२२ २ ध्रुव-वन्दनम्

विश्वास-प्रस्तुतिः

ध्रु॒वस्त्वम॑सि। ध्रु॒वस्य क्षि॑तमसि।

मूलम्

ध्रु॒वस्त्वम॑सि। ध्रु॒वस्य क्षि॑तमसि।

भट्टभास्कर-टीका

5ध्रुव इत्यादि पूर्वस्यैव मन्त्रस्य शेषः । हे शिशुमारात्मन् ! ईश्वर ! ध्रुवस्त्वमसि ध्रुवोऽविनाशः । ध्रुवस्य चात्माकाशादेः क्षितं निवासस्थानं त्वमसि ।

विश्वास-प्रस्तुतिः

त्वं भू॒ताना॒मधि॑पतिरसि॒। त्वं भू॒तानाँ॒ श्रेष्ठो॑ऽसि॒।

मूलम्

त्वं भू॒ताना॒मधि॑पतिरसि॒। त्वं भू॒तानाँ॒ श्रेष्ठो॑ऽसि॒।

भट्टभास्कर-टीका

भूतानां च सर्वेषां त्वमधिपतिर् अधिकं पालयिता स्वाम्य् असि । त्वमेव च भूतानां श्रेष्ठः प्रशस्यतरोऽसि ।

विश्वास-प्रस्तुतिः

त्वां भू॒तान्युप॑ प॒र्याव॑र्तन्ते॒। नम॑स्ते॒ नम॒स्सर्व॑न्ते॒ नमः॑ । (22) ॥ 19 ।

मूलम्

त्वां भू॒तान्युप॑ प॒र्याव॑र्तन्ते॒। नम॑स्ते॒ नम॒स्सर्व॑न्ते॒ नमः॑ । (22) ॥ 19 ।

भट्टभास्कर-टीका

त्वामेवोपेत्य सर्वाणि भूतानि पर्यावर्तन्ते परित उपासते, त्वामेवोपजीव्य वर्तन्ते । यद्वा - त्वामेवोपेत्य परितः सर्वतः मर्यादया वर्तन्ते, त्वदाज्ञामुद्रिता वर्तन्ते । ‘गतिर्गतौ’ इति परिशब्दो निहन्यते; उपशब्दोऽसमस्त एव आद्युदात्तः, कर्मप्रवचनीयत्वात् ‘प्रादिप्रसङ्गे कर्मप्रवचनीयानां प्रतिषेधः’ इति । नमस्ते नम इति नमस्कारस्तस्मै तुभ्यमेव नान्यस्मै कस्मै चिदपि, आराध्याधीनात्मसम्पादनत्वान्नमस्कारस्य । सर्वेषां च त्वमेव आराध्य इति । यस्मादेवं तुभ्यमेव नमस् तस्मान् नमस्तुभ्यमिति गम्यते । तस्मात्तुभ्यमेव नमस्कारं कुर्मः । यदुक्तं त्वमेव नमस्कार्य इति तदुपपादनार्थमाह - सर्वं ते नम इति । यस्मात् सर्वं तवैव स्वं भवति त्वमेव च स्वामी तस्मात् तुभ्यमेव नमः, स्वामित्वात् त्वमेव सर्वैर्नमस्कार्य इति ॥
इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये स्वाध्यायब्राह्मणे एकोनविंशोऽनुवाकः ॥
समाप्तश्च द्वितीयः प्रपाठकः ॥