होता
भास्करोक्त-विनियोगः
1उपरिष्टात्प्राञ्चं सप्तहोतारमुपदधाति - महाहविरिति ॥ सौम्येष्वध्वरेषु विनियोगः ।
विश्वास-प्रस्तुतिः
महा᳓-हविर् हो᳓ता ।
भट्टभास्कर-टीका
महत् सर्वं हविः यस्य तन्महाग्रासं ब्रह्मैव होता, होत्रा च महनीयं हविः भवतीति । यद्वा - महाहाविः अग्निः सर्वभक्षकत्वात् ।
मूलम्
म॒हाह॑वि॒र्होता॑ ।
विश्वास-प्रस्तुतिः
सत्य᳓-हविर् अध्वर्युः᳓ ।
भट्टभास्कर-टीका
सत्यहविरध्वयुः सत्यमेव हविः यस्य स सत्यहविः प्रजापतिः सोऽध्वर्युः, कर्तृत्वसाम्यात् ।
मूलम्
स॒त्यह॑विरध्व॒र्युः ।
विश्वास-प्रस्तुतिः
अ᳓च्युत-पाजा+++(=बलं)+++ अग्नी᳓त् ।
भट्टभास्कर-टीका
अच्युतं पाजः बलं वेगो वा यस्य स वायुः सोऽग्नीत् विहरणादिकृत्त्वात् ।
मूलम्
अच्यु॑तपाजा अ॒ग्नीत् ।
विश्वास-प्रस्तुतिः
अ᳓-च्युत-मना उपवक्ता᳓ +++(→ब्रह्मा)+++।
भट्टभास्कर-टीका
अच्युतं नित्यं सर्वत्र स्थितं मनो यस्य स विष्णुः स उपवक्ता ब्रह्मा सर्वकर्मसाक्षित्वात् ।
मूलम्
अच्यु॑तमना उपव॒क्ता ।
विश्वास-प्रस्तुतिः
अनाधृष्य᳓श् चाप्रतिधृष्य᳓श् च यज्ञ᳓स्याभिगरौ᳓+++(=गानौ)+++ ।
भट्टभास्कर-टीका
अनाधृष्यः केन चिदप्यनभिभवनीयः अभिभवितुमशक्यः इन्द्रः, अप्रतिधृष्यः स्वयं अभिभवन्नपि योऽन्येन प्रत्यभिभवितुं न शक्यते सोऽप्रतिधष्यः अग्निः, रुद्र इत्येके । उभयत्रापि ‘ययतोश्चातदर्थे’ इत्युत्तरपदान्तोदात्तत्वम् ।
तावेवाभिगरौ यज्ञस्य उद्गातारम् अभिगन्तारौ प्रस्तोतृ-प्रतिहर्तारौ । केचिदाहुः - चर्मकर्ते व्यायच्छमानौ शूद्रार्यावेतौ यज्ञस्याभिगरौ प्रशसांनिन्दयोः कर्तारौ । पचाद्यच् ।
मूलम्
अ॒ना॒धृ॒ष्यश्चा॑प्रतिधृ॒ष्यश्च॑ य॒ज्ञस्या॑भिग॒रौ ।
विश्वास-प्रस्तुतिः
अया᳓स्य+++(=अयानमयः)+++ उद्गाता᳓ ।
भट्टभास्कर-टीका
अयास्यः अङ्गिरसः पुत्र इत्येके । अन्य आहुः - अयानमयाः अविनाशः तत्र स्थितः अयास्यः । बहुव्रीहिर्वा । अविनाशे महिम्नि स्थितो अयास्यः, सर्वोत्तीर्ण ईश्वर एव । स उद्गाता गानस्थितत्वात् ॥
मूलम्
अ॒यास्य॑ उद्गा॒ता ।
ग्रहः
विश्वास-प्रस्तुतिः
वा᳓चस्पते हृद्-विधे नामन् ।
विधे᳓म ते ना᳓म ।
विधे᳓स् त्व᳓म् अस्मा᳓कन् ना᳓म ।
भट्टभास्कर-टीका
2अथ ग्रहः हे वाचस्पते! हे हृत्! उपसंहारकाले सर्वस्य हर्तः यद्वा - हृदि स्थितः सर्वस्य । विधे! नामन् ! इत्यादि गतम् ।
मूलम्
वाच॑स्पते हृद्विधे नामन् ।
वि॒धेम॑ ते॒ नाम॑ ।
वि॒धेस्त्वम॒स्माक॒न्नाम॑ ।
विश्वास-प्रस्तुतिः
वाच᳓स्-प᳓तिस् सो᳓मम् अपात् ।
मा᳓ दै᳓व्यस् त᳓न्तुश् छे᳓दि, मा᳓ मनुष्यः᳙ ।
न᳓मो दिवे᳓ ।
न᳓मः पृथिव्यै᳓ स्वा᳓हा ।
(5)
भट्टभास्कर-टीका
अपादिति विशेषः, पिबत्वित्येवार्थः । छान्दसो लुङ् । दैव्यः दिवि भवः तन्तुः देवजातिः मा छेदि । ‘देवाद्यञञौ’ इति यञ् । मा च मनुष्यजातिः, छेदीत्येव । यद्वा - देवार्थो मनुप्यार्थश्च तन्तुः यज्ञः मा छेदि विच्छिन्नो मा भूत् । नमो दिवे नमः पृथिव्यै च तयोः तन्त्वोः स्थानाभ्याम् । स्वाहेति गतम् ॥ इत्यारण्यके तृतीये पञ्चमोऽनुवाकः ॥
मूलम्
वा॒चस्पति॒स्सोम॑मपात् ।
मा दैव्य॒स्तन्तु॒श्छेदि॒ मा म॑नु॒ष्यः॑ ।
नमो॑ दि॒वे ।
नमः॑ पृथि॒व्यै स्वाहा॑ ।
(5)