भास्करोक्त-विनियोगः
1ब्रह्ममेधे प्रेतस्य देहावयवानां स्वकारणोपसंहारे चित्तमित्यादि । परमेश्वरस्य प्रपञ्चाधिष्ठातृरूपाण्युच्यन्ते एते शरीरहोमाः इमां देवतां अनेन यजामीति ।
३७ राजगवी-होमः ...{Loading}...
विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
चि॒त्तँ स॑न्ता॒नेन॑ भ॒वय्ँय॒क्ना रु॒द्रन्तनि॑म्ना पशु॒पतिँ॑ स्थूलहृद॒येना॒ग्निँ हृद॑येन रु॒द्रल्ँलोहि॑तेन श॒र्वम्मत॑स्नाभ्याम्महादे॒वम॒न्तᳶपा॑र्श्वेनौषिष्ठ॒हनँ॑ शिङ्गीनिको॒श्या॑भ्याम् ॥ [37]
विश्वास-प्रस्तुतिः
चित्तँ᳓ सन्ताने᳓न +++(यजामि)+++ ।
मूलम्
चि॒त्तँ स॑न्ता॒नेन॑ +++(यजामि)+++ ।
Keith
Citta with the sinew,
भट्टभास्कर-टीका
परमेश्वरस्य प्रपञ्चाधिष्ठातृरूपाण्युच्यन्ते एते शरीरहोमाः इमां देवतां अनेन यजामीति । चित्तं महान् तस्य अधिष्ठाता सन्तानः पुत्रपौत्रादिः आन्त्रं माला पुरीतदित्येके ।
विश्वास-प्रस्तुतिः
भवय्ँ᳓ यक्ना᳓+++(←यकृत्)+++ +++(यजामि)+++ ।
Keith
Bhava with the liver,
मूलम्
भ॒वय्ँय॒क्ना +++(यजामि)+++ ।
भट्टभास्कर-टीका
भवः अपामधिष्ठाता । यकृत् कृष्णो मांसविशेषः ।
विश्वास-प्रस्तुतिः
रुद्र᳓न्त᳓निम्ना +++(यजामि)+++ ।
मूलम्
रु॒द्रन् तनि॑म्ना +++(यजामि)+++ ।
Keith
Rudra with the taniman,
भट्टभास्कर-टीका
रुद्रः आदित्यस्याधिष्ठाता । तनिमा पद्मदलवत् - ततो मांसविशेषः ।
विश्वास-प्रस्तुतिः
प᳓शुप᳓तिँ स्थूल-हृदये᳓न᳓ +++(यजामि)+++ ।
Keith
Paśupati with the thick heart,
मूलम्
पशु॒पतिँ॑ स्थूलहृद॒येन +++(यजामि)+++ ।
भट्टभास्कर-टीका
पशुपतिः पृथिव्या अधिष्ठाता । स्थूलहृदयं पद्मकोशाकारो मांसविशेषः ।
विश्वास-प्रस्तुतिः
अग्निँ᳓ हृ᳓दयेन +++(यजामि)+++ ।
Keith
Agni with the heart,
मूलम्
अ॒ग्निँ हृद॑येन +++(यजामि)+++ ।
भट्टभास्कर-टीका
अग्निः अग्नेरधिष्ठाता । हृदयं सूक्ष्माकाशाधारः प्रदेशविशेषः ।
विश्वास-प्रस्तुतिः
रुद्रल्ँ᳓ लो᳓हितेन +++(यजामि)+++ ।
Keith
Rudra with the blood,
मूलम्
रु॒द्रल्ँलोहि॑तेन +++(यजामि)+++ ।
भट्टभास्कर-टीका
रुद्रः यजमानस्य अधिष्ठाता । लोहितं रक्तम् ।
विश्वास-प्रस्तुतिः
शर्व᳓म् म᳓तस्नाभ्याम्+++(=kidneys)+++ +++(यजामि)+++ ।
Keith
Çarva with the kidneys,
मूलम्
श॒र्वम्मत॑स्नाभ्याम् +++(यजामि)+++ ।
भट्टभास्कर-टीका
शर्वं आकाशस्य अधिष्ठाता । मतस्ने दीर्घौ सिराविशेषौ ।
विश्वास-प्रस्तुतिः
महादेव᳓म् अन्तᳶ᳓पार्श्वेन ।
Keith
Mahadeva with the intestinal flesh,
मूलम्
म॒हा॒दे॒वम॒न्तᳶपा॑र्श्वेन ।
भट्टभास्कर-टीका
महादेवः प्राणस्य वायोरधिष्ठाता । अन्तःपार्श्वं पार्श्वयोरन्तः अन्तःपार्श्वम् ।
विश्वास-प्रस्तुतिः
ओषिष्ठ-ह᳓नँ शिङ्गीनिकोश्या᳙भ्याम् +++(यजामि)+++ ॥ [37]
Keith
him that slayest most quickly with the entrails.
मूलम्
ओ॒षि॒ष्ठ॒हनँ॑ शिङ्गी-निको॒श्या॑भ्याम्+++(=??)+++ +++(यजामि)+++ ॥ [37]
भट्टभास्कर-टीका
ओषिष्ठहा ओषधि-पक्ष-गामी [ओषिष्ठः क्षयपक्षः तद्गामी] चन्द्रः । ओषितृशब्दात् ‘तुश्छन्दसि’ इति इष्ठन्प्रत्ययः।
शिङ्गीनिकोश्ये शिञ्जनाधारः कोशाकारश् च स्थानविशेषो यत्र ।
शिञ्जनं नादः । घञि कुत्वे मत्वर्थीय ईकारः ।
निभृतः कोशो निकोशः । तयोर्भवौ शिङ्गीनिकोश्यौ मांसविशेषौ । ‘भवेच्छन्दसि’ इति यत् ॥