होता
भास्करोक्त-विनियोगः
दक्षिणतः प्राञ्चं चतुर्होतारमुपदधाति - पृथिवी होतेति ॥
‘पृथिवी होता, तया देवतया’ इत्यादिरुपधानक्रमः सर्वत्र ॥
विश्वास-प्रस्तुतिः
पृथिवी᳓ हो᳓ता ।
भट्टभास्कर-टीका
पृथिव्या होतृत्वं आसीनत्वसाम्यात् ।
होताऽप्यासीनश्शंसति ।
पृथिवी च आसीना भवति, ‘आस्त इव हीयं’ इति ।
मूलम्
पृ॒थि॒वी होता॑ ।
विश्वास-प्रस्तुतिः
द्यौ᳓र् अध्वर्युः᳓ ।
भट्टभास्कर-टीका
दिवश्चाध्वर्युत्वं तिष्ठत्त्वसाम्यात् । तिष्ठन् ह्यध्वर्युः प्रतिगृह्णाति । द्यौश्च तिष्ठन्ती भवति, ‘तिष्ठतीव ह्यसौ'10 इति
मूलम्
द्यौर॑ध्व॒र्युः ।
विश्वास-प्रस्तुतिः
रुद्रो᳙ऽग्नी᳓त् ।
भट्टभास्कर-टीका
रुद्रोऽग्नीत् रुद्रः अग्निः प्राणो वा, स एवाग्नीत् । गतम् ।
मूलम्
रु॒द्रो॑ऽग्नीत् ।
विश्वास-प्रस्तुतिः
बृ᳓हस्प᳓तिर् उपवक्ता᳓ ।
भट्टभास्कर-टीका
बृहस्पतिरेवोपवक्ता बृहतां कर्मणां पातृत्वात् ।
मूलम्
बृह॒स्पति॑रुपव॒क्ता ।
ग्रहेष्टका
भास्करोक्त-विनियोगः
अथ ग्रहेष्टकामुपदधाति - वाचस्पत इति ॥
विश्वास-प्रस्तुतिः
वा᳓चस्पते वाचो᳓ वीर्ये᳙ण
सं᳓भृततमेन +आ᳓यक्ष्यसे ।
य᳓जमानाय वा᳓र्यम्
आ᳓ सु᳓वस् क᳓र् अस्मै ।
वाच᳓स्प᳓तिस् सो᳓मं पिबतु ।
जज᳓नद् इ᳓न्द्रम् इन्द्रिया᳓य स्वा᳓हा ॥ (2)
भट्टभास्कर-टीका
हे वाचस्पते! प्रजापते! वाचो वीर्येण तेन मन्त्रेण चतुर्होत्रात्मना सर्ववाङ्मयसारेण सम्भृततमेन अतिशयेनैकत्र सम्भृतेन आयक्ष्यसे आभिमुख्येन इज्यसे, त्वमेव सङ्गन्यसे वा । व्यत्ययेन वर्तमाने लृट् । यद्वा - यक्ष पूजायां इत्यस्मात्कर्मणि लट् ।
स त्वं अस्मै यजमानाय वार्यं वरणीयं स्रुवः सुखं आकः आभिमुख्येन कुरु । करोतेश्छान्दसे लुङि ‘मन्त्रे घस’ इति च्लेर्लुक्, ‘बहुलं छन्दस्यमाङ्योगेऽपि’ इत्यडभावः । यद्वा – लेटि शपो लुक् । वाचस्पतिस्सोमं पिबति पिबत्व् इति व्याख्यातम् । लिङर्थे लेट् । जजनत् जनयतु इन्द्रं यजमानं कर्मेश्वरं इन्द्रियाय वीर्यार्थं वीर्यस्याश्रयोऽयं यथा स्यादिति । स्वाहेति गतम् । जनेर्लेटि शपः श्लुः, अडागमः । दर्शपूर्णमासादिष्वस्य विनियोगः ॥
इत्यारण्यके तृतीये द्वितीयोनुवाकः ॥
मूलम्
वाच॑स्पते वा॒चो वी॒र्ये॑ण ।
संभृ॑ततमे॒नाय॑क्ष्यसे ।
यज॑मानाय॒ वार्य॑म् ।
आसुव॒स्कर॑स्मै ।
वा॒चस्पति॒स्सोमं॑ पिबतु(ति) ।
ज॒जन॒दिन्द्र॑मिन्द्रि॒याय॒ स्वाहा॑ ॥ (2)