भट्टभास्कर-टीका
1अथ सम्भारयजूंषि अग्निर्यजुर्भिरित्यादीनि ॥ ‘हृदयं यजूंषि पत्न्यश्च’ इत्यादिषु विनियोगः । हृदयं ‘सुवर्णं धर्मं’ इत्यनुवाकः । एतानि यजूंषि । पत्न्यो वक्ष्यन्ते ‘सेनेन्द्रस्य’ इत्यादयः ।
विश्वास-प्रस्तुतिः
अग्नि᳓र् य᳓जुर्भिः +++(सम्भरति)+++।
भट्टभास्कर-टीका
अग्निर्यजुर्भिः यज्ञं सम्भृतवान् । तैस्तद्वान् इत्यन्ये । अस्य यजुश्शब्दसम्बन्धित्वात् सर्वाणि यजूंषि ।
मूलम्
अ॒ग्निर्यजु॑र्भिः ।
विश्वास-प्रस्तुतिः
सविता᳓ स्तो᳓मैः ।
भट्टभास्कर-टीका
सविता स्तोमैः त्रिवृदादिभिः यज्ञं सम्भृतवान् । एवं सर्वत्र ।
मूलम्
स॒वि॒ता स्तोमैः॑ ।
विश्वास-प्रस्तुतिः
इ᳓न्द्र उक्थामदैः᳓+++(=स्तोत्रशस्त्रैः)+++ ।
भट्टभास्कर-टीका
उक्थामदैः स्तोत्रशस्त्रैः ।
मूलम्
इन्द्र॑ उक्थाम॒दैः ।
विश्वास-प्रस्तुतिः
मित्रा᳓व᳓रुणाव् आशि᳓षा ।
भट्टभास्कर-टीका
आशिषा प्रार्थनामन्त्रैः । गतमन्यत् ।
मूलम्
मि॒त्रावरु॑णाव् आ॒शिषा॑ ।
विश्वास-प्रस्तुतिः
अ᳓ङ्गिरसो धि᳓ष्णियैर् अग्नि᳓भिः ।
मूलम्
अङ्गि॑रसो॒ धिष्णि॑यैर॒ग्निभिः॑ ।
विश्वास-प्रस्तुतिः
मरु᳓तस् सदो–हविर्-धाना᳓भ्याम् ।
मूलम्
म॒रुत॑स्सदोहविर्धा॒नाभ्या॑म् ।
विश्वास-प्रस्तुतिः
आ᳓पः प्रो᳓क्षणीभिः ।
मूलम्
आपः॒ प्रोक्ष॑णीभिः ।
विश्वास-प्रस्तुतिः
ओ᳓षधयो बर्हिषा᳙ ।
मूलम्
ओष॑धयो बर्हि॒षा॑ ।
विश्वास-प्रस्तुतिः
अ᳓दितिर् वे᳓द्या ।
मूलम्
अदि॑ति॒र्वेद्या॑ ।
विश्वास-प्रस्तुतिः
सो᳓मो दीक्ष᳓या ।
(11)
मूलम्
सोमो॑ दी॒क्षया॑ ।
(11)
विश्वास-प्रस्तुतिः
त्व᳓ष्टेध्मे᳓न ।
मूलम्
त्वष्टे॒ध्मेन॑ ।
विश्वास-प्रस्तुतिः
वि᳓ष्णुर् यज्ञे᳓न ।
भट्टभास्कर-टीका
विष्णुर्यज्ञेन तद्वान् ।
मूलम्
विष्णु॑र्य॒ज्ञेन॑ ।
विश्वास-प्रस्तुतिः
व᳓सव आ᳓ज्येन ।
मूलम्
वस॑व॒ आज्ये॑न ।
विश्वास-प्रस्तुतिः
आदित्या᳓ द᳓क्षिणाभिः ।
मूलम्
आ॒दि॒त्या दक्षि॑णाभिः ।
विश्वास-प्रस्तुतिः
वि᳓श्वे देवा᳓ ऊर्जा᳓ ।
मूलम्
विश्वे॑ दे॒वा ऊ॒र्जा ।
विश्वास-प्रस्तुतिः
पूषा᳓ स्वगा-कारे᳓ण ।
भट्टभास्कर-टीका
स्वगाकारेण यथायथं हविस्स्वामिनां हविस्सम्बन्धकरणेन ।
मूलम्
पू॒षा स्व॑गाका॒रेण॑ ।
विश्वास-प्रस्तुतिः
बृ᳓हस्-प᳓तिः पुरोध᳓या ।
भट्टभास्कर-टीका
पुरोधया प्राधान्येन, ब्रह्मत्वेन वा उद्गीथेन उद्गानेन द्वितीयया चतुर्थ्या वा विभक्त्या ।
मूलम्
बृह॒स्पतिः॑ पुरो॒धया॑ ।
विश्वास-प्रस्तुतिः
प्रजा᳓पतिर् उद्गीथे᳓न ।
मूलम्
प्र॒जाप॑तिरुद्गी॒थेन॑ ।
विश्वास-प्रस्तुतिः
अन्त᳓रिक्षं पवि᳓त्रेण ।
भट्टभास्कर-टीका
पवित्रेण दशापवित्रेण ।
मूलम्
अ॒न्तरि॑क्षं प॒वित्रे॑ण ।
विश्वास-प्रस्तुतिः
वायुः᳓ पा᳓त्रैः ।
भट्टभास्कर-टीका
पात्रैः उर्ध्वपात्रैः
मूलम्
वा॒युः पात्रैः॑ ।
विश्वास-प्रस्तुतिः
अहँ᳓ श्रद्ध᳓या ।+++(5)+++
(12)
भट्टभास्कर-टीका
अहं श्रद्धया सर्वदा यजे इति ॥ इत्यारण्यके तृतीये अष्टमोऽनुवाकः ॥
मूलम्
अ॒हँ श्र॒द्धया॑ ।
(12)