०२ पुरुषसूक्तार्थसङ्ग्रहकारिकाः

[उत्तमूर् श्रीवीरराघवाचार्यकृताः ] सूक्तं तत् सर्ववेदेष्वपि परिपठितं पौरुषं यस्य हि त्व- य्यैकान्त्यं स्पष्टघुष्टं स्मृतिषु, तव मितं वैभवं यत्र सर्वम् । एतत् नारायणाख्याप्रथितमपि यथाऽम्भस्यपारे तथाऽद्भ्य- स्संभूतश्चेति भागौ पुरुष उपनिषत्स्वस्तु लक्ष्मीश ! कोऽन्यः ॥ १ ॥ शक्तिर्मस्तिष्कसाध्या जगति भवति या ज्ञानकर्माक्षजैवं लक्ष्मीकान्त ! ह्यनन्ता त्वयि धुतकरणापेक्षणे सा सदैव । इच्छायां विश्वरूपं कलयसि च भवत्यादिसर्गेऽप्यनन्ते शीर्षादेस्ते द्युमुख्यम्, तत इह गदितोऽनन्तशीर्षाक्षिपात् त्वम् ॥ २ ॥ व्याप्य ब्रह्माण्डभूमिं दशगुणितजलाच्चाविभक्तं तमो यत् क्रान्तो द्रव्यं तदन्तं दशविधमसि तद् विश्वमेतत् त्वमेव । श्रीश ! त्वं षड्गुणान्नप्रतिकलकलितर्द्धेश्च मुक्तेः प्रदाता बद्धास्ते पादमात्रं दिवि तु तव सदा सन्ति नित्यास्त्रिपादः ॥ ३ ॥ तस्माद् दिव्यात्मरूपे दिवि तव भवति त्र्यंशमीदृग्विघस्त्वं किं चित्रं भोक्तृभोग्ये यदिह परिगतोऽस्यञ्जनेशानिरुद्धात् । त्वत्तोऽसौ पद्मयोनिर्जनिमधित विराट् तत्त एवं मनुर्यः पश्चाद् भूमौ पुरस्तादपि लसति निजैः सर्वतः सृष्टिभेदैः ॥ ४ ॥ ब्रह्माण्डं चेद् विराट् स्यात्, अधिकृतपुरुषस्तत्र जातोऽस्तु त्वत्तो जातोऽनिरुद्धस्त्वमसि यदि विराट् स्यात् तदाऽप्येष एषः । ब्रह्मा श्रीमन् ! विराट् चेत्, मनुवचनबलात् तज्जनिः स्यान्मनुः सः व्यूहान् संकर्षणाद्यान् क्रमत उपगतश्चाण्डसृष्टिं तनोषि ॥ ५ ॥ अग्नीन्द्रादीन् वृषाद्रीश्वर ! सृजति भवान् यज्ञक्लृप्तेः परस्तात् देवाः साध्यादयश्च व्यदधुरिह मखं प्रागितीदं विमृश्यम् । अक्षाद्यं देवशब्दाद्यभिहितमजसंबन्धि मन्यन्त एके मन्ये पूर्वेऽपि केचित् कतिचन कथिताः स्युश्च यज्ञात् परस्तात् ॥ ६ ॥ इन्द्रो देवा मनुश्चर्षय इह मनुपुत्रादयो ये विभिन्नाः तत्तन्मन्वन्तरेऽत्र प्रथममभिहितास्तत्र केचिद् भवेयुः ।________________

106 स्रष्टा पूर्वं प्रयस्य स्वयमपि विहितानेकसर्गः स्वशक्तेः पुरुषसूक्तम् वैकल्यं वीक्ष्य खिन्नस्तव यजनविधौ व्यापृतः श्रीश ! यत् स्यात् ॥ ७ ॥ यद्वा नानास्त्रभूषे त्वयि वृषशिखरिद्योतिरूप ! प्रथन्ते ये ते तत्त्वाभिमानात् ऋषय इति सदाप्राप्यभावाच्च साध्याः । नित्या देवास्त्वदीयाः त इह विधिमुखाशक्तिदृष्ट्या तदर्थं साक्षाद्वा तन्मुखाद्वा व्यदधत मखमित्यस्तु कस्तत्र दोषः ॥ ८ ॥ आदावाज्याद्यभावात् सुदलतरुमुखः क्लृप्त आज्यं वसन्तः ग्रीष्मश्चेध्मोऽतिशोषी हविरपि नवधान्यागमार्हा शरत् सा । चत्वार्यक्षाणि चान्तः दश च महदहङ्कारभूतानि देह- स्थानि त्रिः सप्त मन्ये बहिरपि महदादीनि लक्ष्मीश ! सप्त ॥ ९ ॥ ब्रह्मादिः पूर्वजातः पुरुष इह हविः कल्पितः तत्प्रसन्नो भूयो यष्टुं व्यधास्त्वं श्रितरम ! पृषदाज्यादि यज्ञोपयुक्तम् । तेनाप्याराधितस्त्वं तदनु निजशरीरांशदेशाद् व्यतानीः वेदान् अश्वादिकान् नॄन् विधिमुखकरणाद्याधिदेवांश्च लोकान् ॥ १० ॥ अज्ञातानेकसर्गोचितपथमखिलाम्नायहीनं कथञ्चित् यज्ञेनाराध्य लक्ष्मीहयवदन ! वृषाद्रीश ! संपन्नवेदम् । तं त्वं त्वञ्चित्तनाभ्यादित इव बहुधा स्वाङ्गतोऽन्यानि सृष्ट्वा नानासर्गे नियुङ्क्षे स्वयमपि विशसि ज्येष्ठपुत्रं तथाऽन्यान् ॥ ११ ॥ संज्ञामूर्ती त्रिवृत्कृत् त्वमिह पुरुष इत्येष निष्कम्पितोऽर्थः किन्तु ब्रह्मान्तरात्मा पुरुष इति विधेः स्रष्टृतार्थेऽभ्यधायि । विस्पष्टे त्वत्कृतत्वे किमिति विधिरिह स्यात् प्रवेश्यस्तदेष श्रीश ! त्वत्सृष्टभिन्नं सृजतु निजनिशान्तेषु चाङ्गादशेषम् ॥ १२ ॥ वेधाः श्रीधामवक्षः ! प्रभवति भवता नाभिनालीकसुप्तः कल्पारम्भे महाम्भस्युपरि हि धरणौ स्थापितायां कृते च । तत्तल्लोके विधातुम्, तदुपकृतिरियं युज्यतेऽस्याऽऽदिसर्गे यद्वा तद्द्वारतस्त्वं सृज सकलमिदं सोऽपि ते शक्तिभूमा ॥ १३ ॥ प्रारम्भे प्रब्रुवंस्त्वां पुरुष इति विराट्सृष्टिमुक्त्वाऽऽह जीवं- श्रीधामन् ! ब्रह्ममुख्यं पुरुषमथ मनुष्यादिदेहं यदेवम् ।________________

अनुबन्धः 107 तस्मादन्ते महान्तं पुरुषमिति विशिष्याऽऽह पुंसूक्तमेवं त्वत्तो ब्रह्माऽश्ववक्त्रादधिगतमहिमेत्यादिमेध्याऽश्वसृष्टिः ॥ १४ ॥ पुंसूक्तं मुद्गलाख्योपनिषदि विवृतम्, तेन ते श्रीश ! भूमा चातुर्व्यूह्यं चतुष्पात् प्रकृतिपुरुषयोरुद्भवश्चानिरुद्धात् । ध्यानात्मा सृष्टियज्ञो विधिकृत इदमक्षाणि यष्टार एव सृष्टेस्तस्थोपदेष्टा यजनभुगनिरुद्धोऽयमित्यादिरुक्तः ॥ १५ ॥ ईदृशं त्वां सहान्तं दिवि पुरुष ! तमःपारदेशे विभान्तं सूर्याभं नामरूपे विदधतमवयन् श्रीश ! यज्ञैर्विशुद्धेः । इष्ट्वा सर्वान्तरं त्वाममृत इह भवद्वेदनादेव देशं नित्यैर्जुष्टं तमेतिं त्वदनुभवरतब्रह्मशक्रादितुल्यः ॥ १६ ॥ यज्ञं विष्णुं भवन्तं कृतयुगकलिता ये त्वदेकार्थयज्ञाः तत्तच्छब्दोदितं तैरयजत परमैकान्तिधर्मैः सुरौघः । शीर्षाद्यानन्त्यशाली श्रितरम ! भुवनात्मा चतुष्पात् विराडा - द्याधाता धातुरर्थे कृतजगत् अनघज्योतिरत्रासि वेद्यः ॥ १७ ॥ कालेऽचिर्घस्रशुक्लोत्तरगमनसमावायुसूर्याब्जविद्यु- त्पाथोनाथेन्द्रवेधोगमितम् अनुगतं वैद्युतामानवेन । अव्यक्ते त्यक्तसूक्ष्मं व्यतिगतविरजं ब्रह्मदेहं विभूष्य श्रीमन् ! आनाय्य भक्तं श्रितपदमथ संभाष्य सायुज्यदोऽसि ॥ १८ ॥ छान्दोग्ये शाख्य शुभ्राश्वतरवरशिखामुण्डकप्रश्नमुख्ये प्रायः पुंसूक्तवत् त्वं पुरुष इति समस्तेऽथ विष्णुः कठादौ । सौबाले तैत्तिरीयादिषु च महति च श्रीश ! नारायणाख्यः ख्यातोऽसि ब्रह्मबिन्दौ वृषशिखरिपते ! वासुदेवः सुदेवः ॥ १९ ॥ द्वात्रिंशत् सन्ति विद्यास्तव पदभजनेऽत्रेति भूयान् प्रवादः वेदेऽनन्ते तदर्थे त्वयि बहुजननेऽनन्तकल्याणपूर्णे । संख्याने कः समर्थः स्वयमिह नतरामद्य निष्कर्षशक्तिः भीष्मान्तो भक्तियोगो भुवि बत यदि वा श्रीश ! नाथान्त एषः ॥ २० ॥ एकैवाऽऽद्यन्तमेकं प्रकरणमिति या नाचिकेताख्यविद्या तन्मध्ये केचिदत्तृप्रमितमुखवचस्स्वाहुरन्यान्यविद्याम् । यां विद्यां चीर्णशीर्षव्रतनियमविधिर्नैव भिन्तेऽक्षराख्यां ताञ्चान्या केऽपि गार्म्यक्षरमतित इति श्रीश ! किं ग्राह्यमत्र ? ॥ २१ ॥________________

108 ज्योतिज्योर्तिष्ट्रमन्त्रं महितरमः ! ततः पाञ्चजन्याश्रयोक्तिं प्राणादिप्राणतादेर्वचनमपि विभिन्नार्थताभ्रान्तियोग्यम् । मत्वा व्यासोऽसुसूत्रद् विनिगमकमुशन् एकवाक्यत्वरूपं पुरुषसूक्तम् यं ह्यर्थम्, तं तदन्यं त्वपि वदति तव ज्योतिषांज्योतिरुक्तिः ॥ २२ ॥ विद्या देवादिजुष्टा प्रकृतविसदृशी ज्योतिषां ज्योतिराख्या ब्रह्मप्रावण्यसिद्ध्यै श्रितरम ! कथिता मध्य इत्याशयीरन् । पुंविद्या तैत्तिरीये कथमपि न पृथग्भावमाप्नोति काम्या- स्त्वादित्याकाशमुख्यास्तदिह न गणनं तत्तत् अत्यन्तहृद्यम् ॥ २३ ॥ काम्याऽकाम्यात्मिका वा त्वयि भवतु मतिर्दृष्टयदृष्ट्यात्मिका वा या इष्टाः ब्रह्मसूत्रेष्विह तत इतराश्चापि विद्यास्त्रयीष्टाः । शङ्के शारीरकोदाहृतविषयवचोमात्रमाद्यन्तमालो- ड्यैता द्वात्रिंशदुक्ताः कथमपि बृहदारण्यकान्तश्रुतीर्वा ॥ २४ ॥ इत्थं पुंसूक्तविद्याद्यनवधिनिगमोपज्ञविद्यैकलभ्यं विख्याते ताण्डिकौषीतकितलवकराद्युक्तनानाविशेषैः । दिव्ये धामन्यनन्ते सह सरसिजया भ्राजमानं भवन्तं सन्तोऽद्य श्रीश! गन्तुं द्वयकरणभरन्यासविद्यां गृणन्ति ॥ २५ ॥ पूर्णस्त्वं नित्यवन्द्यः पर इह निखिलानुग्रहेदम्परस्सन् व्यूहं यातोऽवतारं विभवमपि हृदन्तः स्थमर्चामयञ्च । कारुण्यैकान्तधामन् ! कलिकलुषहदो वेङ्कटाद्रौ स्थितोऽस्मिन् पासि प्रख्यापितात्मा शरणमुपयतः श्रीश ! विश्राणिष्टः ॥ २६ ॥ प्रज्ञा चर्या विरक्तिः परमतनिकृतिः स्वात्मसिद्धान्तरक्षा निर्दुष्टस्पष्टहृद्यव्यवहृतिरपि यं ह्यञ्जसोपघ्नयन्ति । सोऽयं श्रीरङ्गरामानुजमुनिरनघस्तद्गुरुस्तद्गुरूद्धाः सन्तोऽन्ये च त्वदङ्घ्रिप्रवणधियि मयि श्रीश ! सन्तु प्रसन्नाः ॥ २७ ॥ यो यं तर्कार्णवाख्यां बिरुदमनुपमं पूर्वतन्त्रादिकेऽपि प्रापथ्य प्रौढनानाकृतिकरणयशश्चासि हृष्टोऽद्य स त्वम् । वीरश्रीराघवं श्रीपरिबृढ ! कृपया प्रेर्य तं भ्राजसे माम् इत्थं वेदान्तपुष्पाञ्जलिविहितनिजप्रीतिभूमाभिरामः ॥ २८ ॥ श्रीरस्तु________________