१४ भर्तृ-सूक्तम्

भास्करोक्त-विनियोगः

1उत्तरानुवाकौ सूक्तविशेषौ आरण्यकत्वाविशेषाद् इहाम्नातौ ।

तत्रेदं प्रथमं भर्तृसूक्तं ‘मृत्यवे वेहतम्’ इत्यत्र पशूनां नारिष्टानन्तरमुपहोमा एते ।

प्राणः मृत्युरूपेण स्तूयते - अन्त्या अनुष्टुप् ।

विश्वास-प्रस्तुतिः

भर्ता᳓ स᳓न्भ्रिय᳓माणो बिभर्ति ।
ए᳓को देवो᳓ बहुधा᳓ नि᳓विष्टः ।
यदा᳓ भार᳓न्तन्द्र᳓यते स᳓ भ᳓र्तुम् ।
निधा᳓य भारं᳓ पु᳓नर᳓स्तमेति ।

मूलम्

भ॒र्ता सन्भ्रि॒यमा॑णो बिभर्ति ।
एको॑ दे॒वो ब॑हु॒धा निवि॑ष्टः ।
य॒दा भा॒रन्त॒न्द्रय॑ते॒ स भर्तु॑म् ।
नि॒धाय॑ भा॒रं पुन॒रस्त॑मेति ।

भट्टभास्कर-टीका

भर्ता प्राणः, शरीरस्य धारकत्वात् पोषकत्वाद्वा भर्ता सन् भ्रियमाणश्चान्नादिना ईश्वरेण च एवम्भूतो यो बिभर्ति शरीराणि देवो देवनशील एकोऽपि सन् बहुधा शरीरेषु निविष्टः केषुचिन्महान् केषुचिदल्पः, तत्रापि बहुप्रकारकार्यजनकः । किं सर्वदा शरीराणि बिभर्ति ? नेत्याह - स एष देवो यदा भारं भरणीयं शरीरं भर्तुं तन्द्रयते तन्द्रीम् आलस्यं प्रतिपद्यते जीवनादृष्टावसाने, तदानीम् इदं भारं निधाय उत्सृज्य अस्तमेत्य् अदर्शनं गच्छति पुनः पूर्ववच्छरीरारम्भात्प्रागेव तदाऽसौ मृत इत्युच्यते ॥

विश्वास-प्रस्तुतिः

त᳓मेव᳓ मृत्यु᳓ममृ᳓तन्त᳓माहुः ।
तं᳓ भर्ता᳓रन्त᳓मु गोप्ता᳓रमाहुः ।
स᳓ भृतो᳓ भ्रिय᳓माणो बिभर्ति ।
य᳓ एनव्ँ वे᳓द सत्ये᳓न भ᳓र्तुम् ।

मूलम्

तमे॒व मृ॒त्युम॒मृत॒न्तमा॑हुः ।
तं भ॒र्तार॒न्तमु॑ गो॒प्तार॑माहुः ।
स भृ॒तो भ्रि॒यमा॑णो बिभर्ति ।
य ए॑नव्ँ॒ वेद॑ स॒त्येन॒ भर्तु॑म् ।

भट्टभास्कर-टीका

2यस्मादेवं तस्मात् तमेवेति मृत्युं मरणहेतुम् अमृतम् अमृतत्वहेतुं च तमेव आहुर् विपश्चितः । यद्ययं मुञ्चति म्रियतेऽसौ, यदि न मुञ्चति जीवत्यसौ । किञ्च - तमेव भारं पोषयितारं गोप्तारं रक्षिप्तारं च आहुः । अपि च स देवः पूर्वमेव देहारम्भे भृतः भ्रियमाणश्च अन्नादिभिरिदानीं बिभर्ति तं पुरुषम् । किमित्याह - य एनं प्राणं सत्येन सति साधुना श्रुतिस्मृत्युदितेन मार्गेण भर्तुं वेद तं भृतो भ्रियमाणश्च बिभर्ति न जहाति । अन्यं तु भृतोऽपि भ्रियमाणोऽपि न विभर्त्य् असन्निव तस्मिन् भवति । यद्वा - अन्यं भृतो भ्रियमाणो न बिभर्ति यद्यपि भृतस् तथाऽपीदानीं भ्रियमाणो भूत्वा भर्ता न भवति ॥

विश्वास-प्रस्तुतिः

सद्यो᳓ जात᳓मुत᳓ जहात्येषः᳓ ।
उतो᳓ ज᳓रन्तन्न᳓ जहात्ये᳓कम् । (41)
उतो᳓ बहू᳓ने᳓कम᳓हर्जहार ।
अ᳓तन्द्रो देव᳓स्स᳓दमेव᳓ प्रा᳓र्थः ।

मूलम्

स॒द्यो जा॒तमु॒त ज॑हात्ये॒षः ।
उ॒तो जर॑न्त॒न्न ज॑हा॒त्येक॑म् । (41)
उ॒तो ब॒हूनेक॒मह॑र्जहार ।
अत॑न्द्रो दे॒वस्सद॑मे॒व प्रार्थः॑ ।

भट्टभास्कर-टीका

3एतदेव स्पष्टयति - सद्य इति ॥ स एष देवः सद्यः समानेऽह्न्य् उताप्यर्थे जातं जातमात्रमपि जहाति जन्मदिन एवं त्यजत्य् एकमिति सामर्थ्याल्लभ्यते । उतो अपिच एकम् अन्यं पुरुषं जरन्तं जीर्णमपि न जहाति । ‘जीर्यतेरत्रन्’ इति भूते अत्रन्प्रत्ययः । अथ एकमह एकस्मिन्नहनि बहूनपि जहार हरति । एतदुक्तं भवति - बहुष्वप्यहस्स्व् एकमपि न हरत्य् एकस्मिन्नहनि बहूनपि हरतीति या वचनव्यक्तिः सा सामर्थ्याद् लभ्या । एवमयं देवः सदमेव सदैव । मकारान्तो निपातः । अतन्द्रो ऽनालस्यः प्रार्थः प्रकृष्टप्रयोजनः, प्रार्थनीय इत्येके ॥

विश्वास-प्रस्तुतिः

य᳓स्त᳓द्वे᳓द य᳓त आबभू᳓व ।
सन्धा᳓ञ्च याँ᳓ सन्दधे᳓ ब्र᳓ह्मणैषः᳓ ।
र᳓मते त᳓स्मिन्नुत᳓ जीर्णे᳓ श᳓याने ।
नै᳓नञ्जहात्य᳓हस्सु पूर्व्ये᳓षु ।

मूलम्

यस्तद्वेद॒ यत॑ आब॒भूव॑ ।
स॒न्धाञ्च॒ याँ स॑न्द॒धे ब्रह्म॑णै॒षः ।
रम॑ते॒ तस्मि॑न्नु॒त जी॒र्णे शया॑ने ।
नैन॑ञ्जहा॒त्यह॑स्सु पू॒र्व्येषु॑ ।

भट्टभास्कर-टीका

4यस्तदियादि ॥ अथ यः पुरुषस् तद्वेद तत्कारणं जानाति । किमित्वाह - यतः कारणाद् अयं प्राण आबभूव आविर्बभूव तद्यो वेद, सन्धां च यो वेदेत्येव सन्धा सन्धानं समयः सम्बन्धो वा । ‘आतश्चोपसर्गे’ इत्यञ् । तामपि यो वेद । कीदृशीमित्याह - यां सन्धां ब्रह्मणा आत्मना सह एषः प्राणः सन्दधे ‘इत्थं वस्तव्यम् इयन्तं कालं स्थातव्यं’ इति तामस्य सन्धां कालं च यो वेद । तस्मिन् पुरुषे जीर्णे शयानेऽप्य् अयं देवो रमते नैवैनं जहात्य् अहस्सु पूर्व्येषु पूर्वैः कर्मभिः कृतानि पूर्व्याणि ‘पूर्वैः कृतमिनियौ’ इति यः । तेषु नैनं जहाति महाप्राण एव सर्वेषु भवति पुरुषः । यद्वा - पूर्वैः शास्त्रकृद्भिः कृतानि विहितानि शतवर्षसम्बन्धीनि । पूर्व्याणि । यद्वा - पूर्वसदृशानि पूर्व्याणि । इवार्थे यः । बाल्ये यान्यहानि गतानि तत्तुल्येष्वेवाहस्सु सर्वेष्व् एनं न जहाति तत्तुल्यान्येव करोतीति यावत् ॥

विश्वास-प्रस्तुतिः

त्वा᳓मा᳓पो अ᳓नु स᳓र्वाश्चरन्ति जानतीः᳓ ।
वत्सं᳓ प᳓यसा पुनानाः᳓ ।
त्व᳓मग्निँ᳓ हव्यवा᳓हँ स᳓मिन्त्से ।
त्वं᳓ भर्ता᳓ मातरि᳓श्वा प्रजा᳓नाम् ।
(42)

मूलम्

त्वामापो॒ अनु॒ सर्वा॑श्चरन्ति जान॒तीः ।
व॒त्सं पय॑सा पुना॒नाः ।
त्वम॒ग्निँ ह॑व्य॒वाहँ॒ समि॑न्त्से ।
त्वं भ॒र्ता मा॑त॒रिश्वा॑ प्र॒जाना॑म् ।
(42)

भट्टभास्कर-टीका

5त्वामाप इति ॥ चरन्तीति प्रथमपादान्तः । वाक्यविच्छेदोऽन्यथा प्रमादकृतः । आपः कर्माणि सर्वाणि कर्माणि त्वामेवानुसञ्चरन्त्य् अनुधावन्ति त्वमेव हि सर्वाणि कर्माणि कारयसि यथा वत्सं मातरोऽनुसञ्चरन्ति जानतीर् जानन्त्यः वत्समेव ध्यायन्त्यः । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घः । पयसा पुनाना वत्सं शोधयन्त्यः जीवयन्त्यः शुद्ध्या तत्फलं जीवनं लक्ष्यते । यद्वा - पयसा सर्वं जगत् पुनाना यागादिनिर्वृत्त्या । यद्वा - अन्तर्भावितण्यर्थश्चरतिः । सर्वाण्यपि कर्माणि त्वाम् अनतिक्रमेण चरन्ति वर्धयन्ति वत्समिव गावः पयस्विन्य इति श्रौतस्मार्तैर्हि कर्मभिः प्राणा वर्धन्ते । यद्वा - स्यन्दनकर्मा पुनातिः । पुनानाः सोमधारयेति । यथा स्यन्दमाना पयोधारा यतो वत्सं जानन्त्य इति । त्वमेव हव्यवाहं हविषां वोढारम् । ‘वहश्च’ इति ण्विः । अग्निं समिन्त्से सन्दीपयसि । इन्धेर्लटि ‘रुधादिभ्यः श्नम्’ ‘श्नसोरल्लोपः’ ‘खरि च’ इति चर्वम् । त्वं भर्ता प्रजानां धारयिता पोषयिता वा । कथमित्याह - मातरिश्वा आकाशे गन्तेति व्याख्यातम् ॥

विश्वास-प्रस्तुतिः

त्वय्ँ᳓ यज्ञ᳓स्त्व᳓मुवेवा᳓सि सो᳓मः ।
त᳓व देवा᳓ ह᳓वमा᳓यन्ति स᳓र्वे ।
त्व᳓मे᳓कोऽसि बहू᳓न᳓नुप्र᳓विष्टः ।
न᳓मस्ते अस्तु सुह᳓वो म एधि ।

मूलम्

त्वय्ँ य॒ज्ञस्त्वमु॑वे॒वासि॒ सोमः॑ ।
तव॑ दे॒वा हव॒माय॑न्ति॒ सर्वे॑ ।
त्वमेको॑ऽसि ब॒हूननु॒प्रवि॑ष्टः ।
नम॑स्ते अस्तु सु॒हवो॑ म एधि ।

भट्टभास्कर-टीका

6त्वं यज्ञ इत्यादि ॥ त्वमेव यज्ञस् त्वदधीनत्वात् सर्वप्रवृत्तीनां, सोमश्च त्वमेवासि, त्वदधीनत्वात्सर्वजीवानां, न हि वायुना विना किञ्चिज्जीवतीति तव हवम् आह्वानम् आयन्ति गच्छन्ति सर्वे देवाः सर्वाणीन्द्रियाणि त्वयि हूयमाने आगच्छन्ति त्वया वा हूयमाना आगच्छन्ति । त्वमेकोऽसि बहून् देहान् अनुप्रविष्टः पृथक्त्वेन अनुप्रविष्टो ऽनुक्रमेण व्याप्य स्थितः । यद्वा - एक एव सन् बहूनिन्द्रियपदार्थाननुप्रविश्य स्थितस् तस्मै महानुभावाय तुभ्यं नमोऽस्तु त्वं च मम सुहव एधि शोभमानाह्वानो भव । विधेयो भवेति यावत् । ह्वयतेः ‘भावे अनुपसर्गस्य’ इत्य् अप्सम्प्रसारणे, आद्युदात्तं द्व्यचश्छन्दसि’ इत्युत्तरपदानुदात्तत्वम् ॥

विश्वास-प्रस्तुतिः

न᳓मो वामस्तु शृणुतँ᳓ ह᳓वं मे ।
प्रा᳓णापानावजिरँ᳓ सञ्च᳓रन्तौ ।
ह्व᳓यामि वां ब्र᳓ह्मणा तूर्त᳓मे᳓तम् ।
यो᳓ मा᳓न्द्वे᳓ष्टि त᳓ञ्जहितय्ँ युवाना ।

मूलम्

नमो॑ वामस्तु शृणु॒तँ हवं॑ मे ।
प्राणा॑पानावजि॒रँ स॒ञ्चर॑न्तौ ।
ह्वया॑मि वां॒ ब्रह्म॑णा तू॒र्तमेत॑म् ।
यो मान्द्वेष्टि॒ तञ्ज॑हितय्ँ युवाना ।

भट्टभास्कर-टीका

7नमो वामिति ॥ इदानीं प्राणापानवृत्तिद्वयेन प्राणः स्तूयते - हे प्राणापानौ! वां युवाभ्यां नमोऽस्तु मम हवम् आह्वानं शृणुतम् आह्वानप्रयोजनं कुरुतम् । तिङः परत्वान्न निहन्यते । अजिरम् अजनशीलं युष्मत्सम्बन्धेन सत्वरं सञ्चरन्तौ समेत्य चरन्तौ । यद्वा - शरीरं सञ्चारयन्तौ युवां मम हवं शृणुतम् इति । किमर्थमाह्वानमिति चेद् आह - ब्रह्मणा मन्त्रेण युवाम् आह्वयामि । परिबृडौ वां युवाम् आह्वयामि । ‘सुपां सुलुक्! इत्याकारः । तूर्तं त्वरितम् । ‘नसत्तनिषत्ता’ इत्यत्र निपात्यते । एतं शीघ्रमागच्छतम् एतस्मै प्रयोजनाय युवाम् आह्वयामि । इदमपि किमर्थमित्याह - यो मां द्वेष्टि तं जहितं त्यजतं तत्सकाशं मा गमयतं हे युवाना! युवानौ ! नित्यतरुणौ! मिश्रितौ - वा । ‘सुपां सुलुक्’ इत्याकारः॥

विश्वास-प्रस्तुतिः

प्रा᳓णापानौ सव्ँ विदानौ᳓ जहितम् ।
अमु᳓ष्या᳓सुनामा᳓ स᳓ङ्गसाथाम् । (43)
तं᳓ मे देवा ब्र᳓ह्मणा सव्ँ विदानौ᳓ ।
वधा᳓य दत्तन्त᳓महँ᳓ हनामि ।

मूलम्

प्राणा॑पानौ सव्ँ विदा॒नौ ज॑हितम् ।
अ॒मुष्यासु॑ना॒मा सङ्ग॑साथाम् । (43)
तं मे॑ देवा॒ ब्रह्म॑णा सव्ँ विदा॒नौ ।
व॒धाय॑ दत्त॒न्तम॒हँ ह॑नामि ।

भट्टभास्कर-टीका

8प्राणापानाविति ॥ हे प्राणापानौ! संविदानौ ऐकमत्यं गतौ सन्तौ मम शत्रुं जहितं त्यजतम् । अमुष्य शत्रोर् दत्तस्य गुप्तस्य वा असुना जीवेन मा सङ्गसाथां सङ्गतौ मा भूतम् । उभयत्र ‘समोगमृच्छि’ इत्यात्मनेपदं ‘वा गमः’ इति सिचः कित्त्वम् । किञ्च - हे देवा! देवौ! ब्रह्मणा परेण आत्मना संविदानौ ऐकमत्यं गतौ तं मे मम शत्रुं वधाय वधार्थं दत्तं मया हन्यमानम् अनुज्ञातुम् अर्हथ । तदाह - तमहं हनामि युवाभ्याम् अनुज्ञातः । व्यत्ययेन शप् ॥

विश्वास-प्रस्तुतिः

अ᳓सज्जजान सत᳓ आ᳓बभूव ।
यय्ँ᳓यञ्जजा᳓न स᳓ उ गोपो᳓ अस्य ।
यदा᳓ भार᳓न्तन्द्र᳓यते स᳓ भ᳓र्तुम् ।
परा᳓स्य भारं᳓ पु᳓नर᳓स्तमेति ।

मूलम्

अस॑ज्जजान स॒त आब॑भूव ।
यय्ँय॑ञ्ज॒जान॒ स उ॑ गो॒पो अ॑स्य ।
य॒दा भा॒रन्त॒न्द्रय॑ते॒ स भर्तु॑म् ।
प॒रास्य॑ भा॒रं पुन॒रस्त॑मेति ।

भट्टभास्कर-टीका

9असदिति ॥ अस्पृष्टभावविकारं परमेश्वरलक्षणं वस्त्व् असज्जजान परमाकाशरूपेण प्रादुरभूत् सतस् तस्मात् सद्रूपात् सर्वपरिस्पन्दाधाराद्वाताख्यात् प्राणोऽयम् आबभूव सर्वविकारव्याप्य् उदपद्यत । अथ अयं सर्वभूतात्मा यंयं पदार्थं जजान जनयत्य् अस्य सर्वस्य स एव प्राणः गोपः गोपायिता रक्षिता । पचाद्यच् ‘आयादय आर्धधातुके वा’ इत्यायप्रत्ययाभावः । अथ स प्राणो विश्वं बिभ्रद् यदा इमं भारं भर्तुं तन्द्रयते आलस्यं प्रतिपद्यते तदानीं भारम् इमं परास्य उत्सृज्य पुनरस्तमेति परमाकाशात्मना तिष्ठति ॥

विश्वास-प्रस्तुतिः

त᳓द्वै᳓ त्वं᳓ प्राणो᳓ अभवः ।
महा᳓न्भो᳓गः प्रजा᳓पतेः ।
भु᳓जः करिष्य᳓माणः ।
य᳓द्देवा᳓न्प्रा᳓णयो न᳓व ॥ (44)

मूलम्

तद्वै त्वं प्रा॒णो अ॑भवः ।
म॒हान्भोगः॑ प्र॒जाप॑तेः ।
भुजः॑ करि॒ष्यमा॑णः ।
यद्दे॒वान्प्राण॑यो॒ नव॑ ॥ (44)

भट्टभास्कर-टीका

10तद्वा इति ॥ ‘प्रत्यक्षकृतोऽयं मन्त्रः प्राणत्वं च अस्य देवस्य प्रतिपादयति तत् तस्मात् कारणात् त्वं प्राणो अभवः प्राणव्यपदेशोऽभवः । प्रजापतेर् महान् भोगः भोगहेतुस्त्वं यस्मात् तस्मात् त्वं प्राणो अभवश् चक्षुरादयो हि भोगहेतवः प्राणास् तस्मात् त्वं प्राण इति । क आह भोगहेतुः प्राण इति ? तत्राह - भुजः भोगान् करिष्यमाणः । हेतौ शानच् । भोगहेतुर्जीवानां यस्मात् त्वं देवान् चक्षुरादीनि नव इन्द्रियाणि प्राणयः प्रकर्षेण उज्जीवितवानसि । प्रकृष्टमननं जीवनम् एतेष्विति प्राणाः। इत्थं त्वमेव भोगार्थं करोषि तस्माद् भोगहेतवः प्राणाः । त्वं च महान् भोगहेतुः प्रजापतेः । तस्मात् त्वं प्राणो अभव इति । अनितेर्ण्यन्ताद् लङि ‘आडजादीनाम्’ इत्याट् । ‘यद्वृत्तान्नित्यम्’ इति निघाते प्रतिषिद्धे आट उदात्तत्वे ‘तिङि चोदात्तवति’ इति गतेरनुदात्तत्वं, ‘उदात्तवता तिङा’ इति समासः, एकादेशेन उदात्तत्वे णिच् स्वर्यते ‘अनितेः’ इति णत्वम् ॥ इत्यारण्यके तृतीये चतुर्दशोऽनुवाकः ॥