ऋग्वेदीयं पुरुषसूक्तम् (मण्डलम् १० - सूक्तम् ९०) अस्य श्रीपुरुषसूक्तस्य नारायण ऋषिः । अनुष्टुप् छन्दः अन्त्या त्रिष्टुप् । पुरुषो देवता ॥ स॒हस्र॑शीषो॒ पुरु॑षस्सहस्रा॒क्ष॑स्स॒हस्र॑पात् । 1 स भूमि॑ वि॒श्वतो॑ वृ॒त्वात्य॑तिष्ठद्दशाङ्गुलम् ॥ १ ॥ पुरु॑ष ए॒वेदं सर्वं यद्भूतं यच्च॒ भव्यम्’ । उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ॥ २ ॥ ए॒ताव॑नस्य महि॒पासो॒ ज्यायाँ ‘श्च॒ पूरु॑षः । पादो॑ ऽस्य॒ विश्वे॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृते॑ दि॒वि ॥ ३ ॥ … त्रि॒पादूर्ध्व उदै॒त्पुरु॑ष॒ः पादो॑ ऽस्ये॒हाभ॑व॒त्पुन॑ः । ततो॒ विष्व॒ व्य॑क्रामत्साशनानश॒ने अ॒भि ॥ ४ ॥ तस्मा॑ द्वि॒राऴजायत वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒म॑थो पु॒रः ॥ ५ ॥ यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत । व॒स॒न्तो अ॑स्यासी॒दाज्यं॑ गी॒ष्म इ॒ध्मः श॒रद्ध॒विः ॥ ६॥ तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न् पुरु॑षं जा॒तम॑ग्र॒तः । तेन॑ दे॒वा अ॑यजन्त सा॒ध्या ऋष॑यश्च॒ ये ॥ ७ ॥ तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒स्संभृ॑तं पृषदा॒ज्यम् । प॒शून्तग्व॑क्रे वाय॒व्या॑नार॒ण्यान् ग्रा॒म्याश्च॒ ये ॥ ८ ॥ तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ः ऋच॒ सामा॑नि जज्ञिरे । छन्दो॑सि जज्ञिरे॒ तस्मा॒द्यजुस्तस्मा॑दजायत ॥ ९ ॥ तस्मा॒दश्वा॑ अजायन्त॒ ये के चौ ‘भ॒याद॑तः ॥ गाव’ ह जज्ञिरे॒ तस्मा॒त् तस्मा॑जा॒ता अ॑जा॒वय॑ः ॥ १० ॥ यत्पुरु॑षं॒ व्य॑दधुः क॒ति॒धा व्य॑कल्पयन् । मुख॒ किम॑स्य॒ कौ बा॒हू कारू पावुच्येते ॥ ११ ॥________________
2 ब्र॒ह्म॒णो॑ ऽस्य॒ मुख॑मासीद्वा॒हू रा॑ज॒न्य॑ कृ॒तः । ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्यां शूद्रो अ॑जायत ॥ १२ ॥ च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षो सूर्यो’ अजायत । मुखदिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ॥ १३ ॥ I पुरुषसूक्तम् नाभ्य॑ आसीद॒न्तरि॑क्षं शी॒ष्णो॑ द्यौः सम॑वर्तत । पद्भ्या॑ भूमि॒र्दिश श्रोत्रा॒त्तथा॑ लो॒काँ अ॑कल्पयन् ॥ १४ ॥ स॒प्तास्य॑सन् परि॒धय॒स्त्रिः स॒प्त स॒मध॑ कृ॒ताः । दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्य॒न् पुरु॑षं प॒शुम् ॥ १५ ॥ य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्म॑णि प्रथ॒मान्य॑सन् । ते हु नाकं॑ महि॒मान॑स्स॒चन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥ १६ ॥ ॥ ऋग्वेदीयं पुरुषसूक्तं समाप्तम् ॥________________