भास्करोक्त-विनियोगः
1’हृदयं यजूंषि पत्न्यश्च ।
यथाऽवकाशं ग्रहान् ।
यथाऽवकाशं प्रतिग्रहाल्ँ लोकं पृणाश् च'
इत्युक्तम् ।
तत्र हृदयं वक्ष्यते ‘सुवर्णं धर्मं’ इति यजूंषि ।
पत्न्यः ग्रहाश् चोक्ताः ।
इदानीं प्रतिग्रहेष्टका उच्यन्ते - देवस्य त्वेत्याद्याः ॥
‘गन्धर्वाप्सराभ्यस्स्रगलङ्करणे’ इत्येकत्वे सप्तदश ।
भेदे त्वष्टादश ।
तत्र सावित्रादिभिः प्रतिगृह्णात्वि् इत्य्-अन्तैः प्रतिग्रहः ।
सर्वश्चायं ‘सोमाय वासः’ इत्यादिष्व् अनुषज्यते
‘अग्नये हिरण्यं’ इति वर्जयित्वा ।