होता
भास्करोक्त-विनियोगः
अथ तृतीयः प्रपाठकः ॥
1अथ चातुर्होत्रियम् अग्निम् अधिकृत्योच्यते ।
तत्राग्रेण दर्भ-स्तम्बं दश-होतारं
प्रतिमन्त्रं उदञ्चं उपदधाति -
चित्तिस्स्रुगित्य्-आदिभिर् दशभिर् मन्त्रैर् दशेष्टका उपदधाति ।
‘ब्रह्म वै चतुर्होतारः’ इति काठके ब्राह्मणमाम्नातम् ।
अत्र मन्त्रा आम्नायन्ते ।
सर्वत्रेष्टकाः स्तूयन्ते ।
‘चित्तिस्स्रुक्, तया देवतया’ इत्यादिर् उपधानक्रमः ।
विश्वास-प्रस्तुतिः
चि᳓त्तिस् स्रु᳓क् ।
भट्टभास्कर-टीका
आदौ सिसृक्षुः प्रजापतिः सृष्ट्यर्थं केनचिद् यागेन आध्यात्मिकेन इष्टवान् ।
तस्य यागस्य चित्तिस्स्रुक् ।
सिसृक्षोः या बुद्धिः सृष्टिसङ्कल्पात्मिका सा चित्तिः ।
सा अस्य यागस्य स्रुग्बभूव, सर्वस्य मूलत्वात् ।
सा सर्वयागसाधनस्रुग्भावेन रूप्यते ।
यथा जुह्वा विना यागो न निर्वतयितुं शक्यते,
एवं चित्त्या विना न शक्यते जगत्स्रष्टुम् ।
सैव स्रुक्कार्यमकरोदित्यर्थः ।
सायण-टीका
पुरा कदाचित्प्रजापतिः प्रजा उत्पादयितुं कामयमानस्तदुपायं वेदेषु परौक्ष्य दशहोत्राख्यं मन्त्रमपश्यत् ।
मूलम्
चित्ति॒स्स्रुक् ।
विश्वास-प्रस्तुतिः
चित्त᳓म् आ᳓ज्यम् ।
भट्टभास्कर-टीका
चित्तमाज्यमिति सर्वध्येयतत्त्वाश्रयो महान् चित्तं, तदेवाज्यं, प्रधानोपकरणत्वात्, चित्तिस्रुक्स्थितत्वाच्च ।
मूलम्
चि॒त्तमाज्य॑म् ।
विश्वास-प्रस्तुतिः
वा᳓ग् वे᳓दिः ।
भट्टभास्कर-टीका
वाग्वेदिः वाक् अभिलापात्मिका वेदिः, सर्वाभिधेयाधारत्वात् ।
मूलम्
वाग्वेदिः॑ ।
विश्वास-प्रस्तुतिः
आ᳓धीतं+++(=वाञ्छितम्, रूपम्)+++ बर्हिः᳓ ।
भट्टभास्कर-टीका
आधीतं बर्हिः ।
आधेयं आधीतम् ।
हिभावाभावश्चान्दसः । रूपमुच्यते ।
यद्वा - आधीतं आवाञ्छितं, तदेव रूपं, तद्बर्हिः, वाग्वेद्यां स्तीर्णत्वात् । एवं नामरूपे उक्ते ।
मूलम्
आधी॑तं ब॒र्हिः ।
विश्वास-प्रस्तुतिः
के᳓तो+++(←केत मन्त्रणे निःश्रावणे)+++ अग्निः᳓ ।
भट्टभास्कर-टीका
केतो अग्निः केतयिता व्याकर्ता येन ते व्याकृते नामरूपे,
तेषु सृष्टेषु अनुप्रविष्टो जीवात्मा अग्निराहवनीयः, चितिर्वा ।
यथोक्तं ‘अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि’ इति ।
मूलम्
केतो॑ अ॒ग्निः ।
विश्वास-प्रस्तुतिः
वि᳓ज्ञातम् अग्निः᳓ /अग्नी᳓त्।
भट्टभास्कर-टीका
विज्ञातम् अग्निः, विविधं ज्ञातं विज्ञातं सृष्टं विविधनामरूपं विश्वं अग्निः ।
यद्वा - सृष्टं विश्वं मयेति या तुष्टिः प्रजापतेः सा अग्निः ।
यद्वा - केतो अग्निः हुतभुक् , विज्ञात्मग्निः आग्नीध्रः ।
तथाऽन्येषां ‘अग्नीत् ’ इत्येव पाठः ।
मूलम्
विज्ञा॑तम॒ग्निः ।
विश्वास-प्रस्तुतिः
वा᳓क्-पतिर् +++(→इन्द्रियम्)+++ हो᳓ता ।
भट्टभास्कर-टीका
वाक्पतिः वाचः प्रसवितृ प्राजापत्यं वाग्-इन्द्रियं, स होता ।
मूलम्
वाक्प॑ति॒र्होता॑ ।
विश्वास-प्रस्तुतिः
म᳓न उपवक्ता᳓ +++(=ब्रह्मा)+++ ।
भट्टभास्कर-टीका
मन उपवक्ता, मनः प्राजापत्यं उपवक्ता ब्रह्मा,
सर्व-कर्म-हेतुत्वात् ।
मूलम्
मन॑ उपव॒क्ता ।
विश्वास-प्रस्तुतिः
प्राणो᳓ हविः᳓ ।
भट्टभास्कर-टीका
प्राणो हविः प्राजापत्यः प्राणः बललक्षणः स एव हविः इष्टसाधनं, अग्निर्वा, हविषां अग्निरूपत्वात् ।
मूलम्
प्रा॒णो ह॒विः ।
विश्वास-प्रस्तुतिः
सा᳓माध्वर्युः᳓ ।
भट्टभास्कर-टीका
सामाध्यर्युः, समत्वं साम माध्यस्थ्यम् । यद्वा - सृष्ट्यर्थं तपस्साम कष्टवत्त्वात्, तदेवाध्वर्युः, जगत्सृष्टिलक्षणाध्वरनिर्वर्ति हेतुत्वात् ।
मूलम्
सामा॑ध्व॒र्युः ।
भट्टभास्कर-टीका
एवमयं दशहोता दशभूतो यज्ञात्मा प्रजापतिरेव । ‘ब्रह्मात्मन्वदसृजत’ इत्यादि ब्राह्मणम् । सर्वेषां चैषां चतुर्होतृत्वादेभिः कृतोऽग्निः चातुर्होत्र उच्यते ।
उक्तं च - ‘दशहोता चतुर्होता । पञ्चहोता षड्-होता सप्त-होता । अथ कस्माच्चतुर्होतार उच्यन्त इति । इन्द्रो वै चतुर्होता ।’ इत्यादि ॥
ग्रहेष्टका
भास्करोक्त-विनियोगः
2अथ ग्रहेष्टकामुपदधाति - वाचस्पत इति ॥ तं ग्रहेणागृह्णात्’ इति ब्राह्मणम् ।
विश्वास-प्रस्तुतिः
वा᳓चस्पते! विधे! नामन्! +++(इष्टिके!)+++
विधे᳓म ते ना᳓म ।
विधे᳓स् त्व᳓म् अस्मा᳓कन् ना᳓म ।
वाच᳓स्-प᳓तिस् सो᳓मं पिबतु ।
आ᳓ ऽस्मा᳓सु नृम्ण᳓न्+++(=नॄणां मननीयं)+++ धात् स्वा᳓हा ॥ (1)
भट्टभास्कर-टीका
वाचस्पतिः प्रजापतिः । तदात्मना इष्टकैवामन्त्र्यते । हे वाचस्पत्यात्मिके! इष्टके ! विधे! विधानात्मिके ! विधातृत्वाल्लोकानां, नामन्! नमनकारिन् ! लोकानां वशीकरणं नमनम् । ‘नामन्त्रिते समानाधिकणे’ इति अविद्यमानवत्त्वस्य निषेधः । ते तव नाम नमनं अनुग्राहकत्वं वयं विधेम परिचरेम, त्वमप्यस्माकं नाम नमनं अनुग्राहकत्वं विधेः विधेहि अनुमन्यस्व । इदं च प्रार्थयामहे वाचस्पतिर्यजमानः सम्यक्रियायां निर्वर्तितायां सोमं पिबतु सोमपानयोग्यस्सम्पद्यताम् ।
यद्वा - वाचस्पतिः प्रजापतिः सोमं सोमवत् प्रीणनं दशहोत्रात्मकं वागमृतं पिबतु शृणोत्विति यावत् । हे इष्टके ! अस्मासु नृम्णं धनं नॄणां मननीयं यागाख्यं आधात् आधेहि । दधातेर्लेटि शपो लुक् । स्वाहाकारो व्याख्यातः । ‘अग्निमादधानो दशहोत्राऽराणिमवदध्यात्’ इत्यादिषु विनियोगः । सर्वत्र प्रजापतियज्ञस्मरणादिदमभिमतं तत्र क्रियासिद्धिरिति ॥ इत्यारण्यके तृतीये प्रथमोऽनुवाकः ॥
मूलम्
वाच॑स्पते विधे नामन् ।
वि॒धेम॑ ते॒ नाम॑ ।
वि॒धेस्त्वम॒स्माक॒न्नाम॑ ।
वा॒चस्पति॒स्सोमं॑ पिबतु ।
आऽस्मासु॑ नृ॒म्णन्धा॒त्स्वाहा॑ ॥ (1)