भास्करोक्त-विनियोगः
1द्वादश ज्योतिष्मतीरुपदधाति - ज्योतिष्मतीमिति ॥
ज्योतिष्मन्तम् ...{Loading}...
मूलम् (संयुक्तम्)
ज्योति॑ष्मतीन्त्वा सादयामि ज्योति॒ष्कृत॑न्त्वा सादयामि ज्योति॒र्विद॑न्त्वा सादयामि॒ भास्व॑तीन्त्वा सादयामि॒ ज्वल॑न्तीन्त्वा सादयामि मल्मला॒भव॑न्तीन्त्वा सादयामि॒ दीप्य॑मानान्त्वा सादयामि॒ रोच॑मानान्त्वा सादया॒म्यज॑स्रान्त्वा सादयामि बृ॒हज्ज्यो॑तिषन्त्वा सादयामि बो॒धय॑न्तीन्त्वा सादयामि॒ जाग्र॑तीन्त्वा सादयामि ॥ [35]
विश्वास-प्रस्तुतिः
ज्यो᳓तिष्मतीन्त्वा सादयामि ।
Keith
I place thee that hast light.
मूलम्
ज्योति॑ष्मतीन्त्वा सादयामि ।
भट्टभास्कर-टीका
आत्मज्योतिषो वृत्तिभेदाः ते इष्टकावेन स्तूयन्ते - ज्योतिष्मती प्रशस्तज्योतिः ।
विश्वास-प्रस्तुतिः
ज्योतिष्कृ᳓तन्त्वा सादयामि ।
Keith
I place thee that makest light.
मूलम्
ज्यो॒ति॒ष्कृत॑न्त्वा सादयामि ।
भट्टभास्कर-टीका
ज्योतिष्कृत् ज्योतिरन्तरस्य कर्त्रीं ज्योतिषां लम्भयित्री ।
विश्वास-प्रस्तुतिः
ज्योतिर्वि᳓दन्त्वा सादयामि ।
Keith
I place thee that findest light.
मूलम्
ज्यो॒ति॒र्विद॑न्त्वा सादयामि ।
भट्टभास्कर-टीका
ज्योतिषां लम्भयित्री ।
विश्वास-प्रस्तुतिः
भा᳓स्वतीन्त्वा सादयामि ।
Keith
I place thee that shinest.
मूलम्
भास्व॑तीन्त्वा सादयामि ।
भट्टभास्कर-टीका
भास्वती बहुप्रकाशा ।
विश्वास-प्रस्तुतिः
ज्व᳓लन्तीन्त्वा सादयामि ।
Keith
I place thee that burnest.
मूलम्
ज्वल॑न्तीन्त्वा सादयामि ।
भट्टभास्कर-टीका
ज्वलन्ती अविच्छिन्नप्रकाशा ।
विश्वास-प्रस्तुतिः
मल्म᳓लाभ᳓वन्तीन्त्वा सादयामि ।
Keith
I place thee that flashest.
मूलम्
म॒ल्मला॒भव॑न्तीन्त्वा सादयामि ।
भट्टभास्कर-टीका
मल्मलाभवन्ती महाघोषवती । ‘अव्यक्तानुकरणात्’ इति डाच् ।
विश्वास-प्रस्तुतिः
दी᳓प्यमानान्त्वा सादयामि ।
Keith
I place thee that art aflame.
मूलम्
दीप्य॑मानान्त्वा सादयामि ।
भट्टभास्कर-टीका
दीप्यमाना हृदये आविर्भवन्ती ।
विश्वास-प्रस्तुतिः
रो᳓चमानान्त्वा सादयामि᳓।
Keith
I place thee that blazest.
मूलम्
रोच॑मानान्त्वा सादया॒मि।
भट्टभास्कर-टीका
रोचमाना गगने आविर्भवन्ती ।
विश्वास-प्रस्तुतिः
अ᳓जस्रान्त्वा सादयामि ।
Keith
I place thee that art immortal.
मूलम्
अज॑स्रान्त्वा सादयामि ।
भट्टभास्कर-टीका
अजस्रा अनुपहिंस्या केनचिदपि ।
विश्वास-प्रस्तुतिः
बृह᳓ज्ज्योतिषन्त्वा सादयामि ।
Keith
I place thee that hast great light.
मूलम्
बृ॒हज्ज्यो॑तिषन्त्वा सादयामि ।
भट्टभास्कर-टीका
बृहज्ज्योतिः बृंहितज्योतिः ।
विश्वास-प्रस्तुतिः
बोध᳓यन्तीन्त्वा सादयामि ।
Keith
I place thee that awakenest.
मूलम्
बो॒धय॑न्तीन्त्वा सादयामि ।
भट्टभास्कर-टीका
बोधयन्ती दृश्यं प्रकाशयन्ती ।
विश्वास-प्रस्तुतिः
जा᳓ग्रतीन्त्वा सादयामि ॥ [35]
Keith
I place thee that art awake.
मूलम्
जाग्र॑तीन्त्वा सादयामि ॥ [35]
भट्टभास्कर-टीका
जाग्रती स्वयंप्रकाशात्मना ॥