०२ शुक्ल-यजुर्वेदीयम्

पुरुष सूक्तम्' सा.भा. [ सायण उवट - महीधरभाष्यसहितम् ] 1 पूर्वस्मिन् अध्याये पशूपाकरणहोमार्थाः मन्त्राः पशवश्च उक्ताः । अस्मिन् अपि पौरुषमेधिकाः मन्त्राः उच्यन्ते । कात्यायनः ‘नियुक्तान् ब्रह्माभिष्टौति होतृवदनुवाकेन सहस्रशीर्षेति’ (का.श्रौ.सू. २१-१-११) । ‘सहस्रशीर्षा’ इत्यनेन षोडशचैन सूक्तेन नियुक्तान् ब्राह्मणादीन् पुरुषपशून् दक्षिणतः ब्रह्माभिष्टौति अभिष्टुयात् इत्यर्थः । तथा च ब्राह्मणम् - ‘नियुक्तान् पुरुषान् ब्रह्मा दक्षिणं तान् पुरुषेण नारायणेन अभिष्टौति । सहस्रशीर्षा पुरुषस्सहस्राक्षस्सहस्रपादित्यनेन षोडशर्चेन, षोडशकलं वा इद सर्वपुरुषमेधः सर्वस्याप्त्यै सर्वस्यावरुध्या’ (श.ब्रा. का. सं. १३-६-२-१२) इति । तत्र प्रथमामाह

स॒हस्र॑शीषो॒ पुरु॑षस्सहस्रा॒क्षस्स॒हस्र॑पात् । स भूमि॑ स॒र्वत॑स्पृ॒त्वात्य॑तिष्ठद्दशाङ्गुलम् ॥ १॥ सहस्रशीर्षा; सहस्रशब्दस्य उपलक्षणत्वात् अनन्तैः शिरोभिः युक्त इत्यर्थः । यानि सर्वप्राणिनां शिरांसि तानि सर्वाणि तद्देहान्तःपातित्वात् तदीयानि एवेति सहस्रशीर्षत्वम् । एवम् अक्षिषु पादेष्वपि योजनीयम् । पुरुषः - ब्रह्माण्डरूपे पुरे शेते इति सर्वप्राणिसमष्टिरूपः ब्रह्माण्डदेहः विराडाख्यः पुरुषः इत्यर्थः । तथा च ब्राह्मणं पुरुषशब्दं निरवोचत्, ‘इमे वै लोकाः पूः । अयमेव पुरुषो योऽयं पवते सोऽस्यां पुरि शेते, तस्मात् पुरुषः ’ (श.ब्रा. १३ - ६ - २ - १ ) इति । यः एवम् उक्तः पुरुषः भूमिं शोभनरूपां सर्वतः संस्पृश्य सर्वतः - आवृत्य दशाङ्गुलं दशाङ्गुलपरिमितं देशम् अत्यतिष्ठत् - अतिक्रम्य अवस्थितः । दशाङ्गुलमिति उपलक्षणम्, ब्रह्माण्डाद् बहिरपि सर्वतः व्याप्य अवस्थित इत्यर्थः ॥ १ ॥ उ. भा. - परमात्मविज्ञानानन्दादिगुणाध्यात्मनि प्रभृतः पुरुषमेधो यज्ञः प्रजापतिः लोककालाग्न्यादिवपुः पुरुषोत्पत्तिस्थितिसंहृतीनां हेतुः स्वर्गापवर्गर्श्वर्यमोक्षदो 4 १. शुक्लयजुर्वेदे काण्वसंहितायां पञ्चत्रिंशेऽध्याये प्रथमानुवाकत्वेन पठितमिदं पुरुषसूक्तम् ।________________

34 " 137 ज्ञानकर्मसमुच्चयकारणं शरीरं ‘यज्ञो वा अस्यात्मा भवतीति श्रुतिः । सहस्रशांप इत्यनुवाकेन षोडशर्चेन अनुष्टुभेन त्रिष्टुबन्त्येन ब्रह्मणे ब्राह्मणम् इत्याद्यवयवभूतपुरुष अवयवी स्तूयते । इदानीं स्तुत्यर्थं निर्वचनद्वारेण द्रढयितुमाह । ‘अथ यस्मात्पुरुषमधां नानेमे वै लोकाः पूरयमेव पुरुषो योयं पवते सोऽस्यां पुरि शेते तस्मात्पुरुषः तस्य यदेषु लोकेष्वन्नं तदस्यान्नं मेधस्तदस्यैतदन्नं मेधस्तस्मात्पुरुषमेधः ’ | (श.ब्रा.१३-६-२-१) पुरुषसूक्तस्य नारायणऋषिः पुरुषो देवतानुष्टुप्छन्दः अन्त्या त्रिष्टुप् मोक्षे विनियोगः । अस्य भाष्यं शौनको नाम ऋषिरकरोत् । प्रथमं विच्छेदः क्रियाकारकसंबन्धः समासः प्रमेयार्थव्याख्येति सर्वमेतज्जनकाय मोक्षार्थं कथयामासेति । सः पुरुषः नारायणाख्यः सर्वतः भुवनकोशस्य भूमिं स्पृत्वा व्याप्य दशाङ्गुलम् अत्यतिष्ठत् । दश च तानि अङ्गुलानि दशाङ्गुलानि इन्द्रियाणि । केचिदन्यथा रोचयन्ति दशाङ्गुलप्रमाणं हृदयस्थानम् । अपरे तु नासिकाग्रं दशाङ्गुलमिति । किंभूतोऽसौ सहस्रशीर्षा । अनेकपर्यायः सहस्रशब्दः । अनेकानि शिरांसि यस्य स सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्राणि अक्षीणि नेत्राणि यस्यासौ सहस्राक्षः । सहस्रपात् पादानामङ्गानां सहस्राणि यस्य स सहस्रपात् । एतद्गुणः पुरुषः तद्व्याप्य अतिक्रम्य स्थित इति ॥ १ ॥ म.भा. रमाकान्तं गिरं नत्वा हेरम्बं शिवमम्बिकाम् ।

एकत्रिंशेऽधुनाध्याये वेददीपो वितन्यते ॥ ‘नियुक्तान्ब्रह्माभिष्टौति होतृवदनुवाकेन सहस्रशीर्षति’ (का.श्रौ.सू. २१-१-११) । अस्यार्थः । नियुक्तान् ब्राह्मणमित्यादिपशून् सहस्रशीर्षा इत्यनुवाकेन षोडशर्चेन ब्रह्मा स्तौति होतृवदिति त्रिः प्रथमां त्रिरुत्तमाम् इत्याद्युक्तप्रकारेण इत्यर्थः । ’ त्रैधातव्यन्ते समारोह्यात्मन्नग्नी सूर्यमुपस्थायाः संभृत इत्यनुवाकेनानपेक्षमाणोऽरण्यं गत्वा न प्रत्यवेयाद् ग्रामे वाविवत्सन्नरण्योः’ (का.श्रौ.सू. २१-१-१७,१८ ) । धातवी उदवसानीयेष्टिः तदन्ते अयं ते योनिरित्यग्नी आत्मनि समारोह्य तदुष्माणमास्ये प्रवेश्याद्भ्यः संभृत इति षडृचेन अनुवाकेन सूर्यमुपस्थाय पश्चादपश्यन्वनं गत्वा ग्रामं नागच्छेत् । वानप्रस्थो भवेदित्यर्थः । यद्वा ग्रामे वस्तुमिच्छन् अरण्योरग्नी समारोप्य अर्कोपस्थानानन्तरं ग्रामे गत्वा यज्ञान् कुर्यादिति सूत्रार्थः । अथ मन्त्रार्थः । नारायणपुरुषदृष्टा जगद्बीजपुरुषदेवत्याः षोडशऋचः पञ्चदशानुष्टुभः षोडशी त्रिष्टुप् । ब्रह्मणे ब्राह्मणमित्याद्याः पुरुषमेधरूपस्य । परमात्मनोऽवयवाः पूर्वाध्यायान्ते प्रोक्तास्तेषामवयवी पुरुषोऽत्र स्तूयते । अव्यक्त- महदादिविलक्षणश्चेतनो यः पुरुषः ‘पुरुषान्न परं किंचित्’ (क.उ. ३-११) इत्यादिश्रुतिषु________________

भाष्यसहितम् 35 प्रसिद्धः सर्वप्राणिसमष्टरूपो ब्रह्माण्डदेहो विराजाख्योऽस्ति । कीदृशः । सहस्रशीर्पा सहस्रशब्दो बहुत्ववाची । संख्यावाचकत्वे सहस्राक्ष इति विरोधः स्यात् नेत्रसहस्रद्वयेन च भाव्यम् । ततः सहस्रम् असंख्यानि शीर्षाणि शिरांसि यस्य सः ‘शीर्षश्छन्दसि’ ( पा. सू. ६-१-६० ) इति शिरः शब्दस्य शीर्षन्नादेशः । शिरोग्रां सर्वावयवोपलक्षणम् । यानि सर्वप्राणिनां शिरांसि तानि सर्वाणि तद्देहान्तः पातित्वात् तस्यैवेति सहस्रशीर्षत्वम् । एवमग्रेऽपि । सहस्राक्षः सहस्रमक्षीणि यस्य सः । अक्षिग्रहणं सर्वज्ञानेन्द्रियोपलक्षकम् । सहस्रपात् सहस्रं पादा यस्य ‘संख्यासुपूर्वस्य’ (पा.सू. ५-४-१४०) इति पादस्य अन्त्यलोपः । पादग्रहणं कर्मेन्द्रियोपलक्षणम् । सः पुरुषो भूमिं ब्रह्माण्डलोकरूपां सर्वतः तिर्यक् ऊर्ध्वमधश्च स्पृत्वा व्याप्य । स्पृणोतिर्व्याप्तिकर्मा । यद्वा भूमिशब्दो भूतोपलक्षकः । पञ्चभूतानि व्याप्य दशाङ्गुलपरिमितं देशमध्यतिष्ठत् अतिक्रम्यावस्थितः । दशाङ्गुलम् इत्युपलक्षणम् । ब्रह्माण्डाद्बहिरपि सर्वतो व्याप्यावस्थित इत्यर्थ. । यद्वा नाभेः सकाशात् दशाङ्गुलमतिक्रम्य हृदि स्थितः । नाभित इति कुतो लभ्यते ‘कतम आत्मा’ (बृ.उ.६-३-७) इत्युपक्रम्य ‘सोऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः’ (बृ. उ.६-३-७) इति श्रुतेः विज्ञानात्मनो हृद्यवस्थानं कर्मफलोपभोगाय अन्तर्यामिणो नियन्तृत्वेन । तदुक्तम्- ‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्य: पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति’ ॥ ( मुं. उ. ३-१-१) इति । स पुरुषोऽत्र देवता । तथा च श्रुतिः ‘इमे वै लोकाः पूरयमेव पूरुषो योऽयं पवते सोऽस्यां पुरि शेते तस्मात्पुरुषः’ (श.ब्रा. १३ - ६-२-१) इति ॥ १ ॥ सा. भा. पुरु॑ष ए॒वेद॒ सर्व॒य्यद् भूतँय्यच्च॑ भा॒व्य॑म् । उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ॥ २ ॥

यद् भूतम् अतीतं जगत् यच भाव्यं भविष्यं जगत्, यत् इदं वर्तमानं जगत्, तत् सर्वं पुरुष एव । यद्यपि अस्मिन् वाक्ये वर्तमानाः प्राणिदेवाः सर्वेऽपि विराटपुरुषस्य अवयवाः तथैव अतीतागामिनोः अपि कल्पयोः द्रष्टव्यम् । उत अपि च अमृतत्वस्य देवत्वस्य अयम् ईशानः, यस्मात् कारणात् अन्नेन प्राणिनां भोगेन अन्नेन निमित्तभूतेन स्वकीयां कारणावस्थाम् अतिक्रम्य परिदृश्यमानां जगदवस्थां प्राप्नोति । तस्मात् प्राणिनां कर्मफलभोगाय जगदवस्थास्वीकारात् न इदं वस्तुतत्त्वम् इत्यर्थः ॥ २ ॥ ,________________

..36 पुरुषसूक्तम् उ.भा. - स एव पुरुषः पूर्वपर्यायविशेषित एवशब्दो नान्यः । इदं वर्तमानकं सर्वम् यच्च भूतमतीतम् यच भाव्यं भविष्यत् तस्य कालत्रयस्य ईशानः । न केवलं कालत्रयस्य ईशानः । उत अमृतत्वस्यापि मोक्षस्यापि । उतशब्दोऽपिशब्दार्थे । कस्मात्कारणात् । यत् अन्नेन अमृतेन अतिरोहति अतिरोधं करोति । सर्वस्येश्वर इति ॥ २ ॥ 1 म.भा. - यत् इदं वर्तमानं जगत् तत्सर्वं पुरुष एव । यत् भूतमतीतं जगत् यच भाव्यं भविष्यं जगत् तदपि पुरुष एव । यथास्मिन् कल्पे वर्तमानाः प्राणिदेहाः सर्वेऽपि विराट्पुरुषस्य अवयवाः तथैवातीतागामिनोरपि कल्पयोद्रष्टव्यमिति भावः । उत अपि च अमृतत्वस्य देवस्य ईशानः स्वामी स पुरुषः यत् यस्मात् अन्नेन प्राणिनां भोग्येनान्नेन फलेन निमित्तभूतेन अतिरोहति स्वीयां कारणावस्थामतिक्रम्य परिदृश्यमानां जगदवस्थां प्राप्नोति तस्मात्पुरुष एव । प्राणिनां कर्मफलभोगाय जगदवस्थास्वीकारान्नेदं तस्य वस्तुत्वम् इत्यर्थः । यद्वा सर्वं पुरुषश्चेत् तर्हि परिणामीत्याशङ्क्याह । अमृततत्वस्यामरणधर्मस्य ईशानः मुक्तेरीशः । यो हि मोक्षेश्वरो नासौ म्रियत इत्यर्थः । किंच यत् जीवजातम् अन्नेनातिरोहति उत्पद्यते तस्य सर्वस्य च ईशानः ब्रह्मादिस्तम्बपर्यन्तो भूतग्राम उक्तः तस्य अन्नेनैव स्थिते: ‘इतः प्रदानाद्धि देवा उपजीवन्ति’ इति श्रुतेः ॥ २ ॥ ए॒तावा॑नस्य महि॒मातो॒ ज्याया॑श्च॒ पूरु॑षः । सा. भा. पार्दोऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृत॑न्द॒वि ॥ ३ ॥

अतीतानागतवर्तमानरूपं जगत् यावत् अस्ति, एतावान् अस्य पुरुषस्य महिमा स्वकीयसामर्थ्यविशेषः, न तु तस्य वास्तवस्वरूपं, वास्तवस्तु पुरुषः । अतः महिम्नोऽपि ज्यायान् अतिशयेन अधिकः, एतच्च उभयं स्पष्टीक्रियते विश्वा भूतानि कालत्रयवर्तीनि प्राणिजातानि अस्य पुरुषस्य पादः चतुर्थांशः । अस्य अवशिष्टं त्रिपात् स्वरूपम् अमृतं विनाशरहितं सत् दिवि द्योतमानात्मके स्वप्रकाशरूपे अवतिष्ठते । यद्यपि - ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ( तै. उ. २- १) इत्याद्यस्य आम्नातस्य परंब्रह्मणः इयत्तायाः अभावात् अंशचतुष्टयं च निरूपयितुं न शक्यं तथापि जगत् इदं ब्रह्मस्वरूपापेक्षया अत्यल्पमिति विवक्षितत्वात् पादत्वोपन्यासः ॥ ३ ॥ उ. भा. - अस्य पुरुषस्य पूर्वोक्तविशेषणविशेषितस्य एतावान् महिमा एतदेव महत्त्वमस्य । अतः कारणात् ज्यायांश्च पुरुषः महानित्यर्थः । कर्मात् महत्त्वमायातम् । यस्मात्पादः एकऽशः अस्य पुरुषस्य । विश्वा भूतानि विश्वानि चतुर्दशभुवनसमूहे________________

भाष्यसहितम् 37 यानि चतुर्धा भूतानि तानि एकशः । त्रिपात्पुनः त्रयः अस्य पुरुषस्य अमृतम् ऋग्यजुःसामलक्षणम् आदित्यलक्षणं वा दिवि द्योतते इति ॥ ३ ॥ म. भा. - अतीतानागतवर्तमानकालसंबद्धं जगद्यावदस्ति एतावान्सर्वोऽपि अस्य पुरुषस्य महिमा स्वकीयसामर्थ्यविशेषो विभूतिः नतु वास्तवं स्वरूपम् । वास्तवपुरुषस्तु अतः अस्मात् महिम्ना जगज्जालात् ज्यायांश्च अतिशयेन अधिकः । एतदुभयं स्पष्टीक्रियते । अस्य पुरुषस्य विश्वा सर्वाणि भूतानि कालत्रयवर्तीनि प्राणिजातानि पादश्चतुर्थांशः । अस्य पुरुषस्य अवशिष्टं त्रिपात्स्वरूपम् अमृतं विनाशरहितं तत् दिवि द्योतनात्मके स्वप्रकाशे स्वरूपेऽवतिष्ठत इति शेषः । यद्यपि ‘सत्यं ज्ञानमनन्तं ब्रह्मे त्याम्नातस्य परब्रह्मण इयत्ताया अभावात् पादचतुष्टयं निरूपयितुमशक्यं तथापि जगदिदं ब्रह्मरूपापेक्षया अल्पमिति विवक्षितत्वात् पादत्वोपन्यासः ॥ ३ ॥ त्रि॒पादूर्ध्व उदै॒त्पुरु॑ष॒ः पार्दोऽस्ये॒हाभ॑व॒त्पुन॑ः । ततो॒ विष्व॒ व्य॑क्रामत्साशनानशने अभि ॥ ४ ॥ सा.भा. - यः अयं त्रिपात् पुरुषः संसारस्पर्शरहितः ब्रह्मरूपः सः अयम् ऊर्ध्वः उदैत् अस्मात् अज्ञानकार्यात् संसारात् बहिर्भूतः सन् अत्रत्यैः गुणदोषैश्च अस्पृष्टः उत्कर्षणस्थितवान् । तस्य यः अयं पादलेशः सः अयम् इह मायायां पुनः अभवत् । सृष्टिसंहाराभ्यां पुनः पुनः आगच्छति । अस्य सर्वस्य जगतः परमात्मलेशत्वं भगवता अपि उक्तम् - ‘विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’ (भ.गी. १० - ४२) इति । ततः मायायाम् आगत्य अनन्तरं विष्वङ् देवतिर्यगादिरूपेण विविधः सन् व्यक्रामत् व्याप्तवान् । साशनानशने अभिलक्ष्य साशनं भोजनादिव्यवहारोपेतं चेतनं प्राणिजातम् अनशनं तद्रहितम् अचेतनं गिरिनद्यादिकं, तत् उभयं यथा स्यात् तथा स्वयमेव विविधः भूत्वा व्याप्तवान् इत्यर्थः ॥ ४ ॥ उ. भा. - यस्मादयं पुरुषः त्रिपात् त्र्यंशभूतः ऊर्ध्वः उपरिष्टात् उदैत् देदीप्यमानस्तिष्ठति । अस्य च पुरुषस्य पादः एकोंऽशः इह त्रैलोक्ये बीजभूतं चतुर्षु भूतेषु अभूत् भूतम् । ततः तस्मात्कारणात् विष्वङ् भुवनकोशं व्यक्रामत् उत्पन्नम् इत्यर्थः । तस्मादेव पुरुषात् । साशनानशने अभिसाशनं स्वर्गम् अनशनं मोक्षम् सर्वं जगत्स्वर्गं प्रति मोक्षं प्रति च तस्मादेव उत्पन्नमित्यर्थः ॥ ४ ॥________________

भाष्यसहितम् 39 अथो अनन्तरम् पुरः शरीराणि पुराणि चतुर्विधानि भूतानि अजायन्त । पुत्रादीनि तेनैव उत्पादितानि एवमेकोंऽशः तेनैव सर्वं विश्वम् उत्पादितमिति ॥ ५ ॥ + म.भा. - विष्वङ् व्यक्रामदिति यदुक्तं तदेव प्रपञ्च्यते । ततः तस्मात् आदिपुरुषात् विराट् ब्रह्माण्डदेहो अजायत जातः । विविधं राजन्ते वस्तनि अत्रेति विराट् । विराजः अधि विराड्देहस्योपरि तमेव देहमधिकरणं कृत्वा पुरुषः तद्देहाभिमानी एक एव पुमान् अजायत । सर्ववेदान्तवेद्यः परमात्मा स्वमायया विरादेहं ब्रह्माण्डरूपं सृष्ट्वा तत्र जीवरूपेण प्रविश्य ब्रह्माण्डाभिमानी देवतात्मा जीवोऽभवत् इत्यर्थः । एतच्च अथर्वणोत्तरतापनीये स्पष्टमुक्तम् ‘स वा एष भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वात्र प्रविष्ट प्रविश्य अमूढो मूढ इव व्यवहरन्नास्ते माययैव’ (नृ. उ. ता. २-१-९) इति । किंच स जातो विराट्पुरुषः अत्यरिच्यत अतिरिक्तो देवतिर्यङ्मनुष्यादिरूपोऽभूत् पश्चात् देवादिजीवभावादूर्ध्वं भूमिं ससर्जेति शेषः । अथो भूमिसृष्टेः अनन्तरं तेषां जीवानां पुरः ससर्ज । पूर्यन्ते सप्तभि: धातुभिः इति पुरः शरीराणि ॥ ५ ॥ तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒स्सम्भृ॑तम्पृषदा॒ज्यम् । प॒शूस्ताश्च॑क्रे वाय॒व्या॑नर॒ण्या ग्रा॒म्याश्च॒ ये । ६ ॥ , सा.भा. - सर्वहुतः सर्वात्मकः पुरुषः यस्मिन् यज्ञे हूयते सोऽयं सर्वहुत् । वसन्तज्यादिरूपस्य बाह्यद्रव्यस्य अद्यापि अनुपपन्नत्वेन हविरन्तरासम्भवात् पुरुषस्वरूपमेव मनसा हविषा इव संकल्प्य तेन पुरुषाख्येन हविषा देवा मानसं यज्ञम् अकार्षुः इति उत्तरत्र वक्ष्यते । तस्मात् मानसाद् यज्ञात् पृषदाज्यं दधिमिश्रम् आज्यं सम्भृतं सम्पादितम् । दधि च आज्यं च इत्येवम् आदि सर्वं सम्पादितमित्यर्थः । तथा वायव्यान् वायुदेवताकान् तान् लोकसिद्धान् पशून् चक्रे उत्पादितवान् । ये आरण्याः द्विखुरादयः, ये च ग्राम्याः, ग्रामे भवाः गवाश्वादयः तान् उत्पादितवान् । पशूनाम् अन्तरिक्षद्वारा वायुदेवत्यं मन्त्रान्तरव्याख्याने समाम्नातम् । ‘वायवः स्थेत्याह वायुर्वा अन्तरिक्षस्याध्यक्षः अन्तरिक्षदेवत्याः खलु वै पशवः वायव एवैनान्परिददाति’ ( तै. ब्रा. ३-२-१-३) इति ॥ ६ ॥ उ. भा. - यथा अग्निष्टोमाख्यात् तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् तेन वायव्यान् पशून् आरण्या ग्राम्याश्च ये तान् कृतवन्तः । एवम् आत्मयज्ञात् सर्वहुतात्पूरितात् उत्पन्नेन योगिनः सर्वान् पशून् सर्वाणि भूतजातानि करतलवत् पश्यन्ति । पश्यन्ति किल ज्ञानतेजसा भूतजातानि ॥ ६ ॥________________

A म.भा.

40 पुरुषसूकम् सर्वं हूयते यस्मिन् स सर्वहुत् तस्मात् पुरुषमेधाख्यात् यज्ञात् पृषदाज्यं दधिमिश्रमाज्यं संभृतं संपादितम् । दध्याज्यादिभोग्यजातं संपादितमित्यर्थः । पुरुषेणेति शेषः । तथा स पुरुषः वायव्यान् वायुदेवताकान् तान्प्रसिद्धान् पशून् चक्रे उत्पादितवान् । ‘अन्तरिक्षदेवत्याः खलु वै पशवः’ इति श्रुतेः । अन्तरिक्षस्य च वायुदेवत्यत्वात् पशूनां वायुदेवत्वम् । तान्कान् । ये चारण्याः अरण्ये भवाः हरिणादयः । ये च ग्रामभवा गवाश्वादयः तान् पशून् चक्रे ॥ ६ ॥ तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऋ॒च॒स्सामा॑नि जज्ञिरे । छन्दा॑सि जज्ञिरे॒ तस्मा॒द्यजुस्तस्मा॑द॒जायत ॥ ७ ॥ सा.भा. - सर्वहुतः तस्मात् यज्ञात् ऋचः नियतबद्धाः सामानि गीतिप्रधानानि च जज्ञिरे प्रादुरभवन् । तथा तस्मात् छन्दांसि गायत्र्यादीनि जज्ञिरे । तस्मात् यजुः प्रश्लिष्टपठितम् अजायत ॥ ७ ॥ उ.भा. - तस्मादेव यज्ञात्सर्वहुतः प्रज्वालितात् यथा ऋचः सामानि यजूंषि च देवा उत्पादयन्ति छन्दांसि च । एवम् आत्मयज्ञे प्रणवेन दीपिते स्वयमेव ज्ञानात् अधिष्ठितानि भवन्ति । एवं येन परमात्मनि ज्ञायते सर्वे जग्धा ( ? ) सर्वं वाङ्मयं ज्ञानं भवतीति ॥ ७ ॥ म. भा. - सर्वहुतः तस्माद्यज्ञात् ऋचः सामानि च जज्ञिरे उत्पन्नानि । छन्दांसि गायत्र्यादीनि जज्ञिरे तस्माद्यजुरपि अजायत । ऋग्यजुः सामभिश्छन्दोभिश्च विना यज्ञा न सिध्यन्ति ॥ ७ ॥ सा. भा. तस्मा॒दश्वा॑ अजायन्त॒ ये के चौभ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ना॒ता अ॑जा॒वय॑ः ॥ ८ ॥

तस्मात् यज्ञात् अश्वाः अजायन्त । ये के यज्ञे तत् उभयादतः उभयोः ऊर्ध्वाधोभागयोः दन्तयुक्ताः अश्वव्यतिरिक्ताः गर्दभाश्वतराश्च सन्ति तेऽपि अजायन्त । तस्मात् गावश्च जज्ञिरे । तस्मात् अजावयः जाताः उत्पन्नाः ॥ ८ ॥ उ.भा. - तस्मात् यज्ञात् अश्वाः अजायन्त उत्पन्नाः । तथा ये के च अश्वातिरिक्ता गर्दभादयोऽश्वतराश्च उभयादतः उभयाः भागयाः दन्ता येषां ते उभयदतः । छान्दसं दीर्घत्वम् । ऊर्ध्वाधोभागयोः दन्तयुक्ताः सन्ति तेऽपि अजायन्त । तथा ह स्फुटं तस्मात्________________

भाष्यसहितम् 41 यज्ञात् गावः च जज्ञिरे । किंच तस्मात् यज्ञात् अजावयः अजाः अवयश्च जाताः । नहि पशुभिर्विना यज्ञः सिध्येत् ॥ ८ ॥ म.भा. तस्मात् यज्ञात् अश्वाः अजायन्त उत्पन्नाः । तथा ये के च अश्वातिरिक्ता गर्दभादयोऽश्वतराश्च उभयादतः उभयाः भागयाः दन्ता येषां ते उभयदतः । छान्दसं दीर्घत्वम् । ऊर्ध्वाधोभागयाः दन्तयुक्ताः सन्ति तेऽपि अजायन्त । तथा ह स्फुटं तस्मात् यज्ञात् गावः च जज्ञिरे । किंच तस्मात् यज्ञात् अजावयः अजाः अवयश्च ‘जाताः । न हि पशुभिर्विना यज्ञः सिध्येत् ॥ ८ ॥ तँय्य॒ज्ञम्ब॒र्हिषि॒ प्रौक्ष॒न्पुरु॑षऋ॒तम॑ग्र॒तः । तेन॑ दे॒वा अ॑यजन्त सा॒ध्या ऋष॑यश्च॒ ये । ९ ॥

सा. भा. यज्ञं यज्ञसाधनभूतम्, अग्रतो जातम्, सर्वसृष्टेः पूर्वम् उत्पन्नम् । एतच्च पूर्वमेव उक्तम् । ‘ततो विराळजायत विराजो अधि पूरुषः’ इति । तं पुरुषं पुरुषपशुत्वभावनया यूपे बद्धं बर्हिषि मानसे यज्ञं यज्ञे प्रौक्षन्, ‘उक्ष सेचने’ (धा.पा.३५५) प्रोक्षितवन्तः । प्रोक्षणाख्यं संस्कारं कृतवन्तः । तेन प्रोक्षितेन पुरुषरूपेण पशुना देवा अयजन्त मानसयज्ञं निष्पादितवन्तः । के देवा इति त एव उच्यन्ते साध्याः सृष्टिसाधनयोग्याः प्रजापतिप्राणरूपाः तदनुकूलाः ऋषयः मन्त्रद्रष्टारश्च ये सन्ति ते सर्वेऽपि अयजन्त ॥ ९ ॥

उ. भा. - यथा इन्द्रेण तत्र यज्ञे अग्निष्टोमाख्ये बर्हिषा प्रोक्षितः पुरुषो जातः । तद्वत् आत्मयज्ञे बर्हिषा प्राणायामेन दीपितेन तस्मिन्पुरुषो जातः । ज्ञानमुत्पद्यते दिव्यम् । अग्रतः प्रथमतः । तेन देवाः इन्द्रादयः साध्याश्च ऋषयश्च यथा अयजन्त । तथा देवा योगिनः कपिलादयश्च साध्याश्चापरे ऋषयः । ऋषयश्चापि एतेनैव प्रणवाधिष्ठितेन पुरुषेण आत्मयज्ञं कृतवन्त इति ॥ ९ ॥ म.भा. यज्ञसाधने यज्ञशब्दः । यज्ञं यज्ञसाधनभूतं तं पुरुषं पशुत्वम् आभाव्य यूपे बद्धं बर्हिषि मानसे यज्ञे प्रौक्षन् प्रोक्षितवन्तः प्रोक्षणादिभिः संस्कारैः संस्कृतवन्तः । कीदृशम् । अग्रतः सृष्टेः पूर्वं जातं पुरुषत्वेन उत्पन्नम् । एतच्च प्रागेवोक्तम् ‘तस्मद्विराडजायत विराजो अधि पूरुषः’ इति । तेन पुरुषरूपेण पशुना देवा अयजन्त मानसयागं निष्पादितवन्तः । के ते देवाः इत्यत्राह । ये साध्याः सृष्टिसाधनयोग्याः प्रजापतिप्रभृतयः । ये च तदनुकूला ऋषयः मन्त्रद्रष्टारः ते सर्वेऽपि अयजन्त ॥ ९ ॥________________

42 यत्पुरु॑ष॒व्यद॑धुः क॒ति॒धा व्य॑कल्पयन् । पुरुषसूक्तम् मुख॒ङ्कम॑स्यासी॒त्किम्बा॒हू किमूरू पार्दा उच्येते ॥ १० ॥ सा.भा. - प्रश्नोत्तररूपेण ब्राह्मणादिसृष्टि वक्तुम् अत्र ब्रह्मवादिनां प्रश्ना उच्यन्ते प्रजापतेः प्राणरूपा देवाः यत् यदा पुरुषं विराड्रूपं व्यदधुः संकल्पेन उत्पादितवन्तः तदानीं कतिधा कतिभिः प्रकारैः व्यकल्पयन् विविधं कल्पितवन्तः । एषः सामान्यरूपः प्रश्नः । मुखं किम् इत्यादयः विशेषप्रश्नाः । अस्य एतादृग्रूपस्य पुरुषस्य किं मुखम् आसीत् । किं कौ बाहू स्तः । किं कौ ऊरु स्तः । कौ पादौ उच्येते ॥ १० ॥ उ. भा. - यत्पुरुषम् देवा इन्द्रादयः तस्मिन् यज्ञे व्यदधुः कृतवन्तो यथा । तद्वत् योगिनः आत्मयज्ञे पुरुषं ज्ञानम् यत् ज्ञानान्तं तत्कृतवन्तः कतिप्रकारं विकल्पितवन्तः । तस्य एवंविधस्य किं मुखम् को बाहू को ऊरु पादौ उच्येते उच्यन्ताम् इत्यर्थः । ब्राह्मणक्षत्रियवैश्यशूद्राः स्थिता इत्यर्थः ॥ १० ॥ म.भा. प्रश्नोत्तररूपेण ब्राह्मणादिसृष्टिं वक्तुं ब्रह्मवादिनां प्रश्ना उच्यन्ते । प्रजापतेः प्राणरूपा देवा यत् यदा पुरुषं व्यदधुः कालेनोदपादयन् तदा कतिधा कतिभिः प्रकारैः व्यकल्पयन् विविधं कल्पितवन्तः । अस्य पुरुषस्य मुखं किमासीत् किं बाहू ऊरू चास्ताम् । किंच पादौ उच्येते पादावपि किमास्तामित्यर्थः ॥ १० ॥ ब्रा॒ह्म॒र्णोऽस्य॒ मुख॑मासीद् बा॒हू रा॑ज॒न्य॑ कृ॒तः । ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्या शूद्रो अ॑जायत ॥ ११ ॥ सा.भा. - यः अयं ब्राह्मणजातिविशिष्टः पुरुषः सोऽयम् अस्य प्रजापतेः मुखम् आसीत्, मुखात् उत्पन्न इत्यर्थः । यः अयं राजन्यः क्षत्रियजातिः सः बाहू कृतः, बाहुभ्याम् उत्पादित इत्यर्थः । तत् तदानीं यत् यौ अस्य प्रजापतेः ऊरू तद् वैश्यः तद्रूपः सम्पन्नः । ऊरुभ्याम् उत्पन्न इत्यर्थः । तथा पद्भ्यां प्रजापतेः पादाभ्यां शूद्रः अजायत उत्पन्नः । इयं च मुखादिभ्यः ब्राह्मणादीनाम् उत्पत्तिः तैत्तिरीये सप्तमकाण्डे समाम्नाता - ‘प्रजापतिरकामयत प्रजायेयेति, स मुखतस्त्रिवृतं निरमिमीत तमग्निर्देवानन्वसृज्यत गायत्रं छन्दो रथन्तरं साम ब्राह्मणो मनुष्याणाम्’ (तै.सं.१७-१-१-४) इत्यादि । अत्रत्ये प्रश्नोत्तरे उभे अपि तत् परत्वेन योज्ये ॥ ११ ॥ उ. भा. - अस्य यज्ञोत्पन्नस्य पुरुषस्य ये केचिद्ब्राह्मणाः ते मुखम् आसीत् । ये क्षत्रियाः ते बाहूकृताः । ये वैश्याः ते अस्य ऊरू कृताः । ये शूद्रा ते पद्भ्याम् अजायन्त________________

भाष्यसहितम् 43 इति कल्प्यन्ते तदस्य उत्पन्नत्वादिति । एवम् एतेऽवयवाः शिरःप्रभृतयः पुरुषस्य विद्यन्ते नान्ये इति ॥ ११ ॥ म. भा. - पूर्वोक्तप्रश्नोत्तराण्याह । ब्राह्मण: ब्रह्मत्वजातिविशिष्टः पुरुषोः अस्य प्रजापतेः मुःखमासीत् । मुखादुत्पन्न इत्यर्थः । राजन्यः क्षत्रियत्वजातिविशिष्टो बाहू कृतः बाहुत्वेन निष्पादितः । तत् तदानीम् अस्य प्रजापतेः यत् यौ ऊरू तद्रूपो वैश्यः संपन्नः । ऊरूभ्याम् उत्पादित इत्यर्थः । तथास्य पद्भ्यां शूद्रत्वजातिमान् पुरुषोऽजायत उत्पन्नः ॥ ११ ॥ च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षो॒स्सूर्यो॑ अजायत । श्रोत्र॑वा॒युश्च॑ प्रा॒णश्च॒ मुख॑द॒ग्निर॑जायत ॥ १२ ॥ सा.भा. - यथा दध्याज्यादिद्रव्याणि गवादिपशवः ऋगादिवेदाः ब्राह्मणादिमनुष्याश्च तस्मात् उत्पन्नाः तथा प्रजापतेः मनसः चन्द्रमा जातः, तस्य चक्षोः चक्षुषः सूर्यः अजायत । तस्य श्रोत्राद् वायुः वायुरूपः प्राणः, शरीरे प्राणापानव्यानात्मना सञ्चरन् वायुश्च जातः । चकारौ परस्परसमुच्चयार्थी । तस्य मुखात् अग्निः अजायत ॥ १२ ॥ तस्य एवंविधस्य यज्ञोत्पन्नस्य पुरुषस्य । चन्द्रमाः मनसः चेतसः जातः अजायत इति कल्पना । मन एव चन्द्रमाः । चक्षोः नेत्राभ्यां सूर्यः । नेत्रे एव सूर्यः । यः प्राणो जीवः स एव वायुः श्रोत्रात् अजायत इति कल्प्यते । श्रोत्रमेव वायुः । योऽयमग्निः स मुखात् अजायत इति कल्प्यते मुखमेवाग्निः अंशोत्पन्नत्वादिति ॥ १२ ॥ उ.भा. म.भा. - यथा दध्यादिद्रव्याणि गवादयः पशवः ऋगादिवेदाः ब्राह्मणादयो मनुष्याश्च तस्मादुत्पन्नाः एवं चन्द्रादयो देवा अपि तस्मादेव उत्पन्ना इत्याह । मनसः सकाशाच्चन्द्रमाः जातः । चक्षोः चक्षुषः सकाशात्सूर्यः अजायत । वायुः प्राणश्च श्रोत्रात्कर्णात् अजायत । मुखादग्निः अजायत ॥ १२ ॥ नाभ्या॑ आसीद॒न्तरिक्षशी॒ष्णो॑ द्यौस्सम॑वर्त्तत । प॒द्भ्याम्भूमि॒र्दश॒श्श्रोत्रा॒त्तथा॑लो॒काँ अ॑कल्पयन् ॥ १३ ॥ सा. भा. - पूर्वं देवतासृष्टिम् उक्त्वा लोकसृष्टिम् आह । तस्य प्रजापतेः नाभ्याः सकाशात् अन्तरिक्षम् उत्पन्नम् आसीत् । शीर्ष्णः शिरसः सकाशात् द्यौः द्युलोक: समवर्त्तत उत्पन्नः अभूत् । पद्भ्यां पादाभ्यां भूमिः, तस्य श्रोत्रात् दिशः, तथा तेन उक्तप्रकारेण लोकान् अन्तरिक्षादीन् प्रजापतेः नाभ्याद्यवयवान् अकल्पयन् उत्पादितवन्तः ॥ १३ ॥________________

44 पुरुष सूकम उ.भा.

तस्यैवंविधस्य पुरुषस्य या नाभिः तदेव आन्तरिक्षं नभः । या द्यौः तत् शीर्षं शिरः । समवर्तत इति कल्पितम् । पादौ भूमिरेव । श्रोत्रे श्रवणौ दिशः । श्रोत्रावयवाः यस्माद्दिशः ब्रह्मणो जाताः तथैव सर्वान् लोकान् पुरुषस्य अवयवभूतान् अकल्पयदिति ॥ १३ ॥ म.भा. - यथा प्रजापतेः मनःप्रभृतयश्चन्द्रादीन् अकल्पयन् तथान्तरिक्षादिलोकान् इत्याह नाभ्येति । प्रजापतेः नाभेः सकाशात् अन्तरिक्षम् आसीत् । शीर्ष्णः शिरसः द्यौः स्वर्गः समवर्तत उत्पन्ना । अस्य पद्यां पादाभ्यां भूमिरुत्पन्ना । श्रोत्राद्दिशः उत्पन्नाः । तथा तेन उक्तेन विधिना लोका भूरादीन् प्रजापतेः सकाशात् अकल्पयन् कल्पितवन्तः । फलादानोत्सुकाः काला इति शेषः ॥ १३ ॥ यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत । व॒स॒न्तो॑ऽस्यासी॒दाज्य॑यो॒ष्म इ॒ध्मश्श॒रद्ध॒विः ॥ १४ ॥ सा.भा. - पूर्वं देवाः पुरुषेण पुरुषरूपेण हविषा बाह्यद्रव्यस्य अद्यापि अनुत्पन्नत्वेन हविः अन्तरा असम्भवात् पुरुषस्वरूपमेव मनसा हविष्ट्वेन संकल्पितेन पुरुषाख्येन हविषा देवा मानसं यज्ञम् अतन्वत अकुर्वत । तत् तदानीम् अस्य यज्ञस्य वसन्तर्तुः आज्यम् आसीत् । तमेव आज्यत्वेन संकल्पितवन्तः । एवं ग्रीष्मः इध्मत्वेन परिकल्पितः । शरत् पुरोडाशादि हविष्ट्वेन संकल्पिता । पूर्वं पुरुषस्य हविः सामान्यरूपत्वेन संकल्पितम् । वसन्तादीनां तु आज्यादिविशेषरूपत्वेन इति द्रष्टव्यम् ॥ १४ ॥ उ.भा. - कथम् अन्नेनाधिरोहति । यत् यस्मात्कारणात् पुरुषेण हविषा हविर्भूतेन देवा इन्द्रादयः यथा यज्ञम् अतन्वत विस्तारितवन्तः । तथा योगिनोऽपि पुरुषेणैव अमृतभूतेन दीपितेन आत्मना आत्मयज्ञं समधिकृतवन्तः । अत्र यज्ञे वसन्त: आज्यमासीत् ग्रीष्मः इध्मः शरद्धविरिति । इतरयागे वसन्तशब्देन सात्विको गुण उच्यते । ग्रीष्मशब्देन राजसः । शरच्छब्देन तामसः । त्रयो हि गुणास्तत्र आत्मयज्ञे योगिनो जुह्वतीति ॥ १४ ॥ म. भा. - यत् यदा पूर्वोक्तक्रमेण देवशरीरेषु सत्सु देवाः उत्तरसृष्टिसिद्ध्यर्थं बाह्यद्रव्यस्य अनुत्पन्नत्वेन पुरुषस्वरूपमेव मनसा हविट्वेन संकल्प्य पुरुषेण पुरुषाख्येन हविषा मानसं यज्ञमतन्वत अतनिषत तदानीमस्य यज्ञस्य वसन्तः ऋतुरेव आज्यमासीत् । आज्यत्वेन संकल्पितवन्त इत्यर्थः । एवं ग्रीष्मः इध्मः आसीत् । ग्रीष्ममेव इध्मत्येन संकल्पितवन्तः । तथा शरत् हविः आसीत् । शरदमेव पुरोडाशादिहविट्वेन संकल्पितवन्तः________________

भाष्यसहितम् 45 पूर्वं पुरुषस्य हविःसामान्यरूपत्वेन संकल्पः अनन्तरं वसन्तादीनाम् आज्यादिविशेष- रूपत्वेन संकल्प इति द्रष्टव्यम् । अत्र कण्डिकाव्युत्क्रमोऽस्ति अस्यानन्तरं तं यज्ञम् (९) ततः तस्माद्यज्ञात् इति ( ६ ) तिस्रः क्रमेणैव । ततः सप्तास्यासन्निति (१५) क्रमोऽपेक्षितः ॥ १४ ॥ स॒प्तास्या॑सन्परि॒धय॒स्त्रिस्स॒प्त स॒मिधः॑ कृ॒ताः । दे॒वा यद्य॒ज्ञन्त॑न्वा॒ना अब॑ध्न॒न्पुरु॑षम्प॒शुम् ॥ १५ ॥

सा.भा. - अस्य परिकल्पितयज्ञस्य गायत्र्यादीनि छन्दांसि परिधयः आसन् । ऐष्टिकस्य आहवनीयस्य त्रयः परिधयः औत्तरवेदिकाः त्रयः आदित्यश्च सप्तमः परिधिः प्रतिनिधिरूपः । अत एव आम्नायते ‘न पुरस्तात् परिदधात्यादित्यो ह्येवोद्यन् पुरस्ताद्रक्षांस्यपहन्तीति’ (तै.सं. २-६-६-३) । तत एत आदित्यसहिताः सप्त परिधयः अत्र सप्त छन्दोरूपाः तथा समिधः त्रिः सप्त, त्रिगुणीकृतसप्तसंख्याकाः एकविंशतिः कृताः । ‘द्वादशमासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंश: ’ ( तै. सं. ५-१-१० - ३) इति श्रुताः पदार्थाः एकविंशतिदारुयुक्त इध्मत्वेन भाविताः, यत् यः पुरुषः वैराजोऽस्ति तं पुरुषं देवाः प्रजापतिप्राणेन्द्रियरूपाः यज्ञं तन्वानाः मानसं यज्ञं कुर्वाणाः पशुम् अबनन् विराट्पुरुषत्वेन भावितवन्तः । एतदेव अभिप्रेत्य पूर्वत्र पुरुषेण हविषा इति उक्तम् ॥ १५ ॥ उ.भा. 1 देवाः इन्द्रादयः यथा यज्ञं पुरुषमेधाख्यं विस्तारयन्तः पुरुषं पशुम् अबध्नन् हतवन्तः अस्य पुरुषमेधयज्ञस्य सप्त समुद्राः परिधयः आसन् । भारते हि वर्षे यागः प्रवर्तते । त्रिः सप्त छन्दांसि गायत्र्यादीनि समिधः कृताः आत्मयागे परिधिशब्देन पृथिव्यापस्तेजोवायुराकाशं मनोबुद्धिः इत्येते परिधयः कल्प्यन्ते । त्रिः सप्त समिधः । पञ्चमहाभूतानि पृथिव्यादीनि । पञ्चतन्मात्राणि रूपादीनि । पञ्च बुद्धि इन्द्रियाणि श्रोत्रादीनि । पञ्च कर्मेन्द्रियाणि पाण्यादीनि मनश्च एताः त्रिः सप्त समिधः कल्पयन्ति । तथा देवा दीप्यमाना ज्ञानेन योगिनः समाध्याख्यं यज्ञं तन्वाना विस्तारयन्तः । पुरुषं ज्ञानं पुरुषमेधपशुरूपेण अवस्थितम् अबध्नन् अगृह्णन् ।। १५ ।। म.भा.

यत् यदा देवाः प्रजापतिप्राणेन्द्रियरूपाः यज्ञं तन्वानाः मानसं यज्ञं कुर्वाणाः पुरुषं पशुमबध्नन् विराट्पुरुषमेव पशुत्वेन भावितवन्तः । एतदेवाभिप्रेत्य पूर्वं (१४) पुरुषेण हविषा इत्युक्तम् । तदा संकल्पितस्य यज्ञस्य सप्त गायत्र्यादीनि छन्दांसि________________

I 46 पुरुषसूक्तम् परिधयः आसन् ऐष्टिकस्य आहवनीयस्य त्रयः परिधय औत्तरवेदिकाः त्रयः आदित्यः सप्तमः परिधिः प्रतिनिधिरूपः तथा च श्रुतिः ‘गुप्यै वा अभितः परिधयो भवन्त्यथैतत्सूर्यमेव पुरस्ताद्गोप्तारं करोति’ इति । तत एते आदित्यसहिताः सप्त परिधयोऽत्र सप्तच्छन्दोरूपाः । त्रिःसप्त त्रिगुणाः सप्त एकविंशतिसंख्याकाः समिधः कृताः ‘द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्यः ’ ( तै.सं.५-१-१०-३) एते एकविंशतिः एकविंशतिदारुयक्त इध्मत्वेन भाविताः । यद्वा सप्त समुद्राः क्षीरोदादयोऽस्य यज्ञस्य परिधयः आसन् । भारतखण्डे यागा भवन्तीति समुद्राणां परिधित्वम् । त्रिः त्रिगुणाः सप्त छन्दोवर्गाः समिधः कृताः गायत्र्यादीनि सप्त अतिजगत्यादीनि सप्त कृत्यादीनि सप्तेति ।। १५ ।। य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्म॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाक॑म्महि॒मान॑स्सचन्त॒ यत्र॒ पूर्वे ’ सा॒ध्यास्सन्ति॑ दे॒वाः ॥ १६ ॥ सा.भा. - अथ कृत्स्नानुवाकतात्पर्यं संक्षिप्य उपन्यस्य देवाः प्रजापतिप्राणभूताः यज्ञेन यथोक्तेन मानसेन यज्ञं यथोक्तयज्ञस्वरूपं प्रजापतिम् अयजन्त पूजितवन्तः । तस्मात् पूजनात् तानि प्रसिद्धानि धर्माणि जगद्रूपविकारिणां धारकाणि प्रथमानि मुख्यानि भूतानि आसन् । एतावता सृष्टिप्रतिपादकः अयम् अनुवाकार्थः संगृहीतः ।

अथ देवानां यागसाधारणफलं दर्श्यते यत्र यस्मिन् विराट् प्राप्तिरूपे यज्ञे पूर्वे साध्याः पुरातनाः विराडुत्पत्तिसाधका देवाः सन्ति तिष्ठन्ति तत् नाकं विराट्प्राप्तिरूपं स्वर्गं ते महिमानः यष्टारः महात्मानः सचन्त समवयन्ति प्राप्नुवन्ति इत्यर्थः । तत्र ब्राह्मणम्- ‘यज्ञेन हि तं यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्’ (श. बा. १० -२ - २ - २ ) इति ‘ते हि धर्माः प्रथमेऽक्रियन्त ते ह नाकं महिमानः सचन्तेति स्वर्गो वै लोको नाको देवा महिमानस्ते देवा: स्वर्गं लोकूँ सचन्त ये तं यज्ञमयजन्नित्येतद् यत्र पूर्वे साध्याः सन्ति देवा इति प्राणा वै साध्या देवास्त एतमग्र एवमसाधयन् ’ (श.ब्रा. १०- २ - २ - ३ ) इति । पूर्वशब्दः ऋषिप्रवाहः नित्यः इति एतावद् दर्शनार्थः ।। १६ ।। ।। शुक्लयजुर्वेदीयपुरुषसूक्तस्य सायणभाष्यं समाप्तम् ।। उ. भा. - यथा इन्द्रादयो देवाः यज्ञेन ज्योतिष्टोमाख्येन यज्ञपुरुषं वासुदेवम् विधिना अयजन्त । यतः तानि यजनरूपाणि धर्माणि प्रथमानि आसन् ते ह महाभाग्ययुक्ताः नाकं सचन्त स्वर्गं सेवन्ते । यत्र पूर्वे साध्याः प्रथमे सुराः सन्ति विद्यन्ते देवा: तेजसा________________

भाष्यसहितम् 47 देदीप्यमानाः । एवं योगिनोऽपि दीपनाद्देवा यज्ञेन समाधिना नारायणाख्यं ज्ञानरूपम् अयजन्त । यतः तानि समाधिरूपाणि धर्माणि प्रथमान्यासन् । ते तु नाकं सनकादीनां स्थानं गच्छन्ति । ये तु योगिनो महिमानः जन्मान्तरः निर्धूतगुणाः शुद्धाः ते नारायणाख्यं पुरुषम् आविशन्ति । मुक्तिं गच्छन्ति इत्यर्थः ।। १६ ।। ।। शुक्लयजुर्वेदीयपुरुषसूक्तस्य उवटभाष्यं समाप्तम् ।। म. भा. - पूर्वप्रपञ्चेन उक्तमर्थं संक्षिप्याह । देवाः प्रजापतिप्राणरूपा यज्ञेन यथोक्तेन मानसेन संकल्पेन यज्ञेन यज्ञं यज्ञस्वरूपं प्रजापतिम् अयजन्त पूजितवन्तः । तस्मात्पूजनात् तानि प्रसिद्धानि धर्माणि जगद्रूपविकाराणां धारकाणि प्रथमानि मुख्यानि भूतानि आसन् । एतावता सृष्टिप्रतिपादकसूक्तभागार्थ उक्तः । अथ उपासनतत्फलानुवादकभागार्थः संगृह्यते । यत्र यस्मिन् विराट् प्राप्तिरूपे नाके पूर्वे साध्याः पुरातनाः विराडुपाधिसाधकाः देवाः सन्ति तिष्ठन्ति तं नाकं विराट्प्राप्तिरूपं स्वर्गं ह एव ते महिमानः तदुपासका महात्मानः सचन्त सचन्ते समवयन्ति प्राप्नुवन्ति । अडभाव आर्षः । सृष्टेः प्रवाहनित्यतां दर्शयति । तदुक्तम् ‘सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्’ (महा.ना.उ.१-९) इति ।। १६ ।। ।। शुक्लयजुर्वेदीयपुरुषसूक्तस्य महीधरभाष्यं समाप्तम् ।।________________