भास्करोक्त-विनियोगः
1अथ अनन्तरोऽनुवाको मृत्युसूक्तं - हरिं हरन्तमिति ॥
‘मृत्यवे वेहतम्’ इत्यत्र पशौ वपायाः पुरोडाशस्य हविष
इति द्वेद्वे याज्यानुवाक्ये षडृचो भवन्ति ।
प्रथमे अन्त्ये च त्रिष्टुभः ।
मध्ये द्वे अनुष्टुभौ ।
विश्वास-प्रस्तुतिः
ह᳓रिँ ह᳓रन्तम᳓नुयन्ति देवाः᳓ ।
वि᳓श्वस्ये᳓शानव्ँ वृषभं᳓ मतीना᳓म् ।
ब्र᳓ह्म स᳓रूपम᳓नुमेद᳓मा᳓गात् ।
अ᳓यनं मा᳓ वि᳓वधीर्वि᳓क्रमस्व ।
मूलम्
हरिँ॒ हर॑न्त॒मनु॑यन्ति दे॒वाः ।
विश्व॒स्येशा॑नव्ँ वृष॒भं म॑ती॒नाम् ।
ब्रह्म॒ सरू॑प॒मनु॑मे॒दमागा॑त् ।
अय॑नं॒ मा विव॑धी॒र्विक्र॑मस्व ।
भट्टभास्कर-टीका
हरिं हरणशीलं मृत्युं हरन्तं प्राणमपहरन्तम् अनुयन्त्य् अनुगच्छन्ति देवा इन्द्रियाणि प्राणे ह्रियमाणे स्वयमपि पलायन्ते तद्वृत्तित्वात् । विश्वस्य भूतग्रामस्य ईशानम् ईशितारं वृषभं प्रधानभूतं मतीनां मतिमताम् । तस्माद् इत्थं महानुभावस्त्वम् अप्रतिरथः स्वतन्त्रश्च असि । अथापि मद्विषये इत्थं कर्तव्यमित्यात्माभिमतं प्रार्थयिष्यमाणस् तद्धेतुत्वेन आत्मनो वैलक्षक्षण्यं तावदाह - ब्रह्मेति । यस्मात् परिबृढम् अयनं ज्ञानं गमनमेव वा सरूपम् आत्मसमानरूपम् आत्मसत्त्वानुगतस्वभावम् इदम् ईदृशं मामन्वागाद् अनुक्रमेणागतं तस्मात् तद्विषयानतिक्रम्य परस्मिन् महिम्नि स्थितं मां मा विवधीर् मा विफलं हिंसीः । विघातमस्यायनस्य कार्षीः । तस्माद् विक्रमस्व मां विहाय अन्यत्र यद्वा - मा गच्छ मां मा वधिष्टाः ॥
विश्वास-प्रस्तुतिः
मा᳓ छिदो मृत्यो मा᳓ वधीः ।
मा᳓ मे ब᳓ल᳓व्ँ वि᳓वृहो मा᳓ प्र᳓मोषीः ।
प्रजां᳓ मा᳓ मे रीरिष आ᳓युरुग्र ।
नृच᳓क्षसन्त्वा हवि᳓षा विधेम ।
मूलम्
मा छि॑दो मृत्यो॒ मा व॑धीः ।
मा मे॒ बलव्ँ॒ विवृ॑हो॒ मा प्रमो॑षीः ।
प्र॒जां मा मे॑ रीरिष॒ आयु॑रुग्र ।
नृ॒चक्ष॑सन्त्वा ह॒विषा॑ विधेम ।
भट्टभास्कर-टीका
2मा छिद इति प्रथमः पादो व्यक्ताक्षरः ॥ हे मृत्यो ! मां मा छिदः मा छेत्सीर् देहबाधां मा कार्षीर् मा च मां वधीः प्राणबाधां मा कार्षीः । ‘लुङि च’ इति वधादेशः ‘नेटि’ इति वृद्धिप्रतिषेधः । मा च मम बलं विवृहः मा विनीनशः बलहानिं मा कार्षीः । बृह उद्यमने, बवयोरेकत्वमिच्छन्ति, तौदादिकः, छान्दसो लुङ्, लङपवादश् छान्दसो लुङ् । मा च मां प्रमोषीर् अज्ञं प्रमत्तं वा माऽपहार्षीः । मदीयं वा धनादिकं मा प्रमोषीः । हे उग्र! उग्रदण्डस्वभाव! मा मदीयां प्रजां रीरिषः माऽनीनश आयुश्च मा रीरिष इत्येव, वर्षशतादर्वाक् मामादाय मा गमः | तदर्थं वयमपि त्वां नृचक्षसं नृणां मनुष्याणां द्रष्टारं हिताहितदर्शिनं पुण्यापुण्यविभागदर्शिनं वा । नॄन् चष्ट इति नृचक्षाः । ‘गतिकारकयोरपि’ इत्य् असुन् ‘परादिश्छन्दसि’ इत्य् उत्तरपदाधुदात्तत्वम् । तादृशं त्वां हविषा विधेम परिचरेम ॥
विश्वास-प्रस्तुतिः
सद्य᳓श्चकमाना᳓य ।
प्रवेपाना᳓य मृत्य᳓वे । (45)
प्रा᳓स्मा आ᳓शा अशृण्वन् ।
का᳓मेनाजनयन्पु᳓नः ।
मूलम्
स॒द्यश्च॑कमा॒नाय॑ ।
प्र॒वे॒पा॒नाय॑ मृ॒त्यवे॑ । (45)
प्रास्मा॒ आशा॑ अशृण्वन् ।
कामे॑नाजनय॒न्पुनः॑ ।
भट्टभास्कर-टीका
3सद्य इति ॥ सद्यः समानेऽहनि न तदानीमेव चकमानाय तृप्यते आगत्य क्षणं तिष्ठते प्राणिनां सद्यो मरण रुचये अतएव प्रवेपानाय प्रकर्षेण प्राणिनां वेपयित्रे कम्पयित्रे । ण्यन्तात्ताच्छीलिकश्चानश्, ‘छन्दस्युभयथा’ इत्यार्धधातुकत्वाण्णिलोपः, ‘अनित्यमागमम्’ इति वा मुगभावः, यथा ‘अपि शाकम्पचानस्य’ इति । ईदृशाय अस्मै मृत्यवे आशाः सर्वाः प्राशृण्वन् प्रकर्षेण शृण्वन्ति सर्वे दिग्वासिन इममेव शृण्वन्त्य् एतच्चरितानामेव प्रकर्षण श्रोतारो भवन्ति । यद्वा - अस्मा एव दिग्वासिनः प्रशृण्वन्ति विधेयीभूता आज्ञाश्राविण इव प्रकर्षेण प्रवर्तन्ते । छान्दसो लुङ् । किञ्च - सर्वेऽपि दिग्वासिनो ऽस्य कामेन इच्छया पुनःपुनरात्मीयमहिम्नाऽभिमतम् अजनयन् जनयन्ति न पुनरेतदनुज्ञया विना ॥
विश्वास-प्रस्तुतिः
का᳓मेन मे का᳓म आ᳓गात् ।
हृ᳓दयाद्धृ᳓दयं मृत्योः᳓ ।
य᳓दमी᳓षामदः᳓ प्रिय᳓म् ।
त᳓दै᳓तू᳓पमा᳓मभि᳓ ।
मूलम्
कामे॑न मे॒ काम॒ आगा॑त् ।
हृद॑या॒द्धृद॑यं मृ॒त्योः ।
यद॒मीषा॑म॒दः प्रि॒यम् ।
तदैतूप॒माम॒भि ।
भट्टभास्कर-टीका
4कामेनेति ॥ मृत्योः कामो मम कामेन ममानुकूल्येन आगाद् आगच्छतु, यथाऽहं कामये तदेव कामयतां मृत्युः कामम् । किञ्च - ममापि हृदयं मृत्योर् हृदयान् मृत्युहृदयानुकूल्याद् आगादित्येव । यादृशं मृत्युहृदयं तादृशमस्तु मम हृदयं न तु तद्विरोधि मृत्योर्विप्रियं मा कार्षमिति यावत् । ल्यब्लोपे वा पञ्चमी - मृत्युहृदयमभिसमीक्ष्य मम हृदयं तदनुरूपं प्रवर्ततामिति । इदानीं मृत्योर्विप्रियानाचरणस्य फलमाह - अमीषाम् इन्द्रियाणां यत्प्रियम् अद इति विशेषार्थम् आयुर्वा प्रजा वा पशुर्वेति । ‘सुपां सुलुक्’ इति सप्तम्या वा लुक् । अमुष्मिन् लोके यत् प्रियं तत्सर्वं मामभ्यैत्व् आभिमुख्येन उपागच्छतु, मृत्योः प्रियाचरणम् इन्द्रियप्रियाभ्युपाय इति भावः ॥
विश्वास-प्रस्तुतिः
प᳓रं मृत्यो अ᳓नु प᳓रेहि प᳓न्थाम् ।
य᳓स्ते स्व᳓ इ᳓तरो देवया᳓नात् ।
च᳓क्षुष्मते शृण्वते᳓ ते ब्रवीमि ।
मा᳓ नः प्रजाँ᳓ रीरिषो मो᳓त᳓ वीरा᳓न् ।
मूलम्
परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्था॑म् ।
यस्ते॒ स्व इत॑रो देव॒याना॑त् ।
चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि ।
मा नः॑ प्र॒जाँ री॑रिषो॒ मोत वी॒रान् ।
भट्टभास्कर-टीका
5परमिति ॥ हे मृत्यो ! परम् अन्यं पन्था पन्थानम् अनुपरेह्य् अनुक्रमेण परागच्छ । यस्ते स्वभूतः पन्था देवयानादितरस् तत्र परेहि, देवयानं पन्थानं मे देहि । चक्षुष्मते साधुदर्शिने शृण्वते श्रोत्रे विज्ञप्तीनां श्रुत्वाऽभिमतानां दात्रे ब्रवीमि प्रार्थये । कर्मणि चतुर्थी । अस्माकं प्रजां पुत्रादिकां वीरान् विक्रान्तांश्च अन्यानस्मदीयान् मा रीरिषः माऽनीनशः ॥
विश्वास-प्रस्तुतिः
प्र᳓ पूर्व्यं᳓ म᳓नसा व᳓न्दमानः ।
ना᳓धमानो वृषभ᳓ञ्चर्षणीना᳓म् ।
यः᳓ प्रजा᳓नामेकरा᳓ण्मा᳓नुषीणाम् ।
मृत्युय्ँ᳓यजे प्रथमजा᳓मृत᳓स्य ॥ (46)
मूलम्
प्र पू॒र्व्यं मन॑सा॒ वन्द॑मानः ।
नाध॑मानो वृष॒भञ्च॑र्षणी॒नाम् ।
यः प्र॒जाना॑मेक॒राण्मानु॑षीणाम् ।
मृ॒त्युय्ँय॑जे प्रथम॒जामृ॒तस्य॑ ॥ (46)
भट्टभास्कर-टीका
6प्रपूर्व्यमिति ॥ पूर्व्यं पुरातनम् । स्वार्थिको यः । पूर्वेण वा प्रथमेन पुंसा ईश्वरेण कृतः प्रवर्तितः ‘पूर्वैः कृतमिनियौ च’ इति यः । मनसा वन्दमानो नाधमानः । नाथृ याच्नादिषु, वर्णविकारश्छान्दसः । याचमानोऽभिमतानि वृषभं वर्षितारं कामानां चर्षणीनां मनुष्याणाम् । यः प्रजानां मानुषीणां मनोरपत्यानाम् एकराट् एकस्वामी ‘मनोर्जातौ’ इत्यञ् । तं महानुभावं मृत्युं प्रयजे प्रकर्षण पूजयामि । ऋतस्य सत्यस्य आत्मनः प्रथमजां प्रथमोत्पन्नं पुत्रम् । ‘जनसन’ इति विट्, ‘विड्वनोरनुनासिकस्यात्’ इत्यात्त्वम् ॥ इति तैत्तिरीयारण्यके पञ्चदशोऽनुवाकः ॥