३१२ [सायणभाष्योपेतम् ] ३ १२ ३२ ३१२ सहस्रशीर्षाः पुरुषः सहस्राक्षः सहस्रपात् । १र २२ ३ १ २ ३ १ ३२ स भूमिँ सर्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥ १ । सर्व-प्राणि-समष्टि-रूपो ब्रह्माण्ड - देहो विराडाख्यो यः पुरुषः सोऽयं ‘सहस्रशीर्षा : ’ सहस्रशब्दस्य उपलक्षणत्वात् । अनन्तैः शिरोभिर्युक्त इत्यर्थः । यानि सर्वप्राणिनां शिरांसि तानि सर्वाणि तद्देहान्तःपातित्वात् तदीयान्येवेति सहस्र - शीर्षत्वम् । एवं सहस्राक्षत्वं सहस्रपादत्वं च । स पुरुषो ‘भूमि’ ब्रह्माण्ड - गोलक - रूपां सर्वतः ‘आ’ समन्तात् ‘वृत्वा’परिवेष्ट्य दशाङ्गुलपरिमितं देशम् ‘अत्यतिष्ठत्’ अतिक्रम्य व्यवस्थितः । दशाङ्गुलम् इत्युपलक्षणम् । ब्रह्माण्डात् बहिरपि सर्वतो व्याप्यावस्थित इत्यर्थः ॥ १ ॥ ३ २३ २उ ३ १ २३ १ २ ३ १ २३१ २ त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः । २ ३ २ ३क २र ३ २ ३ २ तथा विष्वङ् व्यक्रांमदशनानशने अभि ॥ २ ॥ योऽयं ‘त्रिपात् पुरुषः ’ संसारस्पर्शरहितः बहुलस्वरूपः सोऽयम् ‘ऊर्ध्व उदैत् अस्मादज्ञान-कार्यात्संसारात् बहिर्भूतः सन् तत्रत्यैर्गुणदोषैरस्पृष्टः उत्कर्षेण स्थितवान् । ‘अस्य’ योऽयं ‘पादः’ लेशः सोऽयमिह मायायां प्रादुरभवत् । सृष्टि संहाराभ्यां पुनः पुनरागच्छदिति (अस्य सर्वस्य जगतः परमात्मलेशत्वं भगवताप्युक्तम्- ‘विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगदिति’ तथा मायायामागत्यानन्तरं ’ विष्वङ्’ देव-तिर्ययगादि- रूपेण विविधः सन् ‘व्यक्रामत्’ व्याप्तवान् । किं कृत्वा ? ‘अशनानशने’ अभिलक्ष्य अशनं भोजनादि - व्यवहारोपेतं चेतनं प्राणि-जातम्, अनशनं तद्रहितमचेतनं गिरि-नद्यादिकम् । तदुभयथा यथा स्यात्तथा । यमेव विविधो भूत्वा व्याप्तवानित्यर्थः ॥ २ ॥________________
84 १ २ ३२उ ३ २ ३ २३ ३ १ २ पुरुष एवेदँ सर्वं यद्भूतंय्यच्च भाव्यम् । १ २ ३ १ २ ३ १ २ ३ १ २ ३ १ २ ३ २ पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥ यत् ‘इदं’ वर्त्तमानं जगत् तत् ‘सर्वं’ ‘पुरुषएव’ । ‘यद्भूतम्’ उत्पन्नं जगत् ‘यच भाव्यं’ भविष्यज्जगत् तदपि पुरुष एव यथास्मिन् काले वर्त्तमानाः प्राणिनः सर्वेऽपि चराचरात्मकपुरुषस्यावयवाः तथैव गतागामिनोरपि कल्पयोर्द्रष्टव्यं इत्यभिप्रायः । एतदेवोभयं स्पष्टीक्रियते- ‘अस्य’ पुरुषस्य ‘सर्वाणि भूतानि’ काल-त्रय-वर्तीनि प्राणि- जातानि ‘पादः’ चतुर्थोऽशः । ‘अस्य’ पुरुषस्यावशिष्टं ‘त्रिपात्’ स्वरूपम् ‘अमृतं’ ‘विनाश-रहितं’ सत् ‘दिवि’ द्योतनात्मके स्वप्रकाशस्वरूपे व्यवतिष्ठत इति शेषः । यद्यपि ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यनन्तस्य परब्रह्मणो हीयदन्तत्वाभावात् पादचतुष्टयं निरूपयितुमशक्यं, तथापि जगदिदं ब्रह्म स्वरूपापेक्षया अल्पमिति विवक्षितत्वात् पादत्वोपचारः ॥ ३ ॥
१ २ ३ १उ ३ १ २ ३ १२ तावानस्य महिमा ततो ज्यायाँश्च पूरुषः । ३ १ २३ १ २२ ३ १र २र ३ १२ उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ ४ ॥ अतीतानागतवर्तमान रूप - जगदाद्याधारो योऽस्ति ‘तावान्’ सर्वोऽपि ‘अस्य’ पुरुषस्य ‘महिमा’ स्वकीय- सामर्थ्य- विशेषः । न तु तस्य वास्तवं स्वरूपम् । वास्तवस्त ‘पुरुषः ’ ‘ततः ’ महिम्नोऽपि ‘ज्यायान्’ अतिशयेनाधिक इत्यर्थः । ‘उत’ अपिच ‘अमृतत्वस्य’ देवत्वस्य ‘अयम् ईशानः ’ स्वमायया ‘यत्’ यस्मात् कारणात् ‘अन्नेन’ प्राणिनां भोग्येन अन्नेन निमित्तभूतेन ‘अतिरोहति’ स्वकीयां काराणावस्थां अनतिक्रम्य परिदृश्यमानजगदवस्थां प्राप्नोति । तस्मात् प्राणिनां कर्म-फल- भोगाय जगदवस्थास्वीकारात् नेदन्तस्य वस्तु-तत्वमित्यर्थः ॥ ४ ॥ १ २ ३ १२ ३ २ ३ २ ३ १ २ ततो विराडजायत विराजो अधि पुरुषः । १ ३ १ २र ३ २उ ३ १ २ ३२ स जातो अत्यरिच्यत पश्चाद्भूमिमथोपुरः ॥ ५ ।________________
भाष्यसहितम् 85 ‘विष्वङ् व्यक्रामत्’- इति यदुक्तं तदेवात्र प्रपञ्च्यते- ‘ततः ’ तस्मात् आदि- पुरुषात् ‘विराट्’ ब्रह्माण्ड- देहः ‘अजायत’ उत्पन्नः । (विविधानि राजन्ते वस्तून्यत्रेति विराट्) ‘विराजो अधि’ विराड्देहस्योपरि तमेव देहमधिकरणं कृत्वा ‘पुरुष : ’ तद्देहाभिमानी कश्चित् पुमानजायत । योऽयं सर्व- वेदान्त-वेद्यः परमात्मा स एव रूपेण प्रविश्य ब्रह्माण्डाभिमानी देवतात्मा जीवोऽभवत् ( एतच्चाथर्वणिक उत्तरतापनीये विस्पष्टमामनन्ति- ‘स वा एष भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वा प्रविश्य अमूढो मूढ इव व्यवहरन्नास्ते माययैवेति’ । (नृ. उ. ता. २ - १ - ९) ‘स जात: ’ विराट् पुरुषः ‘अत्यरिच्यत’ अतिरिक्तोऽभूत् । विराड्रव्यतिरिक्तो देवतिर्य्यङ्मनुष्यादिरूपोऽभवत् । पश्चाद्देवादि जीव- भावादूर्ध्वं भूमिं ससर्जेति शेषः । ‘अथो’ भूमि - सृष्टेरनन्तरं तेषां जीवानां ‘पुर: ’ ससर्ज (पूर्य्यन्ते सप्तभिर्धातुभिरिति पुरः) शरीराणि ॥ ५ ॥ १ २ ३ १ २ र ३२ ३१ २३ १ २ ‘कयानचित्र आभुवदूती सदावृधः सखा । २ ३ १ २ ३ २ कया शचिष्ठया वृता ॥ ६ ॥ प्रतिपदार्थ: - कया - (कः) प्रजापतिः, चित्रः - चायनीयः, सदावृधः सदा वर्धयिता, सखा - समानख्यानः नः अस्मान् ऊती रक्षणेन, आभुवत् - ,
कया - कः, शचिष्ठया शक्ततमया, आवृता क्रियया (आभुवत्) ॥ आभजतु, कया
तात्पर्यार्थः - सर्वदा वर्धमानः पूजार्हः मित्रभूतः हिरण्यगर्भरूपो भगवान् प्रज्ञया अनुष्ठीयमानेन कर्मणा सन्तुष्टः अस्मान् अभिमुखो भवतु ॥ सा. भा. - सदावृधः - सर्वदा वर्द्धमानः चित्रः - चायनीयः सखामित्रभूतः कया (क) इन्द्र: ऊती - ऊत्या तर्पणेन नः - अस्मान् आभुवत् - आभिमुख्येन भवेत् शचिष्ठया - प्रज्ञावत्तमया प्रज्ञासहितमनुष्ठीयमानेन कयावृता केन वर्त्तनेन कर्मणा च अभिमुखोभवेत् ॥ ॥ सामवेदीयं पुरुषसूक्तस्य सायणभाष्यं समाप्तम् ॥ १. सामवेदे कौथुमशाखायां एकं ऋगन्तरं विद्यते । तस्य प्रतिपदार्थः, तात्पर्यार्थश्च________________