दे॒वस्य॑ त्वा सवि॒तुः प्रति॑गृह्णामि ...{Loading}...
मूलम् (संयुक्तम् आरण्यके)
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे ।
अ॒श्विनो॑र्बा॒हुभ्या॑म् ।
पू॒ष्णो हस्ता॑भ्यां॒ प्रति॑गृह्णामि ।
देवस्य त्वा सवितुः ...{Loading}...
विश्वास-प्रस्तुतिः
देव᳓स्य त्वा सवितुᳶ᳓ प्रसवे᳓+++(=अनुज्ञायां)+++,
+++(देवाध्वर्यू→)+++ ऽश्वि᳓नोर् बाहु᳓भ्याम्,
पूष्णो᳓ ह᳓स्ताभ्याम्…
Keith
On the instigation of god Savitr,
with the arms of the Aśvins,
with the hands of Pusan.
मूलम्
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ऽश्विनो॑र् बा॒हुभ्या॑म्, पू॒ष्णो हस्ता॑भ्यां॒…
पद-पाठः
दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र-स॒वे । अ॒श्विनोः॑ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । पू॒ष्णः । हस्ता॑भ्याम् ।
भट्टभास्कर-टीका
सवितुस् सर्वप्रेरकस्य देवस्य प्रसवे प्रेरणायां तेनैव प्रेरितोहं
‘थाथघञ्क्ताजबित्रकाणाम्’ (पा.सू. 6.2.144) इति सूत्रेण प्रसवशब्दोन्तोदात्तः । अश्विनोर्बाहुभ्यां नत्वात्मीयाभ्यामिति स्तुतिः । ‘अश्विनौ हि देवानामध्वर्यू आस्ताम्’ (तै.ब्रा. 3.2.4) । तथा पूष्ण एव हस्ताभ्यां पाणितलाभ्याम् । उदात्तनिवृत्तिस्वरेण षष्ठ्या उदात्तत्वम्॥
सावित्रो व्याख्यातः । सवितुर् देवस्यानुज्ञाने अश्विनोर् एव बाहुभ्यां पूष्ण एव हस्ताभ्याम् । न त्व् आत्मीयाभ्यामिति ॥
तत्र सावित्रो व्याख्यातः ।
सवितुर्देवस्य प्रसवे अनुज्ञायां लब्धायामेव
अश्विनोरेव बाहुम्यां नात्मीयाभ्यां
पूष्णो हस्ताभ्यां
विश्वास-प्रस्तुतिः
प्र᳓तिगृह्णामि
मूलम्
प्रति॑गृह्णामि
विश्वास-प्रस्तुतिः
रा᳓जा त्वा व᳓रुणो नयतु
देवि दक्षिणेऽग्न᳓ये हि᳓रण्यम् ।
मूलम्
राजा॑ त्वा॒ वरु॑णो नयतु
देवि दक्षिणे॒ऽग्नये॒ हिर॑ण्यम् ।
भट्टभास्कर-टीका
हे हिरण्यात्मिके ! देवि! दक्षिणे! राजा वरुणः त्वां हिरण्यं अग्नये नयतु । तच्चेयमिष्टकाऽस्ति ।
तेना॑मृत॒त्वम॑श्याम् ...{Loading}...
विश्वास-प्रस्तुतिः
ते᳓नामृतत्व᳓मश्याम् ।
व᳓यो+++(=अन्नम्)+++ दात्रे᳓ ।
म᳓यो म᳓ह्यम् अस्तु प्रतिग्रहीत्रे᳓ ।
मूलम्
तेना॑मृत॒त्वम॑श्याम् ।
वयो॑ दा॒त्रे ।
मयो॒ मह्य॑मस्तु प्रतिग्रही॒त्रे ।
भट्टभास्कर-टीका
तेन हिरण्येन प्रतिगृहीतेन इष्टकाभूतेन अहं अमृतत्वं अश्यां प्राप्यासम् ।
वयः अन्नं दात्रे हिरण्यं दत्तवतेऽस्तु । मां च तत्प्रतिग्रहीत्रे मयः सुखमस्तु, दातुरेवोपकारकत्वात् ।
विश्वास-प्रस्तुतिः
क᳓ इद᳓ङ् क᳓स्मा अदात् ।
का᳓मः का᳓माय ।
मूलम्
क इ॒दङ्कस्मा॑ अदात् ।
कामः॒ कामा॑य ।
भट्टभास्कर-टीका
किञ्च - कः प्रजापतिरेव कस्मै प्रजापतये इदं हिरण्यं अदात्, न देवदत्तो मह्यम् । अनिर्ज्ञातपरमार्थः प्रजापतिः कशब्देनोच्यते । यद्वा - क इति प्रजापतेस्संज्ञा, व्यत्ययेन स्मैभावः । कामः इच्छा । काम एव कामाय ददाति ।
अन्य आह - इदं हिरण्यं को नाम कस्मै वा दातुमर्हति कामादृते । तस्मात् कामः कामाय ददाति ।
विश्वास-प्रस्तुतिः
का᳓मो दाता᳓ ।
(15)
का᳓मः प्रतिग्रहीता᳓ ।
मूलम्
कामो॑ दा॒ता ।
(15)
कामः॑ प्रतिग्रही॒ता ।
विश्वास-प्रस्तुतिः
का᳓मँ समुद्र᳓म् आ᳓विश ।
का᳓मेन त्वा प्र᳓तिगृह्णामि ।
मूलम्
कामँ॑ समु॒द्रमावि॑श ।
कामे॑न त्वा॒ प्रति॑गृह्णामि ।
भट्टभास्कर-टीका
तथा हि - काम एव दाता, काम एव प्रतिग्रहीता, न देवदत्तो, न चाहम् । तस्मात् समुद्र समुद्रसदृशं अनन्तत्वात् काममाविश । ततः कामेनैकीभावमापन्नं त्वां अहं प्रतिगृह्णामि ।
विश्वास-प्रस्तुतिः
का᳓मैत᳓त् ते ।
एषा᳓ ते काम द᳓क्षिणा ।
मूलम्
कामै॒तत् ते॑ ।
ए॒षा ते॑ काम॒ दक्षि॑णा ।
भट्टभास्कर-टीका
एवं हिरण्यमुक्त्वा
इदानीं कामं प्रत्याह -
हे काम !
एतत् ते हिरण्यं, त्वमेव प्रतिगृहाण ।
एषा हि त्वदीया दक्षिणा इदानीमिष्टकाभूता ।
विश्वास-प्रस्तुतिः
उत्तान᳓स् त्वाङ्गीरसः᳓ प्र᳓तिगृह्णातु ।
मूलम्
उ॒त्ता॒नस् त्वा॑ङ्गीर॒सः प्रति॑गृह्णातु ।
भट्टभास्कर-टीका
अथ दक्षिणां प्रत्याह -
हे दक्षिणे!
त्वामिष्टका-भूतां उत्तानः आङ्गीरसः प्रतिगृह्णातु । '
इयं वा उत्तान आङ्गीरतः’ इति ब्राह्मणम् ।
तस्मात् पृथिव्येव त्वां प्रतिगृह्णातु
नाहमस्य प्रतिग्रहीतेति ॥