार्ये हि कारणेयत्ता पयसो दधिसंभवे ।। १५ ।। कार्यं सत्संततौ क्वापि कार्येयत्तैव कारणे । मधूच्छिष्टमये पिण्डे यथाकारवियोगिनी ।। १६ ।। नैवं भगवतः सर्गे प्रतिसर्गेऽपि वा सति । कार्येयत्तात्वमस्तीति स भूमिमिति वर्ण्यते ।। १७ ।। भगवत्यार्जितानीति शुद्धाशुद्धमयानि च । भूमिं जगदुपादानं भूमिशक्तिरिच्यते ।। १८ ।। शुद्धाशुद्धविभागो यः कालपुंप्रकृतिस्थितिः । स भूमिं विश्वतो वृत्वा विष्टभ्य स्वेन तेजसा ।। १९ ।। स्वसंकल्पस्वरूपेण प्रभवाप्ययवेलयोः । अत्यतिष्ठदतीत्यैव स्थितो भूयो दशाङ्गुलम् ।। २० ।। दशाङ्गुलिभिरानन्त्यं कारणस्योपदिश्यते । अथ संकर्षणावस्था जगद्धेतुर्निरूप्यते ।। २१ ।। यदिदं दृश्यते विश्वं भूतभव्यात्मरूपकम् । इदं पुरुष एवादौ सिसृक्षायामभूत् किल ।। २२ ।। पुरुषः स्यन्दति व्यक्तं सम्यग्विज्ञानयोजनात् । अतः पुरुष इत्येवं संकर्षण उदीर्यते ।। २३ ।। तिलकालकवद् विश्वं बिभ्रञ्चिदचिदात्मकम् । संकर्षण उदेति स्म स एवं पुनरुच्यते ।। २४ ।। उतामृतत्वस्येशान इति तस्यार्थ उच्यते । अन्नेन भोग्यभूतेन प्रकृतिप्राकृतात्मना ।। २५ ।। कालसंकलितेनैव नानाकारविधाजुषा । अचिदंशेन जीवात्मा यश्चिदशोऽधिरोहति ।। २६ ।। स्वस्यासंबन्धपूर्वं यः पूर्वसङ्गवशादिह । तस्य सद्गुणसंसर्गान्नानाबन्धक्षये सति ।। २७ ।।________________
पुरुषसूक्तम् 人 120 अमृतत्वं स्वरूपाविर्भावमोक्षापराह्वयम् । तस्य संकर्षणो देव ईशानो ज्ञानदेशनात् ।। २८ ।। संसारानलसंतप्तचेतनानुजिघृक्षया । संकर्षणोदयो विष्णुरुच्यतेऽथ तृतीयया ।। २९ ।। एतावानस्य महिमा विष्णोः संकर्षणात्मनः यदयं धृतवान् विश्वं समुन्मीलनमादिमम् ।। ३० ।। ज्यायानतोऽपि पुरुषः प्रद्युम्न उपकारतः । पुरू प्रकृतिपुंरूपौ पुरुषः सृजतीति यत् ।। ३१ ।। विश्वोपकारचेष्टाभिर्ज्यायस्त्वं तस्य वर्ण्यते । ऋचा तुरीयया सूक्ते त्रिपादूर्ध्व उदैदिति ।। ३२ ।। देवोऽपरिमितेहः सन्निनिरुद्धो निरूप्यते । पुरा सीदति कार्याणि कारयन् प्राणिनोऽखिलान् ।। ३३ ।। फलानि पुरुषेभ्यश्च सनोति क्रिययार्चितः । ततः पुरुष इत्येवमनिरुद्धोऽभिधीयते ।। ३४ ।। पुरि सन् सन् पुरीवायं पुरादूर्ध्वमुदेत् परात् । तदवस्थेन नाघ्रातमित्यर्थोऽयमिहोच्यते ।। ३५ ।। पादोऽस्यैकांश एवेह चेतनाचेतनात्मकः । अन्तर्यामितया व्याप्तिस्तत्तन्नियमनेच्छया ।। ३६ ।। एतदेव व्यक्तीह ततो विष्वङ्गति त्वृचा । विष्वक् समन्ततो भूत्वा व्यक्रामत् प्राविशद् बहु ।। ३७ ।। साशनानशने प्रोक्ते चेतनाचेतने उभे । तस्माद् विराडिति प्रोक्ता विराड् विद्या पराह्वया ।। ३८ ।। हिरण्यगर्भो विश्वात्मा स पूरुष इहोच्यते ।। ।। श्रीपाञ्चरात्रे अहिर्बुध्यसंहितायां विशेषार्थः समाप्तः ।। A________________
उ. महार्णवकर्मविभागे T ऋग्विधानोक्त पुरुषसूक्तस्य
[तरङ्ग : - ७] अथ षोडशर्चस्य पुरुषसूक्तस्य न्यासविधिः । १. ऋग्विधाने
वक्ष्ये पुरुषसूक्तस्य विधानं त्वर्चनं प्रति । अग्निकार्यं जपविधिं स्तोत्रं चैव तदात्मकम् ।। १ ।। कुर्याद्यथोक्तविधिना प्राङ्मुखश्शुद्धमानसः । प्रथमां विन्यसेद्वामे द्वितीयां दक्षिणे करे ।। २ ।। तृतीयां वामपादे तु चतुर्थी दक्षिणे तथा । पञ्चमीं वामजानौ तु षष्ठीं चैव तु दक्षिणे ।। ३ ।। तु सप्तमीं वामकट्यां तु दक्षिणायां तथाऽष्टमीम् । नवमीं नाभिमध्येतु दशमीं हृदि विन्यसेत् ।। ४ ।। एकादशी कण्ठदेशे द्वादशीं वामबाहुके । त्रयोदशीं दक्षिणे च मुखमध्ये चतुर्दशीम् ।। ५ ।। अक्ष्णोः पञ्चदशीं चैव षोडशीं मूर्ध्नि विन्यसेत् । एवं न्यासविधिं कृत्वा पश्चाद्धोमं समाचरेत् ।। ६ ।।
प्रयोग: होमं समाचरेदिति उपलक्षणम् तस्मात् जपे होमे पूजायां च अयमेव न्यासप्रकारः । एवं न्यासविधिं कृत्वा पञ्चाङ्गानि समाचरेत् ब्राह्मणोऽस्येत्यादिकाभिः ऋग्भिः पञ्चाङ्गकल्पना ।। ७ ।। (ऋ.वि. ५१४-५२०) ब्राह्मणोऽस्य मुखमासीदित्याद्याः पञ्चर्चः पञ्चाङ्गन्यासे ग्राह्या आश्वलायनपाठक्रमयुक्ताः । हृदयं शिरश्शिखा कवचम् अस्त्रं चेति पञ्चाङ्गानि । ब्राह्मणोऽस्य मुखमिति ऋचं पठित्वा हृदयाय नम इति हृदये । चन्द्रमा मनस इति पठित्वा शिरसे स्वाहा इति । शिरसि । नाभ्या आसीदिति पठित्वा शिखायै वर्षाडिति शिखायाम् । सप्तास्यासन्निति पठित्वा कवचाय हुमिति कवचम् । यज्ञेन यज्ञमिति पठित्वा अस्त्राय फड् इत्यस्त्रम् । एतच्च न्यासद्वयं सङ्कल्पानन्तरं कर्तव्यम् । तद्यथा अमुकदेशे अमुक काले अमुककामनया पुरुषसूक्तस्य जपं पुरुषसूक्तेन होमम् आराधनं वा करिष्य इति सङ्कल्प्य । पूर्वोक्तन्यासद्वयं विधाय ऋषिदेवताछन्दांस्यपि विदित्वा जपादिकर्म समाचरेत् । तत्र च यदा जपो होमो वा क्रियते तदाऽपि परमपुरुषं समाराध्य जपहोमश्च कार्य इति ।।________________
122 २. पुरुषसूक्तऋग्विधानपूजा, अथ आराधनप्रकारोऽभिधीयते- आद्ययाऽऽ वाहयेद्देवमृचा तु पुरुषोत्तमम् । द्वितीययाऽऽसनं दद्यात् पाद्यं चैव तृतीयया ।। ८ ।। चतुर्थ्याऽर्घ्यं प्रदातव्यं पञ्चम्याऽऽचमनं तथा । षष्ठ्या स्नानं प्रकुर्वीत सप्तम्या वस्त्रमेव च ।। ९ ।। यज्ञोपवीतमष्टम्या नवम्याऽऽभरणं तथा । दशम्या गन्धदानं स्यादेकादश्या च माल्यकम् ।। १० ।। द्वादश्या धूपदानं स्यात् त्रयोदश्या प्रदीपकम् । चतुर्दश्या तु नैवेद्यं पञ्चदश्या नमस्क्रियाम् ।। ११ ।। उद्वासनं तु षोडश्या उपचारास्तु षोडश । स्नाने वस्त्रे च नैवेद्ये दद्यात् आचमनीयकम् ।। १२ ।। दद्यात् पुरुषसूक्तेन यः पुष्पाण्यप एव वा । अर्चितं तेन वै सर्वं त्रैलोक्यं सचराचरम् ।। १३ ।। दक्षिणान्तु यथाशक्ति षोडशेन प्रदापयेत् । ततः प्रदक्षिणं कृत्वा जपं कुर्यात् समाहितः ।। १४ ।। पुरुषसूक्तम् यथा शक्ति जपित्वा च सूक्तं चास्मै निवेदयेत् ।। (ऋ.वि. ५२१-५२७) अत्र पूजादि साद्गुण्यार्थं या दक्षिणा दीयते तां षोडशेन ऋचा यज्ञेन यज्ञम् इत्यनया दद्यादित्यर्थः ।। ३. पुरुषसूक्तहोमविधिः देवस्य दक्षिणे भागे कुण्डं स्थण्डिलमेव वा । कारयेत् प्रथमर्चा तु प्रोक्षणं तु द्वितीयया ।। १५ ।। तृतीययाऽग्निमादद्ध्याच्चतुर्थ्या तु समिन्धनम् । पञ्चम्या त्वाज्य संस्कारं चरोश्च श्रपणं तथा ।। १६ ।। षष्ट्याऽनलस्य मध्ये तु कल्पयेत् पद्ममासनम् । चिन्तयेत्तत्र देवेशं कालानलसमप्रभम् ।। १७ ।। विवृतास्यं वाहशीर्षं रक्तास्यं रक्तलोचनम् । (ऋ.वि.५२७-५२८) वाहः - हय इत्यर्थः । एवं ध्यात्वा सप्तम्यादिभिः पञ्चभिः क्रमेण गन्धादि नैवेद्यान्तां पञ्चोपचारपूजां देवस्यानुज्ञया कुर्याद् इत्याह ततो गन्धञ्च पुष्पञ्च धूपदीपनिवेदनम् ।। १८ ।।________________
अनुबन्धः 123 अनुज्ञाप्य ततः कुर्यात् सप्तम्यादि यथाक्रमम् । समिधः प्रत्यृचं पूर्वं जुहुयादभिघारिताः ।। १९ ।। ततो घृतेन जुहुयाच्चरुणा च पुनः पुनः । एवं हुत्वा ततः स्नात्वा समीपे स्तोत्रमुच्चरेत् ।। २० ।। जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन । नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ।। २१ ।। नमो हिरण्यगर्भाय प्रधानाव्यक्तरूपिणे । ओं नमो (भगवते) वासुदेवाय शुद्धज्ञानविभाविने ।। २२ ।। देवानां दानवानां च सामान्यमधिदैवतम् । सर्वदा चरणद्वन्द्वं व्रजामि शरणं तव ।। २३ ।। एकस्त्वमसि लोकस्य स्रष्टा संहारकस्तथा । अध्यक्षश्चानुमन्ता च गुणमायासमावृतः ।। २४ ।। संसारसागरं घोरम् अनन्तक्लेशभाजनम् । त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिणः ।। २५ ।। न ते रूपं न चाकारो नायुधानि नचास्पदम् । तथाऽपि पुरुषाकारो भक्तानां त्वं प्रकाशसे ।। २६ ।। नैव किञ्चित् परोक्षं ते प्रत्यक्षोऽसि न कस्यचित् । नैव किञ्चिदसिद्धं ते न च सिद्धोऽसि कस्यचित् ।। २७ ।। कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् । योगानां परमां सिद्धिं परमं ते पदं विदुः ।। २८ ।। अहं भीतोऽस्मि देवेश संसारेऽस्मिन् भयावहे । पाहि मां पुण्डरीकाक्ष न जाने शरणं परम् ।। २९ ।। कालेष्वपि च सर्वेषु सर्वावस्थासु चाच्युत । शरीरेऽपि गतौ चापि वर्द्धते मे महद्भयम् ।। ३० ।। त्वत्पादकमलादन्यन्न मे जन्मान्तरेष्वपि । निमित्तं कुशलस्यास्ति येन गच्छामि सद्गतिम् ।। ३१ ।। विज्ञानं यदिदं प्राप्तं यदिदं ज्ञानमार्जितम् । जन्मान्तरेऽपि मे देव माभूदस्य विपर्ययः ।। ३२ ।।________________
124 दुर्गतावपि जातायां त्वद्गतो मे मनोरथः । यदि नाशं न विन्देत तावतास्मिकृती सदा ।। ३३ ।। अकामकलुषं चित्तं मम ते पादयोः स्थितम् । कामये वैष्णवत्वं तु सर्वजन्मसु केवलम् ।। ३४ ।। सर्वेषु देशकालेषु सर्वावस्थासु चाच्युत । किंकरोऽस्मि हृषीकेश भूयोभूयोऽस्मि किंकरः ।। ३५ ।। इत्येवमनया स्तुत्या स्तुत्वा देवं दिने दिने । किंकरोस्मीति चात्मानं देवायैव निवेदयेत् ।। ३६ ।। पुरुषसूक्तम् (ऋ.वि. ५३० - ५४९) जितन्ते पुण्डरीकाक्ष इत्यारभ्य एतावत्पर्यन्तं स्तोत्रम् । अथ फलविशेषकर्तव्य विशेषप्रशंसा च
पुरुषस्य हरेस्सूक्तं स्वर्ग्यं धन्यं यशस्करम् । आत्मज्ञानमिदं पुण्यं योगज्ञानमिदं परम् ।। ३७ ।। फलाहारो जपेन्नित्यं पश्यन्नात्मानमात्मनि । फलानि भुक्त्वोपवसेन्मासमद्भिश्च वर्तयेत् ।। ३८ ।। अरण्ये निवसेन्नित्यं जपन्निममृषिं मुनिः । ऋग्भिस्त्रिषवणं काले स्नायादप्सु समाहितः ।। ३९ ।। (ऋ.वि.५५०-५५२)
ऋषिशब्दस्य मन्त्र इत्यर्थः । इममृषिं पुरुषसूक्तात्मकम् । ऋग्भिस्त्रिषवणमिति पुरुषसूक्तान्तर्गताभिः समस्ताभिः ऋग्भिः । स्नानकाले एताभिः ऋग्भिः सम्मार्जनं अघमर्षणसूक्तं च कुर्यादित्यर्थः । आदित्यमुपतिष्ठेत सूक्तेनानेन नित्यशः । आज्याहुतीरनेनैव हुत्वैवं चिन्तयेदृषिम् ।। ४० ।। (ऋ.वि. ५५३) अत्र ऋषिः सूक्तद्रष्टा नारायण एव । तं चिन्तयेत् । एवं मासं फलाहारं मासम् उदकाहारञ्च कृत्वा त्रीणि च वर्षाणि फलाहारस्सन् पौरुषं सूक्तं जपेत् । पाकश्चेत् द्वादश वर्षाणि । एवं कृते साक्षात् देवो दृश्यत इत्याह - अर्द्धमासं फलाहारस्त्रिभिर्वर्षैर्जपेदिदम् । तद्भक्तस्तन्मनायुक्तो दशवर्षाण्यनन्यभाक् ।। ४१ ।।________________
अनुबन्धः 125 साक्षात्पश्यति तं देवं नारायणमनामयम् । ज्ञानगम्यं परं सूक्ष्मं व्याप्य सर्वमवस्थितम् ।। ४२ ।। ग्राह्यमत्यन्तयत्नेन स्रष्टारं जगतोऽव्ययम् । यद्यनासाद्यमानोऽपि भक्तिं न परिहारयेत् ।। ४३ ।। भक्तानुकम्पी भगवान् जायते पुरुषोत्तमः । येन येन च कामेन जपेत्तत् प्रयतस्सदा ।। ४४ ।। स सकामस्समृद्धस्स्याच्छ्रद्धधानस्य कुर्वतः । होमं वाऽप्यथवा जप्यम् उपहारमथैव तु ।। ४५ ।। कुर्वीत येन कामेन तत्सिद्धिम् उपधारयेत् । जातिश्रैष्ठ्यं महद्वित्तं यशो लोके परागतिः ।। ४६ ।। पापेन विप्रमोक्षश्च भवेत् सर्वं न संशयः । अथाभिधीयते कर्म पुत्रकामस्य वैष्णवम् ।। ४७ ।। शुक्लपक्षे शुभे वारे सुनक्षत्रे सुगोचरे । (ऋ.वि.५५४-५८०) 1 द्वादश्यां पुत्रकामस्तु चरुं कुर्वीत वैष्णवम् ।। ४८ ।। दम्पत्योरुपवासस्स्याद् एकादश्यां सुरालये । ऋग्भिष्षोडशभिस्सभ्यगर्चयित्वा जनार्दनम् ।। ४९ ।। चरुं पुरुषसूक्तेन श्रपयेत्पुत्रकाम्यया । प्राप्नुयाद्वैष्णवं पुत्रमचिरात्सन्तति क्षमम् ।। ५० ।।
(ऋ.वि.४९३-४९४) अत्र चरुं पुरुषसूक्तेन स्वगृह्येोक्तविधानेन पायस चरुं श्रपयन् पुरुषसूक्तं पठेत् । एवं चरुं श्रपयित्वा पश्चात् पुरुषसूक्तेन जुहुयात् । सूक्तेन इत्येकवचनात् सकलमपि सूक्तम् अविच्छिन्नं होमसाधनम् । नतु प्रत्येकं ऋचः । पक्कहोमस्सहस्रम् । एतद्दशगुणितो जपः । अयमर्थः कृष्णैकादश्यां उपक्रम्य जपित्वा शुक्लैकादश्यां दम्पती उपोष्य द्वादश्यां चरुं श्रपयित्वा सहस्राहुतीर्जुहुयादिति । अथापरः प्रकारोऽयमेकादश्यामभोजनम् । दम्पत्योः पुरुषस्तत्र नित्यकर्माविरोधिनि ।। ५१ ।।________________
126 काले जपेदिदं सूक्तमेकादश्यां निरन्तरम् । द्वादश्यां प्रयतो भूत्वा पायसं निर्वपेच्चरुम् ।। ५२ ।। द्वादश द्वादशीष्वेवं पायसं निर्वपेच्चरुम् । पुरुषसूक्तम् हुत्वाऽऽज्यं विधिवच्चात्र ऋग्भिष्षोडशभिर्बुधः ।। ५३ ।। कृताञ्जलिपुटो भूत्वा स्तवं ताभिः प्रयोजयेत् । (ऋ.वि.४९६-४९७) समिधोऽश्वत्थवृक्षस्य हुत्वाऽऽज्यं जुहुयात्पुनः ।। ५४ ।। उपस्थानं हुताशस्य ध्यात्वा च मधुसूदनम् । हविर्होमं ततः कुर्यात् प्रत्यृचं वाग्यतश्शुचिः ।। ५५ ।। हविश्शेषं नमस्कृत्वा नारीनारायणं पतिम् । भक्षयित्वा हविश्शेषं लघ्वाशी संविशेत् क्षणम् ।। ५६ ।। (ऋ.वि. ५-३-५०५) हविश्शेषं भक्षयित्वेति - हुतावशिष्टप्रतिपत्तिकर्मणि सिद्धे लघ्वाशीत्यनेन एतत् द्योतयति । द्वादश्यां आहारान्तरपरित्यागेन पत्नी हविश्शेषं लघु यथा तथा भुङ्क्त इति ।। संविशेदिति - क्षणं वामशायिनीभूयादित्यर्थः । ततः कृत्वा त्विदं कर्म कर्तव्यं द्विजतर्पणम् । द्वितीयां स्त्रीं निवर्तेत यावद्गर्भं न विन्दति ।। ५७ ।। अपुत्रामृतपुत्रा वा या च कन्याः प्रसूयते । क्षिप्रं सा जनयेत्पुत्रमृश्यशृङ्गो यथाऽब्रवीत् ।। ५८ ।। (ऋ.वि. ५०६-५-७) अथ पुरुषसूक्तस्य आर्षादिः - षोडशर्चस्य पुरुषसूक्तस्य नारायणऋषिः, अनुष्टुप् छन्दः अन्त्याः त्रिष्टुप् । जपे होमे अभिषेके आराधने वा विनियोगः इति पुरुषसूक्तस्य न्यासपूजाहोमानां विधिः ।। ।। महार्णवकर्मविभागे ऋग्विधानोक्त पुरुषसूक्तस्य प्रयोगः समाप्तः ।________________
१. अजावयः