भास्करोक्त-विनियोगः
1अथ पत्नीष्टकाः सेनेन्द्रस्येत्याद्याः ॥ पूर्ववद्विनियोगः ।
विश्वास-प्रस्तुतिः
से᳓ने᳓न्द्रस्य +++([पत्नी] सा त्वाम् उपदधाति)+++।
भट्टभास्कर-टीका
‘देवानां पत्नयः’ इत्यन्ते वचनात् इन्द्रस्य सेना पत्नी पालयित्रीति केचित् । पत्न्येवेत्यन्ये ।
सा त्वामुपदधातीति सर्वत्र ।
सेनादयो गताः । संज्ञाश्चैताः ।
मूलम्
सेनेन्द्र॑स्य ।
विश्वास-प्रस्तुतिः
धे᳓ना बृ᳓हस्प᳓तेः ।
मूलम्
धेना॒ बृह॒स्पतेः॑ ।
विश्वास-प्रस्तुतिः
पथ्या᳙ पूष्णः᳓ ।
मूलम्
प॒त्थ्या॑ पू॒ष्णः ।
विश्वास-प्रस्तुतिः
वा᳓ग् वायोः᳓ ।
मूलम्
वाग्वा॒योः ।
विश्वास-प्रस्तुतिः
दीक्षा᳓ सो᳓मस्य ।
मूलम्
दी॒क्षा सोम॑स्य ।
विश्वास-प्रस्तुतिः
पृथिव्य् अ᳙ग्नेः᳓ ।
मूलम्
पृ॒थि॒व्य॑ग्नेः ।
विश्वास-प्रस्तुतिः
व᳓सूनाङ् गायत्री᳓ ।
मूलम्
वसू॑नाङ् गाय॒त्री ।
विश्वास-प्रस्तुतिः
रुद्रा᳓णान् त्रिष्टु᳓क् ।
मूलम्
रु॒द्राणा॑न्त्रि॒ष्टुक् ।
विश्वास-प्रस्तुतिः
आदित्या᳓नाञ् ज᳓गती ।
मूलम्
आ॒दि॒त्याना॒ञ्जग॑ती ।
विश्वास-प्रस्तुतिः
वि᳓ष्णोर् अनुष्टु᳓क् ।
(13)
मूलम्
विष्णो॑रनु॒ष्टुक् ।
(13)
विश्वास-प्रस्तुतिः
व᳓रुणस्य विरा᳓ट् ।
मूलम्
वरु॑णस्य वि॒राट् ।
विश्वास-प्रस्तुतिः
यज्ञ᳓स्य पङ्क्तिः᳓ ।
मूलम्
य॒ज्ञस्य॑ प॒ङ्क्तिः ।
विश्वास-प्रस्तुतिः
प्रजा᳓पतेर् अ᳓नुमतिः ।
मूलम्
प्र॒जाप॑ते॒रनु॑मतिः ।
विश्वास-प्रस्तुतिः
मित्र᳓स्य श्रद्धा᳓ ।
मूलम्
मि॒त्रस्य॑ श्र॒द्धा ।
विश्वास-प्रस्तुतिः
सवितुः᳓ प्र᳓सूतिः ।
मूलम्
स॒वि॒तुः प्रसू॑तिः ।
विश्वास-प्रस्तुतिः
सू᳓र्यस्य म᳓रीचिः ।
मूलम्
सूर्य॑स्य॒ मरी॑चिः ।
विश्वास-प्रस्तुतिः
चन्द्र᳓मसो रोहिणी᳓ ।
मूलम्
च॒न्द्रम॑सो रोहि॒णी ।
विश्वास-प्रस्तुतिः
ऋ᳓षीणाम् अरुन्धती᳓ ।
मूलम्
ऋषी॑णामरुन्ध॒ती ।
विश्वास-प्रस्तुतिः
पर्ज᳓न्यस्य विद्यु᳓त् ।
मूलम्
प॒र्जन्य॑स्य वि॒द्युत् ।
साधारण-पत्न्यः
विश्वास-प्रस्तुतिः
च᳓तस्रो दि᳓शः,
भट्टभास्कर-टीका
चतस्रो दिश इत्याद्यास्साधारणपत्न्यः ।
मूलम्
चत॑स्रो॒ दिशः॑ ।
विश्वास-प्रस्तुतिः
च᳓तस्रोऽवान्तरदिशाः᳓,
भट्टभास्कर-टीका
अवान्तरदिशाः कोणदिशः । आकारस्समासान्तः ।
मूलम्
चत॑स्रोऽवान्तरदि॒शाः ।
विश्वास-प्रस्तुतिः
अ᳓हश् च रा᳓त्रिश् च,
मूलम्
अह॑श्च॒ रात्रि॑श्च ।
विश्वास-प्रस्तुतिः
कृषि᳓श्च वृ᳓ष्टिश् च,
मूलम्
कृ॒षिश्च॒ वृष्टि॑श्च ।
विश्वास-प्रस्तुतिः
त्वि᳓षिश् चा᳓पचितिश् च,
भट्टभास्कर-टीका
त्विषिः दीप्तिः । अपचितिः पूजा ।
मूलम्
त्विषि॒श्चाप॑चितिश्च ।
विश्वास-प्रस्तुतिः
आ᳓पश् चौ᳓षधयश् च,
मूलम्
आप॒श्चौष॑धयश्च ।
विश्वास-प्रस्तुतिः
ऊ᳓र्क् च सूनृ᳓ता च देवा᳓नां प᳓त्नयः ।
(14)
भट्टभास्कर-टीका
ऊर्क् अन्नं रसो वा । सूनृता प्रियसत्यात्मा वाक् । सर्वेषां देवानां एतेषां एता दिगादयस्साधारण्यः पत्न्यः । छान्दसं ह्रस्वत्वम् । सामर्थ्याच्च साधारण्य इति गम्यते ॥ इत्यारण्यके तृतीये नवमोऽनुवाकः ॥
मूलम्
ऊर्क्च॑ सू॒नृता॑ च दे॒वानां॒ पत्न॑यः ।
(14)