१७ चमसोपादानम् आप्यायस्व


भास्करोक्त-विनियोगः

चमसोपदंसने प्रायश्चित्तं - आप्यायस्वेति गायत्री ॥

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ प्यायस्व मदिन्-तम
सो᳓म वि᳓श्वाभिर् ऊति᳓भिः ।
भ᳓वा नस् सप्र᳓थस्तमः ॥

आप्यायस्व ...{Loading}...
Keith

Swell, O sweetest Soma,
With all thy aids,
Be fullest of help for us.

मूलम्

आ प्या॑यस्व मदिन्तम॒ सोम॒ विश्वा॑भिरू॒तिभिः॑ ।
भवा॑ नस्स॒प्रथ॑स्तमः ॥

भट्टभास्कर-टीका

सोम! मदिन्तम! मादयितृतम! ।
यद्वा - माद्यतम आत्मानन्दमय । ‘शमित्यष्टाभ्यो घिनुण्’ ‘नाद्घस्य’ इति नुट् । आप्यायस्व वर्धस्व विश्वाभिर् ऊतिभिः रक्षणैस् तर्पणैर्वा अस्माकं सप्रथस्तमो भव अतिशयेन प्रथा-समन्वितः सप्रथस्तमः । त्वमस्मद्विषयाभिस्सर्वाभिरूतिभिः भृशं प्रथितो भव अस्माभिस्सह वर्धस्व ॥