विश्वास-टिप्पनी
आरण्यके तैत्तिरीये सायणभाष्यान्विते ऽत्रोक्तः। भट्टभास्कर-टीकायान्तु स्पष्टं विनियोगकाल्पोऽनुक्तः - किञ्च “दिवि भवो दिव्य” इति शिशुमारविवरणान् नक्षत्रमण्डलविशेषग्रहणं युज्यते। मन्त्रेऽपि शिशुमारम् उद्दिश्य ध्रुवस्य क्षितिर् असीत्युक्तम् अवधेयम। ध्रुवमण्डलं शिशुमारं कल्पयेत्, अथवा प्राचीनध्रुवं thuban-तारां तथा।
(ब्रह्माण्डपुराणस्य 23.101-104 इत्यनेन तोलनीयम् - यथोक्तमत्र।)
भट्टभास्कर-टीका
2अधुना ईश्वरस्य शरीरस्थानीयम् अंशपरिणामं विश्वोपादानं शिशुमारदेहत्वेन रूपयति - यस्मा इति ॥
विश्वास-प्रस्तुतिः
यस्मै॒ नम॒स्
तच्छिरो॒ धर्मो॑ मू॒र्धानं॑
मूलम्
यस्मै॒ नम॒स्
तच्छिरो॒ धर्मो॑ मू॒र्धानं॑
भट्टभास्कर-टीका
यस्मा एव नमस्कारः कर्तव्य इति प्रश्नान्ते वक्ष्यते स एवेश्वरोऽस्य शरीरस्य शिर इव प्रधानभूतः यथा ‘मखस्य शिरोसि’ इति, आत्मेति यावत्, ममेदमित्यभिमन्तृत्वात् ।
धर्मो मूर्धानं, विभक्तिव्यत्ययः, मूर्धा, आगलाद् उत्तमाङ्गस्य शरीरस्य उत्तमत्वादेव ।
विश्वास-प्रस्तुतिः
ब्र॒ह्म+उत्त॑रा॒ हनु॑र् य॒ज्ञोऽध॑रा॒
मूलम्
ब्र॒ह्म+उत्त॑रा॒ हनु॑र् य॒ज्ञोऽध॑रा॒
भट्टभास्कर-टीका
ब्रह्मा च यज्ञश्च हनुद्वयं, ग्रसनीयाकर्षणात् ।
विश्वास-प्रस्तुतिः
विष्णु॒र् हृद॑यँ
मूलम्
विष्णु॒र् हृद॑यँ
भट्टभास्कर-टीका
विष्णुर्हृदयम् आन्तरस्थानविशेषः, व्यापकत्वात् , पवित्रत्वाच्च ।
विश्वास-प्रस्तुतिः
सव्ँवत्स॒रः प्र॒जन॑नम्
मूलम्
सव्ँवत्स॒रः प्र॒जन॑नम्
विश्वास-प्रस्तुतिः
अ॒श्विनौ॑ पूर्व॒पादा॑व्
मूलम्
अ॒श्विनौ॑ पूर्व॒पादा॑व्
भट्टभास्कर-टीका
अश्विनौ पूर्वपादौ, आदानशक्तिहेतुत्वात् ।
विश्वास-प्रस्तुतिः
अ॒त्रिर् मध्यं॑
मूलम्
अ॒त्रिर् मध्यं॑
भट्टभास्कर-टीका
अत्रिर्मध्यं, मृत्युरेवोदरं, अत्ता अत्रिः ।
विश्वास-प्रस्तुतिः
मि॒त्रावरु॑णाव् अपर॒पादा॑व्
मूलम्
मि॒त्रावरु॑णाव् अपर॒पादा॑व्
भट्टभास्कर-टीका
मित्रावरुणावपरपादौ, प्रतिष्ठाहेतुत्वाज्जगतः ।
विश्वास-प्रस्तुतिः
अ॒ग्निः पुच्छ॑स्य प्रथ॒मङ्काण्ड॒न्, तत॒ इन्द्र॒स्, ततः॑ प्र॒जाप॑ति॒र्, अभ॑यञ् चतु॒र्थम्।
मूलम्
अ॒ग्निः पुच्छ॑स्य प्रथ॒मङ्काण्ड॒न्, तत॒ इन्द्र॒स्, ततः॑ प्र॒जाप॑ति॒र्, अभ॑यञ् चतु॒र्थम्।
भट्टभास्कर-टीका
अग्न्यादयः पुच्छख्य प्रथमादीनि काण्डानि पर्वाणि । अग्नीन्द्रौ गतौ । प्रजापतिः कश्यपाख्योष्टमस्सूर्यः । अभयमिति ध्रुवात्मकं ब्रह्मैव, यतः प्रभृत्य् उपाधिभयं नास्ति ॥
विश्वास-प्रस्तुतिः
स वा ए॒ष दि॒व्यश् शा॑क्व॒रश् शिशु॑मार॒स्
मूलम्
स वा ए॒ष दि॒व्यश् शा॑क्व॒रश् शिशु॑मार॒स्
भट्टभास्कर-टीका
3स वा एष दिव्यः दिवि भवः शाक्वरः महाशक्तिः। यद्वा - शाक्वरः वृषभस् तद्वान् स एव वा । यद्वा - सप्तव्यूहव्याप्त विश्वः शिरोमूर्धहनुहृदयपादमध्यपुच्छात्मकत्वात् । शिशुमारो ग्राहविशेषः, तदाकारेण रूपितत्वादेवमुच्यते । अन्य आह - शिशून् अज्ञानेव अयं मारयति न विदुष इति ॥
विश्वास-प्रस्तुतिः
तँ ह॒ य ए॒वव्ँ वेदाप॑ पुनर्मृ॒त्युञ्ज॑यति॒। जय॑ति स्व॒र्गल्लो॒कम्
मूलम्
तँ ह॒ य ए॒वव्ँ वेदाप॑ पुनर्मृ॒त्युञ्ज॑यति॒। जय॑ति स्व॒र्गल्लो॒कम्
भट्टभास्कर-टीका
4तं विश्वात्मानमीश्वरम् एवम् अनेन रूपेणावस्थितं यो वेद स पुनर्मृत्युमपजयति, जयति च स्वर्गम् ।
विश्वास-प्रस्तुतिः
नाध्वनि॒ प्रमी॑यते॒।
मूलम्
नाध्वनि॒ प्रमी॑यते॒।
विश्वास-प्रस्तुतिः
नाप्सु प्रमी॑यते॒
नाग्नौ प्रमी॑यते॒
नान॒पत्यः॑ प्रमी॒यते॑।
मूलम्
नाप्सु प्रमी॑यते॒
नाग्नौ प्रमी॑यते॒
नान॒पत्यः॑ प्रमी॒यते॑।
भट्टभास्कर-टीका
अध्वादिविषयं पापमरणं तस्य नास्ति । अनपत्यमरणं च पापं, सन्तानोच्छेदेन पितॄणां शोकहेतुत्वात् ।
विश्वास-प्रस्तुतिः
ल॒घ्वान्नो॑ भवति।
मूलम्
ल॒घ्वान्नो॑ भवति।
भट्टभास्कर-टीका
अलघ्वान+++(=??)+++ इति सर्वदा सर्वत्र सुलभत्वात् । छान्दसं दीर्घत्वम् ॥