०१ आमुखम्

श्रुति: स्मृतिः ममेवाज्ञा यस्तामुल्लङ्घय वर्तते । आज्ञाच्छेदी मम द्रोही मद्भक्तोऽपि न वैष्णवः ॥ इत्युक्तरीत्या साहित्यप्रपञ्चे प्रथमं स्थानं श्रुतेरेव इति निश्चप्रचम् । ‘वेदोऽखिलो धर्ममूलम्’ इति धर्मे प्रथमप्रमाणभूतो वेद एव इति स्मरन्ति । एतादृशप्रथमप्रमाणभूतवेदेषु ऋग्यजुस्साम अथर्वणाख्यप्रमाणचतुष्टयं अङ्गीक्रियते । तादृशप्रमाणभूतवेदचतुष्टयेऽपि पुरुषसूक्तं हि नाम भगवतः पुरुषोत्तमस्य अनितरसाधारणं प्रभावमधिकृत्य प्रवृत्तं वैदिकं सूक्तम् । पुरुषशब्दो निरुपाधिप्रयुज्यमानो वैदिकलौकिक- प्रसिद्धिप्राचुर्यात् भगवति वासुदेवे रूढ इति सर्वप्रामामिकसंप्रतिपन्नः सिद्धान्तः । ‘अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेय’ इत्युपनिषदि ‘हवै’ इति प्रयोगः पुरुषपदस्य नारायणे प्रसिद्धिप्राचुर्यं द्योतयति । पुराणेषु च - ‘भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधी च वर्तेते वासुदेवे सनातने । तं विना पुण्डरीकाक्षं कोऽन्यः पुरुषशब्दभाक् । इत्यादि पठ्यते । एवं अर्वाचीनाः कवयोऽपि 6 नाभिप्ररूढाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा । अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान् पुरुषोऽधिशेते ॥ ‘तमसः परमाद्यमव्ययं पुरुषं योगसमाधिना रघुः ’ । इत्यादि प्रयुञ्जते । तच्चेदं पौरुषं सूक्तं चतुर्ष्वपि वेदेषु परिपठ्यते । यथा ऋग्वेदसंहितायाम् (१०-९१); तैत्तिरीयारण्यके (३-१२); वाजसनेयसंहितायाम् (३१) सामवेदारण्यसंहितायां (४-३); अथर्वसंहितायां (१९-६-३) च पठितमिदम् । एवमस्य सार्वभौमं प्रामाण्यं प्रतिष्ठितं भवति । तथा चाह भगवान् बादरायणो मोक्षधर्मे- ‘इदं पुरुषसूक्तं हि सर्ववेदेषु पठ्यते । अतः श्रुतिभ्यः सर्वाभ्यो बलवत्समुदीरितम्’ ॥ इति । एवं शौनक - आपस्तम्ब - बोधायनादयो महर्षयः पुरुषसूक्तमन्त्राणां जपहोम- पूजाप्रायश्चित्तादिषु बहुधा विनियोगमाचक्षिरे ।________________

तच्चेदं सूक्तरत्नं तत्तत्संप्रदायप्रवर्तकैः अभियुक्तैः बहुधा व्याख्यातम् । अस्माकं संस्कृत-संशोधन-संसत् पुरुषसूक्तभाष्येऽस्मिन् सायणाचार्य भट्टभास्कराचार्य उवट महीधराचार्य तथा श्रीरङ्गरामानुजमुनिप्रभृतिभिः अनुगृहीतानि भाष्याणि, विशेषांशनिरूपणपरां टिप्पण च संयोज्य प्रकटयितुं क्रमेण संनह्यति । वेदागमविभागे प्रकाशनं करणीयमिति सङ्कल्प्य आचार्यानुग्रहवशात् प्रप्रथमतया वेदभागे पुरुषसूक्तस्य विमर्शकात्मकं संपादनं क्रियते । इह तु यावन्ति प्रसिद्धानि भाष्याणि सन्ति तान् सङ्कलय्य प्रकटनात् जिज्ञासमानानां पाठकानां कृते भूयात् भूयानुपकार; इति दृढं विश्वसिमः । मितज्ञैः मितशक्तिभिरपि दुःसाधेऽस्मिन् महत्तरे वेदभाष्यप्रकाशनकृत्ये समुद्रतरणे इव यैः कर्णधारायितं श्री. एस्. नारायणः, तथा संशोधकाः श्री जनार्दनन्, श्री एस्. कृष्णन् तेभ्यः हार्दाः धन्यवादाः । तथा कुलसचिवचरत्वेन कार्यविभागतः प्रोत्साहं कृतवद्भ्यः श्रीकुमारमहाभागेभ्यश्च हार्दं कार्तज्ञ्यम् ॥ इति विद्वद्वशंवदः Bhashyan डा. भाष्यं स्वामी निर्देशकः तथा सहकार्यदर्शी संस्कृत संशोधन संसत्________________