११ होतृ-हृदयम्

१ दशहोता

भास्करोक्त-विनियोगः

1’हृदयं यजूंषि’ इत्यादौ यदुक्तं हृदयम् इति तदिदानीम् उच्यते - सुवर्णं धर्ममिति ॥
अयम् अनुवाको होतृ-हृदयाख्यः होतॄणां पारमार्थ्य-कथनात् ।
सर्वत्र दश-होत्रादि-विभूति-भिन्न-परमात्म-रूपेण इष्टकाः स्तूयन्ते ।
अध्यात्मपक्षे तु परमात्मैव ।

तत्रादौ दशहोतुः हृदयम् । सर्वाश् चैताः त्रिष्टुभः । विशेषो वक्ष्यते ।

विश्वास-प्रस्तुतिः

सुव᳓र्णङ् घर्मं᳓ प᳓रिवेद वेन᳓म् ।
इ᳓न्द्रस्यात्मा᳓नन् दश-धा᳓ च᳓रन्तम्
अन्त᳓स् समुद्रे᳓ म᳓नसा च᳓रन्तम्
ब्र᳓ह्मा᳓ ऽन्वविन्दद् द᳓श-होतारम् अ᳓र्णे+++(=वृष्टौ)+++ ।

मूलम्

सु॒वर्ण॑ङ्घ॒र्मं परि॑वेद वे॒नम् ।
इन्द्र॑स्या॒त्मान॑न्दश॒धा चर॑न्तम् ।
अ॒न्तस्स॑मु॒द्रे मन॑सा॒ चर॑न्तम् ।
ब्रह्मान्व॑विन्द॒द्दश॑होतार॒मर्णे॑ ।

भट्टभास्कर-टीका

सुवर्णं शोभनवर्णं धर्मं अग्निं चीयमानं अन्यत्र दीप्तं तप्तकाञ्चनप्रकाशं वेनं कान्तं अहं परिवेद सर्वतो जानामि । इन्द्रस्य ईश्वरस्य विश्वाधिकस्य शासितुः आत्मानं प्रथमसमुन्मेषलक्षणं स्वभावान्तरं तस्यैव रूपान्तरत्वात् दशधा दशहोत्रात्मना चित्यादिभिः दशभिः प्रकारैः चरन्तं विश्वं व्याप्यस्थितं परमात्मानं सर्वतो जानामि नैतद्व्यतिरिक्तं व्यक्तं किञ्चिदिति वेदात्मा वदति, यं दशहोतारं ब्रह्मा प्रजापतिः अन्वविन्दत् आत्मन् आत्मन् इत्यामन्त्रणानन्तरं अलभत मनसा अन्तःकरणेन प्रकाशोद्रेकलक्षणात्मना । क्वेत्याह - अन्तः मध्ये समुद्रे समुन्दनवति अर्णे वृष्टौ तद्धेतुत्वादादित्यमण्डलं लक्ष्यते, अरणशीलं वा; उपलक्षणत्वाच्च, सर्वेषु शरीरेषु चरन्तं तपोबलेन उपलब्धवान् ब्रह्मा ब्रह्माण्डशरीरः पुरुषविशेषो ब्रह्मा, स परमात्मानं दशहोत्रात्मरूपेण चरन्तं चित्यादिमयं भावनामयं यागात्मानं तपसा ज्ञातवानित्यर्थः । तादृशं महानुभावं दशहोतारं परिवेदेति ॥

विश्वास-प्रस्तुतिः

अन्तः᳓ प्र᳓विष्टश् शास्ता᳓ ज᳓नानाम् ।
ए᳓कस् स᳓न् बहुधा᳓ विचारः
शतँ᳓ शुक्रा᳓णि य᳓त्रै᳓कं भ᳓वन्ति
स᳓र्वे वे᳓दा य᳓त्रै᳓कं भ᳓वन्ति
स᳓र्वे हो᳓तारो य᳓त्रै᳓कं भ᳓वन्ति
स-मा᳓नसीन+++(←मनः)+++ आत्मा᳓ ज᳓नानाम् ।
(20)

मूलम्

अ॒न्तः प्रवि॑ष्टश्शा॒स्ता जना॑नाम् ।
एक॒स्सन्ब॑हु॒धा वि॑चारः ।
श॒तँ शु॒क्राणि॒ यत्रैकं॒ भव॑न्ति ।
सर्वे॒ वेदा॒ यत्रैकं॒ भव॑न्ति ।
सर्वे॒ होता॑रो॒ यत्रैकं॒ भव॑न्ति ।
स॒मान॑सीन आ॒त्मा जना॑नाम् ।
(20)

भट्टभास्कर-टीका

2एवमिन्द्रस्यात्मनाऽविभागेन दशहोता स्तुतः, इदानीं इन्द्राभेदेनापि स्तूयते - अन्तः प्रविष्ट इति ॥ अथ योऽयं तस्याप्यात्मनः शरीरवदावारकस्य अन्तः प्रविष्टः सर्वशरीराणां वा कारयितृत्वेन अन्तरवस्थितः सूक्ष्मरूपः शास्ता शासिता स्वेच्छया प्रेरयिता जनानां सर्वेषामपि मशकादिमूलकारणान्तानां अधिकारिणाम् । यथाऽऽहुः - ‘प्रशासितारं सर्वेषाम्’ इति । श्रूयते च - ‘धियो यो नः प्रचोदयात्’ इति । अथ कीदृशोऽयमित्याह - एक इति । एक एव सन् बहुधा विभिन्नचरणो भवति । चरणं वृत्तिः । एकधा च बहुधा च भवतीति यावत् । यद्वा - गत्यर्थाः बुद्ध्यर्थाः । एकस्वभाव एव सन् बहुस्वभावतया विज्ञायत इति ।

एतदुक्तं भवति - एकमेव वस्तु विचित्रानन्तशक्तिकं वशित्वेशितृत्वादीनां गुणानां परा काष्ठा वस्तुतोऽस्ति, तत् तादृशे स्वे महिम्नि सदा दीप्यमानं विविधानन्तरूपपरिग्रहेण विश्वमादर्शयति, तत्रतत्रानुप्रविश्य रमते । तदिदमुक्तं - ‘तत्सृष्टा । तदेवानुप्राविशत्’ इति । प्रथमं तु विश्वोपादानं सर्वार्थसाधनत्वेन सङ्कल्पयत् आविर्भावयति, तदात्मना स्वयमवतिष्ठते, यस्य अनन्तप्रकाशस्य विष्फुलिङ्गास्सर्वेऽप्यात्मानः, तथा ‘तमेव भान्तमनुभाति’ सर्वम् । इति । तस्मिश्च सर्वक्रियात्मनि सर्वेऽपि यज्ञादिपरिस्पन्दास्तत्फलानि च प्रतितिष्ठन्ति ‘यत एव यज्ञं प्रयुते । तदेनं प्रतिष्ठापयति’ इति । तथा तत्र परानन्दनादात्मनि सर्ववाङ्मयविकल्पाः प्रवर्तन्ते, यथा ‘सर्वे वेदा यत्रैकं भवन्ति’ इति । ततश्च सर्वशक्त्याश्रयत्वात् विचित्रचिदचित्प्रपञ्चसमुत्पत्त्यादयः । इदमुक्तं ‘यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति’ इति । तस्यैव परानन्दात्मनो लेशास्सर्वेऽपि प्रजापत्यादीनामानन्दाः ‘स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः’ इति । एवमन्नमयादिपञ्चकाविभागावस्थात्मकपरमाकाशशरीरं ब्रह्मेति तदेवांशेन तत्तदात्मना स्वयमेवावतिष्ठते । तच्च यावदुपादेयं तदनुरूपमुपादानं प्रवर्तते । तदेव यदा सिसृक्षोपहितं केन चिदावृतमिव शरीरिवच्चाभिमन्यमानं भवति तदा महाशरीरो महापुरुष इत्युच्यते । यस्य लेशा अण्डजादयः त एव प्रतिनियतशरीरा जीवाः । एवं स्वसमवेतमायाशक्तिसहकृतो विचित्रचिदचित्प्रपञ्चरूपेण विजृम्भमाणो विश्वानि पृथिव्यन्तानि तत्त्वानि तात्त्विकांश्च भावान् अनुगृह्णाति । किञ्च - शतं अनेकानि सर्वाणि शुक्राणि निर्मलानि आत्मवस्तूनि तेजांसि वा शुक्लानि जगतां बीजानि कारणानि च यत्रैकं अविभक्तं चिन्मात्रं वा भवति, सर्वे वेदाः वैदिकाश्शब्दाश्श्रुतिस्मृतिपुराणेतिहासशास्त्रागमप्रभृतयः, वेद्या वा अर्थाः आत्मादिपृथिव्यन्ता भावाः ते च सर्वे यत्रैकं भवन्ति स एवार्थः । सर्वे च होतारः चतुर्होत्रादयः आत्मविशेषाः अग्निविशेषा वा प्रजापतीन्द्रवायुचन्द्रसूर्या वा ते च यत्रैकं भवन्ति सः तादृशः अन्तःप्रविष्टः सर्वेषां यश्शास्ता, स एवायं मानसीनः जनानामात्मा दशहोत्राख्यः । मनस उत्पन्नो मानसीनः, छान्दसः खन् । यथा ‘मनः प्रजापतिमसृजत । प्रजापतिः प्रजा असृजत’ इति । तदिदमुक्तं - ‘मनसा अन्वविन्दत्’ इति । सोऽयं चित्याद्युपादानो मानसः प्रजापतिः दशहोता नामात्मन एव प्रजापतिरभूदिति यावत् ॥

विश्वास-प्रस्तुतिः

अन्तः᳓ प्र᳓विष्टश् शास्ता᳓ ज᳓नानाँ स᳓र्वात्मा ।
स᳓र्वाः प्रजा᳓ य᳓त्रै᳓कं भ᳓वन्ति
च᳓तुर्-होतारो य᳓त्र संप᳓दङ् ग᳓च्छन्ति देवैः᳓ ।
समा᳓नसीन आत्मा᳓ ज᳓नानाम् ।

मूलम्

अ॒न्तः प्रवि॑ष्टश्शा॒स्ता जना॑नाँ॒ सर्वा॑त्मा ।
सर्वाः॑ प्र॒जा यत्रैकं॒ भव॑न्ति ।
चतु॑र्होतारो॒ यत्र॑ सं॒पद॒ङ्गच्छ॑न्ति दे॒वैः ।
स॒मान॑सीन आ॒त्मा जना॑नाम् ।

भट्टभास्कर-टीका

3एवं विश्वोपादानावस्थेन शासित्रवस्थेन च ब्रह्मणा अभेदं दशहोतुः प्रतिपाद्य इदानीं तयोरप्यवस्थाविशेषत्वेन धर्मधर्मिस्थानीययोरत्यन्तभेदाभावप्रतिपादनेन तदुभयात्मत्वेन दशहोतारं स्तौति - अन्तःप्रविष्ट इति ॥ अत्र सर्वात्मेति त्रीण्यक्षराण्यभिक्रान्तानि । योऽयमन्तःप्रविष्टो जनानां शास्ता शासिता सर्वात्मा पृथिव्यन्तो जगत्प्रपञ्चः सर्वं तिरोहितावयवभेदं अनेकं सर्वमिति कृत्वा तदभिन्नं यज्जगदुपादानं तदात्मा तेन अविभक्तस्वभावो यः शासिता सर्वाः प्रजाः प्रजाताः भावाः अनित्याः विकारपदार्थाः यत्रैकं भवन्ति स एवार्थः । चतुर्होतारो यत्र सम्पदं गच्छन्ति । दशहोत्रादयः पञ्चापि चतुर्होतारः । यथोक्तं - ‘दशहोता चतुर्होता । पञ्चहोता षड्ढोता सप्तहोता । अथ कस्माच्चतुर्होतार उच्यन्त इति । इन्द्रो वै चतुर्होता । इन्द्रः खलु वै श्रेष्ठो देवतानामुपदेशनात्’ इति । तेऽपि यत्र सम्पदं सम्पत्ति तद्भावं एकत्वं गच्छन्ति । सम्पदादिलक्षणः क्विप् । देवैस्सह देवा अपि यत्रैकत्वं गच्छन्तीति यावत् । स मानसीन इत्यादि । व्याख्यातम् ॥

२ चतुर्-होता

विश्वास-प्रस्तुतिः

ब्र᳓ह्मे᳓न्द्रम् अग्नि᳓ञ् ज᳓गतः प्रतिष्ठा᳓म्
दिव᳓ आत्मा᳓नँ सविता᳓रं बृ᳓हस्-प᳓तिम् ।
च᳓तुर्-होतारं प्रदि᳓शो᳓ऽनु कॢप्त᳓म्
वाचो᳓ वीर्य᳙न् तपसा᳓ ऽन्वविन्दत्

मूलम्

ब्रह्मेन्द्र॑म॒ग्निञ्जग॑तः प्रति॒ष्ठाम् ।
दि॒व आ॒त्मानँ॑ सवि॒तारं॒ बृह॒स्पति॑म् ।
चतु॑र्होतारं प्र॒दिशोऽनु॑ कॢ॒प्तम् ।
वा॒चो वी॒र्य॑न्तप॒साऽन्व॑विन्दत् ।

भट्टभास्कर-टीका

4अथ द्वितीयचतुर्होतृहृदयं - ‘स दशहोतुश्चतुर्होतारं निरमिमीत’ इति तत उत्पन्नत्वात् । ब्रह्मेत्यादि ॥ परमात्मावयवत्वात्तद्धर्मैरयं स्तूयते । इन्द्रादिविभूतिभिन्नं आत्मानं चतुर्होतृरूपेण ब्रह्मान्वविन्दत् । दिव इति । प्रतिष्ठामित्येव । आत्मानं परमात्मानं प्रदिशः प्रदेशान् सर्वान् अनुकॢप्तं सर्वेषु प्रदेशेष्ववस्थितम् । लक्षणे अनोः कर्मप्रवचनीयत्वम् । वाचो वीर्यं सर्वस्य वाङ्मयस्य सारं चतुर्होतारं इन्द्ररूपिणं परमात्मानं तपसाऽन्वविन्दत् इन्द्र आत्मा जीवः तद्रूपम् ॥

विश्वास-प्रस्तुतिः

अन्तः᳓ प्र᳓विष्टङ् कर्ता᳓रम् एत᳓म् ।
त्व᳓ष्टारँ रूपा᳓णि विकुर्व᳓न्तं विपश्चि᳓म् । (21)
अमृ᳓तस्य प्राणय्ँ᳓ यज्ञ᳓म् एत᳓म् ।
च᳓तुर्-होतृणाम् आत्मा᳓नङ् कव᳓यो नि᳓चिक्युः

मूलम्

अ॒न्तः प्रवि॑ष्टङ्क॒र्तार॑मे॒तम् ।
त्वष्टा॑रँ रू॒पाणि॑ विकु॒र्वन्तं॑ विप॒श्चिम् । (21)
अ॒मृत॑स्य प्रा॒णय्ँ य॒ज्ञमे॒तम् ।
चतु॑र्होतृणामा॒त्मान॑ङ्क॒वयो॒ निचि॑क्युः ।

भट्टभास्कर-टीका

5तदेवाह - अन्तः प्रविष्टमिति ॥ जीवभावेन सर्वेषु शरीरेषु अनुप्रविष्टं कर्तारं जीवात्मानं एतं अग्निं चतुर्होत्राख्यं त्वष्टारं त्वष्टा भूत्वा रूपाणि विकुर्वन्तं विविधं मानुषादिभेदेन कुर्वन्तं विपश्चिं विपश्चितं मेधाविनम् । छान्दसोऽन्त्यलोपः । अमृतस्य इन्द्रियगणस्य प्राणं प्राणयितारं यज्ञ यज्ञवन्तं इज्याफलस्य भोक्तारं चतुर्होतृणां दशहोत्रादीनां पञ्चानामपि आत्मानं चतुर्होतृरूपेण स्थितम् । ‘नामि’ इति दीर्घाभावश्चान्दसः । एवं विशिष्टं चतुर्होतारं कवयः ज्ञानवन्तः निचिक्युः नितरां पूजयन्ति, निभृतं वा रक्षन्ति । छान्दसे लिटि ‘चायः की’ इति कीभावः । यद्वा - एवंविधं निश्चिन्वन्ति । ‘विभाषा चेः’ इति कुत्वम् ॥

विश्वास-प्रस्तुतिः

अन्तः᳓ प्र᳓विष्टङ् कर्ता᳓रम् एत᳓म् ।
देवा᳓नां ब᳓न्धु नि᳓हितङ् गु᳓हासु ।
अमृ᳓तेन कॢप्तय्ँ᳓ यज्ञ᳓म् एत᳓म् ।
च᳓तुर्होतृणाम् आत्मा᳓नङ् कव᳓यो नि᳓चिक्युः

मूलम्

अ॒न्तः प्रवि॑ष्टङ्क॒र्तार॑मे॒तम् ।
दे॒वानां॒ बन्धु॒ निहि॑त॒ङ्गुहा॑सु ।
अ॒मृते॑न कॢ॒प्तय्ँ य॒ज्ञमे॒तम् ।
चतु॑र्होतृणामा॒त्मान॑ङ्क॒वयो॒ निचि॑क्युः ।

भट्टभास्कर-टीका

6पुनरपि जीवात्मानं स्तौति - अन्तः प्रविष्टमिति ॥ गतम् । उक्तानुवादो वक्ष्यमाणस्य विषयप्रदर्शनार्थः । देवानां इन्द्रियाणां देवनशीलानां प्राणानां उपलक्षणं वा देवादीनां सर्वविकाराणां बन्धु बन्धनं बन्धनकारिणं निबन्धनं वा । ‘सुपां सुलुक्’ इति द्वितीयाया लुक् । एवंभूतं कर्तारं गुहामु हृदयेषु निहितं गुह्यस्वभावं अमृतेन परमात्मनैव क्लप्तं सर्वशरीरेष्वादर्शितं अमृतेन वा यज्ञफलेन कॢप्तं लब्धात्मानं यज्ञमेतमित्यादि व्याख्यातम् ॥

३ पञ्च-होता

विश्वास-प्रस्तुतिः

शत᳓न् नियु᳓तः प᳓रिवेद वि᳓श्वा
विश्व᳓वारो वि᳓श्वम् इदव्ँ᳓ वृणाति
इ᳓न्द्रस्यात्मा᳓ नि᳓हितः प᳓ञ्च-होता ।
अमृ᳓तन् देवा᳓नाम् आ᳓युः प्रजा᳓नाम् । (22)

मूलम्

श॒तन्नि॒युतः॒ परि॑वेद॒ विश्वा॑ वि॒श्ववा॑रः ।
विश्व॑मि॒दव्वृं॑णाति ।
इन्द्र॑स्या॒त्मा निहि॑तः॒ पञ्च॑होता ।
अ॒मृत॑न्दे॒वाना॒मायुः॑ प्र॒जाना॑म् । (22)

भट्टभास्कर-टीका

7अथ पञ्चहोतुः हृदयं - शतमिति ॥ वायुरूपेण स्तूयते । ‘विश्वा’ इति प्रथमपादान्तः । वायोरश्वा नियुतः । इह तु तद्विधारणशक्तयो लक्ष्यन्ते । शतं अनेकप्रकाराः सर्वा अपि नियुतः परिवेद जानामि वायोः । विश्ववारः विश्वस्य वारयिता छादयिता वरिता वा अयं वायुः याभिः विश्वमिदं वृणाति व्याप्नोति छादयति वा । यद्वा - विश्वे वाराः कालाः यस्य स विश्ववारः नित्यगतिः । पूर्वपदप्रतिस्वरत्वमुपपन्नं भवति । इन्द्रस्यात्मेति गतम् । इह पञ्चहोत्रात्मकवायुरूपेणावस्थितः परमात्मोच्यते - निहितः सर्वशरीरेषु प्राणादिवृत्तिरूपेणावस्थितः अमृतं अमरणहेतुः देवानां आयुः जीवनहेतुः प्रजानां उत्पनानां, ईदृशोऽयं याभिः विश्वं वृणाति ता विश्वा अहं परिवेदेति ॥

विश्वास-प्रस्तुतिः

इ᳓न्द्रँ रा᳓जानँ सविता᳓रम् एत᳓म् ।
वायो᳓र् आत्मा᳓नङ् कव᳓यो नि᳓चिक्युः
रश्मिँ᳓ रश्मीनां᳓ म᳓ध्ये त᳓पन्तम्
ऋत᳓स्य पदे᳓ कव᳓यो नि᳓पान्ति

मूलम्

इन्द्रँ॒ राजा॑नँ सवि॒तार॑मे॒तम् ।
वा॒योरा॒त्मान॑ङ्क॒वयो॒ निचि॑क्युः ।
र॒श्मिँ र॑श्मी॒नां मध्ये॒ तप॑न्तम् ।
ऋ॒तस्य॑ प॒दे क॒वयो॒ निपा॑न्ति ।

भट्टभास्कर-टीका

8इन्द्रमिति ॥ कार्ये कारणशब्दः ‘स चतुर्होतुः पञ्चहोतारं निरमिमीत’ इति । इन्द्रकारणकं शासितृकारणकं वा राजानं दीप्तिमन्तं सवितारं सर्वस्य कारणं वायोरात्मानं अनन्यभूतं शरीरं एतं पञ्चहोतारं कवयो निचिक्युः । गतम् । रश्मिं रश्मिमयं यमनहेतुं विश्वस्य रश्मिमन्तं वा रश्मीनां मध्ये तपन्तं आदित्यान्तरपुरुषत्वेन वर्तमानं परमात्मानं पञ्चहोत्रात्मकं ऋतस्य यज्ञस्य पदे स्थाने कवयो निपान्ति निभृतं रक्षन्ति हविभिः स्तुतिभिर्वा पूजयन्तीति यावत् ॥

विश्वास-प्रस्तुतिः

य᳓ आण्डकोशे᳓ भु᳓वनं बिभ᳓र्ति
अ᳓निर्भिण्णस् स᳓न्न् अ᳓थ लोका᳓न् विच᳓ष्टे
य᳓स्याण्डकोशँ᳓ शु᳓ष्मम् आहुः᳓, प्राण᳓म् उ᳓ल्बम् ।
ते᳓न कॢप्तो᳙ ऽमृ᳓तेनाह᳓म् अस्मि ।

मूलम्

य आ॑ण्डको॒शे भुव॑नं बि॒भर्ति॑ ।
अनि॑र्भिण्ण॒स्सन्नथ॑ लो॒कान् वि॒चष्टे॑ ।
यस्या॑ण्डको॒शँ शुष्म॑मा॒हुः प्रा॒णमुल्ब॑म् ।
तेन॑ कॢ॒प्तो॑ऽमृते॑ना॒हम॑स्मि ।

भट्टभास्कर-टीका

9य आण्डकोश इति ॥ अण्डं ब्रह्माण्डं तदेव कोशः अण्डकोशः तत्रजातं आण्डकोशं सर्वविकारजातं तस्मिन् जाते सति भुवनं भूतजातं सर्वं यो बिभर्ति धारयति स्वयं अनिर्भिण्णः अविभक्तस्सन् तेनापृथग्भूत एव सन् अथ च लोकान् सर्वान् विचष्टे पश्यति धारणमेव दर्शनम् । यद्वा - अनिर्भिण्णः गर्भाद् अनिर्गत-कल्पस् सन् लोकान् धारयति । तदेवाह - यस्याण्डकोशमेव उल्बं वस्तिपुटमाहुः । यस्य प्राणमेव प्राणवृत्तिमेव शुष्मं प्रजानां बलमाहुः आत्मीयाभिर्वृत्तिभिः बलस्थानीयाभिः विश्वाः प्रजाः धारयन् अण्डकोशाख्यं उल्बमधिवसन्तीति । तेन अमृतेन आत्मना पञ्चहोत्राख्येन कॢप्तो लब्धात्मा अहमस्मि ॥

४ षड्ढोतृहृदयम्

विश्वास-प्रस्तुतिः

सुव᳓र्णङ् को᳓शँ र᳓जसा प᳓रीवृतम् +++(चन्द्रम्)+++।
देवा᳓नाव्ँ वसु-धा᳓नीव्ँ विरा᳓जम् । (23)
अमृ᳓तस्य पूर्णा᳓न् ता᳓म् उ कलाव्ँ᳓ वि᳓चक्षते
पा᳓दँ ष᳓ड्ढोतुर् न᳓ कि᳓लाविवित्से

मूलम्

सु॒वर्ण॒ङ्कोशँ॒ रज॑सा॒ परी॑वृतम् ।
दे॒वानाव्ँ॑वसु॒धानीव्ँ॑ वि॒राज॑म् । (23)
अ॒मृत॑स्य पू॒र्णान्तामु॑ क॒लाव्ँ विच॑क्षते ।
पादँ॒ षड्ढो॑तु॒र्न किला॑विवित्से ।

भट्टभास्कर-टीका

10अथ षड्ढोतृहृदयम् - सुवर्णमिति ॥ चन्द्रमस्त्वेन स्तूयते । सुवर्णं निर्मलवर्णं कोशं अमृतस्थानं चन्द्रोपलक्षणं रजसा उदकेन परीवृतं अम्मयत्वात् । यद्वा - रजसा अन्तरिक्षेण परीवृतं वेष्टितं देवानां वसुधानीं वसुनः वरिष्ठस्य धनस्य अमृतत्वलक्षणस्य धानी निधानस्थानभूतां विराजं अमृतस्य उदकस्य पूर्णां तां आत्मनः कलां भागं विचक्षते विचक्षणा आहुः ते नूनं षड्ढोतुः आत्मनः पादं भागं न किला विवित्से नैव जानन्ति षड्ढोतुरियं कला अमृतात्मिकेति तमसा आवृता न जानन्ति । विदेर्लेटि व्यत्ययेनात्मनेपदं, शपः श्लुः, ‘सिब्बहुलं लेटि’ ‘लोपस्त आत्मनेपदेषु’ इति तलोपः, अतोगुणे पररूपत्वं, ‘निशतस्य च’ इति किलशब्दस्य संहितायां दीर्घत्वम् । किलशब्दश्च पारमार्थ्यं सूचयति ॥

विश्वास-प्रस्तुतिः

ये᳓न र्त᳓वः पञ्चधो᳓त᳓ कॢप्ताः᳓
उत᳓ वा षड्धा᳓ म᳓नसो᳓त᳓ कॢप्ताः᳓
तँ᳓ ष᳓ड्ढोतारम् ऋतु᳓भिः क᳓ल्पमानम्
ऋत᳓स्य पदे᳓ कव᳓यो नि᳓पान्ति

मूलम्

येन॒र्तवः॑ पञ्च॒धोत कॢ॒प्ताः ।
उ॒त वा॑ ष॒ड्धा मन॒सोत कॢ॒प्ताः ।
तँ षड्ढो॑तारमृ॒तुभिः॒ कल्प॑मानम् ।
ऋ॒तस्य॑ प॒दे क॒वयो॒ निपा॑न्ति ।

भट्टभास्कर-टीका

11येनेति ॥ येन षड्ढोत्राख्येन आत्मना ऋतवः पञ्चधाऽपि कॢप्ताः हेमन्तशिशिरयोरेकत्वात् पञ्चधात्वम् । षड्धाऽपि कॢप्ताः तयोः दिग्भावादिभेदेन भिन्नत्वात् । ‘षष उत्वम्’ इति पाक्षिकत्वान्न क्रियते । उत अपिच मनसा सङ्कल्पेन कॢप्ताः यथा पूर्वं प्रवर्तिताः स्वेस्वे धर्मे अवैपरीत्येन प्रवर्तिताः । तं तादृशं षड्ढोतारं ऋतुभिः द्वारभूतैः स्वयमेव तेषु धर्मेषु कल्पमानं अविपर्यासेन प्रवर्तयन्तम् । ऋतस्य पदे इत्यादि । गतम् ॥

विश्वास-प्रस्तुतिः

अन्तः᳓ प्र᳓विष्टङ् कर्ता᳓रम् एत᳓म् ।
अन्त᳓श् चन्द्र᳓मसि म᳓नसा च᳓रन्तम् ।
सहै᳓व᳓ स᳓न्तन्, न᳓ वि᳓जानन्ति देवाः᳓ ।
इ᳓न्द्रस्यात्मा᳓नँ शतधा᳓ च᳓रन्तम् । (24)

मूलम्

अ॒न्तः प्रवि॑ष्टङ्क॒र्तार॑मे॒तम् ।
अ॒न्तश्च॒न्द्रम॑सि॒ मन॑सा॒ चर॑न्तम् ।
स॒हैव सन्त॒न्न विजा॑नन्ति दे॒वाः ।
इन्द्र॑स्या॒त्मानँ॑ शत॒धा चर॑न्तम् । (24)

भट्टभास्कर-टीका

12अन्तः प्रविष्टमिति ॥ मनोभावेन सर्वेषामन्तः प्रविश्य कर्तारं कर्माणि कुर्वाणं एतं षड्ढोतारं अन्तश्चन्द्रमसि मनसा प्रज्ञानरूपेण चरन्तं उक्तेन प्रकारेण षड्ढोत्रादिरूपेण बहुधा चरन्तं न विजानन्ति मन्दज्ञानाः । ज्ञानिनस्तु तं दृष्ट्वा मुच्यन्ते इति ॥

५ सप्तहोता

विश्वास-प्रस्तुतिः

इ᳓न्द्रो रा᳓जा ज᳓गतो य᳓ ई᳓शे
सप्त᳓होता सप्तधा᳓ वि᳓कॢप्तः

मूलम्

इन्द्रो॒ राजा॒ जग॑तो॒ य ईशे॑ ।
स॒प्तहो॑ता सप्त॒धा विकॢ॑प्तः ।

भट्टभास्कर-टीका

13अथ सप्तहोतुः हृदयेष्टका आन्तादनुवाकस्य - इन्द्र इति द्विपदा त्रिष्टुप् ॥ ईश्वरात्मा स्तूयते । इन्द्रः ईश्वरः राजा स्वामी जगतः स्वव्यतिरिक्तस्य राजमानश्च भवति य ईशे ईष्टे जगतः शासितुं शक्तः । ‘अधीगर्थ’ इति कर्मणि षष्ठी, ‘लोपस्त आत्मनेपदेषु’ इति तलोपः । स एवायं सप्तहोता सप्तधासप्तभिः प्रकारैः ‘महाहविः’ इत्यादिभिः विकॢप्तः विविचितः ॥

विश्वास-प्रस्तुतिः

प᳓रेण त᳓न्तुं परिषिच्य᳓मानम्
अन्त᳓र् आदित्ये᳓ म᳓नसा च᳓रन्तम्
देवा᳓नाँ हृ᳓दयं ब्र᳓ह्मा᳓ ऽन्वविन्दत्

मूलम्

परे॑ण॒ तन्तुं॑ परिषि॒च्यमा॑नम् ।
अ॒न्तरा॑दि॒त्ये मन॑सा॒ चर॑न्तम् ।
दे॒वानाँ॒ हृद॑यं॒ ब्रह्मान्व॑विन्दत् ।

भट्टभास्कर-टीका

14परेणेति त्रिपदा त्रिष्टुप् ॥ तं परेण तेनैव ईश्वरेण परिषिच्यमानं आप्यायमानं तन्तुं अविच्छिन्नं यज्ञात्मानं वा अन्तरादित्येऽपि मनसा ज्ञानरूपेणैव चरन्तं सर्वदोहनां ज्ञानात्मानमिति यावत् । देवानां सर्वेषामपि विकाराणां हृदयं हृदि स्थितं उपास्यं ईदृशं सप्तहोतारं ब्रह्मा प्रजापतिः अन्वविन्दत् आदौ लब्धवान् तपसा ॥

विश्वास-प्रस्तुतिः

ब्र᳓ह्मैत᳓द् ब्र᳓ह्मण उ᳓ज्जभार
अर्कँ᳓श् चो᳓तन्तँ सरिर᳓स्य म᳓ध्ये ।

मूलम्

ब्रह्मै॒तद् ब्रह्म॑ण॒ उज्ज॑भार ।
अ॒र्कँ श्चोत॑न्तँ सरि॒रस्य॒ मध्ये॑ ।

भट्टभास्कर-टीका

15ब्रह्मेति द्विपदा त्रिष्टुप् ॥ तत् सप्तहोत्रात्मकं ब्रह्म ब्रह्मणः वेदात् आत्मनो वा ब्रह्मा उज्जभार रसवदुद्धृतवान् । कीदृशं? अर्कं सूर्यात्मानं स्तोतव्यं वा श्चोतन्तं मध्यमात्मना उदकं क्षरन्तं सरिरस्य अन्तरिक्षस्य मध्ये सूर्यात्मना स्तूयते ॥

विश्वास-प्रस्तुतिः

आ᳓ य᳓स्मिन्त् सप्त᳓ पे᳓रवः+++(←पाने)+++ ।
मे᳓हन्ति बहुलाँ᳓ श्रि᳓यम् ।
बह्व्-अश्वा᳓म् इन्द्र गो᳓-मतीम् । (25)

मूलम्

आ यस्मि॑न्त् स॒प्त पेर॑वः।
मेह॑न्ति बहु॒लाँ श्रिय॑म् ।
ब॒ह्व॒श्वामि॑न्द्र॒ गोम॑तीम् । (25)

भट्टभास्कर-टीका

16अतः परं तिस्रो गायत्र्यः - आ यस्मिन्निति ॥ यस्मिन् आदित्यात्मनि सप्तहोतरि सवितारः सप्त पेरवः पानशीलाः उदकस्य रक्षणशीला वा । ‘पामोरुरिच्च’ इति रुप्रत्ययः । रश्मयः ‘साकंजानाम्’ इत्यत्रोक्ताः मेहन्ति सिञ्चन्ति बहुलां महतीं श्रियं वृष्टिरूपां सर्वस्य लोकस्य बह्वश्वां गोमतीं च सर्वसमृद्धिहेतुत्वात् वृष्टेः । ‘बहोर्नञ्वत्’ इति नञ्वद्भावात् बह्वश्वामित्युत्तरपदान्तोदात्तत्वम् । हे इन्द्र! ईश्वर! ॥

विश्वास-प्रस्तुतिः

अ᳓च्युतां बहुलाँ᳓ श्रि᳓यम् ।
स᳓ ह᳓रिर् वसु-वि᳓त्तमः ।
पेरु᳓र्+++(←पाने)+++ इ᳓न्द्राय पिन्वते

मूलम्

अच्यु॑तां बहु॒लाँ श्रिय॑म् ।
स हरि॑र्वसु॒वित्त॑मः ।
पे॒रुरिन्द्रा॑य पिन्वते ।

भट्टभास्कर-टीका

17अच्युतामिति ॥ अच्युतां अविनाशां बहुलां श्रियं हविर्लक्षणां सः सप्तहोता हरिः हरणशीलः उदकस्य वसुवित्तमः अतिशयेन वसूनां धनानां हविरादीनां वेदयिता लम्भयिता पेरुः रक्षणशीलः प्रजानां इन्द्राय यज्ञाय तत्स्वामिने वा पिन्वते सिञ्चति वृष्टिद्वारेण हविर्भाजोऽपि रक्षन्तीति ॥

विश्वास-प्रस्तुतिः

बह्व्-अश्वा᳓म् इन्द्र गो᳓मतीम् ।
अ᳓च्युतां बहुलाँ᳓ श्रि᳓यम् ।
म᳓ह्यम् इ᳓न्द्रो नि᳓यच्छतु

मूलम्

ब॒ह्व॒श्वामि॑न्द्र॒ गोम॑तीम् ।
अच्यु॑तां बहु॒लाँ श्रिय॑म् ।
मह्य॒मिन्द्रो॒ निय॑च्छतु ।

भट्टभास्कर-टीका

18बह्वश्वामिति ॥ हे इन्द्र! बह्वश्वां गोमतीं अच्युतां बहुलां च श्रियं पूर्वोक्तां द्विप्रकारामपि श्रियं मह्यं इन्द्रः यज्ञः तत्स्वामी वा नियच्छतु एतावत्तव स्वमिति विभजतु । यद्वा - नितरां ददातु ॥

विश्वास-प्रस्तुतिः

शतँ᳓ शता᳓ अस्य युक्ता᳓ ह᳓रीणाम् ।
अर्वा᳓ङ् आ᳓ यातु व᳓सुभी रश्मि᳓र् इ᳓न्द्रः ।
प्र᳓ मँ᳓हमाणो+++(=वर्धमानः)+++ बहुलाँ᳓ श्रि᳓यम् ।
रश्मि᳓र् इ᳓न्द्रस् सविता᳓ मे नि᳓यच्छतु । (26)

मूलम्

श॒तँ श॒ता अ॑स्य यु॒क्ता हरी॑णाम् ।
अ॒र्वाङा या॑तु॒ वसु॑भी र॒श्मिरिन्द्रः॑ ।
प्रमँह॑माणो बहु॒लाँ श्रिय॑म् ।
र॒श्मिरिन्द्र॑स्सवि॒ता मे॒ निय॑च्छतु ।
(26)

भट्टभास्कर-टीका

19शतमिति ॥ शतंशता बहूनि शतानि सहस्रम् । ‘शेश्छन्दसि’ इति लोपः, ईषाअक्षादित्वात् सवर्णदीर्घाभावः संहितायाम् । हरीणां उदकस्य हरणशीलानां रश्मीनां सहस्रं अस्य मण्डले युक्तानि वृष्ट्यर्थमुद्युक्तानि परम्परया सर्वेषामपि वृष्टिहेतुत्वात् । एवं जगदनुग्राहकोऽयमिति गम्यते । सोऽयं इन्द्रः ईश्वरः सूर्यात्मा अर्वाङ् अर्वागञ्चनः इतः अभिमुखः आयातु ।
रश्मिः नियन्तृस्वभावः वसुभिः जगतां वासहेतुभिः वसुना वरिष्ठेन उदकेन तद्वद्भिर्वा सहस्रसङ्ख्यै रश्मिभिः युक्तः आयातु ।
आयास्यन् बहुलां महतीं वृष्टिलक्षणां श्रियं नियच्छतु ददातु प्रमंहमाणः वर्धमानः स्तुतिभिस्स्तोतव्यो वर्धते ।
यथा ‘वर्धन्तु त्वा सुष्टुतयो गिरो मे’ इति ।
यद्वा – प्रमंहमाणः पूज्यमानः । यगभावश्छान्दसः, अनुस्वारोपजनश्च । कीदृशः? रश्मिः आदित्यात्मा इन्द्रः ईश्वरः सविता विश्वस्य बोधप्रदानादिभिः ॥

विश्वास-प्रस्तुतिः

घृत᳓न् ते᳓जो म᳓धुमद् इन्द्रिय᳓म् ।
म᳓य्य् अय᳓म् अग्नि᳓र् दधातु

मूलम्

घृ॒तन्तेजो॒ मधु॑मदिन्द्रि॒यम् ।
मय्य॒यम॒ग्निर्द॑धातु ।

भट्टभास्कर-टीका

20घृतमिति विराड्गायत्री द्विपदा ॥ धृतम् उदकं तेज उज्ज्वलं तेज एव वा मधुमन् मधुररसम् इन्द्रियम् इन्द्रसृष्टम् इन्द्रियमेव वा मय्य् अयमग्निर् आदित्यात्मा दधातु स्थापयतु ॥

विश्वास-प्रस्तुतिः

ह᳓रिः पतङ्गः᳓ पटरी᳓ सुपर्णः᳓ ।
दिवि-क्ष᳓यो न᳓भसा य᳓ ए᳓ति
स᳓ न इ᳓न्द्रः कामवर᳓न् ददातु

मूलम्

हरिः॑ पत॒ङ्गः प॑ट॒री सु॑प॒र्णः ।
दि॒वि॒क्षयो॒ नभ॑सा॒ य एति॑ ।
स न॒ इन्द्रः॑ कामव॒रन्द॑दातु ।

भट्टभास्कर-टीका

21हरिरिति त्रिपदा त्रिष्टुप् ॥ हरिर् उदकाहरणशीलः पतङ्गः ज्ञानहेतुः पटरी तेजःपटलवान् सुवर्णः शोभनपतनः दिविक्षयः धुलोकनिवासी । पचाद्यच्, ‘तत्पुरुषे कृति बहुलम्’ इत्यलुक्, कृदुत्तरपदप्रकृतिस्वरत्वेन ‘क्षयो निवासे’ इत्याद्युदात्तत्वम् । य एवम्भूतो नभसा अन्तरिक्षेण सर्वदा एति गच्छति, सस् तादृश आदित्यात्मा इन्द्र ईश्वरः नो ऽस्मभ्यं कामवरं कामानां मध्ये वरिष्ठं वरं ददातु । यद्वा - इष्टं वरं ददातु ॥

विश्वास-प्रस्तुतिः

प᳓ञ्चारञ् चक्रं᳓ प᳓रिवर्तते पृथु᳓ ।
हि᳓रण्य-ज्योतिस् सरिर᳓स्य म᳓द्ध्ये ।
अ᳓जस्रञ् ज्यो᳓तिर् न᳓भसा स᳓र्पद् एति
स᳓ न इ᳓न्द्रः काम-वर᳓न् ददातु

मूलम्

पञ्चा॑रञ्च॒क्रं परि॑वर्तते पृ॒थु ।
हिर॑ण्यज्योतिस्सरि॒रस्य॒ मद्ध्ये॑ ।
अज॑स्र॒ञ्ज्योति॒र्नभ॑सा॒ सर्प॑देति ।
स न॒ इन्द्रः॑ कामव॒रन्द॑दातु ।

भट्टभास्कर-टीका

22पञ्चारमिति ॥ पञ्च अरस्थानीया ऋतवो यस्य तत् पश्चारं चक्रं संवत्सराख्यं पृथु विस्तीर्णं तस्यप्रवर्तकत्वाद् आदित्यमण्डलमभेदेनोच्यते । हिरण्यज्योतिर् हितरमणीयज्योतिः । छान्दसोऽन्त्यलोपः । सरिरस्य अन्तरिक्षस्य मध्ये अजस्रं सर्वदा ज्योतिर् द्योतमानं नभसा आकाशेन सर्पत् सृप्त एवनोत्प्लुत्य एवं सदा य एति गच्छति; स इत्यादि । गतम् ॥

विश्वास-प्रस्तुतिः

सप्त᳓ युञ्जन्ति र᳓थम् ए᳓क-चक्रम् +++(सूर्यस्य)+++। (27)
ए᳓को अ᳓श्वो वहति सप्त-नामा᳓ ।
त्रिणा᳓भि चक्र᳓म् अज᳓रम् अ᳓नर्वम् ।
ये᳓नेमा᳓ वि᳓श्वा भु᳓वनानि तस्थुः

मूलम्

स॒प्त यु॑ञ्जन्ति॒ रथ॒मेक॑चक्रम् । (27)
एको॒ अश्वो॑ वहति सप्तना॒मा ।
त्रि॒णाभि॑ च॒क्रम॒जर॒मन॑र्वम् ।
येने॒मा विश्वा॒ भुव॑नानि तस्थुः ।

भट्टभास्कर-टीका

23 सप्तेति कालात्मा रथत्वेन रूप्यते ॥ सप्त रश्मयो ऽश्वस्थानीया युञ्जन्ति रथं रंहणशीलं कालम् एकचक्रम् एकप्रकारं परिवर्तते । अथ के पुनस्ते सप्त; कीदृश पुनस्तच्चक्रमित्याह - एक इति । एक एव अश्वो व्याप्तिमान् रश्मिः सतनामा सप्तभिः प्रकारैर् उदकस्य नामयिता वहति इमं संवत्सररथम् । अस्य चक्रं पूर्वोक्तं त्रिनाभि नाभित्रयेण तद्वत्, त्रिषु स्थानेषु ग्रीष्मवसन्तहेमन्तेषु नद्धत्वात् । ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । अजरम् अविनाश्य् अनर्वम् अनघम् अमोघं येन संवत्सररथेन इमा विश्वा इमानि विश्वानि भुवनानि तस्थुस् तिष्ठन्ति, न नश्यन्त्य् अयमेव संवत्सरः परिवर्तमानः कालात्मेति ॥

विश्वास-प्रस्तुतिः

भद्रं᳓ प᳓श्यन्त उ᳓पसेदुर् अ᳓ग्रे ।
त᳓पो दीक्षा᳓म् ऋ᳓षयस् सुवर्-वि᳓दः
त᳓तः क्षत्रं᳓ ब᳓लम् ओ᳓जश् च जात᳓म्
त᳓द् अस्मै᳓ देवा᳓ अभि᳓ स᳓न्नमन्तु

मूलम्

भ॒द्रं पश्य॑न्त॒ उप॑सेदु॒रग्रे॑ ।
तपो॑ दी॒क्षामृष॑यस्सुव॒र्विदः॑ ।
ततः॑ क्ष॒त्रं बल॒मोज॑श्च जा॒तम् ।
तद॒स्मै दे॒वा अ॒भि सन्न॑मन्तु ।

भट्टभास्कर-टीका

24भद्रमिति ॥ भद्रं कल्याणं पश्यन्त आभ्यामेव नो भविष्यतीत्येवं निश्चिन्वाना अग्रे पूर्वं तपो ऽनशनादि दीक्षां यज्ञं च उपसेदुर् उपसन्ना उपगताः साधनत्वेन परिगृह्यानुष्ठितवन्त ऋषयः द्रष्टारः सुवर्विद आदित्यविदः । ततश्च तेषां क्षत्त्रं क्षतात् त्राणं बलम् ओजो दीप्तिश्च आदित्याज् जातं तत् सर्वम् अस्मै यजमानाय देवा आभिमुख्येन सन्नमन्तु समानयन्तु ॥

विश्वास-प्रस्तुतिः

श्वेतँ᳓ रश्मिं᳓ बोभुज्य᳓मानम्
अपा᳓न् नेता᳓रं भु᳓वनस्य गोपा᳓म्
इ᳓न्द्रन् नि᳓चिक्युः+++(=निश्चिन्वन्ति)+++ परमे᳓ व्योमन् । (28)

मूलम्

श्वे॒तँ र॒श्मिं बो॑भु॒ज्यमा॑नम् ।
अ॒पान्ने॒तारं॒ भुव॑नस्य गो॒पाम् ।
इन्द्र॒न्निचि॑क्युः पर॒मे व्यो॑मन् । (28)

भट्टभास्कर-टीका

25श्वेतमिति त्रिपदा त्रिष्टुप् ॥ श्वेतं निर्मलं रश्मिं यद्योगादिदं जगत् श्वेतं भवति, बोभुज्यमानं भृशमुदकं भुञ्जानम् अपान्नेतारं प्रापयितारं द्युस्थाने पक्वं मध्यमस्थानं गमयितारं भुवनस्य गोपां गोपायितारं वृष्टिद्वारेण भूतजातस्य सर्वस्य रक्षकम् । गुपेरायप्रत्ययान्तात् क्विपि यलोपः । एवङ्कुर्वाणम् आदित्यात्मानम् इन्द्रं परमे व्योमन् परमात्मसञ्ज्ञे ज्योतिषि स्थितं निचिक्युः पूजयन्ति । यद्वा - इन्द्र एव इत्थं करोतीति निश्चिन्वन्ति मनीषिणः ॥

विश्वास-प्रस्तुतिः

रो᳓हिणीः पिङ्गला᳓ ए᳓क-रूपाः ।
क्ष᳓रन्तीः पिङ्गला᳓ ए᳓क-रूपाः ।
शतँ᳓ सह᳓स्राणि प्रयु᳓तानि ना᳓व्यानाम् ।

मूलम्

रोहि॑णीः पिङ्ग॒ला एक॑रूपाः ।
क्षर॑न्तीः पिङ्ग॒ला एक॑रूपाः ।
श॒तँ स॒हस्रा॑णि प्र॒युता॑नि॒ नाव्या॑नाम् ।

भट्टभास्कर-टीका

26रोहिणीरिति त्रिपदा त्रिष्टुप् । इदानीं श्वेतरश्मौ तथा प्रवर्तमाने भूमिष्ठा रोहिण्यः पिङ्गलाश्च आप एकरूपा भवन्ति सर्वा आप एकरूपा भवन्तीति यावत् । पिङ्गला एव भवन्ति । अथ ताश्च पिङ्गलाः क्षरन्तीश्च दिवः पतन्त्यश्च एकरूपा भवन्ति । एवं नाव्यानां नावा तार्याणां ‘नौवयोधर्म’ इति यत् । अतिप्रवृद्धानाम् अपां शतं बहूनि सहस्राणि प्रयुतानि शतसहस्राणि दशगुणितानि च भवन्ति । अनेन क्रमेणापरिमिता भवन्त्याप इत्यर्थः ॥

विश्वास-प्रस्तुतिः

अयय्ँ᳓ य᳓श् श्वेतो᳓ रश्मिः᳓ ।
प᳓रि स᳓र्वम् इद᳓ञ् ज᳓गत् ।
प्रजां᳓ पशू᳓न् ध᳓नानि ।
अस्मा᳓कन् ददातु

मूलम्

अ॒यय्ँयश्श्वे॒तो र॒श्मिः ।
परि॒ सर्व॑मि॒दञ्जग॑त् ।
प्र॒जां प॒शून्धना॑नि ।
अ॒स्माक॑न्ददातु ।

भट्टभास्कर-टीका

27अयमित्यनुष्टुप् ॥ योऽयं श्वेतो रश्मिर् इदं जगद् विश्वं परिभवति श्वेतं करोति सो ऽस्माकम् अस्मभ्यं प्रजादिकं ददातु ॥

विश्वास-प्रस्तुतिः

श्वेतो᳓ रश्मिः᳓ प᳓रि स᳓र्वं बभूव
सु᳓वन् म᳓ह्यं पशू᳓न् विश्व᳓रूपान् ।

मूलम्

श्वे॒तो र॒श्मिः परि॒ सर्वं॑ बभूव ।
सुव॒न्मह्यं॑ प॒शून् वि॒श्वरू॑पान् ।

भट्टभास्कर-टीका

28श्वेतो रश्मिरिति द्विपदा ॥ यः श्वेतो रश्मिः सर्वं परिबभूव परिभवति सः मह्यं विश्वरूपान् पशून् सुवत् सौत्व् अनुजानातु ददात्विति यावत् । सौतेर्लेटि शपो लुक्, ‘लेटोडाटौ’ इत्य् अडागमः ॥

विश्वास-प्रस्तुतिः

पतङ्ग᳓म् अक्त᳓म् अ᳓सुरस्य माय᳓या । (29)
हृदा᳓ पश्यन्ति म᳓नसा मनीषि᳓णः ।
समुद्रे᳓ अन्तः᳓ कव᳓यो वि᳓चक्षते
म᳓रीचीनां पद᳓म् इच्छन्ति वेध᳓सः ।

मूलम्

प॒त॒ङ्गम॒क्तमसु॑रस्य मा॒यया॑ । (29)
हृ॒दा प॑श्यन्ति॒ मन॑सा मनी॒षिणः॑ ।
स॒मु॒द्रे अ॒न्तः क॒वयो॒ विच॑क्षते ।
मरी॑चीनां प॒दमि॑च्छन्ति वे॒धसः॑ ।

भट्टभास्कर-टीका

29पतङ्गमिति ॥ पतङ्ग आदित्यस् तद्रूपण अक्तं व्यक्तिं गतम् आत्मानम् असुरस्य असनकुशलस्य सर्वोपाधिरहितस्य परस्य ‘असेरुरन्’ इत्य् उरन् प्रत्ययः । मायया प्रज्ञया एवं परमात्मानमेव आदित्यात्मना व्यक्तिं गतं हृदा हदि मनसा मानसप्रत्यक्षेणैव पश्यन्ति मनीषिणः मनस ईशितारः । अन्ये तु कवयः मेधाविनः समुद्रे आदित्यमण्डले अन्तः विचक्षते पश्यन्ति तमात्मानं, ते तु वेधसः विधानकुशालाः प्राज्ञा मरीचीनाम् आदित्यानां पदं स्थानम् इच्छन्ति प्रवेष्टुमिच्छन्ति ॥

विश्वास-प्रस्तुतिः

पतङ्गो᳓ वा᳓चं म᳓नसा बिभर्ति
ता᳓ङ् गन्धर्वो᳙ ऽवदद् ग᳓र्भे अन्तः᳓ ।
ता᳓न् द्यो᳓तमानाँ स्वर्यं᳙ मनीषा᳓म् ।
ऋत᳓स्य पदे᳓ कव᳓यो नि᳓पान्ति

मूलम्

प॒त॒ङ्गो वाचं॒ मन॑सा बिभर्ति ।
ताङ्ग॑न्ध॒र्वो॑ऽवद॒द्गर्भे॑ अ॒न्तः ।
तान्द्योत॑मानाँ स्व॒र्यं॑ मनी॒षाम् ।
ऋ॒तस्य॑ प॒दे क॒वयो॒ निपा॑न्ति ।

भट्टभास्कर-टीका

30पतङ्ग इति ॥ पतङ्ग आदित्यः वाचं मनसा मननीयया प्रज्ञया सङ्कल्पेन वा मनोरूपण वा प्रथमं विभर्ति धारयति । तां वाचं गन्धर्वो वायुर् गाम् उदकं धयति पिबतीति गन्धर्वो ऽवदद् वदति वादयति प्रेरयति गर्भे अन्तः शरीरस्य मध्ये तां द्योतमानाम् अन्तर्विराजमानां मनीषां मनसोऽपि ईशित्रीं मनसो निग्रहहेतुं स्वयं स्वर्गगामिनीम् । री गतौ । स्वर्गस्य वा गमयित्रीम् । ई गतौ, क्विपि ‘एरनेकाचः’ इति यणादेशे ‘उदात्तस्वरितयोर्यणस्स्वरितोऽनुदात्तस्य’ इति स्वरितत्वम् । स्वर्गस्य हेतुमित्येके । स्वर्गाय हितमित्यपरे । स्वरलिङ्गयोर्व्यत्ययः । तां वाचं वृष्टि लक्षणाम् ऋतत्य आदित्यस्य पदे स्थाने स्थाननिमित्तं कवयः निपान्ति निभृतं रक्षन्ति पूजयन्त्य् अभ्यस्यन्ति वा ॥

विश्वास-प्रस्तुतिः

ये᳓ ग्राम्याः᳓ पश᳓वो विश्व᳓-रूपाः ।
वि᳓रूपास् स᳓न्तो बहुधै᳓क-रूपाः ।
अग्नि᳓स् ताँ᳓ अ᳓ग्रे प्र᳓मुमोक्तु देवः᳓ । (30)
प्रजा᳓पतिः प्रज᳓या सव्ँ विदानः᳓

मूलम्

ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पाः ।
विरू॑पा॒स्सन्तो॑ बहु॒धैक॑रूपाः ।
अ॒ग्निस्ताँ अग्रे॒ प्रमु॑मोक्तु दे॒वः । (30)
प्र॒जाप॑तिः प्र॒जया॑ सव्ँ विदा॒नः ।

भट्टभास्कर-टीका

31ये इति ॥ ये प्राम्याः पशवः गवादयः विश्वरूपा विश्वप्रकारा नानाजातीया विरूपा विविधरूपा विविधव्यक्तयः बहुधा बहुप्रकारं विरूपा अपि सन्त एकरूपाः पशुत्वेनैकस्वभावास् तान् पशून अग्निर् अग्रे प्रथमं प्रमुमोक्तु प्रमुमुच्य अस्मभ्यं ददातु । प्रजापतिश्च प्रमुमोक्तु प्रजया तया गवादिकया संविदान ऐकमत्यं गतस् तदविरोधेन तान् अस्मभ्यं ददातु ॥

विश्वास-प्रस्तुतिः

+++(अग्निप्रजापती!)+++ वीतँ᳓ स्तुके-स्तुके ।
युव᳓म् अस्मा᳓सु नि᳓यच्छतम्
प्र᳓प्र यज्ञ᳓-पतिन् तिर ।

मूलम्

वी॒तँ स्तु॑केस्तुके ।
यु॒वम॒स्मासु॒ निय॑च्छतम् ।
प्रप्र॑ य॒ज्ञप॑तिन्तिर ।

भट्टभास्कर-टीका

32वीतमिति गायत्री ॥ वीतं प्रजननम् । वी गत्यादिषु । स्तुकेस्तुके सर्वस्मिन् स्तुके सर्वगवादिसम्बन्धिन्यपत्ये उत्पत्तिं नियच्छतं दत्तं नियमेन स्थापयतम् अस्मास्व् अस्मदर्थं युवं युवां हे अग्निप्रजापती! । किञ्च - यज्ञपतिं च प्रतिर वर्धयतम् ! वचनव्यत्ययः, ‘प्रसमुपोदः’ इति द्विर्वचनम् ॥

विश्वास-प्रस्तुतिः

ये᳓ ग्राम्याः᳓ पश᳓वो विश्व᳓रूपाः ।
वि᳓रूपास् स᳓न्तो बहुधै᳓क-रूपाः ।
ते᳓षाँ सप्ताना᳓म् इह᳓ र᳓न्तिर् अस्तु
राय᳓स् पो᳓षाय सुप्रजास्त्वा᳓य सुवी᳓र्याय ।

मूलम्

ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पाः ।
विरू॑पा॒स्सन्तो॑ बहु॒धैक॑रूपाः ।
तेषाँ॑ सप्ता॒नामि॒ह रन्ति॑रस्तु ।
रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ।

भट्टभास्कर-टीका

33ये ग्राम्या इति ॥ ये पूर्वोक्ताः । ग्राम्याः पशवः विश्वरूपादिगुणास् तेषां सप्तानां गोश्वाजाविपुरुषगर्दभोष्ट्राणाम् इह अस्मासु रन्तिः रतिर् अस्तु रायः धनस्य पोषाय । ‘षष्ठ्याः पतिपुत्र’ इति सत्वम् । सुप्रजास्त्वाय । छान्दसं दीर्घत्वम् । सुवीर्याय सुवीर्यत्वाय । रमेः ‘क्तिच्क्तौ च’ इति क्तिच्, ‘न क्तिचि दीर्घश्च’ इति नलोपाभावः, वृषादिर्द्रष्टव्यः । क्तिन्येव वा व्यत्ययेन नलोपाभावः ॥

विश्वास-प्रस्तुतिः

य᳓ आरण्याः᳓ पश᳓वो विश्व᳓-रूपाः ।
वि᳓रूपास् स᳓न्तो बहुधै᳓क-रूपाः ।
वायु᳓स् ताँ᳓ अ᳓ग्रे प्र᳓मुमोक्तु देवः᳓ ।
प्रजा᳓पतिः प्रज᳓या सव्ँ विदानः᳓

मूलम्

य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पाः ।
विरू॑पा॒स्सन्तो॑ बहु॒धैक॑रूपाः ।
वा॒युस्ताँ अग्रे॒ प्रमु॑मोक्तु दे॒वः ।
प्र॒जाप॑तिः प्र॒जया॑ सव्ँ विदा॒नः ।

भट्टभास्कर-टीका

34य अरण्या इति ॥ व्याख्यातप्रायम् । वायुस्तान् इति विशेषः । वायोरारण्याधिपतित्वात् ॥

विश्वास-प्रस्तुतिः

इ᳓डायै सृप्त᳓ङ्+++(=उत्पन्नं)+++ घृत᳓वच् चराचर᳓म् ।
देवा᳓ अ᳓न्वविन्दन् गु᳓हा हित᳓म्

मूलम्

इडा॑यै सृ॒प्तङ्घृ॒तव॑च्चराच॒रम् ।
दे॒वा अन्व॑विन्द॒न्गुहा॑ हि॒तम् ।

भट्टभास्कर-टीका

35इडाया इति द्विपदा त्रिष्टुप् ॥ इडायै इडायाः सृप्तम् उत्पन्नं घृतवद् उदकवद् उदकेन यच् चराचरं जगद् देवा अन्वविन्दन् सर्वेऽपि विकारा लब्धवन्तः गुहाहितं गुहायाम् आत्मनि निहितम् ॥

विश्वास-प्रस्तुतिः

य᳓ आरण्याः᳓ पश᳓वो विश्व᳓-रूपाः ।
वि᳓रूपास् स᳓न्तो बहुधै᳓क-रूपाः ।
ते᳓षाँ सप्ताना᳓म् इह᳓ र᳓न्तिर् अस्तु
राय᳓स्-पो᳓षाय सुप्रजास्त्वा᳓य सुवी᳓र्याय ॥ (31)

मूलम्

य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पाः ।
विरू॑पा॒स्सन्तो॑ बहु॒धैक॑रूपाः ।
तेषाँ॑ सप्ता॒नामि॒ह रन्ति॑रस्तु ।
रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ॥ (31)

भट्टभास्कर-टीका

36य आरण्या इति गतम् ॥ तेषां सप्तानाम् आरण्यानां पशूनां द्विखुरश्वापदपक्षिसरीसृपहस्तिमर्कटनादेयानाम् इह रन्तिरस्त्वित्यादि । गतम् ॥ इत्यारण्यके तृतीये एकादशोनुवाकः ॥