शौनकसंहिता
अथर्वणवेदीयं शौनकसंहितान्तर्गतं पुरुषसूक्तम् (काण्ड १९ - अनुवाक १ सूक्तं ६, ७) अस्य श्रीपुरुषसूक्तस्य नारायण ऋषिः । अनुष्टुप् छन्दः । नारायणो देवता ॥ स॒हस्र॑बाहुः पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् । स भूमि॑ वि॒श्वतो॑ वृ॒त्वात्य॑तिष्ठद् दशांगुलम् ॥ १ ॥ त्रि॒भिः प॒द्भिर्द्याम॑रोह॒त् पाद॑स्ये॒हाभ॑व॒त् पुन॑ः । तथा॒ व्य॒ क्राम॒द् विष्व॑ङशनानश॒ अनु॑ ॥ २ ॥ ताव॑न्तो अस्य महि॒मान॒स्ततो॒ ज्याया॑श्च॒ पूरु॑षः । पादा॑स्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृत॑ दि॒वि ॥ ३ ॥ पुरु॑ष ए॒वेदं सर्वं यद् भूतं यच॑ भा॒व्य म् । उ॒तामृ॑त॒त्वस्ये॑श्च॒रो यद॒न्येनाभ॑वत् स॒ह ॥ ४ ॥ यत् पुरु॑षं॒ व्यद॑धुः क॒ति॒धा व्य कल्पयन् । मु॒द्रं॒ किम॑स्य॒ कं बा॒हू किमु॒रू पादा॑ उच्येते ॥ ५ ॥ ब्रा॒ह्म॒णो ऽस्य॒ मुख॑मासीद् बा॒हू रा॑ज॒न्यो॑ भवत् । मध्य॒ तद॑स्य॒ यद् वैश्य॑ प॒द्भ्यां शूद्रो अ॑जायत ॥ ६ ॥ च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षो॒ सूर्यो’ अजायत । : । मुख॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद् वा॒युर॑जायत ॥ ७ ॥ नाभ्या॑ आसीद॒न्तरि॑क्षं श॒र्णो द्यौः सम॑वर्तत । प॒द्भ्या॑ भूम॒र्दिश॒ः श्रोत्रा॒त् तथा॑ लो॒काँ अ॑कल्पयन् ॥ ८ ॥ वि॒राडये॒ सम॑भवद् वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत प॒श्चाद् भूमि॒मथो॑ पु॒रः ॥ ९ ॥ यत् पुरुषेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत । व॒स॒न्तो अ॑स्यासी॒दाज्य॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ॥ १० ॥ तं य॒ज्ञं प्रा॒वृषा॒ प्रौक्ष॒न् पुरु॑षं जा॒तम॑ग्र॒शः । तेन॑ दे॒वा अ॑यजन्त सा॒ध्या वस॑वश्च॒ ये । ११ ॥________________
17 तस्मा॒दश्वा॑ अजायन्त॒ ये च के चो॑भ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा॒त् तस्मा॑ना॒ता अ॑जा॒वय॑ः ॥ १२ ॥ तस्मा॑द् य॒ज्ञात्स॑र्व॒हुत॒ ऋच॒ सामा॑नि जज्ञिरे । छन्दो॑ ह जज्ञिरे॒ तस्मा॒द् यजुस्तस्मा॑द॒जायत ॥ १३ ॥ तस्मा॑द् य॒ज्ञात्स॑र्व॒हुत॒ः संभृ॑तं पृषदा॒ज्य म् । प॒शू॒स्ता॑श्च॑क्रे वाय॒व्या नार॒ण्या ग्राम्याश्च॒ ये ॥ १४ ॥ स॒प्तास्या॑सन् परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः । दे॒वा यद् य॒ज्ञं त॑न्वा॒ना अव॑ध्न॒न् पुरु॑षं प॒शुम् ॥ १५ ॥ मू॒धो॑ दे॒वस्य॑ बृह॒तो अ॑शवः॑ स॒प्त स॑प्त॒तीः । राज्ञः सोम॑स्याजायन्त जा॒तस्य॒ पुरु॑षा॒दधि॑ ॥ १६ ॥ ॥ अथर्वणवेदीयं शौनकसंहितान्तर्गतं पुरुषसूक्तं समाप्तम् ॥
Co C________________
पैप्पलादसंहिता
अथर्ववेदीयं पुरुषसूक्तम् (पैप्पलादसंहिता) ९-५ सहस्रबाहुः पुरुषः सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वात्यतिष्ठद् दशाङ्गुलम् ॥ १ ॥ त्रिभिः पद्धिर्द्यामरोहत् पादस्येहाभवत् पुनः । तथा व्यक्रामद् विष्वङ् अशनानशने अनु ॥ २ ॥ तावन्तो अस्य महिमानस्ततो ज्यायांश्च पुरुषः । पादस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ ३ ॥ पुरुष एवेदं सर्वं यद् भूतं यच भाव्यम् । उतामृतत्वस्येश्वरो यदन्नेनाभवत् सह ॥ ४ । यत् पुरुषं व्यदधुः कतिधा व्यकल्पयन् । मुखं किमस्य किं बाहू किमूरू पादा उच्येते ॥ ५ ॥ ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्योभवत् । मध्यं तदस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत ॥ ६ ॥ विराडग्रे समभवद् विराजो अधि पूरुषः । स जातो अत्यरित्यत पश्चाद् भूमिमथो पुरः ॥ ७ ॥ यत् पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ ८ ॥ तं यज्ञं प्रावृषा प्रौक्षन् पुरुषं जातमग्रशः । तेन देवा अयजन्त साध्या वसवश्च ये ॥९॥ तस्मादश्वा अजायन्त ये च के चोभयादतः । गावो हजज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥ १० ॥ तस्माद् यज्ञात् सर्वहुत: ऋचः सामानि जज्ञिरे । छन्दो ह जज्ञिरे तस्माद् यजुस्तस्मादजायत ॥ ११ ॥ तस्माद् यज्ञात् सर्वहुत: सम्भृतं पृषदाज्यम् । पशून् ताँश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये ॥ १२ ॥ सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः । देवा यद् यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥ १३ ॥ मूर्धो देवस्य बृहतो अंशवः सप्त सप्ततीः । राज्ञः सोमस्याजायन्त जातस्य पुरुषादधि ॥ १४ ॥ चन्द्रमा मनसो जातश्चक्षुः सूर्योऽजायत । श्रोत्राद् वायुश्च प्राणश्च मुखादग्निरजायत ॥ १५ ॥ नाभ्यां आसीदन्तरिक्षं शीर्ष्णा द्यौः समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्राङ तथा लोकाँ अकल्पयन् ॥ १६ ॥________________