कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकान्तर्गतं पुरुषसूक्तम् (प्रश्नः ३ अनुवाक : १२ ) अस्य श्रीपुरुषसूक्तस्य नारायण ऋषिः । अनुष्टुप् छन्दः अन्त्यानां त्रयाणां त्रिष्टुप् । पुरुषो देवता ॥ स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षस्स॒हस्र॑पात् । स भूमि॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गुलम् ॥ १ ॥ पुरु॑ष ए॒वेदँ सर्वम् । यद्भूतं यच्च॒ भव्य॑म् । उ॒तामृ॑त॒त्वस्येशा॑नः । यदन्ने॑नाति॒रोह॑ति ॥ २ ॥ ए॒तावा॑नस्य॒ महि॒मा । अतो॒ ज्यायश्च॒ पूरु॑षः । पार्दोऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृते॑ दि॒वि ॥ ३ ॥ त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । पादो॑ ऽस्ये॒हाभ॑वा॒त्पुन॑ः । ततो॒ विष्व॒ व्य॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि ॥ ४॥ तस्मा॑द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत । प॒श्चाद्भूमि॒मथो पु॒रः ॥ ५ ॥ यत्पुरु॑षेण ह॒विषा॑ । दे॒वा य॒ज्ञमत॑न्वत । व॒स॒न्तो अ॑स्यासी॒दाज्यम् ’ । ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ॥ ६ ॥ स॒प्तास्या॑सन् परि॒धयः॑ । त्रस्स॒प्त स॒मिधः कृ॒ताः । दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः । अब॑ध्न॒न् पुरु॑षं प॒शुम् ॥ ७ ॥ तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑ । पुरु॑षं जा॒तम॑य॒तः । तेन॑ दे॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये ॥ ८ ॥ तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॑ः । संभृ॑तं पृषदा॒ज्यम् । प॒शू॒स्ताँश्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान् ग्राम्याश्च तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॑ः । ऋच॒ सामा॑नि जज्ञिरे । ये ॥ ९॥ छन्दो॑सि जज्ञिरे॒ तस्मा॑त् । यजुस्तस्मा॑द॒जायत ॥ १० ॥ I तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः ॥ I गावो॑ ह जज्ञिरे॒ तस्मा॑त् । तस्मा॑जा॒ता अ॑जा॒वयः॑ ॥ ११ ॥________________
8 यत्पुरु॑षं॒ व्य॑दधुः । क॒ति॒धा व्य॑कल्पयन् । 1 पुरुषसूक्तम् मुख॒ किम॑स्य॒ कौ बा॒हू । कावु॒रू पादा॑वुच्येते ॥ १२ ॥ ब्र॒ह्म॒र्णोऽस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्य॑ कृ॒तः । ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्यो॑शूद्रो अ॑जायत ॥ १३ ॥ च॒न्द्रमा॒ मन॑सो जा॒तः । चस्सूर्यो॑ अजायत । । । मुख॒दिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत ॥ १४ ॥ नाभ्यां॑ आसीद॒न्तरि॑क्षम् । शी॒ष्णोः॒ द्यौस्स॒म॑वर्तत । प॒द्भ्या॑ भूमि॒र्दश॒श्श्रोत्रा॑त् । तथा॑ लो॒काँ अ॑कल्पयन् ॥ १५ ॥ वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्’ । आ॒दि॒त्यव॑र्ण॒ तम॑स॒स्तु पा॒रे । सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीर॑ः । नामा॑नि कृ॒त्वाऽभि॒वद॒न् यदाऽऽस्तै’ ॥ १६ ॥ धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः । तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अव॑नाय विद्यते ॥ १७ ॥ य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । तानि॒ धर्म॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाकं॑ महि॒मान॑स्सचन्ते । यत्र॒ पूर्वे॑ सा॒ध्यास्सन्ति॑ दे॒वाः ॥ १८ ॥ । ॥ कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकान्तर्गतं पुरुषसूक्तं समाप्तम् ॥ ॥________________