०१ ऋग्वेदः

ऋग्वेदीयं पुरुष सूक्त म् [ प्रतिपदार्थ - तात्पर्य - सायणभाष्यसहितम् ] `स॒हस्र॑शीषो॒ ‘पुरु॑षस्सहस्रा॒क्ष॑स्स॒हस्र॑पात् । 1 भूमि॑ वि॒श्वतो॑ वृ॒त्वा त्य॑तिष्ठद्दशाङ्गुलम् ॥ १ ॥ प्र. - सहस्रशीर्षा - सहस्रशिरोभिर्युक्तः, पुरुषः - परमपुरुषः, सहस्राक्षः - सहस्रनेत्रयुक्तः, सहस्रपात् - सहस्रचरणोपेतः, सः - पुरुषः, भूमिं पृथिवीं विश्वतः - सर्वत्र, वृत्वा - - व्याप्य, दशाङ्गुलम् - दशअङ्गुलदूरं यथा तथा, अत्यतिष्ठत् - अतीत्य वर्तते ॥ ता. - सहस्रशीर्षा इति । शिरः शब्दस्य शीर्षश्छन्दसि (पा. सू. ६-१-६० ) इति सूत्रेण शीर्षन्नादेशः । सहस्रशब्दः अनन्तवाची । पुरुष: पूर्णत्वात् पुरुषः । योऽयं सहस्रशीर्षा सः पुरुषः सहस्राक्षः, सहस्रपाच्च । सः भूम्यादिलोकजातं विश्वतो व्याप्य दशाङ्गुलमतिक्रम्य अतिष्ठत् । अत्र दशाङ्गुलशब्दार्थ उच्यते - दशसंख्याकाङ्गुलिपरिमितिवचनो न । किन्तु अपरिच्छिन्नस्य पुरुषस्य परिच्छेदप्रसङ्गात् । तर्हि दशाङ्गुलशब्दः अनन्तयोजन वचनः । प्रपञ्चादूर्ध्वं अनन्तयोजनान्यतीत्य अतिष्ठदित्यर्थः ॥ सा. भा. - यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ ‘सहस्रशीर्ष’ इति षोडशर्चं सूक्तम् । नारायणो नाम ऋषि अन्त्या त्रिष्टुपु शिष्टा अनुष्टुभः । अव्यक्तमहदादिविलक्षणश्चेतनो यः पुरुषः ‘पुरुषान्न परं किंचित्’ (क. उ. ३-११) १. तथा चोक्तम् कूर्मपुराणे- ‘सहस्रमूर्धानमनन्तशक्तिं सहस्रबाहुं पुरुषं पुराणम् । शयानमब्धी सलिले तवैव नारायणाख्यं प्रणतोऽस्मि रूपम्’ इति ॥ २. ‘महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः’ ॥ (क.उ. ३-११) तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् । ( मुं. उ. ३-८) इत्यादि पुरुषशब्दार्थो वर्णितः ॥ ३. ‘दशाङ्गुलमिति ब्रह्माण्डहृदययोरुपलक्षणम् । अङ्गुलमित्यवयवोपलक्षणेन मितस्य जगतोऽत्र ग्रहणं भवति । पञ्च स्थूलभूतानि पञ्च सूक्ष्माणि चेतदुभयं मिलित्वा दशावयवाख्यं सकलं जगदस्ति । अन्यच पञ्च प्राणाः सेन्द्रियं च चतुष्टयमन्तः करणं दशमो जीवश्च’ । इति ऋग्भाष्यभूमिकायाम् ।________________

20 इत्यादिश्रुतिषु प्रसिद्धः स देवता । तथा चानुक्रान्तं ‘सहस्रशीर्षा षोळश नारायणः पौरुषमानुष्टुभं त्रिष्टुबन्तं तु’ इति । सर्वप्राणिसर्माष्टरूपो ब्रह्माण्डदेहो यः पुरुषः सोयं सहस्रशीर्षा । सहस्रशब्दस्योप- लक्षणत्वात् अनन्तैः शिरोभिर्युक्त इत्यर्थः । यानि सर्वप्राणिनां शिरांसि तानि सर्वाणि तद्देहान्तःपातित्वात् तदीयान्येवेति सहस्रशीर्षत्वम् । एवं सहस्राक्षित्वं सहस्रपादत्वं च । सः - पुरुषः भूमिं - ब्रह्माण्डगोलकरूपां विश्वतः - सर्वतः वृत्वा - परिवेष्ट्य दशाङ्गुलं दशाङ्गुलपरिमितं देशम् अत्यतिष्ठत् - अतिक्रम्य व्यवस्थितः । दशाङ्गुलमित्युपलक्षणम् । ब्रह्माण्डाद्बहिरपि सर्वतो व्याप्यावस्थित इत्यर्थः ॥ १ ॥ प्र.

पुरु॑ष ए॒वेदं सर्वं यद्भूतं यच॒ भव्यम्’ । उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ॥ २ ॥ पुरुषः एव - परमपुरुषः, एव इदम् - वर्तमानं, सर्वम् यद्भूतम् भूतकाले यत् स्थितं यच भव्यम् - भविष्यत् काले यत् जायमानं, उत अमृतत्वस्य परमपदस्य (मोक्षस्य ) ईशानः - प्रदाता । (स्वामी) यत्, अन्नेन, अतिरोहति - सः अन्नमयप्रपञ्चेन अतिक्रम्य भवति । ता.

प्रथमया ऋचा देशतो व्याप्तिं उक्त्वा अनया द्वितीयया कालतो व्याप्तिमुच्यते यदिदं वर्तमानं कार्यजातं तत्सर्वं पुरुष एव । यदतीतं कार्यजातं यच्च आगामि कार्यजातं तत्सर्वं पुरुष एव । किञ्च अयमेव पुरुषः अमृतत्वस्य मोक्षस्य ईशानो भवति । सायुज्यादिचतुर्विधमोक्षस्य प्रदाता भवति । यत्कार्यजातं अन्नेन अदनीयेन भोज्यद्रव्येण स्वकारणमतीत्य रोहतीत्यर्थः । सा.भा. - यत् इदं वर्तमानं जगत् तत् सर्वं पुरुष एव । यत् च भूतम् अतीतं जगत् यच भव्यं भविष्यज्जगत् तदपि पुरुष एव । यथास्मिन् कल्पे वर्तमानाः प्राणिदेहाः सर्वेऽपि विराट्पुरुषस्यावयवाः तथैवातीतागामिनोरपि कल्पयोर्दष्टव्यमित्यभिप्रायः । उत - अपि च अमृतत्वस्य देवत्वस्य अयम् ईशानः स्वामी । यत् यस्मात्कारणात् अन्नेन प्राणिनां भोग्येनान्नेन निमित्तभूतेन अतिरोहति स्वकीयां कारणावस्थामतिक्रम्य परिदृश्यमानां जगदवस्थां प्राप्नोति तस्मात्प्राणिनां कर्मफलभोगाय जगदवस्थास्वीकारान्नेदं तस्य वस्तुत्वमित्यर्थः ॥ २ ॥ 1 १. भागवते-कालत्रयसम्बन्धत्वं भगवच्छरीरस्य उपवर्णितम् । ‘विशेषस्तस्य देहोऽयं स्थविष्टश्च स्थवीयसाम् । यत्रेदं दृश्यते विश्वं भूतं भव्यं भवञ्च यत्’ ॥ (भा.पु. २-१-२४)________________

भाष्यसहितम् पुरुष:

21 ए॒तावा॑नस्य महि॒मातो॒ ज्याय॑श्च॒ पूरु॑षः । पार्दो ‘ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृत॑ दि॒वि ॥ ३ ॥ ,

प्र. - एतावान् - अयं लोकः अस्य परमपुरुषस्य, महिमा - वैभवम्, परमपुरुषः, अतः - अस्मात् लोकात्, ज्यायाश्च - अतिशयात्मकाः, विश्वाभूतानि चराचरात्मकानि सर्वभूतानि, अस्य परमपुरुषस्य, पादः - चतुर्थोऽशः, अस्य - नारायणस्य परमस्य, त्रिपात् अवशिष्टं पादत्रयं दिवि द्युलोके, अमृतं नित्यरूपेण शोभते ॥

ता.

पुरुषः

ww नारायणः परमपुरुषः एतावान् लोकपरिमाणः अस्य महिमा विभूतिमात्रम् । अतः एतादृश महिमोपेतः पुरुषः - 1 एतादृश महिमोपेतः पुरुषः - ज्यायान् श्रेष्ठः प्रशस्थः । अस्य ज्यायस्त्वं व्यनक्ति - अस्य परमपुरुषस्य विश्वानि चराचरात्मकानि भूतानि पादोंऽशः । अस्य भोग्यभोगोपकरणभोगास्थानरूपस्य वस्तुनः परमपदे सत्वात् तेषां त्रिपाच्छब्देन व्यपदिश्यते । तेन अमृतं अमरणधर्मं दिवि परमपदे भासते इत्यर्थः ॥

सा. भा. अतीतानागतवर्तमानरूपं जगद्यावदस्ति एतावान् सर्वोऽपि अस्य पुरुषस्य महिभा स्वकीयसामर्थ्यविशेषः । न तु तस्य वास्तवस्वरूपम् । वास्तवस्तु पुरुषः अतः महिम्नोऽपि ज्यायान् अतिशयेनाधिकः । एतच्चोभयं स्पष्टीक्रियते । अस्य पुरुषस्य विश्वा सर्वाणि भूतानि कालत्रयवर्तीनि प्राणिजातानि पादः चतुर्थोऽशः । अस्य पुरुषस्य अवशिष्टं त्रिपात् स्वरूपम् अमृतं विनाशरहितं सत् दिवि द्योतनात्मके स्वप्रकाशस्वरूपे व्यवतिष्ठत इति शेषः । यद्यपि ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ( तै. उ. २ - १) इत्याम्नातस्य परब्रह्मण इयत्ताभावात् पादचतुष्टयं निरूपयितुमशक्यं तथापि जगदिदं ब्रह्मस्वरूपापेक्षया अल्पमिति विवक्षितत्वात् पादत्वोपन्यासः ॥ ३ ॥ त्रि॒पादूर्ध्व उदै॒त्पुरु॑ष॒ः पादो॑ ऽस्ये॒हाभ॑व॒त्पुनः॑ । ततो॒ विष्व॒ व्य॑क्रामत् साशनानशने अभि ॥ ४॥ १. भारते - विश्वरूपं प्रतिपादयति- ‘विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः । एकश्चरति क्षेत्रेषु स्वैरवारी यथासुखम् ’ ॥ (म.भा. शां. प. ५१-५) एवं गीतायां च उक्तम् - उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ ( १५-१७,१८ ) २. साशनं स्वर्गम् । अनशनं मोक्षम् । (उ.भा.)________________

22 प्र. - त्रिपात् - अपरिच्छिन्नज्ञानशक्तयादिमान्, पुरुषः प्रकृतिमण्डलादुपरि, उदैत्- उदगच्छत् अस्य भगवतः पादः अस्मिन् लोके, पुनः अभवत्

अवातरत्, ततः

1 30 परमपुरुषः, ऊर्ध्वे चतुर्थोऽशः, इह

पश्चात्, साशनानशने स्थावरजङ्गमे, अभि - उद्दिश्य, विष्वङ् - समन्तात्, व्यक्रामत् - व्यापारमकरोत् ॥ ता.

वासुदेवसङ्कर्षणप्रद्युम्नरूपः त्रिपात् परमपुरुषः नारायणः ऊर्ध्वे परमव्योम्नि श्रीवैकुण्ठे उद्गच्छत् । अस्य नारायणस्य पादः - चतुर्थोऽशः अनिरुद्धाख्यः सर्वं जगत् त्रातुं पुनः इह अभवत् । ततः सः भगवान् योगनिद्राऽवसाने स्वस्यैव तत्तद्रूपेण बहुभवनसंकल्पं अकरोत् । साशनं - जङ्गमम् - देवमनुष्यादिरूपम् । अनशनम् - स्थावरम् - वृक्षगुल्मलतादिरूपम् । स्थावरजङ्गमात्मककृत्स्नजगद्रूपेण अकरोत् इत्यर्थः ॥ सा. भा. - योऽयं त्रिपात् पुरुषः संसाररहितो ब्रह्मस्वरूपः सोऽयम् ऊर्ध्व उदैत् अस्मादज्ञानकार्यात्संसाराद्वहिर्भूतोऽत्रत्यैर्गुणदोषैरस्पृष्ट उत्कर्षेण स्थितवान् । तस्य अस्य सोऽयं पादः लेशः सोऽयम् इह मायायां पुनः अभवत् सृष्टिसंहाराभ्यां पुनः पुनरागच्छति । अस्य सर्वस्य जगतः परमात्मलेशत्वं भगवताप्युक्तं- ‘विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’ (भ.गी. १० - ४२ ) इति । ततः मायायामागत्यानन्तरं विष्वङ् देवमनुष्यतिर्यगादिरूपेण विविधः सन् व्यक्रामत् व्याप्तवान् । किं कृत्वा । साशनानशने अभिलक्ष्य । साशनं भोजनादिव्यवहारोपेतं चेतनं प्राणिजातम् अनशनं तद्रहितमचेतनं गिरिनद्यादिकम् । तदुभयं यथा स्यात्तथा स्वयमेव विविधो भूत्वा व्याप्तवानित्यर्थः ॥ ४ ॥ तस्मा॑ द्वि॒राऴजायत वि॒राजो॒ अधि॒ पूरु॑षः । 1 स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥ ५ ॥ प्र. - तस्मात् - व्यापारात्, विराट् - प्रकृतिः, अजायत उत्पन्नः, विराज:- प्रकृतिमण्डलस्य, अधिपुरुषः - अधिकारपुरुषः चतुर्मुखः ( उत्पन्नः), सः - चतुर्मुखो ब्रह्मा, जात:- जातस्सन्, अत्यरिच्यत प्रवृद्धकायोऽभवत् पश्चात् - अनन्तरम्, भूमिं - पृथिवीं, अथो - तदनन्तरं पुरः - प्राणिवर्गान् ससर्ज ॥

ता. तस्मात् व्यापाराद्धेतोः विराट् महदादिरूपेण विविधं राजत इति विराडिति प्रकृतिः उच्यते । विराजः प्रकृतेः परं चतुर्मुखाख्यः ब्रह्मा समुत्पन्नः । तस्य शरीरवृद्धिं दर्शयति - स जातो अत्यरिच्यत इति । चतुर्मुखः जातस्सन् भगवत्कृपया________________

भाष्यसहितम् 23 प्रवृद्धदेहोऽभूत् । अनन्तरं भूमिं असृजत । अत्र भूमिशब्दः ब्रह्माण्डस्य उपलक्षणम् तदनन्तरं पुरः - देवमनुष्यतिर्यगादिजीववर्गान् ससर्ज इति शेषः ॥

सा.भा. - विष्वङ् व्यक्रामदिति यदुक्तं तदेवात्र प्रपञ्च्यते । तस्मात् आदिपुरुषात् विराट् ब्रह्माण्डदेहः अजायत उत्पन्नः । विविधानि राजन्ते वस्तून्यत्रेति विराट् । विराजोऽधि विराट्देहस्योपरि तमेव देहमधिकरणं कृत्वा पुरुषः तद्देहाभिमानी कश्चित् पुमान् अजायत । सोऽयं सर्ववेदान्तवेद्यः परमात्मा स्वयमेव स्वकीयया मायया विराड्देहं ब्रह्माण्डरूपं सृष्ट्वा तत्र जीवरूपेण प्रविश्य ब्रह्माण्डाभिमानी देवतात्मा जीवोऽभवत् । एतच्चाथर्वणिका उत्तरतापनीये विस्पष्टमामनन्ति- ‘स वा एष भूतानीन्द्रियाणि विराजं देवता: कोशांश्च सृष्ट्वा प्रविश्यामूढो मूढ इव व्यवहरन्नास्ते माययैव’ (नृ. उ. ता. २-१-९) इति । स जातः विराट् पुरुषः अत्यरिच्यत अतिरिक्तोऽभूत् । विराड्व्यतिरिक्तो देवतिर्यङ्मनुष्यादिरूपोऽभूत् । पश्चात् देवादिजीवभावादूर्ध्वं भूमिं ससर्जेति शेषः । अथो भूमिसृष्टेरनन्तरं तेषां जीवानां पुरः ससर्ज । पूर्यन्ते सप्तभिः धातुभिरिति पुरः शरीराणि ॥ ५ ॥ यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत । 1 व॒स॒न्तो अ॑स्यासी॒दाज्यं॑ गी॒ष्म इ॒ध्मः श॒रद्ध॒विः ॥ ६ ॥

,

, प्र. - यत् - यस्मिन् काले, पुरुषेण चतुर्मुखात्मकेन, हविषा - पशुना, हविष्ट्वेन, देवा: - तदिन्द्रियाणि, यज्ञं मानसं यागं अतन्वत कृतवन्तः अस्य - मानसयज्ञस्य, वसन्तः वसन्तर्तुः - आज्यम् - आसीदिति यावत्, ग्रीष्मः - ग्रीष्मर्तुः, इध्मः - हविः - पुरोडाशादि हविष्ट्वेन आसीत् ॥ आज्यम् - आज्यत्वेन, आसीत् - ध्यातः समित्वेन आसीत्, शरत् - शरदृतुः, ता. अथ चतुर्मुखः ब्रह्मा स्वयं जगत्सृष्टिं अजानानो भगवदुपदिष्टमार्गेण भगवन्तम् आत्मसमर्पणरूपेण मानसयागेन आराध्य तत्प्रसादलब्दविज्ञानो जगत्सृष्टि- मकरोदिति वक्तुं प्रथमतः यागं प्रस्तौति यत्पुरुषेणेति । यदा चतुर्मुखाख्येन पशुहविषा देवाः साध्याख्याः तदिन्द्रियाणि वा यज्ञं ध्यानमयं कृतवन्तः । तदा अस्य यज्ञस्य वसन्तकालः आज्यमासीत् । यद्यपि असृष्टानि पदार्थजातानि, तथापि कालस्य नित्यत्वात् १.

यज्ञसृष्टि उपदिशति गीतायाम् - सह यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् । (भ.गी. ३-१० )________________

24 पुरुषसूक्तम् वसन्त आज्यत्वेन ध्यात आसीत् । एवं ग्रीष्मकाल इध्मत्वेन ध्यातः । तथा शरत्कालः पुरोडाशाख्यहविष्ट्वेन ध्यात इत्यर्थः ॥ सा.भा. - यत् यदा पूर्वोक्तक्रमेणैव शरीरेषूत्पन्नेषु सत्सु देवाः उत्तरसृष्टिसिद्ध्यर्थं बाह्यद्रव्यस्यानुत्पन्नत्वेन हविरन्तरासंभवात् पुरुषस्वरूपमेव मनसा हविट्वेन संकल्प्य : पुरुषेण पुरुषाख्येन हविषा मानसं यज्ञम् अतन्वत अन्वतिष्ठन् तदानीम् अस्य यज्ञस्य वसन्तः वसन्तर्तुरेव आज्यम् आसीत् अभूत् । तमेवाज्यत्वेन संकल्पितवन्त इत्यर्थः । एवं ग्रीष्म इध्मः आसीत् । तमेवेध्मत्वेन संकल्पितवन्त इत्यर्थः । तथा शरद्धविः आसीत् । तामेव पुरोडाशादिहविष्वेन संकल्पितवन्तः इत्यर्थः । पूर्वं पुरुषस्य हविःसामान्यरूपत्वेन संकल्पः । अनन्तरं वसन्तादीनामाज्यादिविशेषरूपत्वेन संकल्प इति द्रष्टव्यम् ॥ ६ ॥ तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न् पुरु॑षं जा॒तम॑ग्र॒तः । तेन॑ दे॒वा अ॑यज॑त सा॒ध्या ऋष॑यश्च॒ ये ॥ ७ ॥

,

8 प्र. - अग्रतः - भूम्यादिभूतसृष्टेः पूर्वं जातं उत्पन्नं तं पुरुषं ब्रह्माणं पुरुषं, यज्ञं - यजनीयहविरूपं, बर्हिषि - वेद्यां निधाय, प्रौक्षन् - प्रोक्षणमकुर्वन्, तेन ब्रह्मणा हविषा, ये देवाः साध्याः ये साध्याख्याः ते देवाः, ऋषयश्च मन्त्रद्रष्टारश्च, अयजन्त - मानसंयागं अकुर्वन्त ॥

ता. - प्रथमतः जातं पुरुषं विराडाख्यं यज्ञं हविः बर्हिषि प्रकृतिरूपवेद्यां निधाय प्रोक्षणादिसंस्कारम् अकुर्वन् तेन ब्रह्मणा हविषा देवाः इन्द्रियाणि अयजन्त - यागम् अकुर्वन् - अनिरुद्धाग्नौ ब्रह्मा रूपं हविः प्रक्षिप्तवन्तः इत्यर्थः । साध्याः - कर्मसाधनानि वागादि इन्द्रियाणि । ऋषयः - ज्ञानसाधनानि चक्षुरादि इन्द्रियाणि । ये साध्या ऋषयश्च ते देवाः तेन अयजन्त इत्यन्वयः ॥

। । सा.भा. यज्ञं यज्ञसाधनभूतं तं पुरुषं पशुत्वभावनया यूपे बद्धं बर्हिषि मानसे यज्ञे प्रौक्षन् प्रोक्षितवन्तः । कीदृशमित्यत्राह । अग्रतः सर्वं सृष्टेः पूर्वं पुरुषं जातं पुरुषत्वेनोत्पन्नम् । एतच्च प्रागेवोक्तं ’ तस्माद्विराळजायत विराजो अधि पूरुषः’ इति । तेन पुरुषरूपेण पशुना देवा अयजन्त । मानसयागं निष्पादितवन्त इत्यर्थः । के ते देवा इत्यत्राह । साध्याः सृष्टिसाधनयोग्याः प्रजापतिप्रभृतयः तदनुकूलाः ऋषयः मन्त्रद्रष्टारः च ये सन्ति । ते सर्वेऽप्ययजन्तेत्यर्थः ॥ ७ ॥________________

भाष्यसहितम् 25 तस्मा॑ द्य॒ज्ञात्स॑र्व॒हुतस्संभृ॑तं ‘पृषदा॒ज्यम् । प॒शून्तो॑श्च॒क्रे वाय॒व्या॑नर॒ण्यान् ग्रा॒म्याश्च॒ ये ॥ ८ ॥ प्र. - सर्वहुत: - ब्रह्मणः तस्मात् यज्ञात् - पुरुषात् यागात् पृषदाज्यं दधिमिश्रं आज्यं (जगत्कारणं वीर्यं), संभृतम् - संपादितं भवति, वायव्यान् - सः ब्रह्मा अन्तरिक्षचरान् पक्षीन्, आरण्यान् - सिंहादीन्, ये च ग्राम्याः, ग्रामेषु ये गवादयः सन्ति, तान् पशून्, - तादृशान् पशूनपि, चक्रे - ससर्ज ॥ ता.

सर्वं जुहोतीति - सर्वहुत् तस्मात् सर्वं भगवते समर्पितवतः ब्रह्मणः इत्यर्थः । तस्मात् एतादृशात् चतुर्मुखात् यज्ञात् यजनीयात् पृषदाज्यं दधिसंयुक्तमाज्यं दधिमिश्र आज्यस्थानीयं विचित्ररूपं सृज्यवस्तु जननहेतुभूतं वस्तु संभृतम् - उत्पन्नं भवति । ‘सृज्यप्राणिजनन हेतुभूतं विचित्रवर्णवीर्यं पृषदाज्यं भवति’ इति योगरत्ने उक्तम् । अथ ब्रह्मा वायुमार्गसंचरणशीलान् पक्षिरूपान् पशून् ससर्ज । अरण्येभवान् मृगादीन् ग्रामे भवाः ताञ्च चक्रेत्यर्थः ॥ सा.भा. - सर्वहुतः । सर्वात्मकः पुरुषः यस्मिन् यज्ञे हूयते सोऽयं सर्वहुत् । तादृशात् तस्मात् पूर्वोक्तात् मानसात् यज्ञात् पृषदाज्यं दधिमिश्रमाज्यं संभृतं संपादितम् । दधि चाज्यं चेत्येवमादिभोग्यजातं सर्वं संपादितमित्यर्थः । तथा वायव्यान् वायुदेवताकाँल्लोक- प्रसिद्धान् आरण्यान् पशून् चक्रे उत्पादितवान् । आरण्या हरिणादयः । तथा ये च ग्राम्याः गवाश्वादयः तानपि चक्रे । पशूनामन्तरिक्षद्वारा वायुदेवत्यत्वं यजुर्ब्राह्मणे समाम्नायते - ‘वायवः स्थेत्याह वायुर्वा अन्तरिक्षस्याध्यक्षाः । अन्तरिक्षदेवत्याः खलु वै पशवः । वायव एवैनान्परिददाति’ ( तै. ब्रा. ३-२-१-३) इति ॥ ८ ॥ तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऋच॒ सामा॑नि जज्ञिरे । छन्दो॑सि जज्ञिरे॒ तस्मा॒द्ययजुस्तस्मा॑दजायत ॥ ९ ॥ १. पृषदाज्यशब्दार्थं विवृणोति श्रुत्यन्तरे - ओषध्यः पशवो वृक्षाः वीरुदाज्यं पयोदधि । हविर्भूमिर्दिशश्श्रद्धा चैतानि द्वादश ॥ (म.भा.शां.प.२६०-१६) अन्नं हि पृषदाज्यम् प्राणो हि पृषदाज्यम् (श.ब्रा. ३-८-४-८) २. ग्राम्याऽरण्यादि पशुभेदान् वर्ण्यते - गौरजः पुरुषो मेषश्चाश्वातरगर्दभाः । एतान् ग्राम्यान् पशूनाहुः आरण्यांश्च निबोध मे ॥ (वि.पु. १-५-५१) श्वापदा द्विखुरा हस्ति वानराः पक्षिपञ्चमाः । औदकाः पशवः षष्ठाः सप्तमास्तु सरीसृपाः ॥ (वि. पु. १-५-५२) ३. ऋगादि वेदानां सृष्टिं अनुवर्ण्यते श्रुतिस्मृतिषु - ‘ऋचः सामानि छन्दांसि पुराणं यजुषा सह । उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिवि श्रिताः । ’ ( अथर्व ११-७-२४) वेदानां गायत्र्यादिछन्दोन्वितत्वात् पुनश्छन्दांसीति पदं चतुर्थस्याथर्ववेदस्योत्पत्तिं ज्ञापयतीत्यवधेयम् । (ऋ.भा.भू.) सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् । वेदशब्देभ्य एवादी पृथक् संस्थाश्च निर्ममे ॥ (म.स्मृ.१-२१) अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् । दुदोह यज्ञसिद्ध्यर्थमृग्यजुः सामलक्षणम् ॥ (म.स्मृ.१-२३)________________

26

पुरुषसूक्तम् प्र. - सर्वहुत: - ब्रह्मणः, तस्मात् यज्ञात् पूर्वोक्तयागान्, ऋचः सामानि ऋक् शाखाः सामशाखाश्च, जज्ञिरे उत्पन्नाः, तस्मात् छन्दांसि जज्ञिरे तादृशात् यागात् गायत्र्यादीनि छन्दांसि उत्पन्नानि तस्मात् - यजुः एवं अतः यजुश्शाखाः, अजायत - समुत्पन्नाः ॥

ता. चतुर्मुखस्य मानसीययागात् ऋचः ऋग्वेदस्य, एकविंशति - शाखा: सामानि - सामवेदस्य सहस्रशाखाश्च जज्ञिरे - उत्पन्नाः । तत्सर्गीयप्रथमोच्चारण- विषयत्वरूपां उत्पत्तिं प्रापुः । तस्मात् चतुर्मुखात् छन्दांसि गायत्र्यादीनि जज्ञिरे उत्पन्नानि । यजुः एकोत्तरशतयजुश्शाखाः उत्पन्नाः ॥ सा.भा. - सर्वहुतः तस्मात् पूर्वोक्तात् यज्ञात् ऋचः सामानि च जज्ञिरे उत्पन्नाः । तस्मात् यज्ञात् छन्दांसि गायत्र्यादीनि जज्ञिरे । तस्मात् यज्ञात् यजुः अपि अजायत ॥ ९ ॥ प्र. उभयादतः 1 ‘तस्मा॒दश्वा॑ अजायन्त॒ ये के चो॑भ॒याद॑तः ॥ गाव’ ह जज्ञिरे॒ तस्मा॒त् तस्मा॑ना॒ता अ॑जा॒वयः॑ ॥ १० ॥

अश्वाः

तुरगाः, अजायन्त समुत्पन्नाः, रासभादयः ये ये सन्ति ते तस्मात् - एतादृश ब्रह्मणः, उभयतोदन्ताः, ये के च (तेप्यजायन्त)

सर्वेऽपि अजायन्त इत्यर्थः तस्मात् - चतुर्मुखात्, गावो ह धेनवः वृषभाश्च, जज्ञिरे - उत्पन्नाः, तस्मात् - अस्मात्, अजावयः अज-मेषादयः, जाताः उत्पन्नाः

ता. - वेदसृष्टिकथनात् परं तत्प्रतिपाद्ययज्ञस्य उपयोगिपदार्थसृष्टिमाह - ब्रह्मणः अश्वाः, उभयतो दन्ताः - मुखस्य ऊर्ध्वाधोभागयोरपि दन्तवन्तः ये के च वानररासभादयः सन्ति तेऽपि सर्वे जाताः एवं गावः छागाः मेषाश्च समुत्पन्नाः ॥ सा.भा. तस्मात् पूर्वोक्ताद्यज्ञात् अश्वा अजायन्त उत्पन्नाः । तथा ये के च अश्वव्यतिरिक्ता गर्दभा अश्वतराश्च उभयादतः ऊर्ध्वाधोभागयोः उभयोः दन्तयुक्ताः सन्ति तेऽप्यजायन्त । तथा तस्मात् यज्ञात् गावः च जज्ञिरे । किंच तस्मात् यज्ञात् अजावयः च जाताः ॥ १० ॥ १. भगवच्छरीरादेव अश्वादय उत्पन्नाः इति पुराणेऽपि स्मर्यते - ‘अवयो वक्षसश्चक्रे मुखतोऽजान् स सृष्टवान् । सृष्टवानुदराद् गाश्च पार्श्वाभ्यां च प्रजापतिः’ ॥ (वि.पु.१-५-४८) पद्भ्यां श्चाश्वान् स मातङ्गान् रासभान् गवयान् मृगान् । उष्ट्रानश्वतरांश्चैव न्यङ्कुनन्यांश्च जातयः ॥ (वि.पु.१-५-४८, ४९)________________

भाष्यसहितम् 27 यत्पुरु॑षं॒ व्य॑दधुः क॒ति॒धा व्य॑कल्पयन् । मु॒द्रं॒ किम॑स्य॒ कौ बा॒हू कावूरू पावुच्येते ॥ ११ ॥ , प्र. - यत् - यदा, पुरुषं - चतुर्मुखाख्यं व्यदधुः - पशुत्वेन अकल्पयन्, तदा, कतिधा - कतिप्रकारत्वेन, व्यकल्पयन् - विविधं अकल्पयन् अस्य - ब्रह्मणः, मुखं, किम् - किंवर्णोत्पादकमासीत्, कौ - कीदृशवर्णोत्पादकौ बाहू आस्ताम्, कौ कीदृशवर्णोत्पादकौ, ऊरू ऊरू आस्ताम्, पादौ चरणौ च, उच्येते उक्तमिति प्रश्नरूपम् ॥

, ता. - यज्ञानुष्ठानसाधनीभूतपदार्थसृष्टिमुक्त्वा यज्ञानुष्ठायिनां ब्राह्मणादीनां सृष्टिं वक्ष्यन् ब्रह्मणः एकैक अवयवाद् एकैकवर्णोत्पत्तिः इत्यमुं अंशं प्रश्नोत्तररूपेण स्फुटीकुर्वन् अर्थात् तत्तद्वर्णानां गुणभेदादिकमपि सूचयति - यदा पुरुषं व्यदधुः पशुत्वेन अकल्पयन् तदा कतिधाव्यकल्पयन् सृज्यमनुष्यादि उपादानभूतं चतुर्मुखशरीरं कतिविभागविशिष्टं अकल्पयन् । एकस्यैव चतुर्मुखशरीरभागस्य वर्णचतुष्टयोपादानत्वे गुणभेदानुपपत्त्या चतुर्मुखः स्वशरीरं कतिधा विभक्तवान् इति पर्यवसितार्थः । प्रत्येकं अवयवस्य एकैकवर्णोत्पत्तिस्थानत्वे कस्मात् स्थानात् कस्य वर्णस्य उत्पत्तिः इत्याह मुखमिति अस्य चतुर्मुखस्य मुखं किंरूपमासीत् । बाहू - पाणी को अर्थः पूर्ववत् । पादौ - चरणौ कौ इति अनुषज्यते । अत्र च उत्तरानुसारेण मनः किं चक्षुः किमित्यादयः प्रश्नाः अभिप्रेता इत्यनुसन्धेयम् ॥

सा. भा. - प्रश्नोत्तररूपेण ब्राह्मणादिसृष्टिं वक्तुं ब्रह्मवादिनां प्रश्ना उच्यन्ते । प्रजापतेः प्राणरूपा देवाः यत् यदा पुरुषं विराडूपं व्यदधुः संकल्पेनोत्पादितवन्तः तदानीं कतिधा कतिभिः प्रकारैः व्यकल्पयन् विविधं कल्पितवन्तः । अस्य पुरुषस्य मुखं किम् आसीत् । कौ बाहू अभूताम् का ऊरू । कौ च पादावुच्येते । प्रथमं सामान्यरूपः प्रश्नः पश्चात् मुखं किमित्यादिना विशेषविषयाः प्रश्नाः ॥ ११ ॥ 1 ‘ब्र॒ह्मणी॑ऽस्य॒ मुख॑मासीद्वा॒हू रा॑ज॒न्य॑ कृ॒तः । ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्यां शूद्रो अ॑जायत ॥ १२ ॥ इतिहासपुराणेषु वर्णलक्षणं उपवर्ण्यते - ‘ब्रह्म वक्त्रं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः । पादौ यस्याश्रिता शूद्राः तस्मै वर्णात्मने नमः ॥ ( म.भा. शां. प. - ४७-४३) सद्गुणो ब्राह्मणो वर्णः क्षत्रियस्तु रजो गुणः । तमो गुणस्तथा वैश्यो गुणसाम्यात्तु शूद्रता ॥ (भ.पु. २३-६८) चातुर्वर्ण्यप्रमाणं च सत्यं च ब्रह्म चैव ह । शूद्रेष्वपि च सत्यं च दानमक्रोध एव च ॥ शूद्रे चैतद् भवेल्लक्ष्यं द्विजे तच्च न विद्यते । न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः ॥ (सर्प - युधिष्ठिर संवाद) - म.भा.व.प. १७७-१८,२० । १७७-१५,३३)________________

28 , पुरुषसूक्तम् प्र. - अस्य - चतुर्मुखस्य, ब्राह्मणः - ब्राह्मणवर्णः, मुखम् - मुखतः आसीत् अभूत्, राजन्यः - क्षत्रियवर्णः, बाहू - बाहुत्वेन, कृतः - निष्पादितः, तत् - अस्य तदानीं ब्रह्मणः, यत् - ऊरू यौ ऊरू तद्रूपः, वैश्यः - वैश्यवर्णः उदितः पद्यां चरणाभ्यां शूद्रः - शूद्रवर्णः, अजायत उत्पन्नः । । 1

, m ता. - अथ पूर्वोक्तप्रश्नानां उत्तराणि आह ब्राह्मणोऽस्य इत्यादिना - ब्राह्मण: प्रजापतेः आननमासीत् । मुखात् उत्पन्नः ब्राह्मण इत्यर्थः । क्षत्रियः बाह्वोः समुत्पन्नः । अस्य ऊरुभ्यां वैश्यः उदितः पादाभ्यां शूद्रः अजायत । एवंरीत्या मनुष्याणां उत्पत्तिरपि वर्ण्यते ॥ सा. भा. - इदानीं पूर्वोक्तानां प्रश्नानामुत्तराणि दर्शयति । अस्य प्रजापतेः ब्राह्मणः ब्राह्मणत्वजातिविशिष्टः पुरुषः मुखमासीत् मुखादुत्पन्न इत्यर्थः । योऽयं राजन्यः क्षत्रियत्वजातिमान् पुरुषः सः बाहू कृतः बाहुत्वेन निष्पादितः । बाहुभ्यामुत्पादित इत्यर्थः । तत् तदानीम् अस्य प्रजापतेः यत् यौ ऊरू तद्रूपः वैश्यः संपन्नः । ऊरुभ्यामुत्पन्न इत्यर्थः । तथास्य पद्भ्यां पादाभ्यां शूद्रः शूद्रत्वजातिमान् पुरुषः अजायत । इयं च मुखादिभ्यो ब्राह्मणादीनामुत्पत्तिर्यजुः संहितायां सप्तमकाण्डे ‘स मुखतस्त्रिवृतं निरमिमीत’ ( तै.सं. ७-१-१-४) इत्यादौ विस्पष्टमाम्नाता । अतः प्रश्नोत्तरे उभे अपि तत्परतयैव योजनीये ॥ १२ ॥ ‘च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः सूर्यो अजायत । मुखदिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ॥ १३ ॥

जातः

वाचः, प्र. - मनसः - चतुर्मुखस्य मनसः, चन्द्रमाः - शीतांशुः चन्द्रः, उत्पन्नः, चक्षोः - चक्षुषः, सूर्यः - सूर्यदेवः, अजायत समुदितः, मुखात् - इन्द्रश्च-अग्निश्च - इन्द्रदेवः अग्निदेवश्च उत्पन्नौ प्राणात् - अस्य प्राणद्वारात्, वायुः वायुभगवान्, अजायत - जातः ॥ , ता. - एवं यज्ञकर्तॄणां उत्पत्तिं उक्त्वा यष्टव्यदेवतोत्पत्तिमाह चन्द्रमा मनस इति चतुर्मुखरूपधरस्य भगवतः मनसः चन्द्रमाः जातः । तदुत्पन्नस्य चन्द्रमसः १. अग्न्यादिदेवानां सृष्टिः श्रुत्यन्तरे, भारते च उपबृंहितम् - यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः । सूर्यश्चक्षुर्दिशः श्रोत्रे तस्मै लोकात्मने नमः ॥ ( म.भा.शां.प.४७-६८) २. यस्य सूर्यश्चक्षुः चन्द्रमाश्च पुनर्णवः । अग्निं यश्चक्रे आस्यम्, तस्मै ज्येष्ठाय ब्रह्मणे नमः । यस्य वातः प्राणापानी, चक्षुर्, अङ्गिरसोऽभवन् । दिशो यश्चक्रे प्रज्ञानीः; तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥ (अथर्व १०-७-३२-३४)________________

भाष्यसहितम् 29 अतिशीतलत्वं सुखावहत्वं च उपपन्नम् । तस्य चक्षुषः सूर्यः सर्वार्थप्रकाशकरः अजायत । भगवत्कटाक्षस्य सत्वविवर्धनद्वारा सर्वार्थप्रकाशकत्वात् तदुत्पन्नस्य सूर्यस्य सर्वार्थप्रकाशकत्वं उपपन्नं भवति । भगवन्मुखात् इन्द्रः अग्निश्च उत्पन्नौ । इन्द्रः परमैश्वर्यवान्, देवता सार्वभौमः । अग्निः देवानां मुखस्थानीयः अनलश्च । भगवतः प्राणात् वायुः अजायत । प्राणात् सर्वप्राणहेतोः चतुर्मुखरूपधरस्य भगवतः प्राणात् वायु उत्पन्नः अतः वायुः सर्वप्राणहेतुभूतः ॥

सा. भा. यथा दध्याज्यादिद्रव्याणि गवादयः पशव ऋगादिवेदा ब्राह्मणादयो मनुष्याश्च तस्मादुत्पन्ना एवं चन्द्रादयो देवा अपि तस्मादेवोत्पन्ना इत्याह । प्रजापतेः मनसः सकाशात् चन्द्रमाः जातः । चक्षोः च चक्षुषः सूर्यः अपि अजायत । अस्य मुखादिन्द्रश्चाग्निश्च देवावुत्पन्नौ । अस्य प्राणाद्वायुरजायत ॥ १३ ॥ ‘नाभ्या॑ आसीद॒न्तरि॑क्षं शी॒ष्णो॒ द्यौः सम॑वर्तत । प॒द्भ्यां भूमि॒र्दिश श्रोत्रा॒त्तथा॑ लो॒काँ अ॑कल्पयन् ॥ १४ ॥

, प्र. नाभ्याः - नाभिप्रदेशात्, अन्तरिक्षं - अन्तरिक्षलोक:, आसीत् - अभूत्, शीर्ष्णः - शिरसः, द्यौः - द्युलोकः सं अवर्तत सम्यक् जातः पद्भ्याम् - पादाभ्यां, भूमिः - भूलोकः, श्रोत्रात् - कर्णात् दिशः - प्राच्यादिदिशश्च जाताः, तथा - यथा पूर्वकल्पे आसन् तथा, लोकान् - चतुर्दशलोकान्, अकल्पयन् - चकार ॥ ता. एतावता उपास्य देवतामुक्त्वा अथ उपासीनानां भोगस्थानभूतस्य अन्तरिक्षादिलोकस्य सृष्टिमाह - नाभ्या आसीदित्यादिना - देहमध्यप्रदेशात् नाभिस्थानात् अन्तरिक्षं - सूर्यमण्डलभूमण्डलयोः मध्यदेशभूतः अन्तरिक्षलोकः आसीत् शीर्ष्णः सर्वावयवेषु ऊर्ध्वस्थानभूतात् शिरसः सर्वेषां लोकानां ऊर्ध्वस्थाने द्यौः देवलोकं अजायत । ब्रह्मण: चरणाभ्यां भूमिः जातः । शीष्ण द्यौ इति उपरितनानां सप्तलोकानां १. भूम्यादि सृष्टिं उपवर्णितं श्रुत्यन्तरे - यस्य भूमिः प्रमा अन्तरिक्षमुतोदरम् । दिवं यश्चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नमः । (अथर्व. १०-७-३२) पृथिव्याः गुणान् भारते एवं वर्णितं - ‘भूमेः स्थैर्यं गुरुत्वं च काठिन्यं प्रसवार्थता । गन्धो गुरुत्वं शक्तिश्च संघात स्थापना धृतिः’ ॥ ( म.भा. शां. प. २५४-३) पिण्डब्रह्माण्डोपनिषदि विराट्पुरुषात् चतुर्दश लोकानां सृष्टिः उपबृंहितम् - पादाधस्तात् तलं ज्ञेयं, पादोर्ध्वं वितलं, तथा । जानुनोः सुतलं विद्धि, सक्थिदेशे महातलम् ॥ सक्थिमूले तलातलं, गुह्ये देशे रसातलम् । पातालं कटिसंस्थं च सप्तलोकाः प्रकीर्तिताः । । भूर् लोकं नाभिमध्ये तु, भुवर्लोकं तदूर्ध्वके । स्वर् लोकं हृदयं विद्यात्, कण्ठदेशे महस्तथा ॥ जनलोकं वक्त्रदेशे, तपोलोकं ललाटके । सत्यलोकं ब्रह्मरन्ध्रे, भुवनानि चतुर्दश ॥ इति ॥________________

30 पुरुषसूक्तम् उपलक्षणम् । एवं पद्भ्यां भूमिः इति अधोभागस्थितानां सप्तलोकानां उपलक्षणम् । श्रोत्रेन्द्रियात् दिशः उत्पन्नाः । इदं सप्तद्वीपानां उपलक्षणम् । यथा पूर्वस्मिन् कल्पे लोका आसन् तथैव अस्मिन् कल्पेऽपि अन्तरिक्षादिलोकान् अकल्पयत् ॥ सा.भा. - यथा चन्द्रादीन् प्रजापतेर्मनःप्रभृतिभ्योऽकल्पयन् तथा अन्तरिक्षादीन् लोकान् प्रजापतेः नाभ्यादिभ्यो देवाः अकल्पयन् उत्पादितवन्तः । एतदेव दर्शयति । नाभ्याः प्रजापतेर्नाभेः अन्तरिक्षमासीत् । शीर्ष्णः शिरसः द्यौः समवर्तत उत्पन्ना । अस्य पद्भ्यां पादाभ्यां भूमिः उत्पन्ना । अस्य श्रोत्रात् दिशः उत्पन्नाः ॥ १४ ॥ ‘स॒प्तास्या॑सन् परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः । दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अव॑ध्न॒न् पुरु॑षं प॒शुम् ॥ १५ ॥ , प्र. - अस्य - सृष्टियज्ञस्य परिधयः - परितोधीयन्ते इति परिधयः (अग्नेः समीपे परितः धीयमानदीर्घसमिध:) प् सप्तसंख्याकाः परिधयः, आसन् - अभवन्, त्रि: - सप्त - त्रिगुणित सप्त संख्याकानि, समिधः - अग्नेः दीप्तिसाधनीय - सचर्मकाष्ठानि, कृताः - कृतवन्तः, देवाः साध्याख्याः, यत् - यदा, यज्ञं सृष्टियज्ञं तन्वानाः - कुर्वन्तः, पुरुषं चतुर्मुखाख्यं, पशुम् - पशुस्थानीयं, अबधन् B

, अमन्यन्त ॥ ता. - अस्य मानसयज्ञस्य परिधयः - आहवनीयादीनां अग्नीनां त्रिषु पार्श्वेषु प्रथममेखलाया उपरि निधीयमानानि मेखलापरिमित आयामानि काष्ठानि परिधय इत्युच्यन्ते । तादृशपरिधयः सप्त संख्याका आसन् । ( अत्र उत्तरवेदि परिधयः त्रयः, आहवनीय परिधयः त्रयः । आदित्यस्सप्तमः इति) जगत्सृष्टेः पूर्वं वर्तमानानां सप्तसंख्याकानां पदार्थानामेव तेन रूपेण ध्येयत्वस्य आवश्यकत्वेन पृथिव्यप्तेजोवाय्वाकाश अहंकारबुद्धय एव परिशेषात् परिधित्वेन ध्याता आसन् इत्यवधेयम् । अस्य यज्ञस्य त्रिस्सप्त एकविंशतिसंख्याका इत्यर्थः । समिधः - अग्नेः दीप्तिसाधनीभूतानि काष्ठानि कृताः । पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि चेति दश, एकादशं मनः, पञ्चतन्मात्राः, पञ्चमहाभूतानि चेति दश, एतत् सर्वं मिलित्वा एकविंशतिसंख्याका इन्द्रियादय एव ज्ञानभोगाद्युद्दीपनहेतुभूताः १. अत्रोक्त परिधीनां सप्तसङ्ख्यानां वैशिष्ट्यं ऋग्भाष्यभूमिकायां एवं वर्णितं सायणेन - अस्य ब्रह्माण्डस्य ब्रह्माण्डान्तर्गतलोकानां वा सप्त सप्त परिधयो भवन्ति । समुद्र एकस्तदुपरि त्रसरेणुसहितो वायुः द्वितीयः । मेघमण्डलं तत्रस्थो वायुस्तृतीयः । वृष्टिजलं चतुर्थम्, तदुपरि वायुः पञ्चमः, अत्यन्तसूक्ष्मो धनञ्जयष्षष्ठः । सूत्रात्मा सर्वत्र व्याप्तः सप्तमश्च (ऋ.भा.भू.)


भाष्यसहितम् 31 परमात्माग्निसमुद्दीपनहेतुत्वेन ध्याता इति । देवाः - इन्द्रियाणि साध्याख्या वा यदा यज्ञं मानसं तन्वानाः - कुर्वन्तस्सन्तः चतुर्मुखं पुरुषं पशुं पशुस्थानीयं अबध्नन् - हृदयाख्ये यूपे अध्यवसायरूपया रशनया अनन्यगतिं चक्रुः ॥ सा.भा. - अस्य सांकल्पितयज्ञस्य गायत्र्यादीनि सप्त छन्दांसि परिधयः आसन् । ऐष्टिकस्याहवनीयस्य त्रयः परिधय उत्तरवेदिकास्त्रय आदित्यश्च सप्तमः परिधिप्रतिनिधिरूपः । अतः एवाम्नायते- ‘न पुरस्तात्परिदधात्यादित्यो ह्येवोद्यन् पुरस्ताद्रक्षांस्यपहन्ति’ (तै. सं. २-६-६-३) इति । तत एत आदित्यसहिताः सप्त परिधययोऽत्र सप्त छन्दोरूपाः । तथा समिधः त्रिः सप्त त्रिगुणीकृतसप्तसंख्याकाः एकविंशतिः कृताः । ‘द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंश: ’ ( तै.सं.५-१-१०- ३) इति श्रुताः पदार्था एकविंशतिदारुयुक्त इध्मत्वेन भाविताः । यत् यः पुरुषो वैराजोऽस्ति तं पुरुषं देवाः प्रजापतिप्राणेन्द्रियरूपाः यज्ञं तन्वानाः मानसं यज्ञं तन्वानाः कुर्वाणाः पशुम् अबधन् विराट्पुरुषमेव पशुत्वेन भावितवन्तः । एतदेवाभिप्रेत्य पूर्वत्र ‘यत्पुरुषेण हविषा’ इत्युक्तम् ॥ १५ ॥

‘य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाव॑ महि॒मान॑स्स॒चन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥ १६ ॥ ॥ इति ऋग्वेदीयं पुरुषसूक्तं समाप्तम् ॥ ,

प्र. देवाः - इन्द्रियात्मकाः, यज्ञेन - सृष्टियज्ञेन यज्ञं - यजनीयं परमपुरुषं, अयजन्त - अनुष्ठितवन्तः, तानि धर्माणि - सो धर्मः, प्रथमानि प्रथमतः आसन् - आसीत्, यत्र - यस्मिन् परमपदे, पूर्वे - पूर्वस्मिन् कल्पे, साध्याः - देवाः - साध्याख्याः देवाः सन्ति - वर्तन्ते (तत्रैव), ते ह - साध्याः देवाः, महिमानः - भगवन्महिमोपेताः, नाकम् - श्रीवैकुण्ठाख्यं परमपदं, सचन्ते - प्राप्नुवन् ॥ यज्ञं 7 ता.

देवाः - मुमुक्षवः यज्ञेन यजनीय देवतोद्देश्यकद्रव्यत्यागरूपेण कर्मणा यजनीयदेवतारूपं परमपुरुषं अयजन्त 1 भगवन्तमुद्दिश्य आत्मसमर्पणरूपं यागम् अकुर्वन् इत्यर्थः । तानि धर्माणि अत्र लिङ्गवचनयोः व्यत्ययः छान्दसः । स धर्म १. अस्याः मन्त्रार्थः उपबृंहितं च अन्यत्र - यागसाधनभूतेन स्वात्मना मेध्यमीश्वरम् । अयजंस्तानि धर्माणि प्रथमानीति नः श्रुतम् ॥ २. नाकं नित्यनिरतिशयानन्दैकतानं मोक्षपरमपदाक्षरपरंधामादिशब्दितं नाकाख्यं वैकुण्ठलोकम् ।________________

32 पुरुषसूक्तम् एव प्रथमानि आसन् - प्रथमतः आसीत्, कल्पान्तरेऽपि अयमेव धर्मः सर्वप्रधान आसीत् इति भावः । यत्र पूर्वे वैकुण्ठलोके पुरातनाः साध्याख्या देवाः सर्वदा भगवत्स्तुतिपरायणाः सन्ति समिन्धते ते देवाः महिमानः भगवद्विभूति अन्तर्गततया भगवद्विभूतिभूता इत्यर्थः । नाकं श्रीमोक्षपरमपदाक्षर परंधामादिशब्दितं श्रीवैकुण्ठलोकं सचन्ते समवेता भवन्ति इत्यर्थः । ।

सा. भा. पूर्वं प्रपञ्चेनोक्तमर्थं संक्षिप्यात्र दर्शयति । देवाः प्रजापतिप्राणरूपाः यज्ञेन यथोक्तेन मानसेन संकल्पेन यज्ञं यथोक्तयज्ञस्वरूपं प्रजापतिम् अयजन्त पूजितवन्तः । तस्मात्पूजनात् तानि प्रसिद्धानि धर्माणि जगद्रूपविकाराणां धारकाणि प्रथमानि मुख्यानि आसन् । एतावता सृष्टिप्रतिपादकसूक्तभागार्थः संगृहीतः । अथोपासनतत्कलानु- वादकभागार्थः संगृह्यते । यत्र यस्मिन् विराट्प्राप्तिरूपे नाके पूर्वे साध्याः पुरातना विराडुपास्तिसाधकाः देवाः सन्ति तिष्ठन्ति तत् नाकं विराट्प्राप्तिरूपं स्वर्गं ते महिमानः तदुपासका महात्मानः सचन्त समवयन्ति प्राप्नुवन्ति इति ॥ १६ ।। ।। ॠग्वेदीयस्य पुरुषसूक्तस्य सायणभाष्यं समाप्तम् ।।________________