भास्करोक्त-विनियोगः
1अतिग्राह्याणां तृतीयं सौर्यं गृह्णाति - तरणिरिति गायत्र्य् एकयजुरन्ता ॥
विश्वास-प्रस्तुतिः
तर᳓णिर्विश्व᳓दर्शतो ज्योतिष्कृ᳓दसि सूर्य ।
वि᳓श्वमा᳓ भासि रोचन᳓म् ।
मूलम्
त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य ।
विश्व॒मा भा॑सि रोच॒नम् ।
भट्टभास्कर-टीका
हे सूर्य! तरणिस् तरणशीलः गत्वरस् तारयिता वा दुरितानां विश्वदर्शतः विश्वस्य साक्षाद्द्रष्टा । दासी भारादिर्द्रष्टव्यः ।
यद्वा - विश्वं दर्शतं द्रष्टव्यं यस्य । ‘बहुव्रीहौ विश्वं सञ्ज्ञायाम्’ इति विश्वशब्दस्य अन्तोदात्तत्वम् ।
ज्योतिष्कृज् ज्योतिषां ग्रहनक्षत्राणां कर्ता एवं महानुभावस्त्वम् असि ।
त्वं विश्वं रोचनं रोचनशीलम् आभासि त्वमेव वा आभासयस्य् आत्मज्योतिस्त्वमसीति ।
विश्वास-प्रस्तुतिः
उपयाम᳓गृहीतोऽसि सू᳓र्याय त्वा भ्रा᳓जस्वत एष᳓ ते यो᳓निः सू᳓र्याय त्वा भ्रा᳓जस्वते ॥ (47) ॥ 16 ॥
मूलम्
उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा॒ भ्राज॑स्वत ए॒ष ते॒ योनिः॒ सूर्या॑य त्वा॒ भ्राज॑स्वते ॥ (47) ॥ 16 ॥
भट्टभास्कर-टीका
उपयामगृहीत इति व्याख्यातम् । सूर्याय त्वा भ्राजस्वते दीप्तिमते गृह्णाम्य् एष ते योनिरिति ॥ इति तैत्तिरीयारण्यके तृतीये षोडशोऽनुवाकः ॥