पुरुषसूक्तं हि नाम - भगवतः पुरुषोत्तमस्य अनितरसाधारणं प्रभावमधिकृत्य प्रवृत्तं वैदिकं सूक्तम् । ‘पुर अग्रगमने’ इति धातोः ‘पुरः कुषन्’ उ. सू. ५२३ इत्यनेन सूत्रेण निष्पन्नः पुरुषशब्दः । ब्रह्मपुराणे पुरुषशब्दार्थः एवं प्रतिपादितः - परः स पुरुषो ज्ञेयो व्यक्तोऽक्षर एव तु । अपरश्च क्षरस्तस्मात्प्रकृत्यन्वित एव च । निराकारात्सावयवः पुरुषः समजायत ॥ इति । भगवद्गीतायामपि ‘पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ’ । इति च प्रतिपादितः ।
पुरुषशब्दो हि निरुपाधिकत्वेन प्रयुज्यमानः वैदिकलौकिकप्रसिद्धिप्राचुर्यात् भगवति वासुदेवे रूढ इति सर्वप्रामाणिकसंप्रतिपन्नः सिद्धान्तः । ‘पुरुषो ह वै नारायणोऽकामयत, अतितिष्ठेयं सर्वाणि भूतानि अहमेवेदं सर्वं स्याम्’ (श.ब्रा. १३ -६ - १ - १ ) इति श्रुत्या ‘अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेति’ इति नारायणोपनिषदि ह वै इति प्रयोगः पुरुषपदस्य नारायणे प्रसिद्धिप्राचुर्यं द्योतयति । पुराणेऽपि - ‘भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधी च वर्तेते वासुदेवे सनातने’ ॥ इति । सूक्तशब्दस्य स्तोत्रमित्यर्थः । पुरुषं स्तौतीति पुरुषसूक्तम् ॥ पुरुषसूक्तस्य वेदसारत्वम् यतो हि सर्वे ब्राह्मणाः वेदाध्ययने प्रवृत्ताः पुरुषसूक्ताध्ययनशालिनः समवलोक्यन्ते । सर्ववेदसारत्वात् पुरुषसूक्तस्य अध्ययनेनैव सर्ववेदपारायणफलं सेत्स्यतीति च त्रयीवृद्धानां मतं महीयते । इदमेव मोक्षधर्मे प्रतिपादितम् - ‘इदं पुरुषसूक्तं हि सर्ववेदेषु पठ्यते । अतः श्रुतिभ्यः सर्वाभ्यो बलवत्समुदीरितम्’ ॥ इति । अत एव उक्तं पाद्मे
‘वेदेषु पौरुषं सूक्तं पुराणेषु च वैष्णवम् । भारते भगवद्गीता धर्मशास्त्रेषु मानवम् ’ ॥ इति । वेदानां स्वरउच्चारणस्य आवश्यकत्वं उच्यते________________
iv ‘अन्धकारे दीपिकाभिर्गच्छन्न स्खलति क्वचित् । एवं स्वरैः प्रणीतानां भवन्त्यर्थाः स्फुटा इति’ ॥ अत्र स्वरसहितेनैव वेदशब्दोच्चारण: कर्तव्यः इत्यभिधीयते । स्वरमन्तरेण पठ्यते चेत् अनर्थावहं भवति इति पाणिनीयशिक्षायां सोदाहरणेन प्रतिपाद्यते- ‘मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्’ । इति त्वष्टृ उपाख्यानमनुसन्धाय स्वरबद्धवेदाभ्यासस्य मुख्यत्वं वर्ण्यते । तादृश स्वराणां भेदाः नारदीयशिक्षायां निरूपिताः ‘उदात्तश्चानुदात्तश्च स्वरितप्रचिती तथा । निघातश्चेति विज्ञेयः स्वरभेदास्तु पञ्चधा’ ॥ इति । इमे पञ्चविधाः स्वराः सामान्यतः ऋग्यजुरथर्ववेदेषु उपयुज्यन्ते । सामवेदे तु इतोऽप्यधिकाः सप्त स्वराः सन्ति। क्रुष्टप्रथमः, प्रथमः, द्वितीयः, तृतीयः, चतुर्थः, मन्त्रः, अतिस्वार्यः इति भेदात् । सङ्गीतशास्त्रेऽपि उदात्तादिस्वराधारत्वेनैव निषादादिस्वराः जायन्ते इति नारदीये उपपाद्यते - ‘उदात्तो निषादगान्धारावनुदात्त ऋषभधैवतौ । स्वरितप्रभवा ह्येते षड्जमध्यमपञ्चमाः ’ ॥ इति । स्वरपरिज्ञानेन सह वेदमन्त्राणां ऋषिछन्दोदेवतानां परिज्ञानं मन्त्रार्थज्ञानञ्च संपाद्य तत्स्मरणपूर्वकं मन्त्रपठनं करणीयमिति विधीयते । तदेव वीर्यवत्तरं भवतीति उद्घोष्यते स्मृत्यन्तरे
आर्षं छन्दो दैवतञ्च विनियोगस्तथैव च । वेदितव्यं प्रयत्नेन ब्राह्मणेन विशेषतः । अविदित्वा तु यः कुर्याद्यजनाध्ययनं जपम् । होममन्त्रजपे दानं तस्य चाल्पफलं भवेत् ॥ यो विजानाति मन्त्राणामार्षं छन्दश्च दैवतम् । विनियोगं ब्राह्मणञ्च मन्त्रार्थं ज्ञानकर्म च ॥ इति । अन्यत्रोपात्तानां शब्दानां वाक्यानाञ्च यथास्थानमुपयोगः विनियोगः । नैरुक्तयं यस्य मन्त्रस्य विनियोगः प्रयोजनम् । प्रतिष्ठानं स्तुतिश्चैव ब्राह्मणं तदिहोच्यते ॥________________
V एकैकस्य ऋषेः सोऽपि वन्द्यो ह्यतिथिवत् भवेत् । देवतायाश्च सायुज्यं गच्छत्यत्र न संशयः ॥ इति । ‘ऋषि, दैवत, छन्दांसि अविदित्वा यः अधीते, अनुब्रूते, जपति, जुहोति, यजते, याजयते तस्य ब्रह्म निर्वीर्यं यातयामं भवति । अथान्तरा अश्वगर्ते वापद्यते, स्थाणुं वर्च्छति, प्रमीयते वा पापीयान् भवति । अथ विज्ञायैतानि योऽधीते तस्य वीर्यवत्, अथ यो अर्थवित् तस्य वीर्यवत्तरं भवति, जपित्वा, हुत्वा, इष्ट्वा तत्फलेन युज्यते’ इति । ऋष्यादि ज्ञानमूलक जपादीनां विशेषफलमिति वर्णितम् - अर्थज्ञाने ऋषिज्ञानं भूयिष्ठमुपकारकम् । वक्ष्यन्त ऋषयस्तस्मात् स्वरूपस्थास्तु देवताः । । ऋषिनामार्षगोत्राणां ज्ञानमायुष्यमुच्यते । पुत्र्यं पुण्यं यशस्यं च स्वर्ग्यं धन्यममित्रहम् ॥ (यैः ईश्वरध्यानानुग्रहाभ्यां महता प्रयत्नेन मन्त्रार्थस्य प्रकाशितत्वात् तत्कृत महोपकारस्मरणार्थं तन्नामलेखनं मन्त्रस्योपरि कर्तुं योग्यमस्ति ।) ‘वेदितव्यं दैवतं हि मन्त्रे मन्त्रे प्रयत्नतः । दैवतज्ञो हि मन्त्राणां तदर्थमवगच्छति ॥ न हि कचिदविज्ञाय याथातथ्येन दैवतम् । लौक्यानां वैदिकानां वा कर्मणां फलमश्रुते || अर्थमिच्छन् ऋषिर्देवं यं यमाहार्यमस्त्विति । प्राधान्येन स्तुवन् भक्त्या मन्त्रस्तद्देव एव सः ॥ देवतातत्त्वविज्ञानं महता तपसा भवेत् । शक्यते किमस्माभिर्याथातथ्येन भाषितम् ’ ॥ इति । तस्मात् पुरुषसूक्तादि वैदिकमन्त्रपठनकाले तत्तत्ऋष्यादीन् ध्यात्वा मन्त्रार्थं च स्मृत्वा मन्त्रः प्रयोक्तव्यः इति सिद्धम् ॥ पुरुषसूक्तप्रतिपाद्यं परं ब्रह्म - पुरुषसूक्ते महापुरुषः सर्वव्यापित्वेन सर्वकारणत्वेन सर्वात्मत्वेन च प्रतिपादितः ’ स भूमिं विश्वतो वृत्वा । अत्यतिष्ठद्दशाङ्गुलम्’, ‘पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम्’, ‘सर्वाणि रूपाणि विचित्य धीरः, नामानि कृत्वाऽभिवदन् यदास्ते’ । इत्यादि वाक्यैः । वेदान्तवाक्येषु उपनिषत्सु तावत् जगज्जन्मादिकारणं सर्वव्यापि सर्वात्मभूतं________________
vi परं ब्रह्म आम्नातम्- ‘यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासस्व, तद्ब्रह्मेति’ इत्यादिषु । अतः पुरुषसूक्तोक्त महापुरुष एव वेदान्तवेद्यं परं ब्रह्मेति शक्यनिर्णयम् । किञ्च परब्रह्मवेदनस्य मोक्षहेतुत्वं श्रूयते तैत्तिरीयोपनिषदि - ‘ब्रह्मविदाप्नोति परम्’ इति । पुरुषसूक्ते तु इतरोपायनिषेधपूर्वकं महापुरुषवेदनस्य मोक्षहेतुत्वं श्रुतं- ‘तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते’ ॥ इति । तस्मात् महापुरुष एव परं ब्रह्मेति निश्चीयते ॥ पुरुषसूक्तस्य उपनिषदश्च एकार्थता
मुण्डकोपनिषदि अक्षरात् परतः परः दिव्यः पुरुषो यः परविद्यावेद्यत्वेन श्रुतः, छान्दोग्ये च अन्तरादित्यविद्यायां यो हिरण्मयः पुण्डरीकाक्षः पुरुषविशेषः उद्गीथोपासनत्वेन श्रुतः, यश्च श्वेताश्वतरे महापुरुषः सत्वप्रवर्तकत्वेन श्रुतः, यः प्रश्नोपनिषदि त्रिमात्रप्रणवालम्बनोपासनगम्यत्वेन मुक्तेक्षणकर्मत्वेन च जीवघनात् परात्परः पुरुषः पुरिशेते इति श्रुतः, यश्च तैत्तिरीयके आनन्दमयोऽमृतो हिरण्मयः पुरुषाकार : शारीर आत्मा श्रुतः । स एव पुरुषः पुरुषसूक्ते प्रतिपादितः मुक्तेश्वरत्वेन ‘उतामृतत्वस्येशानः ’ इति । मुक्तेश्वरत्वं च महापुरुषस्य नारायणस्यैवेति सर्वत्रय्यन्तवृद्धसम्मतम् । तस्मात् उपनिषदैकार्थ्यं पुरुषसूक्तस्य भवति इति सुप्रतिष्ठितम् ॥ पुरुषसूक्तस्य महत्वम् - जगत्कारणभूतस्य भगवतो महापुरुषस्य वैभवम्, सृष्टियज्ञं, देवमनुष्यपशु- पक्ष्यादिलोकसृष्टिः मोक्षोपायञ्च पुरुषसूक्ते उच्यते । तादृशं पुरुषसूक्तं हि वेदेष्वन्तर्भवति । वेदास्तु परमात्मनः उच्छ्रवासनिश्वासैवेति प्रसिद्धिः । महाभारते शान्तिपर्वण्यपि एवमुच्यते । ‘अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा’ इति । इमा वेदशाखाः बह्वयः सन्ति इति वेदेनैव श्रूयते- ‘अनन्ता वै वेदा:’ इति । एतासां ऋगादिवेदशाखानां सारांशत्वेन उपलब्धं पुरुषसूक्तं इति श्रीपाञ्चरात्रे लक्ष्मीतन्त्रे च उपबृंहितम् - ‘मथ्यमानस्ततस्तस्मात्सामर्ग्यजुषसंकुलात् । तत्सूक्तं पुरुषं दिव्यं दध्नो घृतमिवोत्थितम्’ ॥ इति । (ल.तं.५०-१३,१४ ) इदं पुरुषसूक्तं सर्ववेदसारमिति कथं वक्तुं शक्यमिति चेत् ? उच्यते महाभारते शान्तिपर्वणि
vii ‘इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव । ऋतं सत्यं च विख्यातं ऋषिभिः परिचिन्तितम् ’ ॥ इति । ( ३३८-५) ब्रह्मयज्ञानुष्ठाने हरिस्मरणपूर्वकं पुरुषसूक्तं जप्यते चेत् साङ्गोपाङ्गवेदोक्त फलं भवितुमर्हतीति विष्णुधर्मोत्तरपुराणे वर्णितः - ‘ब्रह्मयज्ञे जपन् सूक्तं पुरुषं चिन्तयन् हरिम् । स सर्वान् जपते वेदान् साङ्गोपाङ्गविधानतः ’ ॥ इत्यादि प्राशस्त्यबोधकप्रमाणवचनेन सर्ववेदसारत्वं सिद्धम् ॥ पुरुषसूक्तस्य फलम् - (पुरुषसूक्त होमफलमधिकृत्यं सनत्कुमारसंहितायां उक्तमिति कटलङ्कुटि पण्डित नटेशशास्त्रिकृत पुरुषसूक्तस्य द्राविडव्याख्यां उद्धृतोऽयं विषयः ) ‘पूर्वं सनत्कुमारेण पृष्टो विष्णुस्सनातनः । उक्तवान् पौरुषं होमैर्विधानं कामदं नृणाम् ॥ वक्ष्यामि तदहं पुण्यं शृणुध्वं मुनिसत्तमाः । पुत्रप्रदमपुत्राणां जयदं जयकामिनाम् ॥ श्रीदं श्रीकामिनां पुंसां राज्यदं राज्यकामिनाम् । धान्यदं धान्यकामानां कीर्तिदं कीर्तिकामिनाम् ॥ भुक्तिदं भुक्तिकामानां मुक्तिदं मुक्तिकामिनाम् । बहुना किमिहोक्तेन सर्वसिद्धिप्रदं नृणाम्’ ॥ इत्यादि ऐहिक, आमुष्मिकफलप्रदत्वं पुरुषसूक्तस्य अस्तीत्युपलभ्यते ॥ अस्मिन् ग्रन्थे उपलब्धवेदशाखासु पुरुषसूक्तमुद्धृत्य प्रथमभागे अध्ययन- पारायणादिसौकर्याय सस्वरं मूलपाठं ऋषिछन्दोदेवतासहितं ऋगादि वेदक्रमेण तत्तच्छाखानुसारं पुरुषसूक्तं दत्तमस्ति । द्वितीयभागे पुरुषसूक्तस्य मन्त्रार्थबोधकत्वेन प्रतिपदार्थः, तात्पर्यं, टिप्पणिसहितं ऋगादि क्रमानुसारेण वेदानुसारं प्राक्तनैः प्रसिद्ध भाष्यकारैः सायण, उवट, महीधर, भट्टभास्कर, रङ्गरामानुजस्वामिभिः अनुगृहीतभाष्योपेतैः प्रकाशितमस्ति । श्रीरङ्गनाथमुनिकृत श्रीपुरुषसूक्तभाष्य - श्रीरङ्गरामानुजकृत पुरुषसूक्तभाष्ययोः बहुषुस्थलेषु साम्यमस्ति । भाष्यकारचरित्र्यस्थले एतद्विषयमधिकृत्य अत्रैव चर्चितमस्ति ।________________
viii
भाष्यकारचारित्र्यम्
१. सायणाचार्यः
सायणाचार्यः भारद्वाजगोत्रोत्पन्नः बोधायनसूत्रानुयायी । मातुः श्रीमती पितुः मायणः। भ्रातरौ - भोगनाथः, माधवः । एतद्विवरणं पराशरस्मृतिटीकायाम् एवमुपलभ्यते । श्रीमती जननी यस्य सुकीर्तिर्मायणः पिता । सायणो भोगनाथश्च मनोबुद्धी सहोदरौ ॥ यस्य बोधायनं सूत्रं शाखा यस्य च याजुषी । भारद्वाजकुलं यस्य सर्वज्ञः स हि माधवः । सायणाचार्यस्य त्रयः पुत्राः आसन् ते कम्पण, मायण, शिङ्गण प्रत्येकस्मिन् क्षेत्रे यथा सङ्गीतक्षेत्रे, कवितासामर्थ्ये, वेदपाठनेऽपि कुशलिनः अभवन् । तथा चोक्तं अलङ्कारसुधानिधौ तत् संव्यञ्जय कम्पण व्यसनिनः सङ्गीतशास्त्रे तव । प्रौढिं मायण । गद्यपद्यरचनापाण्डित्यमुन्मुद्रय ॥ शिक्षां दर्शय शिङ्गण ! क्रमजटाचार्यासु वेदेष्विति । स्वान् पुत्रान् उपलालयन् गृहगतः सम्मोदते सायणः ॥ इति । सायणाचार्यस्य गुरवः :- सायणचार्यस्य विद्यातीर्थः, भारतीतीर्थः, श्रीकण्ठः इति त्रयः गुरवः आसन् । न केवलं सायणाचार्यस्य किन्तु सोदराणामपि गुरुत्वेन आसन् । जीवनचरित्रम् :- एकत्रिंशवयसि सायणाचार्यः राजप्रबन्धकमन्त्रित्वेन प्रतिष्ठापितः । १४०३ तः १४२२ पर्यन्तं हरिहरस्य अनुजस्य कम्पणस्य राज्यमन्त्री अभवत् । अनन्तरं प्रधानामात्यपदवीं अलङ्कृतम् । नववर्षं यावन्मन्त्रिपदवीमलङ्कृतमासीत् सायणाचार्येण । कम्पणकालादनन्तरं तस्य पुत्रस्य सङ्गमस्यापि शिक्षणं दत्वा समस्तां विद्यामपाठयत् सायणाचार्यः । सङ्गमोऽपि विनयीभूत्वा सायणाचार्यस्य कुशल अध्ययनद्वारा प्रौढशासकोऽभवत् । अलङ्कासुधानिधौ एवं वर्ण्यते ! सम्यक् शिक्षां सचिवगमितः शैशवे सायणार्यः । प्रौढिं गाढां प्रकटयति ते सङ्गमेन्द्रः प्रयोगे ॥ सायणाचार्यः न केवलं राज्यप्रबन्धकर्मणि कुशलः अपि तु राज्यविस्तारकर्मण्यपि जागरूक आसीत् । स यदा चत्वारिंशत् वर्षवयस्कः तदानीं राज्यव्यवस्थाभारं नीत्वा________________
ix अष्टवर्षपर्यन्त राज्यविस्तारकार्यं सम्पादितवान् अलङ्कारसुधानिधौ - शासनधुरिविषये, युद्धकौशलम् नीतिनैपुण्यं च एवं वर्ण्यते । यथा - जगद्वीरस्य जागर्ति कृपाणः सायणप्रभोः । किमित्येते वृथाटोपा गर्जन्ति परिपन्थिनः ॥ समरे सपत्नसैन्यं सायण ! तव बिम्बितं वहन् खड्गः । क्रीडति कैटभरिपुरिव बिभ्रत् क्रोडे जगत्त्रयं जलधी ॥ अमुं शमितशास्त्रवत् स्थिरभुजावलेपोदयं समीक्ष्य युधि सायणं समधिको भवेद् विस्मयः । नखाग्रहतवैरिणो नरहरेर्हरस्याथवा नवाम्बुजदलोल्लसन्नयनमात्ररब्धद्विषः ॥ (वि.सं. १४२२ तः १४३७ षोडशवर्षाणि याक्त् बुक्कस्य राज्ये सायणाचार्यः कार्यकारि । अयं समयः सायणाचार्यस्य जीवने अतीव महत्वपूर्णमासीत् । यतो ह्यस्मिन् काले अनेन वेदभाष्यम् निरमायि । १४३८ वि. संवत्सरे बुक्कमहाराजस्य कालादनन्तरं तस्य पुत्रः हरिहरः सिंहासनेऽभिषिक्तः । क्रमानुसारं सायणाचार्येण तस्यापि मन्त्रित्वमङ्गीकृतम् । वार्धक्यवशात् बहुकालं मन्त्रित्वं न प्रत्यपादि । तदानीं तेषां वयः ६६ वर्षमासीत् । बौद्धिककर्मणि तेषां मस्तिष्कस्य अतीवोन्नतत्वात् तैः वैदिकसंहिताया अवशिष्टं भाष्यकर्म सम्पादितम् । ततः परं ब्राह्मणभाष्यकर्म प्रारब्धम् समाप्तं च । सायणाचार्यैः विरचितानि वेदभाष्याणि १. तैत्तिरीयसंहिता (कृष्णयजुर्वेदस्य) २. ऋग्वेदसंहिता ३. सामवेदसंहिता ४. काण्वसंहिता (शुक्लयजुर्वेदस्य) ५. अथर्ववेदसंहिता ब्राह्मणग्रन्थानां भाष्याणि (क) कृष्णयजुर्वेद ब्राह्मणभाष्यम् यथा - १. तैत्तिरीयब्राह्मणम् २. तैत्तिरीयारण्यकम्________________
X (ख) ऋग्वेदस्य ब्राह्मणभाष्याणि यथा - ३. ऐतरेय ब्राह्मणम् ४. ऐतरेयारण्यकम् (ग) सामवेदस्य ब्राह्मणभाष्याणि यथा - ५. ताण्ड्य (पञ्चविंश) ब्राह्मणम् ६. षड्विंशब्राह्मणम् ७. सामविधानब्राह्मणम् ८. आर्षेयब्राह्मणम् ९. देवताध्यायब्राह्मणम् १०. संहितोपनिषद्ब्राह्मणम् ११. उपनिषद्ब्राह्मणम् १२. वंशब्राह्मणम् (घ) शुक्लयजुर्वेदीयब्राह्मणभाष्यम् यथा १३. शतपथब्राह्मणम्
एवं प्रकारेण सायणाचार्यैः पञ्चसंहितासु त्रयोदशब्राह्मण आरण्यकग्रन्थानां भाष्यम् अलेखि । वेदभाष्यमतिरिच्य सायणाचार्यैः अनुगृहीताः इतरग्रन्थाः । १. सुभाषितसुधानिधिः २. प्रायश्चित्तसुधानिधिः ३. आयुर्वेदसुधानिधिः ४. अलङ्कारसुधानिधिः ५. धातुवृत्तिः ६. पुरुषार्थसुधानिधिः ७. यज्ञतन्त्रसुधानिधिः सायणाचार्यस्य जीवितावधि: (वि.सं. १४३८-१४४४) एवंप्रकारेण शारीरक-मानसिकदृष्ट्या पराकाष्ठां समधिगम्य ७२ वयसि १४४४ विक्रमसंवत्सरे दिवं जग्मुः सायणाचार्याः)
२. उवटाचार्यः
वेदभाष्यकाराणां मूध्ये उवटाचार्यः प्राचीनकालिकः इति गण्यते । तस्य जीवित काल: क्रिस्तशताब्देषु एकादशशताब्दः (१०१८ तः १०६०) इत्यूह्यते । किमर्थमिति चेत्________________
xi भोजराजस्तु तत्काल एव अवर्तत । तस्मिन् सन्दर्भे उवटाचार्यः स्वभाष्यम् । उवटार्यस्तु आनन्दपुरवासी । तस्य पितृपादः वज्रटः इत्यादिविवरणम् शुक्लयजुर्वेदस्य माध्यन्दिनसंहिताभाष्यावसाने पद्यरूपेण अलिखत् । आनन्दपुरवास्तव्यवज्रटाख्यस्य सूनुना । उवटेन कृतं भाष्यं पदवाक्यैः सुनिश्चितैः । ऋष्यादींश्च नमस्कृत्य अवन्त्यामुवटोऽवसन् । मन्त्राणां कृतवान्भाष्यं महीं भोजे प्रशासति ॥ इत्युक्तप्रकारेण भोजराजस्य काल एव अस्य उवटस्य कालः इति विमर्शकानामभिप्रायः । उवटेन कृतवेदभाष्यस्य ‘मन्त्रभाष्यमिति’ प्रसिद्धिः । उवटाचार्यस्य भाष्यम् नातिविस्तारोऽपि उज्वलतया वर्तते । अनेकमन्त्राणां आध्यात्मिकार्थान् समीचीनतया न्यरूपयत् । पर्यायवाचिभिः शब्दैः अर्थाः निर्दिश्यन्ते; निर्दिष्टार्थसमर्थनाय श्रुतयः च उप्रियन्ते, क्वचित् शब्दाः निरुच्यन्ते । उवटायैः अनुगृहीताः इतरग्रन्थाः - १. ऋक्प्रातिशाख्यभाष्यम् २. यजुःप्रातिशाख्यभाष्यम् ३. ऋक्सर्वानुक्रमणिभाष्यम् ४. ईशोपनिषद्भाष्यम्
३. महीधराचार्यः
मन्त्रभाष्यकर्तुः उवटाचार्यात् अर्वाचीनः । अयं शुक्लयजुर्वेदे माध्यन्दिन- शाखामधिकृत्य भाष्यं विरचितः । अस्य वेदभाष्यस्य नाम वेददीपः इति । अस्य सरणिः उवटमाधवभाष्यानुसारिणी । वचनमेव अत्र प्रमाणम् वेददीपभाष्यारम्भे तेनोक्तम् - ‘प्रणम्य लक्ष्मी नृहरिं गणेशं भाष्यं विलोक्यौवटमाधवीयम् । यजुर्मनूनां विलिखामि चार्थं परोपकाराय निजेक्षणाय’ ॥ इति । वेददीपभाष्ये तु मन्त्राः सविस्तरं सप्रसङ्गं व्याख्याताः; श्रुतिप्रमाणानि च उद्धृतानि, सलक्षणानि व्याकरणविधानानि च निर्दिष्टानि । महीधरेण कृतइतरग्रन्थौ द्वौ १. मन्त्रमहोदधिः (तन्त्रग्रन्थः ) २. मन्त्रमहोदधिटीका इति । अस्य महीधरस्य कालः स्पष्टं न ज्ञायते । मन्त्रमहोदधिटीकायां एकं पद्यमस्ति । तद्द्द्वारा अस्य कालं गणयितुमर्हति । तदुक्तं च -________________
xii ‘अब्दे विक्रमतो जाते बाणवेदनृपैर्मिते । ज्येष्टाष्ठम्यां शिवस्याग्रे पूर्णो मन्त्रमहोदधिः ’ ॥ इति । अस्याऽर्थः टीकायां उच्यते - पञ्चचत्वारिंशदुत्तरषोडशशततमविक्रम नृपाद्गते सति इत्यवगम्यते । एतद्रीत्या १५८७ वत्सरे मन्त्रमहोदधिः पूर्णोऽभवत् इति अर्थतः सिद्धम् । तस्मात् अस्य कालः षोडशशताब्दः इति प्रतीयते ॥
४. भट्टभास्कराचार्यः
कृष्णयजुर्वेदस्य प्रधानसंहिता तैत्तिरीयसंहिता । तैत्तिरीयसंहितायाः भाष्यकर्तारः सायणाचार्याद प्राक् बहवः आसन् । तेषु भट्टभास्कराचार्यः अन्यतमः । भट्टभास्कराचार्यादि पूर्वं ये ये व्याख्याग्रन्थाः आसन् ते संपूर्णतया नोपलभ्यन्ते, किन्तु भट्टभास्करस्य भाष्यम् पूर्णतया उपलभ्यते । काण्डानुक्रमणे एवं वर्तते - ‘यस्याः पदकृदात्रेयः वृत्तिकारस्तु कुण्डिनः’ इत्युलेखनेन तैत्तिरीयसंहितायाः वृत्तिकारः कुण्डिनः इत्यभिधीयते । भट्टभास्कराचार्यः भाष्यारम्भे भवस्वामिनां उल्लेखनं अकारि । सायणाचार्यस्य (व्याख्याने) भाष्ये भट्टभास्कराचार्यस्य उल्लेखनस्य विद्यमानत्वात् भट्टभास्कराचार्यः सायणाचार्यात् प्राचीनः इत्यूह्यते । एकाग्निकाण्डस्य भाष्यकर्ता हरदत्तः भट्टभास्करभाष्यस्य साहाय्यम् प्राप्तवान् । तदर्थं भट्टभास्करस्य कालः क्रिस्तशताब्देषु द्वादशशताब्दः इत्यूह्यते । भट्टभास्कराचार्यस्य तैत्तिरीयसंहिताभाष्यस्य ‘ज्ञानयज्ञभाष्यम्’ इति प्रसिद्धिः । अस्मिन् ‘ज्ञानयज्ञभाष्ये’ अनेकानां प्राक्तनग्रन्थानां सोदाहरणम् अलिखत् । तद्वत् मन्त्रार्थनिरूपणसन्दर्भे भिन्नभिन्नाचार्यस्य अभिप्रायमपि FIR । अधियज्ञेन साकं आधिदैविक, अध्यात्मिकार्थानपि विशदीकृतम् भट्टभास्कराचार्ये ‘हंसः शुचिषद्’ इत्यत्र हंसशब्दस्य अधियज्ञार्थे ‘रथः ’ पदं निवेश्य आधिदैविकार्थे ‘आदित्यः ’ इति पदं दत्वा अध्यात्मिकपक्षे ‘आत्मा’ इत्यादयः अर्थविशेषाः असूचयत् वैदिकसाहित्ये भट्टभास्कराचार्य भाष्यस्य महत्वस्थानं वर्तते ॥
५. श्रीरङ्गरामानुजमुनिः
चतुष्षष्ठिप्रबन्धनिर्माता दशोपनिषद्भाष्यकारः श्रीरङ्गरामानुजमुनिरिति अस्य महती प्रशस्तिरस्ति । विशिष्टाद्वैतमतरीत्या उपनिषदां भाष्यं अनेन विरचितम् । अस्य जन्मस्थानं तिरुपतिः । लक्ष्मीपुरशाखीय नल्लान् वंश्यः, श्रीवत्सगोत्रोत्पन्नः, छन्दोगः अयम् । अस्य विद्यागुरुः वात्स्य अनन्ताचार्य:, परमगुरुः ताताचार्यः, सन्यासदीक्षागुरुः श्रीज्ञानाब्धि________________
xiii ब्रह्मतन्त्रपरकालमुनिः । अस्य पूर्वाश्रमनाम तावत् वरदविष्ण्वाचार्यः । सोऽयं महाविरक्तस्वरूपः, शान्तः इति प्रख्यातिरस्ति । अस्य जीवनकाल: १६७० - १७५० इति ज्ञायते । अस्य ग्रन्थेषु अप्पय्यदीक्षितः दोड्डयाचार्यश्च उल्लेखितौ । वेदेषु दशोपनिषद्भाष्यानि, कृष्णयजुर्वेदे तैत्तिरीयशाखान्तर्गतपुरुषसूक्तभाष्यं, श्वेताश्वतरोपनिषद्भाष्यम्, अथर्वशिखोप- निषद्भाष्यं, कौषीतक्युपनिषद्भाष्यम्, मन्त्रिकोपनिषद्भाष्यं, शतपथब्राह्मणान्तर्गत अग्निरहस्यस्य भाष्यं, महोपनिषद्भाष्यं, ईशावास्यव्याख्या भावदीपिका इत्यादिकं विरचितवन्तः । स्वाचार्यैः कृत श्रीभाष्यादिग्रन्थानां व्याख्यानरूपग्रन्थान् अनेकान् रचितवन्तः इमे रङ्गरामानुजस्वामिनः । श्रीभाष्यव्याख्या मूलभावप्रकाशिका, श्रुतप्रकाशिकायाः व्याख्या भावप्रकाशिका, विषयवाक्यदीपिका, शारीरकशास्त्रार्थदीपिका, न्यायसिद्धाञ्जनटीका, रामानुजसिद्धान्तसारसङ्ग्रहः, तत्वनिष्कर्षः, रहस्यत्रयव्याख्या तात्पर्यकौमुदी, प्रतितन्त्रपरिष्क्रिया, तिरुप्पल्लाण्डु, तिरुप्पावै, तिरुवाय्मोळि, कण्णिनुण्शिरुत्ताम्बु इत्यादि द्रमिडप्रबन्धानां संस्कृतानुवादश्च एतैरेव लिखितानि ॥
६. श्रीरङ्गनाथमुनिः
अस्मिन् ग्रन्थे कृष्णयजुर्वेदीयपुरुषसूक्तभाष्ये सायणभट्टभास्कररङ्गरामानुज- स्वामिभाष्यसहितमिति शीर्षकाणि प्रदत्तानि । उत्तमूर् ति वीरराघवाचार्यैः संपादित ग्रन्थे तु श्रीरङ्गरामानुजस्वामिविरचित पुरुषसूक्तभाष्यम् इति मुद्रितम् । किन्तु वि. कृष्णमाचार्यैः संपादित अनुवादित ग्रन्थे तु श्रीरङ्गनाथमुनिकृतम् पुरुषसूक्तभाष्यमिति उल्लेखः वर्तते । तदर्थं उभयोः भाष्य (ग्रन्थ) कर्तृत्वसमानत्वे श्रीरङ्गनाथमुनेः चरित्रे किञ्चित् समस्या वर्तते । तदधोभागे लिख्यते एवम् - १. भाष्यस्य अस्य रचयिता मुकुन्दनारायणदासापरनामा श्रीरङ्गनाथमुनिरिति निर्दिष्टमत्र भाष्यान्ते । एतत्प्रसङ्गे च श्रीसूक्तभाष्यमेकं श्रीरङ्गनाथमुनिप्रणीत नञ्जीयर् उपज्ञतया प्रकाशितं विम्रष्टव्यं विमर्शकैः । तच्च भाष्यं श्रीप्रणतार्तिहररामानुजाचार्यात् अधिगतश्रीतत्त्वसंप्रदायेन पराशर भट्टान्तेवासिना केनचित् रङ्गनाथमुनिना प्रणीतम् इत्यवगम्यते, अयं च रङ्गनाथमुनिः श्रीवेदान्तदेशिकैः श्रीमद्रहस्यत्रयसारे श्रीसूक्तभाष्य प्रणेतृतया व्यपदिष्टो नारायणमुनि अपरनामकः पेरिय जीयर् भवितुमर्हति इत्यत्र अनपनोद्यं औचित्यमस्ति । तथा निर्दिष्टः को भवितुमर्हति इत्यत्र परं विमतिः उदेति । पूर्वनिर्दिष्टस्य श्रीसूक्तभाष्यकोशस्य प्रकाशयिता भाष्यकर्तारं रङ्गनाथमुनिं नञ्जीयर् अपरनामधेयं वेदान्तिमुनिं आचख्यौ । तस्यौचित्यं विवेचनीयं भवति । अहोबिलमठस्वामि श्रीरङ्गनाथयतीन्द्रकृते________________
xiv न्यासविवरणे प्रास्ताविक श्रीसूक्तभाष्यस्थः प्रथमः श्लोकः पेरियजीयर् कृतत्वेन उद्धृतः । अतः श्रीसूक्तभाष्यमिदं पेरियजीयर् कृतत्वेन उद्धृतः । अतः श्रीसूक्तभाष्यमिदं पेरियजीयर् कृतमेव इति निश्चितम् । अतो ज्ञाप्यते नारायणमुनिरेव परियजीयर् नाम्ना श्रीरहस्यत्रयसारे व्यवहृत इति । नारायणमुनिरयं श्रीरङ्गनारायणाचार्याभिधान वङ्गिवशेश्वरात् अधिगत सांप्रदायिकतत्त्वार्थः श्रीपराशर भट्टाचार्यशिष्य इति च श्रीपाञ्चरात्ररक्षातोऽवगम्यते । किञ्च अयं नारायणमुनिः आत्मानं नारायणदासनाम्ना व्याजहार । यथा पूर्वोक्त श्रीपाञ्चरात्ररक्षोदाहृतश्लोकानामन्ते - ‘यो नारायणदासीयो माधवाराधनक्रमः । तत्राभिगमनं नाम प्रथमः पटलो ह्ययम्’ ॥ इति । अयमेव नारायणदासापरनामा नारायणमुनिः पेरिय- जीयर् नाम्ना प्रथितः श्रीसूक्तभाष्यकर्ता; तस्यैव रङ्गनाथमुनिः इति नामान्तरमपि इत्युपपत्तिभूम्ना उन्नेतुं शक्यते । तथा च प्रस्तुतश्रीसूक्तभाष्यान्तिमो भागः - ‘महालक्ष्मीशदासीये सर्वशस्त्रार्थनिर्णये । श्रीसूक्तभाष्ये भाव्येऽस्मिन् रमध्वं पुरुषोत्तमाम्’ ॥ इति श्रीरङ्गनाथमुनि विरचितं श्रीसूक्तभाष्यं समाप्तम् इति । अयं च नारायणमुनिः नलं तिकळ् नारायण जीयर् इति द्राविडनाम्ना सांप्रदायिकग्रन्थेषु व्यवहृत इति केचिद्विमर्शका अभिप्रयन्ति । मुकुन्दपदस्य नलंतिकळ् पदस्य च यथाकथञ्चित् परस्परं सङ्गतिश्च सम्भवेत् इत्यप्यूहितुं शक्यते । यतोऽयं वङ्गिवंशेश्वर- श्रीरङ्गनारायणाचार्यसमकालिकः, ततो नञ्जीयरपेक्षया वयोऽधिको भवितुमर्हति । अतः जीयर्- नारायणमुन्योः उभयोः श्रीपरशर भट्टशिष्यत्वाविशेषेऽपि वयोऽधिकत्वात् पेरियजीयर् इति नारायणमुनेः मुक्तो व्यवहारः । तेनैव पुरुषसूक्तभाष्ये व्यवहृतेन मुकुन्दनारायणदासेन भाव्यमित्युन्नीयते । किञ्च नञ्जीयर् यतेः स्वाभाविकं नाम माधवयतिः इत्येव इति गुरुपरम्परास्तोत्रग्रन्थेषु दृश्यते । अतो रङ्गनाथमुनेः भिन्न एव स भवितुमर्हति । भाष्यकर्तुः अस्य काल: क्रिस्तुद्वादशशतकारम्भ इति निर्णेतव्यं भवति । जपाध्ययनादिना सर्वपुरुषार्थसाधनीभूतं चतुर्वेदेषु पठ्यमानं सकलवेदसारभूतं तत्वहितपुरुषार्थप्रतिपादनैकान्तं उपलब्धभाष्यसहितं पुरुषसूक्तं यथामति संगृहीतम् । ग्रन्थान्ते अकारादिक्रमेण प्रमाणाकरसूचनी इतरग्रन्थेषु पुरुषसूक्तविचारः पुरुषसूक्तार्थ- ,________________
XV सङ्ग्रहकारिकाः, मन्त्रगताः विशेषशब्दार्थाः, ग्रन्थसूचन्यादि विषयावबोधकाः अनुबन्धाः ग्रथिताः । अस्य ग्रन्थास्य सम्पादने श्रीउत्तमूर्वीरराघवाचार्यसम्पादित श्वेताश्वतराद्युप- निषत्पुरुषसूक्तभाष्यम्, श्रीशङ्करपाण्डुरङ्गपण्डितसम्पादित अथर्ववेदसंहिता, श्री महादेवशास्त्रिसम्पादित तैत्तिरीयारण्यकं भट्टभास्करभाष्योपेतम् इत्यादिभ्यः ग्रन्थेभ्यः उपयुक्ताः विचाराः स्वीकृताः । एतदर्थं तेभ्यः धन्यवादान् समर्पयामः ।
अस्य विमर्शात्मकग्रन्थसम्पादनस्य कृते सूक्तप्रोत्साहनं मार्गदर्शनं प्रदाय उपकृतवन्तः ग्रन्थप्रधानसम्पादकाः डा. भाष्यं महास्वामिनः संसद: निर्देशकाः अतः प्रथमं तेभ्यः नमो वाकं प्रशास्महे । एवमेव अस्य परिशोधने परिष्करणे च साह्यं दत्ताः श्री एस्. कृष्णन्, एस्. श्रीनिवासन्, श्रीमती शशिकला महोदयाः तथा संसदः विद्वांसः तेभ्यः हार्दाः धन्यवादा: । तथा कार्यालयतः आर्थिकसहायं तथा कार्योत्तेजनं कृतवन्तः संसदः कुलसचिवाः श्री एस्. कुमार महाभागाः, तेभ्यः हार्दाः धन्यवादाः । गणकयन्त्रविभागस्य मुख्यस्थः श्री जवरेगौडः, गणकयन्त्रकार्यकत्री श्रीमती डि. एन्. सौभाग्या, मुद्रणकार्यकर्तारौ के. एस्. बेट्टस्वामिगौडः, श्री वि. महेशगौडः, अन्यश्च मुखपुटविन्यासकारः विद्वान् एच्. एस्. हनुमन्तराव्, श्रीलोकेश, मैसूरु, अन्ये अन्ये च आवश्यकान् सर्वान् सहकारान् दत्वा कार्यमेतेन्निर्वोढुं महान्तमानुकूल्यमापादितवन्तः इति तेभ्यः हार्दं कार्तज्ञ्यम् । श्रीमान् यदुशैलदीपः यदुगिरिनायिकासमेतनारायणः प्रसीदतु । एस्. नारायणः आर्. जनार्दनन् सम्पादकौ________________