होता
भास्करोक्त-विनियोगः
1द्वौ षढ्ढोतारौ, ‘सूर्यं ते’ इत्येकः,
‘वाग्योता’ इत्यन्यः
तत्र च होतृब्राह्मणे ‘वाग्घोता षढ्ढोतॄणाम्’ इति दर्शनात् ।
स एव ‘उत्तरतः प्राञ्चं षढ्ढोतारम्'12 इति विधीयते ।
‘सूर्य ते’ इत्यस्य तु पशुबन्धादिषु विनियोगः ।
विश्वास-प्रस्तुतिः
सू᳓र्यन् ते च᳓क्षुः ।
भट्टभास्कर-टीका
सूर्य ते चक्षुः । हे वाचस्पते! तव चक्षुः सूर्यं अनुप्रविष्टमिति शेषः । सूर्यात्मना चक्षुषा त्वं विश्वं पश्यसीतिभावः ।
मूलम्
सूर्य॑न्ते॒ चक्षुः॑ ।
विश्वास-प्रस्तुतिः
वा᳓तं प्राणः᳓ ।
भट्टभास्कर-टीका
वातमनुप्रविष्टस्तव प्राणः त्वदीयेन प्राणेन विश्वं प्राणितीति ।
मूलम्
वातं॑ प्रा॒णः ।
विश्वास-प्रस्तुतिः
द्यां᳓ पृष्ठ᳓म् ।
भट्टभास्कर-टीका
द्यां पृष्ठं उपरिभागः, स एव द्यौरिति ।
मूलम्
द्यां पृ॒ष्ठम् ।
विश्वास-प्रस्तुतिः
अन्त᳓रिक्षम् आत्मा᳓ ।
भट्टभास्कर-टीका
अन्तरिक्षं तव अत्मा ।
मूलम्
अ॒न्तरि॑क्षमा॒त्मा ।
विश्वास-प्रस्तुतिः
अ᳓ङ्गैर् यज्ञ᳓म् ।
भट्टभास्कर-टीका
अङ्गैः अवयवैः यज्ञं, तव अङ्गानि यज्ञाङ्गानि ।
मूलम्
अङ्गै॑र्य॒ज्ञम् ।
विश्वास-प्रस्तुतिः
पृथिवीँ᳓ श᳓रीरैः +++(मन्यन्ते)+++।
विश्वास-प्रस्तुतिः
पृथिवीं शरीरैः शरीरेण । वचनव्यत्ययः । शरीरभेदैर्वा तव शरीरं पृथिवी इति ॥
भट्टभास्कर-टीका
पृथिवीं शरीरैः शरीरेण । वचनव्यत्ययः । शरीरभेदैर्वा तव शरीरं पृथिवी इति ॥
मूलम्
पृ॒थि॒वीँ शरी॑रैः ।
ग्रहः
भास्करोक्त-विनियोगः
2अथ ग्रहः ॥
विश्वास-प्रस्तुतिः
वा᳓चस्पते᳓ ऽच्छिद्रया वाचा᳓ ।
अ᳓च्छिद्रया जुह्वा᳙ ।
दिवि᳓ देवावृ᳓धँ हो᳓त्राम्+++(=होतव्यं)+++ ए᳓रयस्व स्वा᳓हा ।
(4)
भट्टभास्कर-टीका
हे वाचस्पते!
अच्छिद्रया अविनाशया षढ्ढोत्रात्मिकया अच्छिद्रया जुह्वा अच्छिद्रजुहू-स्थानीयया
दिवि देवावृधं देवानां वर्धयित्रीं होत्रां होतव्यं सोमादिहविः एरयस्व आभिमुख्येन ईरयस्व ।
स्वाहेति गतम् ।
वृधेर्ण्यन्तात् क्विपि ‘बहुलमन्यत्रापि’ इति णिलुक्, ‘अन्येषामपि दृश्यते’ इति दीर्घत्वम् ॥
इत्यारण्यके तृतीये चतुर्थोऽनुवाकः ॥
मूलम्
वाच॑स्प॒तेऽच्छि॑द्रया वा॒चा ।
अच्छि॑द्रया जु॒ह्वा॑ ।
दि॒वि दे॑वा॒वृधँ॒ होत्रा॒मेर॑यस्व॒ स्वाहा॑ ।
(4)