०५ अथर्ववेदीयम्

[सायणभाष्योपेतम् ] ‘सहस्रबाहुः पुरुषः’ इति सूक्तद्वयं पुरुषमेधे क्रतौ पुरुषपश्वनुमन्त्रणे विनियुक्तम् । ‘पुरुषमेधोश्वमेधवचैत्र्याः पुरस्तात्’ इति प्रक्रम्य वैताने सूत्रितम् । ‘स्नातम् अलंकृतम् उत्सृज्यमानं सहस्रबाहुः पुरुषः (१९-६) केन पाष्र्णी (१०-२ ) ‘इत्यनुमन्त्रयते’ इति (वै.७-२) ॥ तथा एतस्य सूक्तद्वयस्य शनैश्चरग्रहदेवत्यहविराज्यहोमे समिदाधानोपस्थानयोश्च विनियोगः । ‘अथाज्यभागान्ते विषासहिम् (१७ - १ ) इत्यादित्याय हविषो हुत्वाज्यं जुहुयात् समिध आधायोपतिष्ठते’ इति प्रक्रम्य शान्तिकल्पे सूत्रितम् । ‘सहस्रबाहुः पुरुष: ( १९-६) केन पाष्र्णी (१०-२) प्राणाय नमः (११-४) इति शनैश्चराय ’ इति (शां.क. १५) । सौवर्णभूमिदानेऽपि एतत् सूक्तद्वयम् आज्यहोमे विनियुक्तम् । ‘अथ रोहिण्याम् उपोषितो ब्रह्मा’ ( अ.प. २० - २ ) इति प्रक्रम्य परिशिष्टेऽभिहितम् । ‘अन्वारभ्याथ जुहुयात् कामसूक्तं कालसूक्तं पुरुषसूक्तम् इत्यथ सुवर्णमयीं भूमिम् इत्यादि ’ ( अ.प. १०- १) । सर्वातिशायित्वसर्वभूतात्मकत्वकामेन नारायणाख्येन पुरुषेण अनुष्ठितस्य पुरुषमेधक्रतोः प्रतिपादकत्वात् जगत्कारणस्य आदिनारायणपुरुषस्य प्रतिपादकत्वाद् वा एतत् पुरुषसूक्तम् इति उच्यते । अतः अस्य सूक्तस्य द्विविधोऽर्थः आधियज्ञिक एक: आध्यात्मिकोपरः । पुरुषमेधविधायकं वाजसनेयकब्राह्मण एवम् आम्नायते । ‘पुरुषो ह वै नारायणोकामयत । अतितिष्ठेयं सर्वाणि भूतानि अहमेवेदं सर्वं स्याम् इति । स एतं पुरुषमेधं पञ्चरात्रं यज्ञक्रतुम् अपश्यत् । तम् आहरत् । तेनायजत । तेनेष्ट्वात्यतिष्ठत् सर्वाणि भूतानि । इदं सर्वम् अभवत्’ इति (श.ब्रा.१३-६-१-१) । स॒हस्र॑बाहुः पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् । I सभ॑मं वि॒श्वतो॑ वृ॒त्वात्य॑तिष्ठद् दशाङ्गुलम् ॥ १ ॥ पुरुषसंज्ञापेक्षितावरणस्थानीयो देहविशेषो यज्ञानुष्ठातुः नारायणपुरुषस्य रूप्यते । यथा परोक्षस्य अग्नेः प्रत्यक्षैः अग्निभिः स्तवः तद्वत् परोक्षस्य आदिपुरुषस्य लौकिकैः________________

भाष्यसहितम् 87 1 सहस्रबाहुत्वं बह्वक्षिपादत्वं च उच्यते । सहस्रबाहुः सहस्रशब्दस्य उपलक्षणत्वात् अनन्तैर् बाहुभिर् युक्तः सहस्राक्षः बहुभिः अक्षिभिरुपेतः । ‘बहुव्रीहौ सक्थ्यक्ष्णोः ’ (पा. सू. ५-४- ११३) इति षच् समासान्तः । सति शिष्टः समासान्तः स्वरः प्रवर्तते । सहस्रपात् अनेकचरणः । ’ संख्यासुपूर्वस्य’ (पा.सू. ५-४-१४०) इति पादस्य लोपः समासान्तः । एवंरूपो यः पुरुषः यज्ञानुष्ठाता नारायणाख्यः पुरुषो वर्तते स पुरुषः भूमिम् सप्तसमुद्रद्वीपां विश्वतः सर्वतो वृत्वा महिम्ना व्याप्य दशाङ्गुलम् दशाङ्गुलिप्रमाणं यस्येति । ‘आर्हीयस्य ठकः ’ (पा.सू. ५-४-८६) ‘अध्यर्धपूर्वद्विगो:’ (पा.सू.५-२-२८) इति लुक् । ‘तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः’ (पा.सू. ५-४-८६) इति अच् समासान्तः । अत्र दशाङ्गुलशब्देन हृदयाकाशम् उच्यते । तद् अत्यतिष्ठत् । पूर्वं हृदयाकाशे परिच्छिन्नस्वरूपः सन् स्वानुष्ठितक्रतुसामर्थ्यात् परिच्छिन्नाकारतां परित्यज्य सर्वातिशायिस्वरूपोऽभवद् इत्यर्थः । आध्यात्मपक्षे सर्वप्राणिसमष्टिरूपः सूत्रात्मा प्रतिपाद्यते । सहस्रबाहुः ये व्यष्टिभूतसर्वप्राणिनां बाहवस्ते सर्वे सूत्रात्मदेहान्तःपातित्वात् तदीया एवेति सहस्रबाहुत्वम् । एवम् अक्षिषु पादेष्वपि योजनीयम् । यद्वा सर्वत्र बाह्वादिसाध्यबहुकार्यसंभवात् तेषां सहस्रत्वव्यपदेशः । अत एव इमम् अर्थम् अभिप्रेत्य अन्यत्र आम्नायते । ‘विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात्’ इति (ऋ.सं.१०-८-१-३) । पुरुष: पुरि देहे. शेत इति पुरुषः । पृषोदरादिः । सर्वप्राणिदेहावस्थितः पूर्णो वा सहस्राक्षः सहस्रपात् । एवंरूपो यो वर्तते स पुरुषः भूमिम् । उपलक्षणम् एतद् अबादीना भूतानाम् । सकलभूतकार्यब्रह्माण्डं तदन्तर्गतान् भूम्यादीन् विकारान् वा विश्वतः सर्वतो वृत्वा मृदिव घटादीन् व्याप्य दशाङ्गुलम् दशाङ्गुलिप्रमाणं देशम् अत्यतिष्ठत् अतिक्रम्य अवस्थितः । दशाङ्गुलम् इति उपलक्षणम् । ब्रह्माण्डाद् बहिरपि सर्वतो व्याप्य अवस्थितः । एकेनांशेन ब्रह्माण्डं व्याप्य दशभिरंशैः कार्यप्रपञ्चासंस्पृष्टः स्वप्रतिष्ठो वर्तत इत्यर्थः ॥ १ ॥ त्रि॒भिः प॒द्भिर्द्याम॑रोह॒त् पाद॑स्ये॒हाभ॑व॒त् पुन॑ः । तथा॒ व्य॒ क्राम॒द् विष्व॑ङशनान॒श॒ने॒ अनु॑ ॥ २ ॥ सोऽयं यज्ञानुष्ठाता नारायणपुरुष: त्रिभिः पद्भिः पादैः । ’ पद्दन्नोमास् हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस् प्रभृतिषु । ( पा. सू. ६-१-६३) इत्यादिना पादशब्दस्य पद्भावः । द्याम् दिवं स्वर्गलोकम् आरोहत् आरूढवान् आक्रान्तवान् ।________________

888 पुरुषसूक्तम् (अस्य) पुरुषस्य पादः चतुर्थः इह भूलोके पुनरभवत् । पुनः पुनराविर्भवति प्रकाश । पादचतुष्टयेन सर्वलोकव्याप्तिमेव दर्शयति । तथा तेन उक्तेन प्रकारेण अशनानशने अश्नातीति अशनम् । ‘कृत्यल्युटो बहुलम्’ (पा. सू. ३ - ३ - ११३ ) इति कर्तरि ल्युट् । अनशनम् अनश्नत् अशनानशने वस्तुनी अनु । ‘लक्षणार्थे अनुः कर्मप्रवचनीयः ’ । अशना मनुष्यतिर्यगादयः । अनशना देववृक्षादयः । तान् अभिलक्ष्य विष्वङ् सर्वतोञ्चनः विश्वव्यापनः व्यक्रामत् विक्रान्तवान् ॥ अध्यात्मपक्षे सोऽयम् उदीरितस्वरूप आदिपुरुषः त्रिभिः पद्भिः पादैः अंशैः संसारस्पर्शरहितैः द्याम् दिवं द्योतनात्मकं स्वप्रकाशस्वरूपम् आरोहत् आरूढवान् आस्थितवान् । यद्यपि ‘सत्यं ज्ञानम् अनन्तं ब्रह्म’ ( तै. उ. २- १) इत्याम्नातस्य परब्रह्मणः इयत्ताया अभावाद् अंशचतुष्टयं न निरूपयितुं शक्यं तथापि जगद् इदं ब्रह्मस्वरूपापेक्षया अत्यल्पम् इति विवक्षितुं पादत्वोपन्यासः । स पुरुषः संसारस्पर्शरहितः ज्ञानबहुलस्वरूपो द्याम् आरोहत् अज्ञानकार्यात् संसाराद् बहिर्भूतः सन् अत्रत्यैः गुणदोषैर् अस्पृष्टः स्वस्वरूपे वर्तत इत्यर्थः । अस्य पुरुषस्य योऽयं पादः लेशश्चतुर्थः सोऽयं इह जगति पुनरभवत् सृष्टिसंहारभ्यां पुनः पुनराविर्भवति । अस्य सर्वस्य जगतः परमात्मलेशत्वं भगवताप्युक्तम् । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् । इति (भ.गी. १० - ४२) । तथा तेन प्रकारेण तुरीयेण पादेन स पुरुषो विष्वङ् विष्वगञ्चनः अशनानशने अनु स्थावरजङ्गमात्मकं जगद् अभिलक्ष्य व्यक्रामत् । अथ वा चेतनाचेतनात्मकम् उभयविधं जगद् यथा स्यात् तथा पुरुषः स्वयमेव द्विविधो भूत्वा व्याप्तवान् इति । यद्येकस्मिन् कल्पे एकस्य पादस्य जननमरणयुक्तसर्वभूतात्मकत्वं तर्हि कल्पान्तरेषु पादत्रयमध्ये एकैकस्य सर्वभूतात्मकत्वं संभवति । तथा च सति अंशचतुष्टयात्मकस्य परब्रह्मणः सर्वजगदात्मकत्वसंभवेन सांसारिकसुखदुःखादिद्वन्द्वसंस्पर्शो भविष्यति इत्येषा शङ्का अंशत्रयेण द्याम् आरोहत् इह पुनरभवत् इत्यनेन अपाक्रियते । तथा हि अंशत्रयात्मकं ब्रह्म सर्वदा स्वप्रतिष्ठं संसारस्पर्शरहितं सच्चित्सुखलक्षणं वर्तते । एकोऽशस्तु पुनः पुनः जगदात्मना विवर्तत इति । यः पूर्वकल्पे जगदात्मा विवृत्तः स एव कल्पान्तरेऽपि सर्वभूतात्मना विवर्तते नान्योऽश इति ॥ २ ॥ ताव॑न्तो अस्य महि॒मान॒स्ततो॒ ज्याया॑श्च॒ पूरु॑षः । पाद॑स्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृत॑ दि॒वि ॥ ३ ॥ यद् इदं देवतिर्यङ्मनुष्यात्मकं जगद् यावद् अस्ति तावान् सर्वोऽपि अस्य यज्ञानुष्ठातुः पुरुषस्य महिमा महत् कर्म स्वकीयसामर्थ्यविशेषः । तावन्तो महिमान________________

भाष्यसहितम् 89 I इति पूजायां बहुवचनम् सृष्टिभेदापेक्षया वा । ततो महिम्नोऽपि महिमाधारः पुरुषः ज्यायान् प्रवृद्धः अतिशयितः । अस्य पादश्चतुर्थः विश्वा विश्वानि भूतानि भवनवन्ति स्थावरजङ्गमात्मकानि । व्यावर्तत इति शेषः । अस्य त्रिपात् पादत्रयम् अमृतम् अमरणधर्मकं सत् ( दिवि ) द्युलोके स्वर्गलोके वर्तते । अध्यात्मपक्षे यद् इदं देवतिर्यङ्मनुष्यात्मकम् अतीतानागतवर्तमानम् अस्तिरूपं जगद् यावत् अस्ति तावान् सर्वोऽपि अस्य पुरुषस्य महिमा । इदं तु तस्य न वास्तवं स्वरूपम् । वास्तवस्तु पुरुषः । अतो महिम्नो यथोक्तात् मर्त्यामर्त्यलक्षणात् कार्यवर्गात ज्यायान् वृद्धतरः । ‘वृद्धशब्दस्य ईयसुनि ज्यादेशः ’ । नैतावान् इति मन्तव्यं कथम् इत्यत आह । विश्व विश्वानि सर्वाणि भूतानि भवन्वन्ति कालत्रयवर्तीनि प्राण्यप्राणिजातानि अस्य पुरुषस्य पादः चतुर्थोऽशः । अस्य अवशिष्टं त्रिपात् अंशत्रयात्मकं स्वरूपम् अमृतम् अमरणधर्मकं विनाशरहितं सत् दिवि द्योतनात्मके स्वप्रकाशे स्वरूपे अवतिष्ठते । तुरीय एव पादो जननमरणयुक्तः । तथा च तैत्तिरीया उत्तरनारायणे समामनन्ति । ‘अजायमानो बहुधा विजायत तस्य धीराः परिजानन्ति योनिम्’ इति ( तै. आ. ३- १३-१) । यद्यपि परब्रह्मणः परिच्छेदाभावाद् अंशचतुष्टयं न निर्देष्टं शक्यं तथापि विश्वम् इदं ब्रह्मरूपापेक्षया अत्यल्पम् इति विवक्षित्वा पादत्वोपन्यासः । त्रिपादिति । त्रयः पादाः अस्य ‘संख्यासुपूर्वस्य’ (पा.सू. ५ - ४- १४० ) इति लोपे ‘द्वित्रिभ्यां पाद्दन्’ (पा.सू. ६-२-१९७) इति उत्तरपदान्तोदात्तत्वम् ॥ ३ ॥ पुरुष एवेदं सर्वं यद् भूतं यद्य भा॒व्यम् । उ॒तामृ॑त॒त्वस्यैश्च॒रो यद॒न्ये॒नाभ॑वत् स॒ह ॥ ४ ॥ यद् भूतम् अतीतं जगत् यच भव्यम् भविष्यद् यदपि इदं प्रत्यक्षेण दृश्यमानं व्यक्तं स्थावरजङ्गमात्मकं वर्तमानं जगत् तत् सर्वं पुरुष एव । यथा अस्मिन् कल्पे वर्तमानाः प्राणिदेहाः सर्वेऽपि पुरुषस्य अवयवाः तथैव अतीतागामिनोः कल्पयोः इति द्रष्टव्यम् । अथ वा एतत् सर्वं पुरुष एव पुरुषस्यैवायं विवर्तः । उत अपि च अयं पुरुषः अमृतत्वस्य देवत्वस्यापि ईश्वरः स्वामी । देवानामपि ईश्वर इति यावत् । यत्कंचिद् भूतम् अन्नेन अदनीयेन भोग्येन सहाभवत् भवति तस्यापीश्वरः । अयोनिजानां देवानाम् अन्नरसपरिणामानां मर्त्यादीनां च ईश्वर इति यावत् । यज्ञानुष्ठातुः नारायणस्य यज्ञनिर्वर्त्यं सार्वात्म्यम् । जगत्कारणस्य सूत्रात्मनस्तु स्वाभाविकम् इति इयान् विशेषः । शिष्टं समानम् ॥ ४ ॥________________

90 यत् पुरु॑षं॒ व्यद॑धुः क॒ति॒धा व्यकल्पयन् मुख॒ किम॑स्य॒ किं बा॒हू किमूरू पार्दा उच्येते ॥ ५ ॥ I पुरुषसूक्तम् ‘विराड् अग्रे समभवद् विराजो अधि पूरुषः’ (९) इति पुरुष सृष्टि: आम्नास्यते । ‘यत् पुरुषेण हविषा देवा यज्ञम् अतन्वत’ (१०) इति पुरुषेण साधनेन यज्ञसृष्टिश्च आम्नास्यते । तं पुरुषं निमित्तीकृत्य प्रश्नोत्तररूपेण ब्राह्मणादिसृष्टिं वक्तुम् अत्र ब्रह्मवादिनां प्रश्ना उच्यन्ते । यत् यदा पुरुषम् यज्ञं व्यदधुः विशेषेण अकुर्वन् साध्या नाम देवाः वसवश्च तदा तं पुरुषं कतिधा कतिभिः प्रकारैः व्यकल्पयन् विविधं कल्पितवन्तः । एष सामान्यरूपः प्रश्नः । ’ इति च’ (पा. सू. १-१ - २५ ) इति संख्यासंज्ञकात् कतिशब्दात् ‘संख्याया विधार्थे धा’ (पा.सू. ५ - ३-४२) इति धा प्रत्ययः । मुखं किम् इत्यादयो विशेषप्रश्नाः । अस्य यज्ञात्मनः पुरुषस्य किं वस्तु मुखम् आसीत् । किं वस्तु बाहू । किं वस्तु (ऊरू । किं वस्तु) पादा उच्येते । बाहूरुपादद्वयात्मना किं वस्तु कथ्यते । ‘लोपः शाकल्यस्य’ (पा.सू.८-३-१९) इति वकारलोपः । किम् इति सामान्यरूपत्वाद् नपुंसकलिङ्गता एकवचनता च अध्यात्मपक्षे यत् यदा पुरुषम् वैराजं व्यदधुः मनः संज्ञकप्रजापतेः विराजः प्राणरूपा देवाः संकल्पेन उत्पादितवन्तः तदानीं कतिधा व्यकल्पयन् इत्यादि पूर्वेण समानम् ॥ ५ ॥ ‘ब्राह्मणोऽस्य मुखम् आसीद्’ इति सूक्तस्य पुरुषमेधे उत्सृज्यमानपुरुषपशु अनुमन्त्रणे शनैश्चरग्रहदेवत्यहविराज्यहोमे च पूर्वसूक्तेन सह उक्तो विनियोगः । ब्रा॑ह्म॒णोस्य॒ मुख॑मासीद् बा॒हू रा॑ज॒न्यो॑भवत् । मध्य॒ तद॑स्य॒ यद् वैश्य॑ प॒द्भ्यां शूद्रो अ॑जायत ॥ ६ ॥ ‘कतिधा व्यकल्पयन्’ इति सामान्यप्रश्नस्य ‘चन्द्रमा मनसो जात:’ इत्यादिना उत्तरं भविष्यति । मुखादिविशेषप्रश्नानाम् उत्तरम् अनया उच्यते । अस्य यज्ञात्मनः पुरुषस्य ब्राह्मणो मुखम् आसीत् । ब्राह्मणजातिविशिष्टः पुरुषः अस्य मुखाद् उत्पन्न इत्यर्थः । योऽयं राजन्यः क्षत्रियजातिविशिष्ट: पुरुष: ( स तस्य यज्ञपुरुषस्य बाहू बाहुद्वयम् अभवत्) । (यद् वैश्यः वैश्यजातम् ) इति यद् अस्ति (तद् अस्य यज्ञपुरुषस्य मध्यम् मध्याङ्गम् अभवत् ) । मध्यभागाद् वैश्य उत्पन्न इत्यर्थः । पद्भ्याम् पादाभ्यां शूद्रः अजायत उत्पन्नः । । इत्थं च मुखादिभ्यो ब्राह्मणादीनाम् उत्पत्तिं तैत्तिरीयाः समामनन्ति । ‘स मुखतस्त्रिवृतं निरमिमीत । ब्राह्मणो मनुष्याणाम्’________________

भाष्यसहितम् 91 इति । ‘उरसो बाहुभ्यां पञ्चदशं निरमिमीत । राजन्यो मनुष्याणाम्’ इति । ‘मध्यतः सप्तदशं निरमिमीत । वैश्यो मनुष्याणाम्’ इति । तत्र ‘अन्नधानाद्व्यसृज्यन्त’ इति वाक्यशेषेण शरीरस्य मध्यभाग एव विवक्षितः । मध्यभागः ऊर्वोर् उपलक्षकः । अत एव प्रश्नः किम् ऊरु इति युज्यते । तत्रैव प्रश्ने ‘एकविंशं निरमिमीत । शूद्रो मनुष्याणाम्’ ( तै.सं. ७ १ १ ५ ) इति च । अतः प्रश्नोत्तरे उभे अपि तत्परत्वेन योजनीये । अध्यात्मपक्षेऽपि एषोऽर्थः समानः ॥ ६ ॥ च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षो॒ सूर्यो॑ अजायत । मुख॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद् वा॒युर॑जायत ॥ ७ ॥ अस्मिन् उत्तरस्मिन्नपि मन्त्रे उत्तरकथनेन तदनुसारिणः प्रश्ना ऊहनीयाः । अत एव कतिधा व्यकल्पयन्निति सामान्यप्रश्नो ब्रह्मवादिभिः कृतः । यज्ञात्मनः पुरुषस्य मनसः सकाशात् चन्द्रमा: (चन्द्रम् आ) ह्लादं माति निर्मिमीत इति चन्द्रमाः सोमो जातः । ‘चन्द्रमा मनो भूत्वा हृदयं प्राविशत्’ (ऐ. आ. २-४-२ ) इति हि श्रुत्यन्तरम् । चक्षोः चक्षुषः ।‘अन्त्यलोपश्छान्दसः’ । सूर्यः अजायत । ‘आदित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत्’ (ऐ.आ.२-४-२) इति हि श्रुतिः । इन्द्रश्च अग्निश्च । परस्परसमुच्चयार्थी चकारौ । तौ देवौ मुखात् जातौ । अत्र मुखशब्देन वागिन्द्रियम् उच्यते । ‘ब्राह्मणोऽस्य मुखमासित्’ इत्यत्र सर्वं मुखमण्डलं विवक्षितम् । ‘अग्निर्वाग् भूत्वा मुखं प्राविशत्’ (ऐ.आ.२-४-२) इति ऐतरेयकश्रुतिः । वाचः इन्द्रसंबन्धं तैत्तिरीयाः समामनन्ति । ‘वाग् पराच्यव्याकृतावदत् । ते देवा इन्द्रम् अब्रुवन् । इमां ना वाचं व्याकुर्विति । ताम् इन्द्रो मध्यतोवक्रम्य व्याकरोत् । तस्माद् इयं व्याकृता वाग् उद्यते ’ ( तै.सं. ६-४-७-३) इति । अस्य पुरुषस्य प्राणात् । अत्र प्राणशब्देन घ्राणेन्द्रियं विवक्ष्यते । तस्माद् वायुरजायत । ‘वायुः प्राणो भूत्वा नासिके प्राविशत्’ (ऐ. आ. २-४-२ ) इति हि श्रुत्यन्तरम् । अत्र सर्वत्र स्वस्वकारणप्रवेशेन तस्माद् उत्पत्तिर्विविक्षिता इति मन्तव्यम् ॥ अध्यात्मपक्षेऽपि अयम् अर्थः समानः ॥ ७ ॥ नाभ्या॑ आसीद॒न्तरि॑क्षं शीर्णो द्यौः सम॑वर्तत । प॒द्भ्यां भूमि॒र्दिशः श्रोत्रा॒त् तथा॑ लो॒काँ अ॑कल्पयन् ॥ ८ ॥ अत्रापि उत्तरानुसारिणः प्रश्ना ऊह्याः । अस्य यज्ञपुरुषस्य नाभिशिरः पादेभ्यः अन्तरिक्षधुभूमयस्त्रयो लोकाः समभवन् । (शीर्ष्णः) । ‘शीर्षश्छन्दसि’ (पा. सू. ६-१-६०) .________________

22 92 पुरुषसूक्तम् इति शिरसः शीर्षन् आदेशः । ‘अल्लोपोऽनः’ (पा.सू. ६-४-१३४) इति अकारलोपः । पद्भ्याम् इति । ‘पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ् छकन्नुदन्नासञ्छस् प्रभृतिषु’ (पा.सू.६-१-६३) इति पद्भावः । श्रोत्रात् अस्य पुरुषस्य श्रोत्रेन्द्रियाद् दिशः प्राच्यादय आसन् । ‘दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन्’ (ऐ. आ. २ - ४ - २ ) इति हि श्रुत्यन्तरम् । उक्तार्थोपसंहारश्चतुर्थश्चरणः । तथा उक्तेन प्रकारेण उक्तरीत्या लोकान् अन्तरिक्षादीन् । उपलक्षणम् एतत् । ब्राह्मणक्षत्रियादीन् अकल्पयन् अस्माद य उत्पादितवन्तः साध्या नाम देवाः ॥ 3 विशेष: 114 (ऐ.आ.२-४-२) । कल्पित प्राणरूपा देवा इति इयान् समभवद् विराजो अधि पूरुषः । स जा॒तो अत्य॑रिच्यत प॒श्चाद् भूमि॒मथो॑ पु॒रः ॥ ९ ॥ पूर्वं यस्मात् पुरुषाद, ब्राह्मणादि सृष्टिकत विराट विविध राजन्ति वस्तीन अन स्वराज इति विराजम् असृजत् प्रभुः अत्रोच्यते । अग्रे याद नाम पुरुषः समभवत् ‘सहस्त्रबाहुः संज्ञकः पुरुषोऽजायत न्तरे विराजः आदिपुरुषाद् "" इति (म.स्मृ.१-३२) y अधि । अधिशब्द पञ्चम्यर्थानवादी । तस्माद् विराजः पुरुषः अन्यः जायकम् । विराजो अधि पूरुष इत्येषा वै सा विराट् । उत्तस्क एवैतद् विराजो यज्ञं पुरुषं जनयति’ (श.ब्रा. १३-६-१-२) इति । स च तृतीयः पुरुष: यज्ञात्मा जातः उत्पन्नमात्र एव अत्यरिच्यत अतिरिक्त आसीत् । भूमिम् भूम्यादीन् सर्वान् लोकान् पश्चात् पश्चाद्भागे अथो अपि च पुरः पुरस्तात् । ‘पूर्वाधरावराणाम् असि पुरधरवश्चैषाम्’ (पा.सू. ५-३-३९) इति असि प्रत्ययः । तत्संनियोगेन पूर्वशब्दस्य पुर् आदेशः । स पुरुषो जातमात्र एव भूम्यादीन् लोकान् पश्चात् पुरस्ताच्च व्याप्य अतिक्रान्तवान् । अध्यात्मपक्षे । अग्रे सृष्ट्यादौ विराट् विविधं राजन्ति वस्तूनि यस्मिन्निति स विराट् मनः संज्ञकः प्रजापतिः सहस्रबाहुः पुरुष इति प्रकृताद् महापुरुषाद् अजायत । ततो विराजः अधि विराजमेव अधिकरणीकृत्य पुरुषः अन्यः प्रजापतिः सर्वभूतेन्द्रिय- पुरुषसमाट्यात्माभवत् निष्पन्नः । श्रूयते हि । ‘स मानसीन आत्मा जनानाम् ' ‘तस्माद्________________

93 ( तै. आ. ३-११- १) इति । मानसीनः मनसा निष्पन्न इत्यर्थः । स वैराजः पुरुषो जातः प्रादुर्भूतमात्रः अत्यरिच्यत स्वयमेव आत्मानम् अत्यरेचयत् । ‘कर्मकर्तरि रूपम्’ । अनेकधा भावलक्षणं स्वरूपातिरेकम् अभजत । भूतेन्द्रियादीनि असृजद् इत्यर्थः । श्रूयते हि - ‘असतोऽधि मनोसृज्यत । मनः प्रजापतिम् असृजत । प्रजापतिः प्रजा असृजत’ (तै.ब्रा.२-२-९-१० ) इति । पश्चात् भूतग्रामसृष्टेरन्ते भूमिम् अत्यरेचयत् । सामर्थ्यात् कर्मकर्तृभावोऽत्र निवर्तते । एवम् आकाशादिपृथिव्यन्तानां तत्त्वानां सृष्टिरुक्ता भवति । अथो भूमेरनन्तरं पुरः पूर्यन्ते सप्तभिर् धातुभिर् इति पुरः शरीराणि सुरनरतिर्यगादीनां स्थावराणां च अत्यरेचयत् अतिरिक्तान्यकरोत् । पुर इति । द्वितीयाबहुवचनं शस् । छान्दसं विभक्तयुदात्तत्वम् । अध्यात्मपक्ष एव अन्योऽर्थः । अग्रे विराट् ब्रह्माण्डरूपो देहः तस्माद् आदिपुरुषाद् उत्पन्नः । विराजः अधि विराड्देहस्य उपरि तमेव देहम् अधिकरणं कृत्वा पुरुषः तद्देहाभिमानी कश्चित् पुमान् अजायत । योऽयं सर्ववेदान्तवेद्यः परमात्मा स एव स्वकीयमायया विराड्देहं ब्रह्माण्डरूपं सृष्ट्वा तत्र जीवरूपेण प्रविश्य ब्रह्माण्डाभिमानि- देवतात्मा जीवोऽभवत् । एतच्च आथर्वणिका उत्तरतापनीये स्पष्टम् आमनन्ति । ‘सवा एष भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वा प्रविश्य अमूढो मूढ इव व्यवहरन्नास्ते माययैव’ (नृ.उ.ता.२-१-९) इति । स जातः विराट्पुरुषः अत्यरिच्यत अतिरिक्तोभूत् । देवतिर्यङ्मनुष्यादि-रूपोभूत् । पश्चात् देवादिजीवभावाद् ऊर्ध्वं भूमिं ससर्जेति क्रियाध्याहारः । अथो भूमिसृष्टेः अनन्तरं तेषां जीवानां पुरः शरीराणि ससर्ज । एवं भूतसृष्टिः पिण्डसृष्टिश्च प्रतिपादिता ॥ ९ ॥ यत् पुरुषेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत । व॒स॒न्तो अ॑स्यासी॒दाज्य॑ प्रा॒ष्म इ॒ध्मः श॒रद्ध॒विः ॥ १० ॥ ‘उषा वा अश्वस्य मेध्यस्य’ (बृ. उ. १-१-१ ) इत्यादिना पुरुषस्य अश्वत्वेन उपासना आम्नायते । अतोऽत्र पुरुषस्य अश्वत्वात् हविष्ट्वम् । अश्वमेधे हि अश्वः पशुः । अथ वा मुख्यः पुरुष एव पुरुषमेधे पशुः । तस्माद् अयम् अर्थः । यत् यदा पुरुषेण अश्वरूपेण पुरुषरूपेण वा हविषा देवाः साध्यनामका यज्ञम् अतन्वत अकुर्वत तदानीम् अस्य यज्ञस्य वसन्तः रसानाम् उत्पादक ऋतु: स्वमहिम्ना आज्यम् होम्यम् आसीत् । ग्रीष्मः शोषकऋतुः इध्मः अग्निसमिन्धनसाधनभूतैकविंशतिदारुमयात्मकः पदार्थ आसीत् । शरत् शीर्यन्ते पच्यन्ते अस्याम् ओषधय इति शरद् ऋतु: हविः यज्ञियचरुपुरोडाशादिहवीरूपोऽभवत् । अध्यात्मपक्षे यत् यदा पुरुषेण प्रजापतिना________________

94 पुरुषसूक्तम् हविषा हविष्ट्वेन संकल्पितेन हविरन्तरस्य अभावाद् देवाः प्राणाः प्राजापत्या इन्द्रियाणि च यज्ञम् संकल्पात्मकम् अतन्वत अकुर्वत । यद्वा यज्ञमेव अन्वतिष्ठन् । स्रष्टृकामः प्रजापतिर्देवः देवशब्दवाच्यप्राणादिभेदेन उच्यते । अथ वा पूर्वोक्तक्रमेण देवशरीरेषु उत्पन्नेषु ते देवा उत्तरसृष्टिसिद्ध्यर्थं तत्साधनत्वेन यज्ञम् अतन्वत । कंचिद् यज्ञम् अन्वतिष्ठन् । द्रव्यस्य अद्यापि अनुत्पन्नत्वेन हविरन्तराभावात् पुरुषस्वरूपमेव मनसा हविष्ट्वेन संकल्प्य तेन पुरुषाख्येन हविषा यत् यदा मानसं यज्ञम् अकुर्वत तदानीम् अस्य यज्ञस्य वसन्तर्तुरेव आज्यम् अभूत् । तमेव आज्यत्वेन संकल्पितवन्तः । एवं ग्रीष्मः इध्मत्वेन संकल्पितः । शरत् पुरोडाशादिहविट्वेन संकल्पिता । पूर्वं पुरुषस्य हविः सामान्यरूपत्वेन संकल्पः वसन्तादीनां तु आज्यादिषु विशेषरूपत्वेन इति द्रष्टव्यम् ॥ १० ॥ तं य॒ज्ञं प्रा॒वृषा॒ प्रौक्ष॒न् पुरु॑षं जा॒तम॑ग्र॒शः । तेन॑ दे॒वा अ॑यजन्त सा॒ध्या वस॑वश्च॒ ये ॥ ११ ॥ तं यज्ञम् यष्टव्यं पुरुषम् अग्रशः अग्रे सृष्ट्यादौ जातम् अश्वभूतं वा प्रावृषा वर्षकेण प्रावृडाख्येन ऋतुना प्रौक्षन् प्रोक्षितवन्तः । ’ उक्ष सेचने’ (धा.पा.६५७) प्रावृट्कालं प्रोक्षणसाधनोदकरूपत्वेन संकल्पितवन्त इत्यर्थः । तेन पुरुषेण देवा अयजन्त इष्टवन्तः । (के) देवाः तान् आह । ये साध्या वसवश्च एतत्संज्ञका देवाः । अध्यात्मपक्षे । यज्ञम् यज्ञसाधनभूतम् । ‘करणे नङ् प्रत्ययः’ । तं पुरुषं पशुत्वभावनया यूपे बद्धम् अग्रशः अग्रतः अग्रे सर्वविकारसृष्टेः पूर्वं जातम् पुरुषत्वेन उत्पन्नं संकल्पात्मके यज्ञे प्रावृषा प्रौक्षन् प्रावृट्कालेन प्रोक्षितमिव मनसा कृतवन्त इत्यर्थः । तेन पुरुषरूपेण पशुना देवा: अयजन्त मानसं यागं निष्पादितवन्तः । के ते देवा इति त उच्यन्ते । साध्याः सृष्टिसाधनयोग्याः साधयन्तीति साध्याः । ‘कृत्यल्युटो बहुलम्’ (पा.सू. ३-३-११३ ) इति कर्तरि ‘अचो यत्’ (पा.सू. ३-२-९७) इति यत् प्रत्ययः । वसवः वासकाः प्राणाः इन्द्रियाणि च । द्वयेपि देवनशीलत्वाद् देवा इत्युच्यन्ते ॥ ११ तस्मा॒दश्वा॑ अजायन्त॒ ये च॒ के चो॑भ॒याद॑तः । । गावो॑ ह जज्ञिरे॒ तस्मा॒त् तस्मा॑जा॒ता अ॑जा॒वयः॑ ॥ १२ ॥ पशुसृष्टिरुच्यते । तस्मात् यज्ञात्मनः पुरुषाद् अश्वा अजायन्त । ये के च अश्वव्यतिरिक्ता गर्दभा अश्वतराश्च ये के च (उभयादतः) ऊर्ध्वाधोभागयोः उभयोः दन्तयुक्ताः सन्ति ते अजायन्त । ‘छन्दसि च ’ ( पा. सू. ५ - ४ - १४२) इति दन्तस्य दतृभावः ।________________

भाष्यसहितम् 95 ‘अन्येषामपि दृश्यते’ (पा.सू.६-३-१३७) इति दीर्घः । ’ अनित्यम् आगमशासनम्’ इति नुमभावः । तस्मादेव पुरुषाद् गावश्च जज्ञिरे । जनी प्रादुर्भावे (धा.पा. १९४९) । हशब्दश्चार्थे । तस्मादेव यज्ञपुरुषाद् अजावयः अजाश्च अवयश्च जाताः । अध्यात्मपक्षेऽपि अयम् अर्थः समानः ॥ १२ ॥ तस्मा॑द् य॒ज्ञात् स॑र्व॒हुत॒ ऋच॒ सामा॑नि जज्ञिरे । य॒ज्ञात्स॑र्व॒हुत॒ छन्दो॑ ह जज्ञिरे॒ तस्मा॒द् यजुस्तस्मा॑द॒जायत ॥ १३ ॥ सर्वहुत: । ‘सुपां सुलुक्’ (पा. सू. ७-१-३९) इति पञ्चम्येकवचनस्य सुः । सर्वहुतात् । आश्वमेधिकोऽश्वः सर्वहुतः । पुरुषस्य अश्वमेधत्वम् उक्तम् । यद्वा सर्वः सर्वाङ्गः सन् पशूर्हृयते ( स ) सर्वहुत् । कर्मणि व्यत्ययेन क्विप् प्रत्ययः । सर्वहुतः अश्वभूतात् तस्माद् यज्ञात् पुरुषाद् ऋचः पादबद्धा मन्त्राः सामानि गीत्यात्मकानि जज्ञिरे । तस्मात् यज्ञात् पुरुषात् छन्दः । जसो लुक् । छन्दांसि । हशब्दश्चार्थे । छन्दांसि च ऋगाद्यधिष्ठानानि जज्ञिरे । तस्मादेव पुरुषाद् यजुः प्रश्लिष्टपाठात्मको मन्त्रः अजायत । ऋगादीनां लक्षणं जैमिनिना सूत्रितम् । ‘तोदकेषु मन्त्राख्या’ (जै. सू. २-१-३२) । ‘तेषाम् ऋग् यत्रार्थवशेन पादव्यवस्था’ (जै. सू. २-१-३५ ) । ’ गीतिषु सामाख्या ’ (जै.सू. २-१-३६) । ‘शेषे यजुः शब्दः ’ (जै. सू. २-१-३७) इति । अध्यात्मपक्षे सर्वहुतः सर्वात्मा पुरुषः पशुत्वेन हूयतेऽस्मिन्निति सोऽयं सर्वहुत् तस्मात् पूर्वोक्ताद् मानसाद् यज्ञात् । शिष्टं समानम् ॥ १३ ॥ तस्मा॑द् य॒ज्ञात्स॑र्व॒हुत॒ः संभृ॑तं पृषदा॒ज्य म् । प॒शँस्ता॑श्च॑क्रे वाय॒व्या नारण्या ग्राम्याश्च ये ॥ १४ ॥ सर्वहुतस्तस्माद् यज्ञात् - यज्ञात् अश्वभूताद् यज्ञपुरुषात् संभृतम् संपादितं यत् किंचिद् द्रव्यजातं तत् पृषदाज्यम् । दधिमिश्रम् आज्यं पृषदाज्यम् इत्युच्यते । तद् आसीत् । अथ तत् पृषदाज्यम् कर्म ते देवाः साध्यनामकाः वायव्यान् वायुदेवत्यान् आरण्यान् अरण्योद्भवान् द्विखुरश्वापदपक्षिसरीसृपहस्तिमर्कटनादेयाख्यान् सप्तसंख्याकान् एवमादिकान् अन्यान् आरण्यान् पशूंश्चक्रे चक्रिरे । ‘तिङां तिङो भवन्ति’ (पा. सू.) इति झस्य तादेशः । ये च ग्राम्याः ग्रामोद्भवा गोऽश्वाजाविपुरुषगर्दभोष्ट्रा एवमादिका अन्ये ग्राम्याश्च ये सन्ति तान् पशूंश्चक्रिरे । अरण्ये भवा आरण्याः । ’ तत्र भवः’ (पा. सू. ४-३-५३) इति अण् प्रत्ययः । ‘ग्रामाद् यखत्री’ (पा. सू. ४-२-९४) इति ग्रामशब्दात् शैषिको यञ्________________

96 पुरुषसूक्तम् प्रत्ययः । आरण्यपशुविशेषणे तच्छब्दस्य प्रसिद्धिवाचकत्वम् । ग्राम्यविशेषणे यच्छब्दयोगात् तच्छब्दस्य प्रतिनिर्देशः । पशूनाम् अन्तरिक्षद्वारा वायुदेवत्यत्वं मन्त्रान्तरव्याख्याने तैत्तिरीयाः समामनन्ति । ‘वायवः स्थेत्याह । वायुर्वा अन्तरिक्षस्याध्यक्षाः । अन्तरिक्षदेवत्याः खलु वै पशवः । वायव एवैनान् परिददाति’ इति (तै. ब्रा. ३-२-१-४) । आरण्यानामेव वायुरधिपतिरिति केचित् । अध्यात्मपक्षे । सर्वहुतस्तस्माद् यज्ञात् पूर्वोक्ताद् मानसाद् यज्ञात् संभृतम् समुत्पन्नं पृषदाज्यं पृषत् विचित्रं बिन्दुमद् आज्यम् । अथ तत् पृषदाज्यम् कर्म आरण्यान् ग्राम्यांश्च द्विविधान् पशूंश्चक्रे प्राणेन्द्रियसमष्टिरूपः प्रजापतिः । तत्रैव अर्थान्तरम् । पृषदाज्यम् दधिमिश्रम् आज्यं संभृतम् संपादितम् । दधि च आज्यं च इत्येवमादि भोग्यजातं सर्वं संपादितम् इत्यर्थः । तथा द्विविधान् पशूंश्चक्रे प्राणेन्द्रियसमष्टिरूपः प्रजापतिरेवेति ॥ १४ ॥ स॒प्तास्या॑सन् परि॒धय॒स्त्रिः स॒प्त स॒मध॑ कृ॒ताः । दे॒वा यद् य॒ज्ञं त॑न्वा॒ना अव॑ध्न॒न् पुरु॑षं प॒शुम् ॥ १५ ॥ यत् यदा यज्ञम् अश्वमेधं पुरुषमेधं वा तन्वानाः कुर्वाणाः साध्या देवाः स्वस्मिन् यज्ञे पुरुषं पशुम् अश्वभूतं मुख्यं पुरुषं वा अबध्नन् यूपे बद्धवन्तः तदानीम् अस्य यज्ञस्य सप्त सप्तसंख्याकानि गायत्र्यादीनिच्छन्दांसि त्रिः सप्त एकविंशतिसंख्यायुक्ताः परिधयः समिधश्च कृताः संपादिता आसन् । ऐष्टिक्यः पञ्चदशभिः सामिधेनीभिर् ऋग्भिः आधीयमानाः पञ्चदश समिधः एका अनुयाजसमित् द्वे आघारसमिधौ त्रयः परिधयः इति एकविंशतेर् दारूणां संपादनेन इध्मरूपं कृतम् । अथ वा अस्य सांकल्पिकयज्ञस्य गायत्र्यादीनि सप्त च्छन्दांसि परिधय आसन् । ऐष्टिकस्य आहवनीयस्य त्रयः परिधयः । औत्तरवेदिकास्त्रयः । आदित्यश्च सप्तमः परिधिप्रतिनिधिरूपः । अत एवाम्नायते । ‘न पुरस्तात् परिदधाति । आदित्यो ह्येवोद्यन् पुरस्ताद् रक्षांस्यपहन्ति’ इति (तै. सं. २-६-६-३) । त एत आदित्यसहिताः सप्तपरिधयः अत्र सप्तच्छन्दोरूपाः । तथा समिधः त्रिः सप्त त्रिगुणितसप्तसंख्याका एकविंशतिः कृताः । ‘द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंश:’ इति ( ऐ.ब्रा. १-३०) श्रुताः पदार्था एकविंशतिदारुयुक्ते ध्मत्वेन भाविताः । एवम् इध्मानाम् एकविंशतेर्दारूणां संपादनेन इध्मरूपं कृतम् पूर्वं तु पृथक्त्वेन परिधानकाले परिधिनिरूपणं कृतम् इति द्रष्टव्यम् । यत् यदा देवाः प्रजापतिप्राणेन्द्रियरूपा यज्ञं तन्वानाः मानसं यज्ञं कुर्वाणाः पुरुषं वैराजं पशुम् अबधन् तं पुरुषमेव पशुत्वेन भावितवन्तः । एतदेवाभिप्रेत्य पूर्वत्र पुरुषेण हविषा इत्युक्तम् ॥ १५ ॥________________

भाष्यसहितम् 97 ‘मूर्ध्नो दे॒वस्य॑ बृह॒तो अ॑शवः॑ स॒प्त स॑प्त॒तीः । राज्ञः सोम॑स्याजायन्त जा॒तस्य॒ पुरु॑षा॒दधि॑ ॥ १६ ॥ प्रतिपदार्थः - पुरुषात् अधि

W भगवतः सकाशात् जातस्य उत्पन्नस्य, सोमस्य राज्ञः - सोमद्रव्यसाध्यकयज्ञतनोः, सप्त सप्ततीः - सप्तगुणित सप्तति संख्याकाः, अंशवः - किरणाः, बृहतः - महतः, देवस्य - द्योतनात्मकस्य पुरुषस्य, मूर्ध: - शिरसः, अजायन्त - उद्भूताः ॥ तात्पर्यार्थः - सर्वेषु यज्ञेषु सोमसंबन्धसत्वात् सोमं अत्र प्रशंसति - सोमलतासाध्याः अग्निष्टोमादयः नवत्यधिकचतुश्शतसंख्यादयः यागाः महतो देवस्य भगवतः यज्ञात्मनः शीर्षात् समुत्पन्नाः ।

सा.भा. सर्वस्य यज्ञस्य सोमसाध्यत्वाद् अत्रापि यज्ञे परंपरया सोमसंबन्धं दर्शयितुं सोमः अनया प्रस्तूयते । पुरुषात् यज्ञात्मनः वैराजाद् वा । अधिशब्दः पञ्चम्यर्थानुवादी । जातस्य निष्पन्नस्य सोमस्य राज्ञः सप्त सप्तगुणिताः सप्ततीः सप्ततयः सप्तगुणितसप्ततिसंख्याका अंशवः किरणाः बृहतः महतो देवस्य द्योतनात्मकस्य ‘सहस्रबाहुः पुरुष:’ इत्यादिना निरूपितस्य आदिपुरुषस्य मूर्धः सकाशाद् अजायन्त उद्भूताः । अयम् अर्थः द्विविधो हि सोमः वल्लीरूपो देवतारूपश्चेति । तत्र लतारूपस्य सोमस्य स्वसाध्याः प्रकृतिविकृत्यादिभेदेन नानासंख्याकाः प्रकृतिरूपाः अग्निष्टोमादिसप्तसंस्थाः नानासंख्याका विकृतिभेदेन ( च क्रतवः) पुरुषमेधक्रतुनिर्वर्तकनारायणपुरुषस्य शिरसः सकाशाद् उद्भूता इति । कलारूपस्य तु सोमस्य द्युलोके सप्तगुणितसप्ततिसंख्याकाः किरणा निष्पन्नाः । सूर्यस्य तु सहस्रकिरणाः सोमस्य तु दशोनपञ्चशतसंख्याकाः किरणा देवस्य मूर्ध्नोजायन्त इति ॥ १६ ॥ ॥ अथर्वणवेदीयस्य पुरुषसूक्तस्य सायणभाष्यं समाप्तम् १. अथर्ववेदे पुरुषसूक्ते एकं ऋगन्तरमस्ति । तस्य प्रतिपदार्थः, तात्पर्यार्थश्च -________________