भास्करोक्त-विनियोगः
1चातुर्मास्येषु केशनिवर्तनेषु ‘तदृतं तत्सत्यं’ इति जपित्वा
तमेतम् अनुवाकं जपति ।
ब्रह्ममेधे च आदीयमानं प्रेतमेतेनानुवाकेन अभिमन्त्रयते - ब्राह्मण एकहोता इति ॥
विश्वास-प्रस्तुतिः
ब्राह्मण᳓ ए᳓क-होता +++(यज्ञः)+++।
स᳓ यज्ञः᳓ ।
स᳓ मे ददातु प्रजां᳓ पशू᳓न् पु᳓ष्टिय्ँ य᳓शः ।
यज्ञ᳓श् च मे भूयात् ।
होमे त्यागः
(ब्रह्मण इदं न मम)
भट्टभास्कर-टीका
एको होता ऋत्विक् यस्य स एकहोता । ‘ऋतश्छन्दसि’ इति कबभावः ।
ईडशो यज्ञविशेषो ब्राह्मणो नाम, तपोमयत्वात् तस्य तद्वदृत्विग् उपकारित्वेन रूप्यते ।
स यज्ञः स एवाग्निष्टोमादिः सर्वो यज्ञः, तत्साध्यत्वात् । स मे ददातु प्रजादि । स च यज्ञः सर्वदा मे भूयात् । एवं ‘अग्निर्द्विहोता’ इत्यादि द्रष्टव्यम् ॥
मूलम्
ब्रा॒ह्म॒ण एक॑होता ।
स य॒ज्ञः ।
स मे॑ ददातु प्र॒जां प॒शून् पुष्टिय्ँ॒ यशः॑ ।
य॒ज्ञश्च॑ मे भूयात् ।
मूलम्
स मे॑ ददातु प्र॒जां प॒शून् पुष्टिय्ँ॒ यशः॑ ।
य॒ज्ञश्च॑ मे भूयात् ।
विश्वास-प्रस्तुतिः
अग्नि᳓र् द्वि᳓-होता +++(यज्ञः)+++।
स᳓ भर्ता᳓ +++(पाक-हविर्-वहनाभ्यां)+++।
स᳓ मे ददातु प्रजां᳓ पशू᳓न् पु᳓ष्टिय्ँ य᳓शः ।
भर्ता᳓ च मे भूयात् ।
भट्टभास्कर-टीका
2अग्निः द्वाभ्यां पाक-हविर्-वहनाभ्यां विश्वं बिभर्तीति द्विहोता यज्ञः । स एव सर्वस्य भर्ता ॥
मूलम्
अ॒ग्निर् द्विहो॑ता +++(यज्ञः)+++।
स भ॒र्ता ।
स मे॑ ददातु प्र॒जां प॒शून्पुष्टिय्ँ॒यशः॑ ।
भ॒र्ता च॑ मे भूयात् ।
विश्वास-प्रस्तुतिः
पृथिवी᳓ त्रि᳓होता +++(यज्ञः)+++।
स᳓ प्रतिष्ठा᳓ ।
(7)
स᳓ मे ददातु प्रजां᳓ पशू᳓न् पु᳓ष्टिय्ँ य᳓शः ।
प्रतिष्ठा᳓ च मे भूयात् ।
होमे त्यागः
(पृथिव्या इदं न मम)
भट्टभास्कर-टीका
3पृथिवी त्रिभिः अग्न्य्-अन्न-यागैः सर्वप्रतिष्ठाहेतुः इति त्रिहोता यज्ञः ॥
मूलम्
पृ॒थि॒वी त्रिहो॑ता ।
स प्र॑ति॒ष्ठा ।
(7)
स मे॑ ददातु प्र॒जां प॒शून्पुष्टिय्ँ॒यशः॑ ।
प्र॒ति॒ष्ठा च॑ मे भूयात् ।
विश्वास-प्रस्तुतिः
अन्त᳓रिक्षञ् च᳓तुर्-होता +++(यज्ञः)+++।
स᳓ विष्ठाः᳓ +++(दिक्-सङ्ख्यया)+++।
स᳓ मे ददातु प्रजां᳓ पशू᳓न् पु᳓ष्टिय्ँ य᳓शः ।
विष्ठा᳓श् च मे भूयात् ।
होमे त्यागः
(अन्तरिक्षायेदं न मम)
भट्टभास्कर-टीका
4अन्तरिक्षं चतुर्भिः वाग्-वृष्ट्य्-अवकाश-स्थानैः विश्वं विविधं स्थापयतीति ॥
मूलम्
अ॒न्तरि॑क्ष॒ञ्चतु॑र्होता ।
स वि॒ष्ठाः ।
स मे॑ ददातु प्र॒जां प॒शून्पुष्टिय्ँ॒यशः॑ ।
वि॒ष्ठाश्च॑ मे भूयात् ।
विश्वास-प्रस्तुतिः
वायुः᳓ प᳓ञ्च-होता +++(यज्ञः)+++।
स᳓ प्राणः᳓ +++(पञ्चत्वात्)+++।
स᳓ मे ददातु प्रजां᳓ पशू᳓न् पु᳓ष्टिय्ँ य᳓शः ।
प्राण᳓श्च मे भूयात् ।
(8)
होमे त्यागः
(वायव इदं न मम)
भट्टभास्कर-टीका
5वायुः पञ्चभिः प्राणादिवृत्तिभिः विश्वं प्राणयति ॥
मूलम्
वा॒युः पञ्च॑होता ।
स प्रा॒णः ।
स मे॑ ददातु प्र॒जां प॒शून्पुष्टिय्ँ॒यशः॑ ।
प्रा॒णश्च॑ मे भूयात् ।
(8)
विश्वास-प्रस्तुतिः
चन्द्र᳓माष् ष᳓ड्-ढोता ।
स᳓ ऋतू᳓न् कल्पयाति ।
स᳓ मे ददातु प्रजां᳓ पशू᳓न् पु᳓ष्टिय्ँ य᳓शः ।
ऋत᳓वश् च मे कल्पन्ताम् ।
होमे त्यागः
(चन्द्रमस इदं न मम)
भट्टभास्कर-टीका
6चन्द्रमाः षढ्ढोता षड्भिः ऋतुकल्पनाभिः विश्वं धारयति ॥
मूलम्
च॒न्द्रमा॒ष्षड्ढो॑ता ।
स ऋ॒तून्क॑ल्पयाति ।
स मे॑ ददातु प्र॒जां प॒शून्पुष्टिय्ँ॒यशः॑ ।
ऋ॒तव॑श्च मे कल्पन्ताम् ।
विश्वास-प्रस्तुतिः
अ᳓न्नँ सप्त᳓-होता ।
स᳓ प्राण᳓स्य प्राणः᳓ ।
स᳓ मे ददातु प्रजां᳓ पशू᳓न् पु᳓ष्टिय्ँ य᳓शः ।
प्राण᳓स्य च मे प्राणो᳓ भूयात् ।
भट्टभास्कर-टीका
7अन्नं सप्तभिः शीर्षण्यादिभिः प्राणवृत्तिभिः प्राणयति विश्वं, तेषां प्राणनहेतुत्वात् ॥
मूलम्
अन्नँ॑ स॒प्तहो॑ता ।
स प्रा॒णस्य॑ प्रा॒णः ।
स मे॑ ददातु प्र॒जां प॒शून्पुष्टिय्ँ॒यशः॑ ।
प्रा॒णस्य॑ च मे प्रा॒णो भू॑यात् ।
विश्वास-प्रस्तुतिः
द्यौ᳓र् अष्ट᳓-होता ।
सो᳓ ऽनाधृष्यः᳓ ।(9)
स᳓ मे ददातु प्रजां᳓ पशू᳓न् पु᳓ष्टिय्ँ य᳓शः ।
अनाधृष्य᳓श् च भूयासम् ।
होमे त्यागः
(दिव इदं न मम)
भट्टभास्कर-टीका
8द्यौः अष्टाभिः इन्द्रियात्मभिः प्राणाद्यन्तःकरणान्तैः विश्वं वृष्ट्यादिद्वारेण तर्पयति, अनाधृष्टं सुखस्थानं भवति ॥
मूलम्
द्यौर॒ष्टहो॑ता ।
सो॑ऽनाधृ॒ष्यः ।(9)
स मे॑ ददातु प्र॒जां प॒शून्पुष्टिय्ँ॒यशः॑ ।
अ॒ना॒धृ॒ष्यश्च॑ भूयासम् ।
विश्वास-प्रस्तुतिः
आदित्यो᳓ न᳓वहोता ।
स᳓ तेजस्वी᳓ ।
स᳓ मे ददातु प्रजां᳓ पशू᳓न् पु᳓ष्टिय्ँ य᳓शः ।
तेजस्वी᳓ च भूयासम् ।
होमे त्यागः
(आदित्यायेदं इदं न मम)
भट्टभास्कर-टीका
9आदित्यो नवभिः पूर्वोक्तैरष्टभिः आत्मना च विश्वं निवर्तयन् सर्वप्रत्यक्षं तेजस्वी भवति ॥
मूलम्
आ॒दि॒त्यो नव॑होता ।
स ते॑ज॒स्वी ।
स मे॑ ददातु प्र॒जां प॒शून्पुष्टिय्ँ॒यशः॑ ।
ते॒ज॒स्वी च॑ भूयासम् ।
विश्वास-प्रस्तुतिः
प्रजा᳓पतिर् द᳓श-होता ।
स᳓ इदँ᳓ स᳓र्वम् ।
स᳓ मे ददातु प्रजां᳓ पशू᳓न् पु᳓ष्टिय्ँ य᳓शः ।
स᳓र्वञ् च मे भूयात् ।
(10)
होमे त्यागः
(प्रजापतय इदं न मम)
भट्टभास्कर-टीका
10प्रजापतिर्दशभिः पूर्वोक्तैः नवभिः स्थावरात्मना च सर्वमिदं भूत्वा तिष्ठति ॥ इत्यारण्यके तृतीये सप्तमोऽनुवाकः ॥
मूलम्
प्र॒जाप॑ति॒र्दश॑होता।
स इ॒दँ सर्वम्॑ ।
स मे॑ ददातु प्र॒जां प॒शून्पुष्टिय्ँ॒यशः॑ ।
सर्व॑ञ्च मे भूयात् ।
(10)