सा. भा. [ सायण- भट्टभास्कर - रङ्गरामानुजस्वामिभाष्यसहितम् ] स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षस्स॒हस्र॑पात् । । । स भूमि॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशा॑ग॒लम् ॥ १ ॥
अथ नारायणनाम्ना पुरुषसूक्तनाम्ना च व्यवह्रियमाणोऽनुवाक उच्यते । तस्य विनियोगं महाग्नौ आपस्तम्ब आह । पुरस्तात् प्रतीचीं पुरुषाकृतिं चिनोति पुरुषशिरो भवति, सहस्रशीर्षा पुरुष इत्युपहितां पुरुषेण नारायणेन यजमान उपतिष्ठेत इति । ब्रह्ममेधेऽपि प्रेतदाहोपस्थाने विनियोगं भरद्वाज आह नारायणाभ्याम् उपस्थार्नामिति । अयं च उत्तरश्चेति उभावनुवाकौ नारायणमन्त्रज्ञौ नारायणाख्येन केनचित् ऋषिणा दृष्टत्वात्, जगत्कारणस्य नारायणाख्यस्य पुरुषस्य प्रतिपादकत्वात् । तत्रास्मिन् द्वादशे अनुवाके प्रथमाम् ऋचामाह - ‘सहस्रशीर्षा अत्यतिष्ठद्दशाङ्गलम्’ इति । सर्वप्राणिसमष्टिरूपां ब्रह्माण्डदेहो विराडाख्यो यः पुरुषः ‘, सोऽयं ‘सहस्रशीर्षा’ सहस्रशब्दस्योपलक्षणत्वात् अनन्तैः शिरोभिर्युक्त इत्यर्थः, यानि सर्वप्राणिनां शिरांसि तानि सर्वाणि तद्देहान्तःपातित्वात् तदीयान्येवेति सहस्रशीर्षत्वम् । एवमक्षिषु पादेष्वपि योजनीयम् । ‘सः’ पुरुषः, ‘भूमि’ ब्रह्माण्डगोलकरूपां ‘विश्वतो वृत्वा’ सर्वतः परिवेष्ट्य, दशाङ्गुलपरिमितं देशं ‘अत्यतिष्ठत्’ अतिक्रम्य स्थितः । दशाङ्गुलमित्युपलक्षणं, ब्रह्माण्डाद्बहिरपि सर्वतो व्याप्यावस्थित इत्यर्थः ॥ १ ॥
भ.भा. - अथ पुरुषानुवाकः सहस्रशीर्षेत्यादि । आनुष्टुभस्सर्वोऽनुवाकः, विशेषो वक्ष्यते । अग्नी पुरुषाकृतौ चीयमानायां पुरुषशिरः उपहितस्य शिरः कृत्वा पुरुषाकृतिमुपहितां पुरुषेण नारायणेन यजमान उपतिष्ठते । पुरुषमेधे च ‘पशूनुपाकृतान् दक्षिणतोऽवस्थाप्य ब्रह्मा सहस्रशीर्षा पुरुष इति पुरुषेण नारायणेन पराचा अनुशंसति । अथ नारायणाभ्यामुपस्थानं’ इत्यादिषु विनियोगः । अयम् उत्तरश्चानुवाको नारायणाख्यौ, नारायणाख्येन ऋषिणा दृष्टौ । आभ्यां च पुरुषाख्यो नारायणः प्रतिपाद्यते । उक्तं च - आत्मनि पुरुषावस्थे प्रपञ्चप्रविष्टः पुरुषः, उत्तीर्णः परमात्मेति । पुरुषसूक्तमिति चेन________________
भाष्यसहितम् 49
· बढ्चा आहुः । अथ ‘सहस्रशीर्ष देवम्’ इत्यपरो नारायणानुवाको भविष्यति, यत्र परमात्मा प्रणवाख्यो नारायणः प्रतिपाद्यते । तस्य अग्न्यादिश्रौतपुरुषवत् कर्मसम्बन्धाभावात् इहानाम्नानम् । अत्र पुरुषाख्यापेक्षितावरणस्थानीयं देहविशेषं महापुरुषस्य निरूपयति सहस्रशीर्षा अनेकशिरस्क: । ‘शीर्षश्छन्दसि’ (पा. सू. ६-१-६० ) इति शीर्षन्भावः । पुरि शेते इति पुरुषः । पृषोदरादिः । सहस्राक्षः अनेकदृष्टि: । ‘बहुव्रीहौ सक्थ्यक्ष्णोः ’ (पा.सू.५-४-११३) इति षच् समासान्तः । सतिशिष्टस्समासान्तस्वरः प्रवर्तते । सहस्रपात् अनेकचरणः । ‘सङ्ख्यासुपूर्वस्य’ (पा.सू.५-४-१४० ) इति पादशब्दस्य पद्भावः । सर्वत्र शिरःप्रभृतिकार्यसद्भावात् शिरः प्रभृतीनामनेकत्वम् । यद्वा ‘पुरुष एवेदं सर्वम्’ इति तस्य विश्वात्मत्वात् अस्मदादिसम्बन्धिनः शिरःप्रभृतयोऽवयवाः तस्यैवावयवा इति तेषामनेकत्वोपपत्तिः । सः पुरुषः भूमिं भूम्यादीन् विकारान् विश्वतः सर्वतः वृत्वा व्याप्य मृदिव घटादीन् स्वाभेदेन छादयित्वा अत्यतिष्ठत् अतीत्य तिष्ठति अतिक्रम्य विकारावस्थां स्वेनैव रूपेण तिष्ठति दशाङ्गलं दशाङ्गुलिप्रमाणावच्छिन्नम् । दश अङ्गुलयः प्रमाणं अस्येति अर्हीयस्य ‘अध्यर्धपूर्व’ (पा.सू. ५-१-२८) इति लुक्, ‘तत्पुरुषस्याङ्गुलेः ’ (पा.सू.५-४-८६) इत्यच् समासान्तः । अत्र सामर्थ्यात् हृदयाकाशपरिग्रहः । हृदयाकाशस्यैव दशाङ्गुलम् इत्याख्येति केचित् । हृदयं दहरं गगनं पुरुष इति पर्यायः । यद्वा सर्गप्रकरणमिदं, अतो विकारजातं भूम्यादिकं सर्वं वृत्वा पदेनैव घनमावृत्य दशाङ्गुलम् अतितिष्ठति दशाङ्गुलादधोऽधिष्टानं न करोति, अत एव भूमेर्दशाङ्गुलात् अधोऽङ्कुरादेः अनुत्पत्तिः । सर्वगतत्वेऽपि पुरुषस्य सिसृक्षा उपधानमूलकारणात्मकत्वात् सर्वकार्य- देशव्याप्त्यैव स्वप्रयोजनसम्पादनात् तदेव तस्य सर्वगतत्वमिति दशाङ्गुलात्परतो न व्याप्नोति प्रयोजनाभावादिति केचित् ॥ १ ॥ [अवतारिका] रं. भा. - अतसीगुच्छसच्छायमञ्चितोरः स्थलं श्रिया । अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ॥ यतः प्रपञ्चसंभूतिविभूतिपरिभूतयः । पुरुषाय नमस्तस्मै परस्मै विस्मयात्मने ॥ तं प्रणम्यादिपुरुषं जगतामादिकारणम् । दुर्ज्ञानं पौरुषं सूक्तं व्याकरोमि यथामति ॥
श्रीपाद्मे पुराणे - 50 पुरुषसूक्तम् ‘इदं पुरुषसूक्तं हि सर्ववेदेषु पठ्यते । अतः श्रुतिभ्यः सर्वाभ्यो बलवत् समुदीरितम् ॥ इदं पुरुषसूक्तं हि यजुष्यष्टादशर्च्चकम् । ऋग्वेदे षोडश स्यात् पञ्च वाजसनेयके ॥ सामवेदे तु सप्त तथैवाथर्वणेऽपि च । वेदेषु याजुषं वेदमवलम्ब्य वदाम्यहम् । मदर्वाचीनतां प्रेक्ष्य नोपेक्षन्तां मनीषिणः || श्रुतिषु प्रबला मन्त्रास्तेष्वप्यध्यात्मवादिनः । तत्रापि पौरुषं सूक्तं न तस्मात् विद्यते परम्’ ॥ भगवान् शौनकः अस्य पुरुषसूक्तस्य ऋषिर्नारायणः स्मृतः । छन्द आनुष्टुभं सूक्तं तिस्रोऽन्त्यास्त्रिष्टुभो मताः ॥ परमव्योमवासी च पुरुषो देवताऽभवत् । प्रथमां विन्यसेत् वामे द्वितीयां दक्षिणे करे ॥ तृतीयां वामपदे च चतुर्थी दक्षिणे तथा । पञ्चमीं वामजानौ तु षष्ठीं दक्षिणके तथा । सप्तमीं वामकट्यां तु अष्टमीं दक्षिणे तथा । नवमीं नाभिदेशे तु दशमीं हृदये तथा ॥ एकादशीं कण्ठदेशे द्वादशीं वामबाहुके । त्रयोदशी दक्षिणे तु आस्यदेशे चतुर्दशीम् ॥ अक्ष्णोः पञ्चदशीं न्यस्य षोडशीं मूर्ध्नि विन्यसेत् । एवं न्यासविधिं कृत्वा पञ्चाङ्गानि समालभेत् ॥ (ऋ.वि. ५१६-५२० ) प्रायश्चित्ते जपे चैव विष्णोराराधने तथा । मोक्षे वश्येऽग्न्युपस्थाने सुपुत्रप्रापणेऽपि च ॥ सर्वकामफलावाप्तौ आरोग्ये मृत्युनाशने । एतेष्वर्थेष्विदं सूक्तं मुनयो विनियुञ्जते ॥ प्रायश्चित्ते तावत् वाधूलः - ‘यत्रयत्र कर्मभ्रेषो यजुर्भेषो वा, तत्रतत्र पुरुषं ध्यायेत् । पुरुषसूक्तमुचरेत् । पूर्णत्वात् पुरुष इति विज्ञायते ।________________
भाष्यसहितम् यमस्मृती
51 ‘ब्रह्मयज्ञे जपेत् सूक्तं पौरुषं चिन्तयन् हरिम् । स सर्वान् जपते वेदान् साङ्गोपाङ्गान् द्विजोत्तम ॥ सकृज्जप्त्वास्यवामीयं शिवसङ्कल्पमेव च । जप्त्वा तु पौरुषं सूक्तं मुच्यते गुरुतल्पगः’ ॥ विष्णुस्मृतौ - स्नातः पवित्रपाणिः यथाशक्ति जपेत् विशेषतः सावित्रीं पुरुषसूक्तं च । नैताभ्यां सदृशमस्ति इति । ऋग्विधाने शौनको वदति - ‘पुरुषस्य हरेः सूक्तं सर्वपापप्रणाशनम् । वक्ष्ये पुरुषसूक्तस्य विधानं चार्चनं प्रति ॥ आद्ययाऽऽवाहयेद्देवमृचा तु पुरुषोत्तमम् । द्वितीययाऽऽसनं दद्यात् पाद्यं चापि तृतीयया ॥ चतुर्थ्याऽर्घ्यं प्रदातव्यं पञ्चम्याऽऽचमनीयकम् । षष्ठ्या स्नानं प्रकुर्वीत सप्तम्या वस्त्रमेव च ॥ यज्ञोपवीतमष्टम्या नवम्या गन्धमेव च । दशम्या पुष्पदानं स्यादेकादश्या तु धूपकम् ॥ द्वादश्या दीपदानं स्यात् त्रयोदश्या हविस्तथा । चतुर्दश्याऽञ्जलिं कुर्यात् पञ्चदश्या प्रदक्षिणम् ॥ षोडश्योद्वासनं कुर्यादेवमाराधयेद्धरिम् । स्नाने वस्त्रे निवेद्ये च दद्यादाचमनीयकम् ॥ दद्यात् पुरुषसूक्तेन यः पुष्पाण्यप एव वा । अर्चितं स्याज्जगदिदं तेन सर्वं चराचरम्’ ॥ (ऋ.वि. ५२१-५२६) मोक्षे योगवासिष्ठे - ‘संसारान्मोक्षमिच्छन् यः सन्त्यजेदेषणात्रयम् । निस्पृहः सर्वकामेभ्यः समलोष्टाश्मकाञ्चनः ॥ गुरोः पादौ तु संगृह्य स्वाचम्य प्रयतो भवेत् । नमश्च पावनं कृत्वा सन्त्यजेदेषणात्रयम् ॥ ततो गच्छन् हरेर्वेश्म पावनं सुमनोहरम् । ततो मनोगतान् कामान् सर्वान् त्यक्त्वा प्रसन्नधीः ॥________________
52 52 अनिकेतः स्थिरमतिरादिदेवे जनार्दने । येन केन चिदाच्छन्नो येन केनचिदाशितः ॥ (६-१२२-१) मेघच्छन्न इवादित्यो भस्मच्छन्न इवानलः । आत्मानं गूहमानस्तु सर्वभूतदयान्वितः ॥ निर्ममो निरहङ्कारः समदुःखसुखः क्षमी । (६-५३-१२) एकान्ती यतचित्तात्मा त्यक्तसर्वपरिग्रहः ॥ ध्यायेन्नारायणं देवं हृदयाम्भोजमध्यगम् । दिग्देशकालावस्थाद्यैरनवच्छेद्यवैभवम् । सर्वदा पौरुषं सूक्तं मनसैव जपेच्छुचिः ’ ॥ इति । किञ्च - योगवासिष्ठे - ‘यः पौरुषस्य सूक्तस्य जानात्यर्थं यथा तथा । स जन्मनीह मुक्तस्स्यात् पुराणेषु च दर्शनात् । विष्णुः पुरुषसूक्तार्थः पुरुषोऽध्यवसीयते’ । उत्तरभागाध्याये - ‘सर्वं वशं मम भवेदिति सञ्चिन्तयन् मुनिः । जपेत्तु पौरुषं सूक्तं प्रणिपत्य जनार्दनम् ॥ यद्वशे वर्तते कृत्स्नं चराचरमिदं जगत् । वशे भवति तस्येदं जगत् सर्वं मुनेरपि’ ॥ इति ।
पुरुषसूक्तम् आपस्तम्बः ‘सहस्रशीर्षा पुरुष इत्युपहितां पुरुषेण नारायणेन यजमान उपतिष्ठते । ’ उपहिताम् - इष्टकाभिः कृतोपधानामित्यर्थः । वाधूलसूत्रे - नारायणदृष्टेन पुरुषदैवतेनोपहितां चितिमुपतिष्ठमान इह जन्मनि पुरुषो भवेदिति - आयुष्मत्पुत्रावाप्तौ ऋग्विधाने ‘पुत्रेच्छुर्ब्राह्मणः शुद्धः सुप्रसन्नमना भवेत् । पौरुषेण च सूक्तेन जुहुयादाज्यमन्वहम् ॥ पायसान्नं चरुं कृत्वा तेनैव जुहुयाच्छुचिः । हुतशिष्टं चरुं शुद्धमश्नीयाताञ्च दम्पती । एवं त्रिंशद्दिनादूर्ध्वं गर्भो भवति सुस्मितः । सर्वलक्षणसंपन्नः पुत्रो भवति पावनः’ ॥ इति ।________________
भाष्यसहितम् श्रीशास्त्रे
53 सर्वकामावाप्त्यादिषु पुरुषसूक्तसमाराधनेन अचिरात् सर्वान् कामान् अवाप्नोतीति ॥ [पुरुषसूक्तावतारणम् ] ’ एवं छन्दांस्यृषीन् देवं विनियोगं तथा फलम् । उक्त्वा तु पौरुषं सूक्तमवतारयितुं यते’ ॥
श्रीशास्त्रे पुरुषसूक्तसंहितायां भगवान् सनत्कुमारो नारदमुनये भगवद्ज्ञानमुपदिशन् पुरुषसूक्तम् अवतारयामास । तत्र नारदः परिपप्रच्छ, सर्वव्यापिनः पुरुषस्य किमर्थं शरीरपरिग्रह इति । तत्राह सनत्कुमारः -
‘पुरा नारायणो देवः कृपया परयाऽन्वितः । देवतिर्यङ्मनुष्यादीन् वीक्ष्य संसारमध्यगान् ॥ एवं सञ्चिन्तयामास संस्मरन् वैभवं स्वकम् । स्वतः प्रमाणवाक्यानि दुर्विज्ञानं वदन्ति माम् ॥ ‘अणोरणीयान् महतो महीयान्’, ‘निर्गुणो गुणी । दिग्देशकालावस्थाद्यैरनवच्छेद्यवैभवः । वृद्धिक्षयविहीनश्च सत्यकामो निरञ्जनः । विनेन्द्रियेण सर्वज्ञो विना पादेन सर्वगः ॥ अनासोऽनुभवन् गन्धान् स्पृशन् सर्वमपाणिकः । शृण्वन् श्रुतिं विना शब्दमजिह्वो लेलिहन् रसम् ॥ साधनेन विना साध्यं सर्वं संसाधयेन्वहम् । तस्मात् सर्वप्रमाणैस्तु सुदुर्ज्ञानतरोन्वहम् ॥ मम रूपमविज्ञाय लोके मोक्षो न सिध्यति । तस्मात् संसारचक्रेऽस्मिन् भ्राम्यन्त्येते सुदुस्तरे ॥ उद्धरेयमिमान् सर्वान् यातायातशताकुलान् । इति संचिन्त्य मनसा स्वच्छन्दोपात्तविग्रहम् ॥ हित्वौपनिषदं रूपं प्रमाणानामगोचरम् । सर्वेषां स्तुतिभिर्योज्यं दृष्टमात्रेण मोक्षदम् ॥ सर्वकल्याणसंपूर्णं गुणराशिसमाश्रयम् । सहस्त्रावयवोपेतमाददे रूपमद्भुतम् ॥’ इति ।________________
54 पुरुषसूक्तम् ब्रह्माण्डपुराणे क्षीराब्धिवर्णने - उक्तञ्च - ‘न ते रूप’मित्यादि । ‘सहस्रकन्धरं चारुं तुङ्गोरःस्थलमुन्नतम् । सहस्रबाहुसंयुक्तम् इन्दिरावरमन्दिरम् ॥’ इति । ‘श्रीभूमी यस्य देव्यौ सकलमुनिवराः किंकराः रक्ष्यमण्डं सृष्ट्याद्याः शिल्पलीलाः कमलजविबुधाः पुत्रपौत्रादयोऽपि । वैकुण्ठं नाम धाम स्तुतिकृदुपनिषच्छासनं शास्त्रवर्गः सोऽयं वैकुण्ठनाथः श्रियमतिशयिनीं वैष्णवीं नो ददातु’ ॥ , सहस्रशीर्षा पुरुषः - सहस्रशब्दः अनन्तवचनः । सहस्राणि शिरांसि सहस्राणि अक्षीणि, सहस्रं पादाः यस्य सहस्रशीर्षा सहस्राक्षः सहस्रपादुक्तः । शीर्षन् छन्दसीति (पा. सू. ६-१-६०) शिरशब्दस्य शीर्षन्नादेशः । गीयते हि अनन्तबाहूदर- वक्त्रनेत्रमिति । (भ.गी. ११-१६) पादशब्द उपलक्षणार्थः । ‘सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमलोके सर्वमावृत्य तिष्ठति’ (भ.गी. १३ - १३) । मन्त्रान्तरं च भवति, ‘विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोहस्त उरुत विश्वतस्पात्’ (महा.ना.उ. २-३) इति । पादादयो भगवत एव सङ्कल्पविकल्पकल्पिताप्राकृततेजोमयदेहगता उच्यन्ते । यद्वा त्रैलोक्यशरीरत्वात् अस्य सुरनरतिर्यग्गताः पादादयः तदीया इत्युपचर्यन्ते । यद्वा पादादिकार्यगमनदर्शनवचनादिलक्षणार्थः । तेन सहस्रपात्त्वेन सर्वगतत्वं सहस्राक्षत्वेन सर्वदर्शित्वं सहस्रशीर्षत्वेन सर्वाधारत्वञ्च, सर्वलोकाभिषिक्तत्वञ्च सर्वमुखप्रदानत्वञ्च सर्वरक्षणप्रतिश्रवणत्वञ्च सर्वरक्षापेक्षा श्रवणत्वञ्च, केशादिपादान्तोक्तत्वात् सर्वावयवत्वेऽपि सहस्रत्वं चोक्तम् । अक्षोपलक्षणेन पञ्चेन्द्रियत्वोक्तं सिद्धम् । तथा च श्रुतिः - ‘अपाणिपादो जवनो गृहीता पश्यत्यचक्षुः स शृणोत्यकर्ण: ’ ( श्वे. उ. ३- १९) इति । ‘गामाविश्य च भूतानि धारयाम्यहमोजसा’ इत्यादि च । यद्वा सर्वाधिकत्वं सर्वज्ञत्वं सर्वशक्तित्वं च सिद्धम् । पुराणत्वात् पुरुषः । तथा च श्रूयते ‘अन्तरतः कूर्मं भूतं सर्पन्तं तमब्रवीत् । मम ॐ वै त्वङमाँसा समभूत् । नेत्यब्रवीत् - ( पुनश्च भगवान् कूर्मरूपः प्रत्याह । ) - पूर्वमेवाहम् इहासम् इति । तत् पुरुषस्य पुरुषत्वम् । स सहस्रशीर्षा पुरुषः ।________________
भाष्यसहितम् 55 सहस्राक्षः सहस्रपाद् भूत्वोदतिष्ठत्’ ( तै. आ. १ - २३ - ९३ ) इति । यद्वा पूर्णत्वात् पुरुषः । ‘तेनेदं पूर्णं पुरुषेण सर्व’ मिति श्रुतेः (महा.ना.उ. १०) । यद्वा शरीराख्ये पुरि शयनात् पुरुषः । शकारस्य षकारादेशः । श्रीविष्णुस्मृती, ‘पुरमाक्रम्य सकलं शेते यस्मान्महाप्रभुः । तस्मात् पुरुष इत्येष प्रोच्यते तत्त्वचिन्तकैः ’ ॥ इति । यद्वा पुरुशब्दो बहुपरः । वन षण संभक्तौ (धा.पा. ४६४) । बहूनां बहुभिर्वा भजनात् पुरुषः । यद्वा षणु दाने (धा.पा. १४६५) । बहुदानात् पुरुषः । एतद्गुणोपेतो भगवान् वासुदेवः; नान्य इत्यर्थः । पाद्मे पुराणे
‘भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधी च वर्तेते वासुदेवे सनातने ॥ सर्वलोकप्रतीत्या च पुरुषः प्रोच्यते हरिः । तं विना पुण्डरीकाक्षं नान्यः पुरुषशब्दभाक् ॥ इति । ब्रह्माद्या देवताः सर्वा यक्षतुम्बुरुकिन्नराः । ते सर्वे पुरुषांशत्वादुच्यन्ते पुरुषा इति’ ॥ श्रीमदुत्तररामायणे
अगस्त्यवचनम्
‘असौ रामो महाबाहुरतिमानुषचेष्टया । तेजोमहत्तया वाऽपि संस्मारयति पूरुषम् ’ ॥ इति । श्रीहरिवंशे - ‘गोवर्धनादिधरणात् नाथ ! नन्दसुतोऽपि सन् । पुरुषस्यांशसंभूतं त्वां वयं निरणैष्म हि’ । स्कन्दपुराणे
‘यथा भास्करशब्दोऽयमादित्ये प्रतितिष्ठति । यथा चाग्नौ बृहद्भानुर्यथा वायौ सदागतिः ॥ यथा पुरुषशब्दोऽयं वासुदेवेऽवतिष्ठते । तथा शङ्करशब्दोऽयं महादेवे व्यवस्थितः ’ ॥ इति ।________________
56 पुरुषसूक्तम् श्रीविष्णुपुराणे ‘देवतिर्यङ्मनुष्येषु पुत्रामा भगवान् हरिः । श्रीनाम्नी लक्ष्मीमैत्रेय ! नानयोर्विद्यते परम्’ ॥ इति । (१-८-३५) श्रीनारसिंहे - ’ स एव वासुदेवोऽयं पुरुषः प्रोच्यते बुधैः । प्रकृतिस्पर्शराहित्यात् स्वातन्त्र्याद्वैष्णवादपि’ ॥ वैष्णवे पुराणे
’ स एव वासुदेवोऽयं साक्षात् पुरुष उच्यते । स्त्रीप्रायमितरत् सर्वं जगद्ब्रह्मपुरस्सरम्’ ॥ इति । अर्वाचीनाः कवयोऽपि
‘संहृत्य लोकान् पुरुषोऽधिशेते श्रीवत्सलक्ष्मा पुरुषश्च साक्षात्’ । ‘तमसः परमं तमव्ययं पुरुषं योगसमाधिना रघुः’ । ‘हरिर्यथैकः पुरुषोत्तमस्तत: ?’ इति । इत्यादिभिर्वचनैः पुरुषो वासुदेव इति सिद्धम् । योऽयं नारायणः सहस्राक्षः, स एव सहस्रपात् । स भूमिं विश्वतो वृत्त्वा - एवम्भूतः सः भूमिं भूम्यादिलोकजातं विश्वतः सर्वतो वृत्त्वा व्याप्य, यद्वा भूमिं जगत्कारणं प्रकृतिं विश्वतः कार्यवर्णैः सह वृत्त्वा अत्यतिष्ठद्दशाङ्गुलम् । यथाऽऽह, ‘अणोरणीयान् महतो महीयानिति - ’ ( म.ना.उ.१०-२०) ‘अणुत्वेन महत्त्वेन द्विधा तिष्ठति केशवः । तत्र पौरुषसूक्तेन महत्त्वमुपवर्णितम् ॥’ इति । तस्मात् स भूतानि व्याप्य तताऽधिको भवतीत्यर्थः । एतदुक्तं भवति योऽयं सहस्रशीर्षा पुरुषः, स पुरुषो भूम्यादिलोकजातं व्याप्य तस्माल्लोकजातात् दशाङ्गुलम् अत्यतिष्ठत् । अथ दशाङ्गुलशब्दस्यार्थ उच्यते । अत्र दशाङ्गुलशब्देन न दशाङ्गुलवचनम् अपरिच्छिन्नस्य पुरुषस्य परिच्छेदप्रसङ्गात् । तर्हि कोऽर्थः ? उच्यते । दशदशानत्यन्तयोः इत्येतस्मिन्नच् प्रत्ययः अतिकोटियोजनयोरिति । एतस्मिन् औणादिक उलच् प्रत्ययः । तस्मादनन्तयोजनम् इदमतीत्य अतिष्ठत् इत्युक्तं भवति । पाद्मपुराणे भुवनकोशाध्याये,
भूमेश्च ब्रह्मकोशस्याप्यन्तराळं कियद्वद । योजनानामनन्तत्वाद्दशाङ्गुळमिदं विदुः ॥’ इति ।________________
भाष्यसहितम् सात्त्वतसंहितायां पुरुषसूक्तार्थे
57 सहस्रशब्दोऽनन्तवचनः । पुरुषशब्दो वासुदेवपरः । भूमिशब्देन भूम्यादयो लोका उच्यन्ते । दशाङ्गुळशब्दोऽनन्तयोजनमाहेति । यद्वा अङ्गुळशब्दो गुणपरः । दशगुणवस्त्वन्तरभूतानि अतीत्य अतिष्ठत् । किं तदिति । पृथिव्या दशोत्तरा आपः । अद्भ्यो दशोत्तरो वह्निः, वह्नेः दशोत्तरो वायुः, वायोः दशोत्तरं व्योम, व्योम्नो दशोत्तरोऽहङ्कारः, अहङ्काराद् दशोत्तरो महान्, महतो दशोत्तरम् अव्यक्तम् । समस्तमिह वस्त्वतीत्य अतिष्ठत् इत्यर्थः । केचिदेवं व्याचक्षते - दशाङ्गळशब्दो हृदयाकाशवाचकः । भूम्यादिलोकान् व्याप्य हृदयाकाशम् अत्यतिष्ठत् । दशाङ्गुळपरिमाणहृदयाकाशं अणोरणीय आकारेण अन्तरात्मतया अत्यतिष्ठत् । धकारस्य स्थाने तकारश्छान्दस इति अध्यर्थ्योऽयमतिशब्द इति - तन्न युक्तम् । श्रूयमाणस्य अतिशब्दस्य मुख्यार्थसंभवे सति अध्यर्थवचनस्य अयुक्तत्वात् । विश्वत इति हृदयस्यापि कबलीकृतत्वाच्च । ‘अणुत्वेन महत्त्वेन’ इत्यादिना, ‘दहरादिमवाक्येन तस्याणुत्वं प्रदर्शितम्’ इति योगवासिष्ठे स्पष्टवचनाच्च । दहरशब्दः सूक्ष्मपर्यायः । नन्वेवं हि पूर्वमुक्तम्, अयं पुरुष इति । सर्वदेशसर्वकालापरिच्छिन्नविधं वेषं विहाय सर्वेषां दर्शनस्तुतिसमाराधनाद्यर्हं परिच्छिन्नं कञ्चन वेषमादत्त इति । प्रत्युतान्यथा वदति; अस्य परिच्छिन्नोऽपि अयं वेषः प्राप्तः पूर्ववदपरिच्छिन्न इति कथं परिच्छिन्नत्वेन स्तूयत इति । अस्य चोद्यस्य परिहारः पाद्मेऽभिहितः । स उच्यते ‘आदत्ते यादृशं रूपं जगत् त्रातुं परः पुमान् । स तादृशेन रूपेण दुर्ज्ञानो जायते हरिः ॥ तथाप्यमूर्तः पुरुषः स्तोत्रयोग्यो न जायते । तत्रस्थोऽप्यञ्जसानृणां निर्वाणाय च कल्पते’ । श्रीमात्स्ये अगस्त्यवचनम्
‘तस्यावनिगतस्येह प्रत्यक्षस्यापि ते वपुः । न ज्ञायते च तत्त्वेन परं रूपं कुतस्तव । मीनात्मा यादृशोऽसि त्वं तादृशस्त्वमसि प्रभो । वयं त्वामीदृश इति वेदितुं नोत्सहामहे’ ।
58 पुरुषसूक्तम्
श्रीमदुत्तररामायणे अगस्त्यवचनम् - ‘शरीरे तव पश्यामि जगत् सर्वं रघूद्वह । तेजसा च सुदुर्दर्शो मध्याह्न इव भास्करः ’ ॥ इति । (१-२९-१३) I अस्य परिग्रहो न कार्य इत्यर्थः । अशरीरोऽपि सन् सर्वं करोत्येव । इन्द्रियपरिग्रहो न कार्य इत्यर्थः । अनिन्द्रियोऽपि सन् तत्तदिन्द्रियकार्यं करोत्येव । ‘अपाणिपादो जवनो गृहीता,’ (श्वे. उ. ३-१९) ‘अन्धो मणिमविन्दत्, तमनङ्गुलिरावयत् । अग्रीवः प्रत्यमुञ्चत्’ इत्यादि ॥ १ ॥ पुरु॑ष ए॒वेदँ सर्वम्’ । यद्भूतं यच्च॒ भव्यम्’ । उ॒तामृ॑त॒त्वस्येशा॑नः । यदन्ने॑नाति॒रोह॑ति ॥ २ ॥ सा.भा. - ‘पुरुष एवेदँ - यदन्नेनातिरोहति’ इति । ‘यद्भूतं’ अतीतं जगत्, ‘यच भव्यं भविष्यज्जगत्, यदपि ‘इदं’ वर्तमानं जगत्, तत् ‘सर्वं’, ‘पुरुष एव’ यथाऽस्मिन् कल्पे वर्तमानाः प्राणिदेहाः सर्वेऽपि विराट्पुरुषस्य अवयवाः, तथा एव अतीतागामिनोरपि कल्पयोः द्रष्टव्यम् । ‘उत’ अपि च, ‘अमृतत्वस्य’ देवत्वस्य, अयं ‘ईशानः ’ स्वामी, यस्मात् कारणात् ‘अन्नेन’ प्राणिनां भोग्येनान्नेन निमित्तभूतेन, ‘अतिरोहति’, स्वकीयकारणावस्थाम् अतिक्रम्य परिदृश्यमानं जगदवस्थां प्राप्नोति । तस्मात् प्राणिनां कर्मफलभोगाय जगदवस्थास्वीकारात् न इदन्तस्य वस्तुतत्त्वमित्यर्थः ॥ २ ॥
भ. भा. इदानीं पुरुषस्य वैश्वरूप्यमाह पुरुष एवेति ॥ इदं प्रत्यक्षेण दृश्यमानं व्यक्तं स्थावरजङ्गमात्मकं यद्वर्तमानं सर्वं यच भूतं अतीतं यच भव्यं भविष्यत् एतत्सर्वं पुरुष एव पुरुषस्य एवायं परिणामः । उत अपि च अयं पुरुषः अमृतत्वस्य देवत्वस्यापि ईशानः समर्थः प्रसन्नः अमृतत्वमपि प्रापयितुं शक्नोति । देवानामपि ईश्वर इति यावत् । यच अन्नेन अदनीयेन निमित्तेन अतिरोहति कारणावस्थामतीत्य कार्यात्मना जायते मर्त्यादि, तस्यापीशान इत्येव अयोनिजानाम् अन्नरसपरिणामानां चेशान इति ॥ २ ॥ रं. भा. - एवं देशतो व्याप्तिमुक्त्वा कालतो व्याप्तिम् ऐश्वर्यं चैवमाह पुरुष एवेदं सर्वमिति । यदिदं वर्तमानं कार्यजातम्, तत् सर्वं पुरुष एव । तदुपादानत्वात् सर्वस्य । न हि कार्यमुपादानेन विनाऽस्ति । यद्भूतं अतीतं वस्तु, तदपि पुरुष एव । यच्च भविष्यच्च पुरुष एव । प्रपञ्चपुरुषयोः ईश्वरेशितव्यभावात् समानाधिकरणव्यपदेशः,
भाष्यसहितम् 59 ‘ग्रामोऽयं देवदत्तः’ इतिवत् । कार्यकारणभावाद्वा, ‘पानीयं प्राणिनां प्राणाः’ इतिवत् । एवमेव श्रुतिस्मृतीतिहासपुराणेषु सामानाधिकरण्यवादाः द्रष्टव्याः । ‘वासुदेवः सर्वमिति, (भ.गी. ७-१९) ‘सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । ‘, (छां.उ.३-१४-२) ‘ज्योतींषि शुक्राणि च यानि लोके यो लोका लोकपालास्त्रयी च । त्रयोऽग्नयश्चाहुतयश्च पञ्च सर्वे देवा देवकीपुत्र एव ॥ ज्योतींषि विष्णुर्भुवनानि विष्णु वनानि विष्णुर्गिरयो दिशश्च । नद्यः समुद्राश्च स एव सर्वं महाभारते
यदस्ति यन्नास्ति च विप्रवर्य’ ॥ इति । (वि.पु.२-१२-३८) ’ य एष देवकीपुत्रः पुरस्तादवतिष्ठते । स एव पुरुषो भूतं भव्यं चापि तथा भवत्’ ॥ एवमस्य कालतो व्याप्तिमुक्त्वा अयमेव सृष्टिकार्यजातचेतनवर्गस्य सर्वदेश- कालमोक्षप्रद इत्याह - उतामृतत्वस्येशान इति । उत किञ्च अयमेव पुरुष: अमृतत्वस्य मोक्षस्य ईशानः । सायुज्यादिचतुर्विधमोक्षप्रदो भवति । ‘मोक्षो नित्येऽमृते देवे कीर्तितं त्वमृतं बुधैः’ इति नैघण्डुकोक्तत्वात् अमृतशब्दो मोक्षपर्यायः । मोक्षस्य ईशानो भवति । अन्नेन यदतिरोहति, तस्य शरीरवर्तिनो जीवजातस्य मोक्षं प्रति भगवानेव ईष्टे । यत् कार्यजातमन्नेन अदनीयेन भोग्यद्रव्येण स्वकारणमतीत्य रोहति - ‘अन्नाद्भूतानि जायन्ते’ ( तै. उ. २- १) इति श्रुतिः - अहरहरशितेनान्नेन पूर्वपूर्वबाल्यकौमाराद्यवस्था अतीत्य यत् जीवजातं रोहति वर्धते, तस्य मोक्षप्रदाने विष्णुरीशानो भवतीत्यर्थः । मोक्षधर्म- ‘अन्नाज्जातस्य सर्वस्य मनुष्यादेरकारणात् । निर्वाणदायी भवति कृपया पुरुषोत्तमः । इति ॥ २ ॥ ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायश्च॒ पूरु॑षः ।
पार्दो ‘ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृत॑ दि॒वि ॥ ३ ॥ सा. भा. - ‘एतावानस्य - त्रिपादस्यामृतं दिवि’ इति । अतीतानागतवर्तमानरूपं जगद्यावदस्ति ‘एतावान्’ सर्वोऽपि, ‘अस्य’ पुरुषस्य, ‘महिमा’ । स्वकीयसामर्थ्यविशेषः,________________
60 } पुरुषसूलम न तु तस्य वास्तवं स्वरूपं वास्तववस्तुपुरुषः ‘अतः ’ महिम्नोऽपि ‘ज्यायान्’ अतिशयेनाधिकः । एतच स्पष्टीक्रियते । ‘विश्वाभूतानि’ कालत्रयवर्तीनि प्राणिजातानि ‘अस्य’ पुरुषस्य, ‘पादः’ चतुर्थोऽशः । ‘अस्य’, अवशिष्टं ‘त्रिपात् स्वरूपं’ ‘अमृतं’ विनाशरहितं सत्, ‘दिवि’ द्योतनात्मके स्वप्रकाशरूपे, अवतिष्ठते । यद्यपि ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ( तै.उ. ३ ) इत्याम्नातस्य परब्रह्मण इयत्ताया अभावात् अंशचतुष्टयं न निरूपयितुं शक्यं तथापि जगदिदं ब्रह्मस्वरूपापेक्षयाऽत्यल्पमिति विवक्षितत्वात् पादत्वोपन्यासः ॥ ३ ॥
भ. भा. एतावानिति ॥ एतावान् एतत्प्रमाणः यत् मर्त्या अमर्त्याश्च एतावान् अस्य पुरुषस्य महिमा महत्कर्म विभूतिरित्यर्थः, न तु अयमेतावान् । अयं तु पुरुषः अतोऽपि यथोक्तात् मर्त्यामर्त्यलक्षणात् कार्यवर्गात् ज्यायान् वृद्धतरः नैतावानेवेति मन्तव्यः । तत्कथमित्याह - पादः एकदेशः अस्य विश्वा भूतानि भूतजातानि अल्पांशो व्यक्तात्मना वर्तते । पादमात्रत एव सर्गप्रतिसर्गयोः प्रवृत्तिः । अस्य सम्बन्धि अपरं त्रिपात् पादत्रयात्मकं व्यक्तप्रमाणात् त्रिगुणं महाप्रमाणं एकदेशान्तरं अमृतं अविकारित्वेन चेतनरूपेण दिवि द्योतनवति आदित्यमण्डले परमपुरुषशरीरभूते वर्तते । उक्तं च ‘स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः । ’ ( तै. आ. ८०५) इति । त्रयः पादा यस्येति ‘सङ्ख्यासु पूर्वस्य’ (पा.सू. ५-४-१४०) इति लोपः ‘द्वित्रिभ्यां पाद्दन्’ (पा.सू.६-२-१९७) इत्युत्तरपदान्तोदात्तत्वम् । पुरुषस्य अपरिमितत्वात् न चतुर्थांशवचनः पादशब्दः । । 1 रं. भा. उक्तं सर्वेश्वर (महिमान) मुपसंहरति एतावानस्य महिमा । एतत्परिमाणोऽस्य महिमा विभूतिमात्रम् । अतो ज्यायांश्च पूरुषः । अतः ईदृशात् महिम्नः ज्यायान् प्रशस्यः श्रेष्ठः । यत एव पुरुषः सकलानपि लोकान् व्याप्य तिष्ठति, यतश्च समस्तवस्तुजातम् असौ सृजति, यतश्च संसारिणो मोक्षस्य अयमीष्टे, अत एतावानस्य महिमा |
शतपथब्राह्मणे अध्यात्मखण्डे प्रतिपादितम् ‘यदाऽयं नारायणाख्यः पुरुषो महान् भवति, तदानीमेवाणुर्भवति । यदाऽयं व्याप्तो भवति, तदैव प्रादेशिको भवति । यदैव भूमौ भवति, तदेव परमव्योम्नि भवति । यदा एक एव भवति, तदा अनेकः । यदाऽयं प्राकृतो भवति, तदैवाप्राकृतो भवति । यदा विषयवशो भवति, तदैवोपरतो भवति । यदा नरको भवति, तदानीमेव स्वर्गो भवति । यदा स्त्री भवति, तदैव पुरुषो भवति । यदा मनुष्यो भवति, तदा देवो भवति । यदा स________________
भाष्यसहितम् 61 भवति, तदा शून्यो भवति । यदा प्रपञ्चो भवति, तदा प्रपञ्चाद्भिन्नो भवति । यदा बद्धो भवति, तदैव मुक्तो भवति । यदा शुक्लो भवति, तदा कृष्णो भवति । यदा शरीरी भवति, तदा अशरीरी भवति । यस्मात् यानि यानि विरुद्धस्वभावानि, तानि सर्वाणि तदानीमेव अस्मिन् लीनानि भवन्ति, तस्मादयम् ईशः इति दुर्ज्ञान:, दुर्वचः, दुर्ध्यान: । तस्मात् ज्येष्ठः । वाङ्मनसोः अगोचरः’ इति । हरिवंशे पुरुषसूक्तप्रकरणे नारदस्तुतौ 1 ‘देशतः कालतो वाऽपि मोक्षदत्वा च वेधसः । हरेर्विभूतिमात्रं तु केवलं प्रतिभाषितम् । अतो महिम्नः स्वल्पांशात् ज्यायानेव परः पुमान् । ज्यायस्त्वं तस्य तत् सर्वैः सुदुर्ज्ञानतरं भवेत् इति । ब्राह्मणेभ्योऽखिलेभ्यश्च भूतजातेभ्य एव च । ब्रह्मादिभूतसंघेभ्यो ज्यायानेव परः पुमान् । ओजसो रूपतो वापि यशसो वीर्यतोऽपि च । विभुत्वातिशयाद्वापि ज्यायानेव जनार्दनः । महाभारते , ‘एकतो वा जगत् कृस्त्रमेकतो वा जनार्दनः । सारतो जगतः कृस्नादतिरिक्तो जनार्दनः ’ । (उद्यो.प.६८-७) श्रीभगवद्गीतायाम् ‘द्वाविमौ पुरुषौ लोके क्षराक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । (१५-१६) यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः ’ ॥ ( १५-१८) इति श्रीनारसिंहे ‘ब्रह्मादिस्तम्बपर्यन्तं जगत् स्थावरजङ्गमम् । सर्वमेवास्य महिमा स च ज्यायानतो हरिः ’ । अथवा
अस्य परिदृश्यमानस्य चराचरात्मकस्य प्रपञ्चस्य महिमा एतावान् परिच्छिन्नः । अतः अस्मात् प्रपञ्चात् पुरुषो ज्यायान् अपरिच्छिन्नप्रभावः । अस्य ज्यायस्त्वमेव प्रपञ्चयति पादोऽस्य विश्वा भूतानि । अस्य दुर्ज्ञानस्य पुरुषस्य विश्वा भूतानि चराचरात्मकानि पादः । अंशः कलामात्रम् इत्यर्थः । सृष्ट्यादिशक्तेः एकदेशः । तदीयशक्तिलेशविजृम्भितम् इदं जगद् गीयते,
1________________
62 पुरुषसूक्तम् ‘विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’ ॥ इति । (भ.गी. १० - ४२) श्रीविष्णुपुराणे ‘यस्यायुतायुतांशे विश्वशक्तिरियं स्थिता’ ॥ इति । (१-९-५३) अत्रैव गोपीनां वचने
‘यस्याखिलं महीव्योमजलाग्निपवनात्मकम् । ब्रह्माण्डमल्पकांशांशे तोष्यामस्त्वां कथं वयम्’ ॥ ( ५-७-५०) श्रीनारसिंहे ‘यदंशांशतदंशांशतल्लेशलवलेशतः । उत्पन्नञ्च प्रलीनञ्च जगत् सर्वं चराचरम्’ ॥ इति । , त्रिपादस्यामृतं दिवि । त्रयः पादा यस्य तत् त्रिपादुक्तम् । त्रिशब्दो बह्वर्थपरः । अस्य निरतिशयज्ञानानन्दवैराग्यैश्वर्यादिभिः अनेकैः सुगुणैः उपेतस्य रूपममृतं दिवि । अमृतम् अमरणधर्मकमित्यर्थः । दिवि परमे स्थाने । यत् परमपदवाच्यं सूरयः सदा पश्यन्ति । ‘धुशब्दः परमे व्योम्नि स्वर्गे वियति कथ्यते ।’ इति निघण्टुः । वैकुण्ठसंहितायाम् ‘अनन्तायामविस्तारो वैकुण्ठः संप्रकीर्तितः । तस्मादस्य त्रिपादांशो वैकुण्ठो भासतेतराम्’ ॥ इति ।
एवं सात्त्वतसंहितायां श्रीवासुदेवस्य चतुर्व्यूह अध्यायेऽपि - ‘अत्र पादशब्दः चतुर्थांशवचनः । त्रिपाच्छब्दः त्रिपादवचनः’ इति । तथा पुरुषसंहितायां वैकुण्ठसंहितायाञ्च, ‘सदादिपुरुषो विष्णुः सर्वव्यापी सनातनः । शरीरात् स्वाज्जगत् त्रातुं सङ्कर्षणमभावयत् ॥ स च प्रद्युम्नसंज्ञस्सन्ननिरुद्धमभावयत् । तस्मात् ब्रह्मा समुत्पन्नो जगत् स्रष्टुं चराचरम् ॥ एवं चतुर्धा संव्यूह्य स्वात्मानं पुरुषोत्तमः । अण्डे प्राकृते नित्यं त्रिपादेन विराजते ॥ इतरेण च पादेन प्राकृतेऽण्डे विराजते । जगत्सृष्ट्यादिकार्याणि कर्तुकामः स्वलीलया’ ॥ ३ ॥ त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । पादो॑ ऽस्ये॒हाभ॑वा॒त्पुनः॑ । ततो॒ विष्व॒ व्य॑क्रामत् । सा॒श॒नान॒श॒ने अ॒भि ॥ ४॥________________
भाष्यसहितम् 63 सा.भा. - ‘त्रिपादूर्ध्व उदैत्पुरुषः - साशनानशने अभि’ इति । योऽयं ‘त्रिपात्’, ‘पुरुषः’ संसारस्पर्शरहितबहुलस्वरूपः । सोऽयं ‘ऊर्ध्व उदैत्’ अस्मादज्ञानकार्यात् संसाराद्वहिर्भूतः सन् अत्रत्यः गुणदोषैरस्पृष्टः उत्कर्षेण स्थितवान् । तस्य योऽयं ‘पादः ’ लेशः, सोऽयं ‘इह’ मायायां, ‘पुनरभवत्’ सृष्टिसंहाराभ्यां पुनः पुनरागच्छति । अस्य सर्वस्य जगतः, परमात्मांशत्वं भगवताप्युक्तम्, ‘विष्टभ्याहमिदं कृस्नमेकांशेन स्थितो जगत्’ (भ.गी. १०-४२ ) इति । ‘ततः ’ मायया आगत्यानन्तरं ‘विश्वङ’ देवतिर्यगादिरूपो विविधः सन्, ‘व्यक्रामत्’ व्याप्तवान् । किं कृत्वा । ‘साशनानशने अभि’, अभिलक्ष्य साशनं भोजनादिव्यवहारोपेतं चेतनं प्राणिजातं अनशनं तद्रहितमचेतनं गिरिनद्यादिकं तदुभयं यथा स्यात् तथा स्वयं एवंविधो भूत्वा व्याप्तवानित्यर्थः ॥ ४ ॥ भ.भा. - एवम् आदित्यान्तरपुरुषरूपेण महापुरुषो विश्वस्य सर्गकारणम् इत्युक्तम् । इदानीं यज्ञपुरुषरूपेण महापुरुषस्य लोकसृष्टिकारणत्वं तदुभयात्मना च लोकस्थितिहेतुत्वं पुरुषस्याह - त्रिपादिति । वेदानां प्रत्येकं त्रिभिस्त्रिभिः पादैस्सहितः पुरुषो यज्ञात्मा त्रिपात् । रूपस्वौ उक्तौ । वेदानां त्रींस्त्रीन् पादानुपादाय यज्ञो भूत्वा स पुरुष ऊर्ध्वं उदैत् ऊर्ध्वमुद्गतवान् । यथा ‘गुहा त्रीणि निहिता नेङ्गयन्ति’ इति । अथ अस्य पुरुषस्य यज्ञात्मनः पादः तुरीयांशः वेदानां चतुर्थभागा आत्मा इह आभवात् अस्यां परिदृश्यमानायां सर्वभूतस्थितौ कारणभावेन पुनः पुनर्भवति, यथा इष्टदेवास्तुत्यादिभिः तर्पयित्वा तत्फलेन यजमानान् संयोजयति ‘अग्नौ प्रास्ताहुति:’ इति न्यायेन लोकानां स्थितिं निर्वर्तयति । आदित्यमण्डलगता चाहुति: उदकभावेन रश्मिभिः क्रियते, रश्मिस्थं चोदकं यदा सर्वभूतानुग्रहसमर्थं भवति तदा तन्मध्यमस्थानीयवृष्टिरूपेण पातयित्वा अनेन ओषध्यादीना स्थितिहेतुर्भवति । एवमयं पुरुषस्य पादः पुनः पुनराभवति आवृत्यावृत्य स्थितिहेतुर्भवति इहत्यानाम् । लेट्याडागमः । ताभ्यां यज्ञादित्यप्रवृत्तिभ्यां समुपबृंहितपादो महापुरुषो विष्वङ् नानाञ्चनः व्याक्रमत् विविधं क्रामति कार्यवशात् विविधं सर्पति साशनानशने अभिलक्ष्य । साशनं अन्नाधीनस्थितिकं जरायु अण्डोत् अस्वेदजं चतुर्विधं अनशनं देवजातम् । सत्यपि पारम्पर्येण अन्नाधीनस्थितिकत्वे अस्मदादीनामिव साक्षादशनाभावात् अनशनत्वं देवजातस्य । तदुभयस्थितिमभिसन्धाय विष्वङ व्यक्रामदिति । विष्वगञ्चतीति ऋत्विगादिना क्विन् प्रत्ययः, ‘क्विन्प्रत्ययस्य कु:’ (पा.सू.८-२-६२) इति कुत्वम् ॥________________
64 पुरुषसूक्तम् रं. भा. - उक्तमेव अर्थान्तरविवक्षयाऽनुवदति - त्रिपादूर्ध्व उदैत् उद्गतवान् । यद्वा रं.भा. स एष त्रिपादिति त्रिपादः पुरुष ऊर्ध्वं प्रकृतिमण्डलादूर्ध्वम् उदैत् उदगच्छत् । I तं दुर्ज्ञानं पुरुषं विहाय तस्य चतुर्थांशम् अनिरुद्धाख्यं नारायणम् अदूरविप्रकर्षेण स्तोतुम् आरभन्ते । पादोऽस्येहाभवात् पुनः । अस्य पादः एकदेशः इह अभवत् पुनः संसारचक्रे भोग्यभोगायतनादिरूपेण पुनरभवत् पुनः पुनः प्रवर्तते । अभवात् इत्याध्वर्यवपाठे दीर्घः छान्दसः ।
यद्वा भगवद्व्यूहाभिप्रायं पादोऽस्य विश्वा भूतानीत्यादि । वासुदेवसङ्कर्षण- प्रद्युम्नानिरुद्धाकारो भगवांश्चतुर्व्यूहो भवति । अत्र भगवतस्तुरीयो भागः अनिरुद्धाभिधानः विश्वानि भूतानि अधिष्ठाय सृष्ट्यादीनि करोति । पूर्ववत् कार्यकारणयोः अभेदवादः । इतरैः त्रिभिर्भागैः वासुदेवसङ्कर्षणप्रद्युम्नाख्यैरुपेतम् अमृतम् अविनाशि परमसुखरूपं दिवि नाकपृष्ठे वसति । उक्तमेव व्यनक्ति त्रिपादिति । वासुदेवादिरूपैः त्रिपात् पुरुष ऊर्ध्वः वाङ्मनसयोः अगोचरस्सन् उदैत् प्रकृतिप्राकृतमयात् सुदूरम् उत्क्रान्तवान् । इह संसारमण्डले अस्य पादः अनिरुद्धाभिधानः भगवान् अभवत् । पुनः पुनः सृष्ट्यादौ प्रवर्तत इति । तथा च पुराणे तत्त्वाध्याये, ‘सर्वस्याथ जगन्नाथः सर्वात्मा भूतभावनः । महतः प्रळयस्यान्ते जगत् स्रष्टुं समुद्यतः । परमव्योमनिलयो वासुदेवः सनातनः । शरीरात् स्वाज्जगत् त्रातुं सङ्कर्षणमभावयत् । स चाण्डजातमसृजत् महाभूतानि पञ्च च । दशोत्तराणि सर्वाणि परस्तात् प्रकृतेर्व्यधात् । तत्रत्यानाञ्च भूतानाम् अन्योन्यानुभवाय च प्रद्युम्नं भावयामास सदा कामरसप्रदम् । एवमप्राकृतान्येष बाह्यान्यण्डानि केशवः । सृष्ट्वा च प्राकृतं चाण्डं स्रष्टुं दध्रे स्वमानसम् । ततः स वासुदेवोऽयं प्रद्युम्नादुदपादयत् । सर्वस्य जगतः कोशमनिरुद्धाह्वयं हरिम् । स चानिरुद्धो भगवानादौ जलमभावयत् । जले तस्मिन् प्रचिक्षेप निजवीर्यं जगन्मयम् ।________________
सहितम् 65 तद् द्वितीयाण्डमभवदण्डात् ब्रह्मा व्यजायत । स भूतानां च सर्वेषामग्रे जातः पितामहः । जगन्निर्मातुमुद्युक्तः समन्ताद्विक्रमे तदा । ततः संबद्ध्यमानोऽयं सृष्टियज्ञात्मना व्यधात् । ’ इत्यादि । · संप्रति विवक्षितां प्रपञ्चसृष्टिं वक्तुम् उपक्रमते ततो विष्वङ् व्यक्रामदिति । समन्तादर्थे विष्वङ निपातितः । ततः पश्चात् पुरुषः ततः महत्प्रळयात् पश्चात् तेन पादनारायणेन व्यक्रामत् उद्यमम् अकरोत् । किमुद्दिश्य । साशनानशने अभि । अशनेन सह वर्तत इति साशनं जङ्गमवस्तु । अशनमस्य नास्तीति अनशनं स्थावरं वस्तु । ते उभे प्रति, विष्वक् सर्वतः चराचरात्मकं समस्तं जगत् प्रति मानससङ्कल्परूपं सृष्टिव्यापारम् अकरोत् इत्यर्थः ॥ ४ ॥ तस्मा॑ द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत । प॒श्चाद्भूमि॒मथो पु॒रः ॥ ५ ॥
सा. भा. - ’ तस्माद्विराडजायत पश्चाद्भूमिमथो पुरः’ इति । विश्वङ्- व्यक्रामदिति यदुक्तं तदेव प्रपञ्च्यते । ‘तस्मात्’ आदिपुरुषात्, ‘विराट् अजायत’ ब्रह्माण्डदेह उत्पन्नः, विविधं राजन्ते वस्तनि अत्रेति विराट्, ‘विराजो अधि’ विराड् देहस्योपरिस्थितमेव देहमधिकरणं कृत्वा, ‘पुरुषः ’ तद्देहाभिमानी कश्चित् पुमान्, ‘अजायत’ । योऽयं सर्ववेदान्तवेद्यः परमात्मा स एव स्वकीयया मायया विराड्देहं ब्रह्माण्डं सृष्ट्वा तत्र जीवः अभवत् । एतच्चाथर्वणिका उत्तरतापनीये समामनन्ति । स वा एष भूतानि इन्द्रयाणि विराजं देवताः कोशांश्च सृष्ट्वा प्रविश्य अमूढो मूढ इव व्यवहरन्नास्ते माययैवेति’ । (नृ. उ. ता. २-१-९) ‘स जातः ’ विराट् पुरुषः ‘अत्यरिच्यत’ अतिरिक्तेऽभूत्, विराद्व्यतिरिक्तो देवतिर्यङ्मनुष्यादिरूपोऽभूत् । ‘पश्चात्’ देवादिजीवभावादूर्ध्वं, ‘भूमि’ ससर्जेति शेषः । ‘अथो’ भूमिसृष्टेः अनन्तरं, तेषां जीवानां ‘पुर: ’ ‘ससर्ज’, आपूर्यन्ते सप्तभिः धातुभिरिति पुरः शरीराणि ॥ ५ ॥
भ. भा. - इदानीं सृष्टिरुच्यते तस्मात् प्रणवाख्यात् नारायणात् । अव्यक्तादिति केचित्, तदयुक्तं, तस्य अप्रस्तुतत्वात् । तस्मात् प्रकृतान्महापुरुषात् विराडजायत विविधं राजन्ति वस्तूनि यस्मिन् स विराट् मनस्संज्ञः प्रजापतिः । ततो विराजो अधि विराजमेवाधिकरणीकृत्य पुरुषोऽजायत दशहोत्राख्यः प्रजापतिः पुरुषसमष्ट्यात्मना अजायत । यथोक्तं स मानसीन आत्मा जनानाम्’ ( तै. आ. ३-११-२० ) इति । स________________
66 पुरुष नक्तन्म वैराजः पुरुषः जातः प्रादुर्भावानन्तरं अत्यरिच्यत (तै. आर. ३-११-२०) स्वयमेव आत्मानम् अत्यरेचयत् । कर्मकर्तरि रूपम् । अनेकधाभावलक्षणं स्वरूपातिरेकम् अभजत भूतेन्द्रियादीनि असृजतेति यावत् । उक्तं च ’ असतोऽधि मनोऽसृज्यत । मनः प्रजापतिमसृजत । प्रजापतिः प्रजा असृजत’ । (तै. ब्रा. २ - २ - ९) इति । पश्चादिति । भूतग्रामस्यान्ते भूमिं अत्यरेचयत् । सामर्थ्यात् कर्मकर्तृभावो निवर्तते । एवं आकाशादिपृथिव्यन्तानां तत्त्वानां सर्ग उक्तः । अथो अनन्तरं भूतसृष्टेः पुरः पुराणि शरीराणि सुरनरतिर्यगादीनां स्थावरादीनां च अत्यरेचयत् । पुर इत्यत्र छान्दसं विभक्तयुदात्तत्वम् । एवम् इन्द्रियसर्गः पिण्डसर्गश्च प्रतिपादितः ॥ ५ ॥ रं. भा. - तस्माद्विराडजायत । तस्मादेवं व्यापारवतः पुरुषात् विराडजायत । विराट्च्छब्देन महदादिरूपेण विविधं राजतीति हिरण्मयम् अण्डमुच्यते । विराजो अधिपूरुषः । विराजोऽनन्तरं पुरुषः चतुर्मुखाख्योऽध्यजायत । तथाऽऽह मनुः - ‘ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादिवृत्तौजाः प्रादुरासीत् तमोनुदः ’ ॥ ( म. स्मृ. १-६) ‘सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमपासृजत्’ ।। ( म. स्मृ. १-८ ) ‘तदण्डमभवद्धैमं सहस्त्रांशुसमप्रभम् ।
तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ’ ।। (म.स्मृ. १- ९) इति ।
स जातो अत्यरिच्यत । तस्मात् ब्रह्मा अतिरिक्तोऽभवत् । पश्चाद्भूमिमथो पुरः । अथ शब्दः अतिरेक इत्यर्थः । विभक्तिव्यत्ययेन भूमेः पश्चात् पुरस्ताच्चोर्ध्वं चात्यन्तं प्रवृद्धो व्याप्तो बभूव इत्यर्थः । सर्वत्रातिवृद्धकायोऽभवत् ।
शाकल्यब्राह्मणे पुरुषसूक्तसंहितायां - ‘आदिश्चतसृणाम् ऋचामर्थमुक्त्वा स तस्मात् व्यापारादनन्तरम् । अथ पादनारायणात् मूलप्रकृतिरजायत । सा प्रकृतिः पादनारायणशासनात् महदहङ्कारादीन् सूक्ष्मान् पदार्थान् अजनयत् । एवं सूक्ष्मायां सृष्टी, कृतायां स पादनारायणः स्थूलसृष्ट्यर्थं चतुर्मुखम् पुरुषम् अभिदध्यौ । तद्ध्यानानन्तरमधि विराजः प्रकृते पश्चात् पुरुषश्चतुर्मुखाख्यः अजायत । स जातो भूमेः पश्चात् पुरतश्चातिरिच्यते । अतिरेको वृद्धिः । सर्वकार्यक्षमोऽति- वृद्धकायोऽभवत् । वृद्धकायस्सन् तूष्णीमास्त तं अनिरुद्धनारायणोऽप्राक्षीत् । ब्रह्मन् ! किं तूष्णीं भवसीति । अज्ञानादिति होवाच । ब्रह्मन् ! तव इन्द्रियाणि________________
भाष्यसहितम् 67 देवान् ऋत्विजः कृत्वा त्वदीयं च कळेबरं हविः कृत्वा मां हविर्भुजं ध्यात्वा मय्यग्नौ निवेदय । मदङ्गस्पर्शमात्रेण जगत्कोशभूतः त्वत्कायो बृंहिष्यते । तस्मात् उद्भूतानि प्राणिजातानि यथापूर्वं निर्माय स्रष्टा भविष्यसि । य एव सृष्टियज्ञं जानाति, स जन्मनि इह मुक्तो भवतीति’ । श्रीवराहपुराणे ― ‘सिसृक्षोरनिरुद्धाख्यादण्डे प्रथम । अण्डाद् ब्रह्माऽध्यजायत निर्मातुं सकलं जगत् । स जातमात्रो भगवानवर्धत समन्ततः । तं प्रवृद्धमहाकायं ब्रह्माणं रचिताञ्जलिम् । जगत्सृष्टिमजानन्तमनिरुद्धो हरिर्जगौ । त्वमिन्द्रियैर्देवसंज्ञैः कुरु यज्ञं समाहितः । त्वच्छरीरं हविर्ध्यात्वा मां ध्यात्वा च हविर्भुजम् । प्रणवोच्चारणेनैव मय्यग्नौ त्वां निवेदय । मदङ्गस्पर्शमात्रेण स्त्रष्टुं योग्यो भविष्यसि ’ ।। ५ ।। यत्पुरु॑षेण ह॒विषा॑ ’ । दे॒वा य॒ज्ञमत॑न्वत । व॒स॒न्तो अ॑स्यासी॒दाज्यम्’ । ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ॥ ६ ॥ सा. भा. - ’ यत् पुरुषेण ग्रीष्म - इध्मः शरद्धविः’ इति । पूर्वोक्तक्रमेण देवशरीरेषु उत्पन्नेषु ते ‘देवाः’, उत्तरसृष्टिसिध्यर्थं तत्साधनत्वेन ‘यज्ञमतन्वत’ कञ्चिद्यज्ञमन्वतिष्ठन् । बाह्यद्रव्यस्यापि उनुत्पन्नत्वेन हविरन्तरासम्भवात् पुरुषस्वरूपमेव मनसा हविष्ट्वेन सङ्कल्प्य तेन ‘पुरुषाख्येन’, ‘हविषा’, ‘यत्’ यदा, मानसं ‘यज्ञं’, अकुर्वत तदानीं ‘अस्य’ यज्ञस्य, वसन्तर्त्तुरेव ‘आज्यं’, अभूत्, तमेवाज्यत्वेन सङ्कल्पितवन्तः, एवं ‘ग्रीष्मः’, इध्मत्वेन सङ्कल्पितः । ‘शरत्’, पुरोडाशादिहविष्ट्वेन सङ्कल्पिता । पूर्वं पुरुषस्य हविः सामान्यरूपत्वेन सङ्कल्पः । वसन्तादीनां तु आज्यादिविशेषरूपत्वेनेति द्रष्टव्यम् ।। ६ ।। भ. भा. - इदानीं सृष्टिविशेष उच्यते यदिति । यत् यदा पुरुषेण प्रजापतिना हविषा हविट्न संकल्पितेन हविरन्तरस्य अभावात् देवाः प्राणाः प्राजापत्याः इन्द्रियाणि च यज्ञं सङ्कल्पात्मकं अतन्वत यज्ञमिव अकुर्वत । सृष्टिकामः प्रजापतिरेव प्राणादिवृत्तिभेदेन उच्यते । अथ अस्य यज्ञस्य वसन्त आज्यमासीत्, तत्र गवां भूयिष्ठत्वात् तमेवर्तुं तद्विकाराज्यकार्याय समकल्पयत् । एवं ग्रीष्मशरदो व्याख्येये ।। ६ ।।________________
68 पुरुषसूक्तम्
रं.भा. - संप्रति प्रपञ्चसृष्टिं यज्ञरूपेण कथयति । यत् पुरुषेण हविषा यत् यदा पुरुषेण चतुर्मुखाख्येन पशुहविषा देवाः साध्याख्याः, तदिन्द्रियाणि वा यज्ञं सृष्ट्याख्यं सृष्ट्या (ध्या) त्मक ध्या (ज्ञा) नमय (सृष्ट्यर्थमध्यात्मज्ञानमय ?) अतन्वत अकुर्वत । ‘इन्द्रियप्राणसाध्येषु देवशब्दः समीरितः’ इति योगवासिष्ठवचनात् देवशब्द इन्द्रियवाची । तदा वसन्तो अस्यासीदाज्यम् । अस्य अध्यात्मज्ञानयज्ञस्य वसन्तः कालः आज्यमासीत् । पाद्मे पुराणे वसन्तवर्णने, ‘हिमदग्धतृणा भूमिर्वसन्ते शोभते तृणैः । गावश्च तृणभक्षेण दुहते सुतरां पयः’ इति वचनात् । शिशिरापगमे गवां कार्श्यापगमात् बह्वाज्यहेतुत्वमुक्तं भवतीति वसन्तस्य आज्यत्वमुक्तम् । एतेन वसन्तकालसृष्टिरुक्ता । ग्रीष्म इध्मः । ग्रीष्मर्तुः इध्मत्वेन ध्यान आसीत् । तापातिशयहेतुत्वाद् ग्रीष्मस्य इध्मं भवतीति । ‘ग्रीष्मकाले पलाशेध्मानाहरन्ति महर्षयः । ये च सांवत्सरं सत्रमासते दोष शान्तये’ इति । अनेन ग्रीष्मकालसृष्टिरुक्ता । शरद्धविः । शरदृतुः पुरोडाशाख्यं हविः आसीत् श्रीरामायणे शरद्वर्णने - ‘खर्जूरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः । शोभन्ते किञ्चिदालम्बाः शालयः कनकप्रभा’ । ( ३- १६-१७) इति । अनेन शरत्कालसृष्टिरुक्ता । व्रीहिपाकहेतुत्वात् शरदो हविट्वादः ।। ६ ।। स॒प्तास्या॑सन् परि॒धय॑ । त्रिः स॒प्त स॒मि॑धः कृ॒ताः । : दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः । अव॑ध्न॒न् पुरु॑षं प॒शुम् ॥ ७ ॥ स.भा. - ‘सप्तास्यासन् परिधयः - अबधन् पुरुषं पशुं’ इति । ‘अस्य’ साङ्कल्पिकयज्ञस्य, गायत्र्यादीनि ‘सप्त’, छन्दांसि ‘परिधयः’, ‘आसन्’, ऐष्टिकस्य आहवनीयस्य त्रयः परिधयः औत्तरवेदिकास्त्रयः, आदित्यश्च सप्तमः परिधिप्रतिनिधिरूपः । अत एव आम्नायते, ‘न पुरस्तात् परिदधात्यादित्यो ह्येवोद्यन् पुरस्ताद्रक्षाँस्यपहन्ति’ इति । त एत आदित्यसहिताः सप्त परिधयोऽत्र सप्तच्छन्दोरूपाः । तथा ‘समिध:’, ‘त्रिः सप्त’ त्रिगुणितसप्तसङ्ख्याकाः एकविंशतिः, ‘कृता: द्वादशमासाः, पञ्चर्तवः, त्रय इमे लोकाः, असावादित्य एकविंश’ ( तै.सं. ५ -१ - १० - ३ ) इति श्रुताः पदार्था________________
भाष्यसहितम् 69 एकविंशतिदारुयुक्ता इध्मत्वेन भाविताः । यः पुरुषो वैराजोऽस्ति तं ‘पुरुषं’, ‘देवाः ’ प्रजापतिप्राणेन्द्रियरूपाः, ‘यज्ञं तन्वानाः ’ मानसयज्ञं कुर्वाणाः, ‘पशुमबधन्’ विराट्पुरुषमेव पशुत्वेन भावितवन्तः । एतदेवाभिप्रेत्य पूर्वत्र पुरुषेण हविषा इत्युक्तम् ।। ७ ।। भ. भा. - अथ अस्य यज्ञस्य सप्त पदार्थाः छन्दांसि परिधय आसन् छन्दांस्येव परिधित्वेन अबुध्यन् । तत्र त्रय औत्तरवेदिकाः परिधयस्त्रयः तान्त्रिकाः आदित्यः सप्तम इति । ‘आदित्यो ह्येोद्यन्पुरस्ताद्रक्षांस्यपहन्ति’ इति परिधित्वम् आदित्यस्य । अथास्य यज्ञस्य त्रिस्सप्त एकविंशतिपदार्थाः समिधः कृताः ‘द्वादश मासाः पञ्चर्तवः । त्रय इमे लोकाः । असावादित्य एकविंश: ’ ( तै. सं. ५-१-१०-३) इति इध्मत्वेन एते कल्पिता इति । एवं इध्मावयवानां एकविंशतेः दारूणां सम्पादनेन इध्मनिरूपणं कृतम् । पूर्वं तु पृथक्त्वेन परिधानकाले परिधिनिरूपणं कृतमिति द्रष्टव्यम् । एवं प्राजापत्यं सङ्कल्पयज्ञं कल्पयित्वा तत्फलं प्रपञ्चसृष्टिमाह - देवाः इति । देवाः प्राणाः प्राजापत्याः यज्ञं सङ्कल्पात्मकं तन्वानाः यत् यदा पुरुषं प्रजापतिं पशुं अबध्नन् मनसा पशुत्वेन सङ्कल्पितवन्तः नियोजनमिव कृतवन्तः ।। ७ ।। रं. भा. - बह्वृचपाठे उपरिष्टात् पठिताऽपि याजुषं पाठम् आश्रित्य औचित्यात् सप्तास्यासन् परिधय इत्येषा व्याख्यायते । तस्य सृष्टियज्ञस्य सप्त परिधय आसन् । परितो निधीयत इति परिधिः । परिधीनां सप्तत्वमाह, ‘उत्तरवेदिपरिधयस्त्रयः । आहवनीयस्य परिश्रयस्त्रयः । आदित्यः सप्तमः’ इति शतपथब्राह्मणे । अत्र के परिधित्वेन ध्याता आसन् ? उच्यते । पृथिव्यप्तेजोवाय्वाकाशाहङ्कारबुद्धयः सप्तेति मैत्रावरुणि उपनिषदस्ति । त्रिस्सप्त समिधः कृताः । तथा च श्रुतिः ‘एकविंशतिमिध्मदारुण भवन्तीति । अत्र के समित्त्वेन कृताः । पैङ्गायनिब्राह्मणे समिध उक्ताः । ‘पृथिव्यादीनि भूतानि तन्मात्राश्चैव पञ्च च । कर्मेन्द्रियाणि पञ्चाथ पञ्च ज्ञानेन्द्रियाणि च । अन्तःकरणमित्येकविंश समिधः कृताः ’ । इति । कदा परिध्यादयः कृताः ? देवा यद्यज्ञं तन्वानाः वैकुण्ठसंहितायाम्- ‘ते देवा इति कीर्त्यन्ते ये सुरालयवासिनः । । यत् यदा साध्याख्या देवाः वैकुण्ठवासिनः सर्वे साध्या देवा इतीरिताः ’ । इति ।। इन्द्रियाणि वा देवाः सृष्टिरूपं यज्ञं कुर्वाणाः पुरुषं चतुर्मुखाख्यमबध्नन् पशुत्वेन अमन्वत - तदेत्यर्थः । अबधन् पुरुषं पशुम् । विष्णोराज्ञया रशनास्थानीयया ब्रह्माख्यं________________
70 पुरुषसूक्तम् पशुं देवाः तत्परवशानि इन्द्रियाणि मूलप्रकृतौ यूपस्थानीयायां सकललोक सृष्टियज्ञनिष्पत्तयं न्ययुञ्जन् ।। ७ ।। तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑ । पुरु॑षं जा॒तम॑ग्र॒तः । तेन॑ दे॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये ॥ ८ ॥ सा.भा. - अथाष्टमीमाह - ‘तं यज्ञं बर्हिषि प्रौक्षन् - साध्या ऋषयश्च ये’ इति । , ‘यज्ञं’ यज्ञसाधनभूतं, ‘तं’ पुरुषं पशुत्वभावनया यूपे बध्नन् ‘बर्हिषि’ मानसे यज्ञे, ‘प्रौक्षन्’ प्रोक्षितवन्तः । कीदृशं ‘अग्रतः ’ सर्वसृष्टेः पूर्वं, ‘पुरुषं जातं’ पुरुषत्वेनोत्पन्नम् । एतच पूर्वमेव उक्तम् । तस्माद्विराडजायत विराजो अधिपूरुष इति । ‘तेन’ पुरुषरूपेण पशुना, ‘देवा: ’ ‘अयजन्त ’ मानसयागं निष्पादितवन्तः । के ते देवाः इति त एवोच्यन्ते । ‘साध्याः ’ सृष्टिसाधनयोग्याः, प्रजापतिप्राणरूपाः तदनुकूलाः, ‘ऋषयः’ मन्त्रद्रष्टारश्च, ‘ये’, सन्ति ते सर्वेपि ‘अयजन्त’ ।। ८ ।। 1 भ. भा. - तदानीमेव पुरुषं प्रजापतिं अग्रे सर्वविकाराणां मुखे बन्धनानन्तरं पुरुषं जातं विराट्संज्ञकं पुरुषरूपेण जातं यज्ञं यज्ञसाधनम् । करणे नञ्प्रत्ययः । बर्हिषि यज्ञे यज्ञार्थं प्रौक्षन् प्रोक्षणमिव मनसा कृतवन्तः । कथमन्यो नियुज्यते अन्यः प्रोक्ष्यते इति चेत् न, अभेदात् । अथ तेन विराजा पुरुषेण देवाः प्राणाः अयजन्त यज्ञो वर्तत इति मनसा सङ्कल्पमकुर्वत । केचिदाहुः - अग्रतो जातं यज्ञं यज्ञात्मानं पुरुषं यज्ञे पशुत्वेन प्रौक्षन् इति । यथोक्तं ‘यज्ञेन यज्ञमयजन्त देवा:’ इति । साध्याश्च ऋषयश्च द्विप्रकारा अपि देवा अयजन्त । ‘चवायोगे प्रथमा’ (पा.सू. ८-१-५९) इति निघाताभावः । साधयन्तीति साध्याः प्राणाः । ‘कृत्यल्प्युटो बहुलम्’ (पा.सू.३-३-११३) इति कर्तरि ‘अचो यत्’ (पा. सू. ३-१- ९७) इति ण्यन्ताद्यत्, उदात्तनिवृत्तिस्वरेण यत उदात्तत्वम् । ऋषयः द्रष्टारः इन्द्रियाणि । द्वयेऽपि देवनशीलाः देवा इत्युच्यन्ते ।। ८ ।।
रं. भा. - तं यज्ञं देवाः कुर्वन्ति इत्याह तं यज्ञमिति । तं यज्ञं बर्हिषि प्रौक्षन् । अयं यज्ञशब्दो यज्ञसाधकवचनः यजनीयहविः परः । बर्हिश्शब्दो बृंहणयोगिनि वर्तमानः । योगरले, ‘विराट् प्रकृतिः बर्हिरिति समाननामानि ’ इति । तमग्रतो जातं यष्टत् बर्हिषि प्रकृतौ निधाय साध्या देवाः प्रौक्षन् । प्रोक्षणादिसंस्कारं कृत्वा ब्रह्माख्यं तत्यां बृंहणयोगिन्यां मूलप्रकृतौ देवाः प्रक्षिप्तवन्तः । जगदुपादानभूतया प्रकृत्या जग ब्रह्माणं तदिन्द्रियाणि समयोजयन् इत्यर्थः । तेन देवा अयजन्त साध्या । व 1________________
भाष्यसहितम् 71 प्रकृतियुक्तेन ब्रह्माख्येन संस्कृतेन पशुहविषा साध्या देवाः कर्मसाधकानि वागिन्द्रियाणि सृष्टियज्ञम् अकुर्वत - अनिरुद्धाग्नौ प्रक्षिप्तवन्तः । ऋषयश्च ये - ज्ञानसाधनानि चक्षुरादि इन्द्रियाणि । तानि च सृष्टियज्ञम् अकुर्वत । तदुद्भावो वक्ष्यते । अथवा अस्य पुरुषमेधाख्यस्य मोक्षहेतुत्वात् मुमुक्षवो ये ऋषयः, तेऽपि एवमेव अयजन्तेति । आह च रत्नग्रन्थे - ( योगरत्ने) ‘ये मुमुक्षवः अब्भक्षा वायुभक्षा जीर्णपर्णाशना वाग्यताः प्रणवाभ्यासनिरता: सर्वभूतहिते रताः बहिष्कृतसर्वकामाः परमशान्ता जितेन्द्रियाः विरक्ताः परमात्मनि गोविन्दे सदा सन्निहितमानसा वसुरण्यमन्त्रम् उच्चारयन्त आत्मानं तेजोमयमग्नौ परमात्मनि जुह्वति, तेऽपि विमुक्ता भवन्ति । एवं जीवात्मपरमात्मनोः योगाख्यो मोक्ष इत्युक्त इति विजानीयात् । एतज्ज्ञानमात्रादेव अचिरान्मोक्षः सिद्ध इति विजानीयात्’ इति । प्रसङ्गात् वसुरण्य इति मन्त्रार्थ उच्यते । हे प्रत्यगात्मन्! वसु सर्वेषां वासयिताऽसि । सर्वेषां धनमिव असीति । रण्यः । ‘रण भाषणे च शब्दे च’ (धा.पा.?) । सर्वैः कीर्तनीयश्चासि । विभुरसि सङ्कल्पमात्रेण विविधं भावयिताऽसि । प्राणे त्वमसि संधाता । प्राणे वसन् सर्वस्य अनुसंधाताऽसि । ब्रह्मन् त्वमसि विश्वसृक् त्वमेवं विश्वस्रष्टा चांसि । तेजोदास्त्वमस्यग्ने । त्वमेवाग्नौ तेजोदाश्चासि । वर्चोदास्त्वमसि सूर्यस्य । त्वमेव वर्चोदा असि । वर्चो दीप्ति: । द्युम्नोदास्त्वमसि चन्द्रमसः । त्वमेव घुम्नोदा असि । द्युम्नशब्दो दीप्तिपरः । गीयते हि ‘यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यचन्द्रमसि यचाग्नौ तत् तेजो विद्धि मामकम् ।’ (भ.गी. १५-१२) उपयामगृहीतोऽसि । उपयच्छति उत्युपयामः तेन गृहीतः । हविषः अस्कन्नताहेतुभूतं मृदादिः उपयामः । तेन गृहीतोऽसि । ब्रह्मणे त्वा महसे । महते ब्रह्मणे त्वाम् (समर्पयामि) ओमित्यात्मानम् उपहारं आत्माग्नौ युञ्जीत (महा.ना.उ.६३-७९) । स एव जीवात्मपरमात्मयोग इति ।। ८ ।। तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॑ः । संभृ॑तं पृषदा॒ज्यम् । प॒शँस्ताँश्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान् ग्रा॒म्याश्च॒ ये ॥ ९ ॥ सा.भा. - ‘तस्माद्यज्ञात् सर्वहुत- ग्राम्याश्च ये’ इति ! ‘सर्वहुत: ’ सर्वात्मकः पुरुषो यस्मिन् यज्ञे हूयते सोऽयं सर्वहुतः तादृशात्, पूर्वोक्तात् मानसात् ‘यज्ञात्’,________________
72 पुरुषसूक्तम् ‘पृषदाज्यं’, ‘सम्भृतं’ सम्पादितं, दधि चाज्यं चेत्येवमादिभोग्यजातं सम्पादितमित्यर्थः । तथा ‘वायव्यान्’ वायुदेवताकान्, लोकप्रसिद्धान्, ‘आरण्यान्’, ‘पशून्’, ‘चक्रे’ उत्पादितवान् । आरण्याः द्विखुरादयः तथा ये ‘ग्राम्याः ’ गवाश्वादयः, तानप्युत्पादितवान् । पशूनामन्तरिक्षद्वारा वायुदेवत्यत्वं मन्त्रान्तरव्याख्याने समाम्नातम् । ‘वायवस्थेत्याह वायुर्वा अन्तरिक्षस्याध्यक्षाः । अन्तरिक्षदेवत्याः खलु वै पशवः । वायव एवैनान् परिददाति’ ( तै. ब्रा. ३-२ - १ ) इति ।। ९ ।। भ. भा. - एवं यज्ञं निर्वर्तितवन्तः, अथ तस्माद्यज्ञात् सर्वहुतः सर्वात्मा पुरुष: पशुत्वेन हूयते अस्मिन्निति सर्वहुत् । अधिकरणे क्विप् सम्भृतं समुत्पन्नं पृषदाज्यं पृषत् विचित्रं आज्यं पश्वादिभावेन पानीयं पृषदाज्यं अपां परिणामात्माद्रव्यविशेषः । पशव्यः आज्यस्यैव अवस्थाविशेष इत्येके । अथ तत्पृषदाज्यं पशूंश्चक्रे प्राणेन्द्रियसमष्टिरूपः प्रजापतिः, वायव्यान् वायुदेवत्यान् वायव्यग्रहणं तिर्यगर्थं तद्देवत्यत्वात्तेषाम् । ये आरण्याः ये च ग्राम्यास्तान् सर्वांश्चक्रे ।। ९ ।।
रं.भा. - प्रकृतमनुसरामः । तस्माद्यज्ञात् सर्वहुत इति । सर्वं जुहोति त्यजतीति अङ्गयागो न भवतीति गार्ग्यायणाः - सर्वहुत् पशुः । सर्वहुतो यज्ञाख्यात् ब्रह्मणः पृष्टदाज्यं संभृतमभूत् । पृष्टदाज्यं याज्ञिका दधिमिश्राज्यं प्रचक्षते । अत्र तु सृज्यप्राणिजननहेतुभूतं वीर्यं पृषदाज्यं भवतीति प्रोच्यते । तद्यथा चित्ररूपं भवति, एवमेव पशुनी (पशो: नी) लादि विचित्रभूतं वस्तु जातं भूतमित्यर्थः । पशूंस्ताँश्चक्रे वायव्यान् । वायुशब्देन वायुमताऽन्तरिक्षेण गतिर्लक्ष्यते । वायव्यान् पशून् पुरुषश्चक्रे ससर्ज । आरण्यान् व्याघ्रादीन् । आरण्यशब्दः पशुविशेषणम् । ग्राम्यशब्दश्च । ग्राम्याश्च ये पशवः मार्जारादयः, वराहादयो वा तान् चक्रे; वायव्या ये आरण्याः, तानपि चक्रे ।। ९ ।। , तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॑ः । ऋच॒ सामा॑नि जज्ञिरे । । । छन्दो॑सि जज्ञिरे॒ तस्मा॑त् । यजुस्तस्मा॑द॒जायत ॥ १० ॥ 0 सा. भा. - ‘तस्माद्यज्ञात् यजुस्तस्मादजायत’ इति । ‘छन्दांसि’ गायत्र्यादीनि । स्पष्टमन्यत् ।। १० ।। भ. भा. - अथ तत् तस्मात् तादृशात् यज्ञात् ऋचस्सामानि जज्ञिरे छन्दांसि च सर्वाणि ऋगादिमया वेदाः जज्ञिरे । यजुश्च तस्मादजायत । जातावेकवचनम् ।। १० ।________________
भाष्यसहितम् 133 73 रं. भा. - तस्माद्यज्ञात् सर्वहुत: ऋचः सामानि जज्ञिरे । ऋग्वेदः सामवेदश्च प्रादुरभूताम् । छन्दाँसि जज्ञिरे तस्मात् । गायत्र्यादीनि अजायन्त । यजुस्तस्मादजायत । यजुः यजुर्वेदश्च ।। १० ।। तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः ॥ गावो॑ ह जज्ञिरे॒ तस्मा॑त् । तस्मा॑जा॒ता अ॑जा॒वयः॑ ॥ ११ ॥ सा.भा. ‘तस्मादश्वा अजायन्त V तस्माज्जाता अजावयः’ इति ।
अश्वव्यतिरिक्ता गर्दभा अश्वतराश्च ये केचिदूर्ध्वाधोभागयोः उभयोर्दन्तयुक्ताः सन्ति तेप्यश्ववत् ‘अजायन्त’ । तथा ‘गाव:’, अजाश्वावयश्च ते सर्वेऽप्युत्पन्नाः ।। ११ ।।
भ. भा. पुनश्च पशुसृष्टि प्रपञ्चयति तस्मादेवाश्वा अजायन्त । ये के च ये केचित् उभयादतः उभयोः पार्श्वयोः दन्ताः येषां ते गर्दभादयश्च अजायन्त । ‘छन्दसि च’ (पा.सू.५-४-१४२) इति दतृभाव:, ‘अन्येषामपि दृश्यते’ (पा. सू. ६-३-१३७) इति दीर्घत्वम्, नुमभावश्छान्दसः । गावश्च अजाश्च अवयश्च तस्माज्जाताः ।। ११ ।। रं. भा.
तस्मादश्वा अजायन्त । यज्ञसंबन्धिनः अश्वाः । ये के चोभयादतः गावो ह जज्ञिरे तस्मात् । अधरोत्तरभागयोः उभयोः दन्ताः येषाम्, ते रासभादयः । ते च गावश्च जज्ञिरे । तस्मात् जाता अजावयः । अजाश्चावयश्च जज्ञिरे । केचित्तु विशब्दो बहुवचनान्त इति कृत्वा मन्यन्ते (मृगाः पक्षिणश्च जाता इति व्याकुर्वते ) ।। ११ ।। यत्पुरु॑षं॒ व्य॑दधुः । क॒ति॒धा व्य॑कल्पयन् । मु॒द्रं॒ किम॑स्य॒ कौ बा॒हू । कावु॒रू पादा॑वुच्येते ॥ १२ ॥ | सा. भा. - ‘यत् पुरषं - कावूरू पादावुच्येते’ इति । प्रश्नोत्तररूपेण ब्राह्मणादिसृष्टि वक्तुमत्र ब्रह्मवादिनां प्रश्ना उच्यन्ते । प्रजापतेः प्राणरूपा देवाः ‘यत्’ यदा, ‘पुरुषं’ विराडूपं, ‘व्यदधुः ’ सङ्कल्पेनोत्पादितवन्तः । तदानीं ‘कतिधा’ कतिभिः प्रकारैः, ‘व्यकल्पयन् ’ विविधं कल्पितवन्तः । एष सामान्यरूपः प्रश्नः । मुखं किमित्यादयो विशेषप्रश्नाः ।। १२ ।। यदित्यादि । यदा पुरुषं विराजं व्यदधुः प्राणादयः कल्पितवन्तः, तदा कतिधा कतिभिः प्रकारैः विशिष्टं व्यकल्पयन् कानि चास्य मुखादीन्युच्यन्ते ।। १२ ।। रं. भा. पुरुषस्य मुखाद्यवयवप्रकारान् पृच्छति यत् पुरुषं व्यदधुः । यदा पुरुष संज्ञं पशुत्वेन देवाः व्यदधुः, तदा कतिधा व्यकल्पयन् । किंप्रकारं मुखाद्यवयवं________________
74
पुरुषसूक्तम् कल्पितवन्त इत्यर्थः । प्रश्नार्थं व्यनक्ति मुखं किमस्य मुखात् किमिति वक्तव्ये मुखम् इत्यादिप्रथमानिर्देशः कार्यकारणयोः अभेदविवक्षया । कावूरू पादावुच्येते । अस्य पुरुषस्य किंप्रकारं मुखम् । उत्पाद्यमानेषु ब्राह्मणादिषु वर्णेषु अस्य मुखं किमासीत् । बाहू च किंप्रकारौ । कावूरू आस्ताम् । कौ च पादावुच्येते ।। १२ ।। ब्र॒ह्म॒र्णोऽस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्य॑ कृ॒तः । ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्यो॑शूद्रो अ॑जायत ॥ १३ ॥ सा.भा. - ‘ब्राह्मणोस्य - अजायत’ इति । योऽयं ब्राह्मणजातिविशिष्टः पुरुषः सोऽयं ‘अस्य’ प्रजापतेः, ‘मुखमासीत्’, मुखादुत्पन्न इत्यर्थः । योऽयं ‘राजन्य : ’ क्षत्रियजातिः, स बाहुत्वेन निष्पादितः, बाहुभ्यामुत्पादित इत्यर्थः । ‘तत्’ तदानीं, यौ प्रजापतेः ‘ऊरू’, तद्रूपः ‘वैश्यः’, सम्पन्नः ऊरुभ्यामुत्पन्न इत्यर्थः । तथा ‘पद्भ्यां शूद्रः ‘, उत्पन्नः । इयं च मुखादिभ्यो ब्राह्मणादीनामुत्पत्तिः तैत्तरीयसंहितायां सप्तमकाण्डे स मुखतस्त्रिवृतं निरमिमीत ( तै.सं. ७-१-१-४) इत्यादौ विस्पष्टमाम्नाता । अतः प्रश्नोत्तरे उभे अपि तत्परत्वेनैव योजनीये ।। १३ ।। रं. भा. - परिहरति ब्राह्मणोऽस्य मुखमासीत् । ब्राह्मणजातिः अजायत । अनेन ब्राह्मणजातिकारणभावो मुखस्य प्रकार उक्तः । एवम् उत्तरत्रापि दृष्टव्यम् | बाहू राजन्यः कृतः । बाहुभ्यां क्षत्रियजातिः अकारीत्यर्थः । ऊरू तस्य यद् वैश्यः । यद्वैश्यनामा जातिर्भवति, तदस्य पुरुषस्य ऊरुभ्याम् अजायत इत्यर्थः । यत्तदोः सामान्यवचनत्वात् नपुंसकनिर्देशः । मुखादीनां ब्राह्मणादिभिः अभेदवादः कार्यकारणभावकृतः । ब्राह्मणं प्रकृत्य मनुः मनुः ‘तं हि स्वयंभूः स्वकादास्यात् तपस्तप्त्वाऽऽदितोऽसृजम्’ । हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये’ ।। (म.स्मृ. १-९४) इति । तथा ‘लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः । ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत्’ ।। इति । ( म. स्मृ. १-३१) पद्भ्याँ शूद्रो अजायत । निसर्गसिद्धः शूद्रवर्णः ।। १३ ।।________________
भाष्यसहितम् 75 । च॒न्द्रमा॒ मन॑सो जा॒तः । चस्सूर्यो॑ अजायत । मुखदिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत ॥ १४ ॥ सा.भा. ‘चन्द्रमा मनसो जात:
प्राणाद्वायुरजायत’ इति । यथा दध्याज्यादिद्रव्याणि गवादिपशवः ऋगादिवेदाः ब्राह्मणादिमनुष्याश्च तस्मादुत्पन्नाः, एवं चन्द्रादयो देवा अपि तस्मादेवोत्पन्नाः । ‘चक्षोः ’ चक्षुषः ।। १४ ।।
रं. भा. अथ यष्टव्यानां देवतानां सृष्टिमाह - चन्द्रमा मनसो जात: । सकार (रा) भावश्छान्दसः चक्षोस्सूर्यो अजायत । चक्षुर्भ्यामिति विभक्तिव्यत्ययं करोति । मुखादिन्द्रश्चाग्निश्च । अजायेताम् इति संबन्धः । प्राणाद्वायुरजायत । सिद्धोऽर्थः ।। १४ ।। नाभ्या॑ आसीद॒न्तरि॑क्षम् । शी॒ष्णो॑ द्यौः सम॑वर्तत । : प॒द्भ्या॑ भूमि॒र्दिश श्रोत्र॑त् । तथा॑ लो॒काँ अ॑कल्पयन् ॥ १५ ॥ सा.भा. - ‘नाभ्या आसीदन्तरिक्षं - अकल्पयन्’ इति । यथा देवास्तस्मादुत्पन्नाः । तथा लोकानप्यन्तरिक्षादीन् प्रजापतेः नाभ्याद्यवयवात् ‘अकल्पयन्’ उत्पादितवन्तः ।। १५ ।। भ. भा. - उत्तरं ब्राह्मणोऽस्येत्यादि । ब्राह्मणादीनां मुखादिभ्य उत्पन्नत्वात् तत्तद्भावेन ते कल्पिताः । पद्भ्यां शूद्रो अजायत’ इति दर्शनात् सर्वेऽपि ब्राह्मणादयो मुखादिभ्य उत्पन्ना इति गम्यते । चक्षोरिति । वर्णलोपश्छान्दसः । चष्टेर्वा उप्रत्ययः । मुखात् आस्यात् । तथा सर्वान् लोकान् अकल्पयन् । ‘दीर्घादटि समानपादे’ (पा. सू. ८-३-९) इति रुत्वम् ।। ( १३-१५) रं. भा. - अनुष्ठितयज्ञानां ब्राह्मणादीनाम् उपभोगाय लोकानां सृष्टिमाह नाभ्या आसीदन्तरिक्षम् । शीर्ष्णा द्यौः समवर्तत । पद्भ्यां भूमिरिति । समवर्तत इत्यनुषङ्गः । दिशः श्रोत्रात् समवर्तन्त । तथा लोकाँ अकल्पयन् । तथा, यथा अतीते कल्पे देवा अकल्पयन् । ‘सूर्याचन्द्रमसौ धाता यथापूर्वकमल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो सुवः ’ ।। इति । (महा.ना.उ. १-९) ‘नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः’ ।। इति ।। १५ ।। (वि.पु. १-५-६३)________________
76 पुरुषसूक्तम् ‘वेदा॒हमे॒तं पुरु॑षं म॒हान्तमः॑ । आ॒दि॒त्यव॑र्ण॒ तम॑स॒स्तु॒ पा॒रे । । । सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीर॑ः । नामा॑नि कृ॒त्वाऽभि॒वद॒न् यस्तै ॥ १६ ॥ I प्रतिपदार्थ:- सर्वाणि - देवमनुष्यादि, रूपाणि - शरीराणि, विचित्य, सृष्ट्वा, नामानि - देव, मनुष्य, पशु, पक्षी इत्यादि, कृत्वा - नामानिकृत्वा, अभिवदन् स्वयमेव तद्रूपेण परिनमित्वा, यत् - यस्मिन् धीरः धीरपुरुषः, आस्ते - अवसन् महान्तं - उत्कृष्टं, आदित्यवर्णं - सूर्यवत् कान्तियुतं तमसस्तु बहिर्भूतं, एतं पुरुषं - भगवन्तं महापुरुषं, अहं - जीवः, वेद - वेद्मि ।। ,
अज्ञानस्य पारे
तात्पर्यम् - अत्र मन्त्रद्रष्टा स्वकीयं ध्यानानुभवं प्रकटयति एतं पुरुषं विराजं महान्तं - सर्वगुणोपेतं आदित्यवर्णं - आदित्यवत् प्रकाशमानं वेदाहं जानामि सर्वदाऽनुभवामि स च पुरुषः तमसः पारे अज्ञानात् परस्तात् वर्तते । तस्मात् गुरुमुख शास्त्रोपदेशरहितैः मूढैः अनुभवितुं न शक्य इत्यर्थः । धीरः पुरुषोत्तमः सर्वाणि पदार्थाणि तन्नामानि च सृष्ट्वा अभिवदन् आस्ते - तैः अभिमुख्येन अस्तीत्यर्थः ।।
9 सा. भा. - ‘वेदाहमेतं यदास्ते’ इति । यथोक्तविराट्पुरुषध्यानमत्र प्रतिपाद्यते । तत्र मन्त्रद्रष्टा स्वकीयं ध्यानानुभवं प्रकटयति । ‘यत्’ यः पुरुषः, ‘सर्वाणि रूपाणि ’ देवमनुष्यशरीराणि, ‘विचित्य’ विशेषेण निष्पाद्य, ‘नामानि’ च देवोऽयं पशुः अयमित्यादीनि, ‘कृत्वा’, अभिवदन् तैर्नामभिरभितो व्यवहरन्, ‘आस्ते’, ‘एतं’ ‘पुरुषं’ विराजं, ‘महान्तं’ सर्वगुणैरधिकं, ‘आदित्यवर्णं’ आदित्यवत् प्रकाशमानं, ‘वेद’ ‘अहं’, जानामि, ध्यानेन सर्वदा अनुभवामी इत्यर्थः । स च पुरुषः ‘तमसः पारे’ अज्ञानात्परस्ताद्वर्त्तते । अतोगुरुशास्त्रोपदेशरहितैः मूढैः अनुभवितुमशक्य इत्यर्थः ।। १६ ।। भ.भा. - वेदेत्यादयः तिस्रस्त्रिष्टभः ।। एतं महान्तं पुरुषं सहस्रशिरसं अहं वेद जानामि आदित्यवर्णं प्रकाशात्मानं तदेव तमसः पारे स्थितं त्रिगुणा प्रकृतिः तमः तस्य १. तैत्तिरीयारण्यके द्वे ऋचौ पुरुषसूक्ते अधिके वर्तेते । तयोः प्रतिपदार्थ: तात्पर्यार्थश्च - २. तथा चोक्तं पाद्योत्ररखण्डे सप्तविंशोत्तर शततमेऽध्याये - असंख्यप्रकृतेः स्थानं निबिडध्वान्तमव्ययम् । ऊर्ध्वं तु सीम्नि विरजा निःसीमाऽधः सनातनी ।। प्रधानपरमव्योम्नोरन्तरे विरजानदी । वेदाङ्गस्वेदजनिततोयैः प्रस्रविता शुभा ।। तस्याः पारे परे व्योम्नि त्रिपाद्भूतिः सनातनी । ( प.पु.उ.ख. १२७)________________
भाष्यसहितम् 77 पारं वेलां अतीत्य परत्रावस्थितं अहं वेद । स देवः सर्वाणि रूपाणि विकारलक्षणानर्थान् विचित्य पृथक्त्वेन उत्पाद्य नामानि च सर्वाणि कृत्वा धीरः धीमान् व्याकृतनामरूपः कृतकृत्यो यदा अभिवदन् आभिमुख्येन वदन् विश्वमनुगृह्णन् आस्ते तदा सर्वदा एवमेव सृष्टिर्वेदितव्येति ।। १६ ।। रं. भा. - एवं सृष्टियज्ञं समाप्य पुनरपि त्रिपादं महान्तं पुरुषं कः साक्षाज्जानातीति प्रश्नमुखेन स्तोतुमारभते । ब्रह्मादिस्तम्बपर्यन्तस्य जगतः परमकारणं पुरुषं प्रति पुरुषसूक्तरूपं को वेत्ति ? तत्राह वेदाहमेतमिति । सहस्रशीर्षमि (र्षा इ) त्युक्तम् एतं महान्तं पुरुषमहं वेद जानामि । नान्यः कश्चित् वेद वेत्तीति वेदानाम् आत्मनो वचनम् अस्य सूक्तस्य ऋषेः नारायणस्य वाक्यं वा । किंस्वरूपम् ? आदित्यवर्णम् । ‘आदित्यवर्णं पुरुषं वासुदेवं विचिन्तयेत्’ इति मोक्षधर्मे । क्वावस्थितं वेत्ति ? ( त्सि ) ? तमसस्तु पारे । तमश्शब्देन प्रकृतिरुच्यते । प्रकृतेः परस्तात् स्थितं वेत्ति । तमसः परमो धाता इत्यस्ति । कियांश्चायम् ? महान् पुरुषः (कदा?) । सर्वाणि रूपाणि विचित्य धीरः । सृष्टानां चराचरात्मकानि रूपाणि विचित्य समुत्पाद्य, अथवा वैविध्येन च बुध्वा तेषां नामानि च कृत्वा तैः तान्यभिवदन् धीरः धिया रममाणः परमविद्वान् अभिवदन् तैस्तैर्नामभिः आभिमुख्येन वदन् यदा आस्ते, तदा तं पुरुषं वेत्ति । इतश्चाहं वेद्मि ।। १६ ।। धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान् प्र॒दिश॒श्चत॑स्रः । तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते ॥ १७ ॥
प्रतिपदार्थः यं परमात्मानं, 1 धाता 1 ब्रह्मा, - पुरस्तात् प्रथमतः, उदाजहार - प्रकाशितवान् शक्रः - इन्द्रः, चतस्रः प्रदिशः सर्वासु दिक्षु, प्रविद्वान् - ज्ञातवान्, तं - महापुरुषं परमात्मानं, एवं - ब्रह्मेन्द्रयोः उपदेशरीत्या, विद्वान् - ज्ञाता जीवः, इह - अत्रैव, अमृतः - मुक्ति, भवति प्राप्नोति, अयनाय - मोक्षस्य, इमं प्रकारं विना, पन्थाः मार्गान्तरं न विद्यते
न प्राप्नोति ।। १. इन्द्रियादीनि यो जयते स एव सोक्षं भवितुमर्हतीति उपनिषदि, गातायां च वर्णितम् - इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ।। अन्यः महतः परमव्यक्तमव्यक्तात् पुरुषः परः । पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः ।। (क. उ. ३-१०-११) इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धियों बुद्धेः परतस्तु सः ।।
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम् ।। (भ.गी. ३-४२-४३)________________
78 पुरुषसूतम् तात्पर्यम् - प्रथमतः चतुर्मुखः भगवन्तं परमात्मानं परमपुरुषज्ञानं ज्ञातवान् । एवं इन्द्रः वामदेवादयश्च ज्ञातवन्तः । एवं सर्वासु दिक्षु बहवः विद्वांसः परमपुरुषज्ञानं प्राप्ताः । एवं यः विद्वान् जानाति सः मुक्तो भवति । मोक्ष प्राप्तये अन्यत् मार्गान्तरं नास्त्येव ।। सा.भा. - ‘धाता - अयनाय विद्यते’ इति । ‘धाता’ प्रजापतिः, ‘यं’ विराट्पुरुषं, “उदाजहार" ध्यातॄणामुपकारार्थं प्रख्यापितवान् । ‘चतस्रः प्रदिशः ’ चतुर्दिक्षुवर्तिनः सर्वान् प्राणिनः, ‘प्रविद्वान्’ प्रकर्षेण जानन, ‘शक्र: ’ इन्द्रः, तदनुग्रहार्थं प्रख्यापितवान् । धातुरिन्द्रस्योपदेशात् ‘तं’ विराट्पुरुषं ’ एवं ’ उक्तप्रकारेण, ‘विद्वान्’ साक्षात् कुर्वन्, ‘इह’ अस्मिन्नेव जन्मनि, ‘अमृतः ’ मरणरहितः, ‘भवति’ । यदा विराट्पुरुषोहमिति साक्षात् करोति तदानीं वर्त्तमानदेहस्य तत्स्वरूपत्वाभावात् तन्मरणेन अयमुपासको न म्रियते ‘अयनाय’ अमृतत्वप्राप्तये, ‘अन्यः पन्थाः’ यथोक्तविराट्पुरुषसाक्षात्कारमन्तरेणान्यो मार्गः, ‘न विद्यते’ । न हि कर्मसहस्त्रैरपि अमृतत्वं सम्पादयितुं शक्यते । न कर्मणा न प्रजया धनेन (महा.ना.उ. १० १४ ) इत्यादि शास्त्रात् ।। १७ ।। भ. भा. - धातेत्यादि ।। यं यथोक्तमहिमानं पुरुषं धाता पितामहः उदाजहार ख्यापितवान् तद्विभूतित्वाद्धातुः । शक्रश्च यमुदाजहार प्रविद्वान् प्रकर्षेण जानन् प्रदिशः प्रधानदिशः चतस्त्रः तद्वासिनस्सर्वान् प्रविद्वान् । तं महापुरुषं एवं एवंप्रकारं विद्वान् इह लोके यः कश्चिदपि अमृतो भवति । न त्वेतज्ज्ञानादृते अन्यः पन्था विद्यते अयनाय गमनाय संसारमुक्त्वा अपवर्गं गन्तुं अयमेव मार्ग इति ।। १७ ।।
रं. भा. - कोऽसौ एवंविधः पुरुषः ? क्वायमास्ते ? विशदं ब्रूहि (इति) चेत् अहमपि अविप्रकर्षेण जानामि; न वेद्मीत्याह धाता पुरस्ताद्यमुदाजहारेति । पूर्वस्मिन् काले चतुर्मुखो यम् आत्मनः कारणभूतम् उदाजहार ‘तमब्रवीत् त्वं पूर्वं समभूः । त्वमिदं पूर्वः कुरुष्व’ (तै. आ. १-२३-९३) इत्यादिषु उदाहृतवान् । तथा शक्रः प्रविद्वान् प्रकृष्टज्ञानः शक्रः विग्रहवति वासुदेवेऽधिगतपुरुषोत्तमत्वज्ञानः इन्द्रो यं परमकारणत्वेन उदाहृतवान् इन्द्रप्रतर्दनसंवादे - ‘प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम’ (कौ. उ. ३- १) इत्यादौ श्रुतौ । तथा प्रदिशश्चतस्त्रः । प्रदिशश्च यमुदाजहुः । दिक्छब्देन दिग्वर्तिनो ज्ञानवन्त उच्यन्ते । दिगधीनाः पुरुषा उपलभन्ते । तथा श्रीरामायणे विश्वामित्रवचनम्,________________
भाष्यसहितम् 79 72 ‘अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् । वसिष्ठोऽपि महातेजाः ये चेमे तपसि स्थिताः ’ ।। इति । (रा.बा.कां. १९ - १४) तत्रैव रावणवधानन्तरं रामं प्रति ब्रह्मणो वाक्यम् । यथाह - ‘भवान्नारायणो देवः श्रीमान् चक्रायुधो विभुः । एकशृङ्गवराहस्त्वं भूतभव्यसपत्नजित् । अक्षरं ब्रह्म पारं त्वं मध्ये चान्ते च राघव । लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः । शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः ’ । (रा.यु.कां.११७-१३-१५) अत्रैव लक्ष्मणं प्रति दशरथवाक्यम्, यथा - ‘एतत्तदुक्तमव्यक्तमक्षरं ब्रह्म निर्मितम् । देवानां हृदयं सौम्यं गुह्यं रामः परंतपः ’ ।। (रा.यु.कां.२२-३२) अत्रैव मन्दोदरीवाक्यम्, यथा - ‘व्यक्तमेष महायोगी परमात्मा सनातनः । अनादिमध्यनिधनो महतः परमो महान् ।। तमसः परमो धाता शङ्खचक्रगदाधरः । श्रीवत्सवक्षा नित्य श्रीरजय्यः शाश्वतो ध्रुवः’ ।। इति । (रा. यु. कां. १११ ११,१२,१३) वेदोऽपि स्वकण्ठेन महान्तं पुरुषं वक्तुम् अशक्नुवन् तदीयानि चिह्नानि आह इत्यवगन्तव्यम् । तमेवं विद्वानमृत इह भवति । श्रुतिर्वदति । तं परमं पुरुषं एवं जगताम् आदिकारणं विद्वान् जानन् अमृत इह भवति इहैव जन्मनि अमृतो भवति । संसारबन्धान्मुक्तो भवति । नान्यः पन्था अयनाय विद्यते । अयनाय मोक्षाय एवंविधपुरुषज्ञानादन्यः पन्था न विद्यते । ‘अयनं निलये मार्गे मुक्तौ चापि प्रकथ्यते’ निघण्टुः इति । इदं पुरुषसूक्तप्रतिपाद्यपुरुषज्ञानं मोक्षोपाय इति ।। १७ ।। य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । तानि॒ धर्म॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाम॑ महि॒मान॑स्स॒चन्ते । यत्र॒ पूर्वे॑ सा॒ध्यास्सन्ति॑ि दे॒वाः ॥ १८ ॥ सा.भा. ‘यज्ञेन
सन्ति देवाः’ इति । अत्र कृत्स्नानुवाकतात्पर्यं सङ्क्षिप्योपन्यस्यति । ‘देवा: ’ प्रजापतिप्राणरूपाः, ‘यज्ञेन’ यथोक्तेन मानसेन सङ्कल्पेन,________________
80 , पुरुषसूक्तम् ‘यज्ञं’ यथोक्तयज्ञस्वरूपं प्रजापतिं, ‘अयजन्त’ पूजितवन्तः तस्मात् पूजनात् ‘तानि’ प्रसिद्धानि, ‘धर्माणि’ जगद्रूपविकाराणां धारकाणि, ‘प्रथमानि’ मुख्यानि भूतानि ‘आसन्’, एतावता सृष्टिप्रतिपादकोनुवाकभागार्थः सङ्गृहीतः । अथोपासनतत्फलरूपोनुवाकभागार्थः सङ्गृह्यते, ‘यत्र’ यस्मिन् विराट्प्राप्तिरूपे, नाके, ‘पूर्वे साध्याः ’ पुरातना विराडुपास्ति- साधकाः, ‘देवाः’, ‘सन्ति’ तदुपासकाः तिष्ठन्ति । तं नाकं विराट्प्राप्तिरूपं स्वर्गं ते महिमानः महात्मानः, ‘सचन्ते’ समयन्ति प्राप्नुवन्ति इति ।। १८ ।। ।। कृष्णयजुर्वेदीयस्य पुरुषसूक्तस्य सायणभाष्यं समाप्तम् ।। भ. भा. यज्ञेनेत्यादि । । व्याख्याता । यज्ञेन यज्ञात्मना पुरुषेण यज्ञं प्रजापतिं अयजन्त देवाः प्राणाः इन्द्रियाणि च । ततः तानि धर्माणि लोकानां धारकाणि भूतानि प्रथमानि आद्यानि सर्वविकाराणां आसन् । ते च महिमानो महात्मानो नाकं सुखैकरूपं स्थानं गताः यत्र पूर्वे देवाः साध्याः साधकाः प्राणादयः अद्यापि सन्ति इति ।। १८ ।। || कृष्णयजुर्वेदीयस्य पुरुषसूक्तस्य भट्टभास्करभाष्यं समाप्तिम् ।। 1 रं. भा. - उपक्रान्तं सृष्टियज्ञम् उपसंहरति यज्ञेन यज्ञमयजन्त देवाः । यज्ञसाधन- भूतचतुर्मुखाख्यपशुहविषा यज्ञमयजन्त सृष्टियज्ञम् अकुर्वत - धातुः अनुवाद:- देवाः साध्याः देवाः तदिन्द्रियाणि वा । तानि धर्माणि प्रथमान्यासन् । सृष्टियजनाग्निदेवानां सर्गविषया व्यवहाराः धर्माणि प्रथमानि मुख्यानि लोकश्रेयस्साधनानि आसन् । मोक्षहेतुतया प्रधानभूता इत्यर्थः । ते ह नाकं महिमानः सचन्ते । ‘मह पूजायाम्’ (धा.पा.७९) । मनिन्प्रत्ययः । पूजयन्तः भगवन्तं नारायणम् अर्चयन्तः नाकं सचन्ते । कमिति सुखनाम । अकं दुःखम् । तत् यत्र नास्ति, तन्नाकं परमव्योम प्राप्तवन्तः । भगवच्चोदितो ब्रह्मा लोकसृष्टिं तदाराधनं बुद्ध्याऽनुष्ठि (ष्ठाय त) तो वैकुण्ठाव्यं परं पदं प्राप्तवान् । असचन्त प्राप्तवन्तः । बह्वृचपाठे अडागमाभावश्छान्दसः । तैत्तिरीयपाठे भूतार्थे । ‘नाकोऽम्बरेऽपि च स्वर्गे परमव्योम्नि च स्थितः ’ ( निघण्टु ) इति । ‘एको विष्णुर्जगत्स्वामी वासुदेवः सनातनः’ इति श्रीवाराहेऽप्यस्ति । यत्र पूर्वे साध्याः सन्ति देवाः । यत्र नाके पूर्वे पूर्वस्मिन् साध्या नाम देवाः सूरयो वर्तन्ते ।। १८ ।। श्रीशास्त्रे पुरुषसंहितायाम् - ‘सहस्रशीर्षा इत्यत्र सहस्रोऽनन्तवाचकः । अनन्तयोजनं प्राह दशाङ्गुळवचस्त्विदम् ।।________________
भाष्यसहितम् 81 अत्र प्रथमया विष्णोर्देशतो व्याप्तिरुच्यते । द्वितीययाऽस्य विष्णोश्च कालतो व्याप्तिरीरिता ।। विष्णोर्मोक्षप्रदातृत्वकथनं च तृतीयया । एतावानितिमन्त्रेण वैभवं कथितं हरेः ।। एतेनैव च मन्त्रेण चतुर्व्यूहोऽपि भाषितः । त्रिपादित्यनया प्रोक्तमनिरुद्धस्य वैभवम् । तस्माद्विराडित्यनया पादनारायणाद्धरेः । प्रकृतेः पुरुषस्यापि समुत्पत्तिः प्रदर्शिता ।। यत्पुरुषेणेत्यनया सृष्टियज्ञः समीरितः । सप्ते परिधयश्चापि समिधश्च समीरिताः ।। तं यज्ञमिति मन्त्रेण सृष्टियज्ञः समीरितः । अनेनैव च मन्त्रेण मोक्षश्च समुदीरितः ।। तस्मादिति च सप्तर्चा जगत्सृष्टि: समीरिता । वेदाहमिति मन्त्राभ्यां वैभवं कथितं हरेः ।। यज्ञेनेत्युपसंहारः सृष्टेर्मोक्षस्य चेरितः । य एवं तु विजानाति स हि मुक्तो भवेदिति’ ।। तथा मुद्गलोपनिषदि पुरुषसूक्तस्य वैभवं विस्तरेण प्रतिपादितम् । सेयम् उपनिषदुच्यते वामदेव आङ्गिरसः स्वपूर्वप्रज्ञासमन्वारब्धः अत्रिपत्न्या अनसूयाया गर्भ एव शयानो ब्रह्म वेदयाञ्चक्रे । स हि गर्भं पुरो हित्वा ब्रह्मलोकम् उपचक्राम । मध्ये ध्यानम् उपनिषद्युवाच । भगवांस्तु गर्भपञ्चरमेव अभिनिविशमानो विज्ञानब्रह्म जानासितोपायः । अकस्मात् किञ्चिद्विगतासंगस्सर्वैः वन्द्यमानोऽध्वनः पारमुपगच्छसि । तदेतदिह आश्चर्यम्, यद् बालस्य गुरुम् अनुपेयुषोऽधिगन्तुश्च भगवतोऽकस्मात् विशब्दो ब्रह्मप्रत्ययः ; विपरीतस्य विपरीतम् । सोऽहं भगव उप त्वा सेदिवांश्च अस्मीत्यादिभिः चतुर्भिः खण्डैः इन्द्राय भगवान् ज्ञानमुपदिशन् पुनरपि सूक्ष्मश्रवणाय प्रणताय इन्द्राय परमरहस्यभूतं पुरुषसूक्तार्थं द्वाभ्यां खण्डाभ्याम् उपादिशत् । तौ खण्डौ उच्येते - योऽयमुक्तः, स पुरुषो नामरूपज्ञानागोचरं संसारिणाम् अतिदुर्ज्ञानं वेषं विहाय क्लेशादिसंसृष्टान् देवादीन् उज्जिहीर्षुतया सहस्रावयवकल्याणं दृष्टिमात्रेण मोक्षदं वेद । तेन रूपेण भूम्यादिलोकजातं व्याप्य अनन्तयोजनम् अत्यतिष्ठत् । स पुरुषो नारायणो________________
82 , पुरुषसूक्तम् भूतं भव्यं भविष्यच्चासीत् । स एव सर्वेषां मोक्षदश्चासीत् । स च सर्वस्मात् महिम्नो ज्यायानासीत् । स च ज्यायान् महापुरुषः आत्मानं चतुर्धा कृत्वा त्रिपादेन परमव्योम्नि भासते; इतरेण चतुर्थेन अनिरुद्धेन नारायणाख्येन विश्वानि आसन् । स च पादनारायणो जगत् स्रष्टुं प्रकृतिम् अजनयत् । सा च प्रकृतिः ब्रह्माण्डभूता यत्र स ब्रह्माणमजनयत् । स समृद्धकायस्सन् सृष्टिकर्म न जज्ञिवान् । सोऽनिरुद्धनारायणः तस्मै सृष्टिम् उपादिशत्, ‘ब्रह्मन्! तवेन्द्रियाणि याजकानि ध्यात्वा जगत्कोशभूतं दृढग्रन्थिकळेबरं हविर्ध्यात्वा मां हविर्भुजं ध्यात्वा वसन्तमाज्यं ध्यात्वा ग्रीष्ममिध्मं ध्यात्वा शरदृतुं पुरोडाशं ध्यात्वा पृथिव्यप्तेजोवाय्वाकाशाहङ्कारबुद्धिं परिधिं ध्यात्वा पञ्चभूतानि तन्मात्राणि ज्ञानकर्मेन्द्रियाणि अन्तःकरणं चैकविंशतिं समिधं ध्यात्वा मय्येवाग्नौ त्वां योजय । मदङ्गस्पर्शनात् त्वत्कळेबरं बृंहिष्यति । ततः त्वत्कायात् सूक्ष्मसृष्टिहेतुभूतं पृषदाज्यं भविष्यति । सर्वाणि निबिडा : पश्वाद्याः प्रादुर्भविष्यन्ति । ततश्चराचरं जगद्भविष्यति । एतेन जीवात्मनो योगेन मोक्षप्रकारोऽपि कथ्यत इत्यनुसंधेयम् - इति प्रथमः । , य इमं सृष्टियज्ञं जानाति मोक्षप्रकारञ्च सर्वम् आयुरेति; अरोगश्च भवति; श्रीमांश्च भवति; पुत्रपौत्रादिसमृद्धो भवति । विद्वांश्च भवति । महापातकात् पूतो भवति । सर्वगमनात् पूतो भवति । कामक्रोधादिभिः अबाधो भवति । सर्वेभ्यः पापेभ्यः पूतो भवति । इहैव जन्मनि पुरुषो भवति । तमेवं पुरषसूक्तार्थम् अतिरहस्यं राजगुह्यं देवगुह्यं गुह्यादपि गुह्यतरं नादीक्षिताय उपदिशेत्; नाप्रियवादिने; नायज्ञशीलाय; नासंवत्सरवासिने; नासंतुष्टाय; नानधीतवेदाय । गुरुरप्येवम्भूतः शुचौ देशे पुण्ये नक्षत्रे प्राणानायम्य पुरुषं ध्यायन् उपसन्नाय शिष्याय दक्षिणे कर्णे सकृत् पुरुषसूक्तार्थमुपदिशेत् । न बहुशो वदेत् । यातयामो भवतीत्यसकृत्कर्णमुपदिशेत् । एवं कुर्वाणोऽध्येताऽध्यापकश्च इह जन्मनि पुरुषो भवति - इति द्वितीयः खण्डः ।। क्षेमाय यः करुणया क्षितिनिर्जराणां भूमावजृम्भयत भाष्यसुधामुदारः । वामागमाध्वगवदावदतूलवातो रामानुजः स मुनिराद्रियतां मदुक्तिम् ।। येनोपनिषदां भाष्यं रामानुजमतानुगम् । रम्यं कृतं प्रपद्ये तं रङ्गरामानुजं मुनिम् ।। ।। कृष्णयजुर्वेदीयस्य पुरुषसूक्तस्य रंगरामानुजभाष्यं समाप्तम् ।।________________