क॒ति॒धा ऽव॑कीर्णी+++(=भग्नव्रतो ब्रह्मचारी रेतःस्कन्दादिकम् कृत्वा)+++ प्रवि॒शति॑ +++(देवान् नाशाय)+++?
चतु॒र्धेत्या॑हुर् ब्रह्मवा॒दिनो॑ - म॒रुतः॑ प्रा॒णैर्, इन्द्रं॒ बले॑न॒, बृह॒स्पतिं॑ ब्रह्मवर्च॒सेना॒ग्निमे॒वेत॑रेण॒ सर्वे॑ण।
तस्यै॒तां प्राय॑श्चित्तिं वि॒दाञ् च॑कार सुदे॒वः का॑श्य॒पो -
यो ब्र॑ह्मचा॒र्य॑व॒किरे॑द् अमावा॒स्या॑याँ॒ रात्र्या॑म॒ग्निं प्र॒णीयो॑पसमा॒धाय॒ द्विराज्य॑स्योप॒घात॑ञ् जुहोति।
- कामाव॑कीर्णो॒ ऽस्म्यव॑कीर्णोऽस्मि॒ काम॒ कामा॑य॒ स्वाहा॑।
- कामाभि॑द्रुग्धो॒+++(=द्रोहवान्)+++ ऽस्म्यभि॑द्रुग्धोऽस्मि॒ काम॒ कामा॑य॒ स्वाहेति।
अ॒मृतव्ँ॒ वा आज्य॑म्। अ॒मृत॑मे॒वात्मन्+++(नि)+++ ध॑त्ते।
हु॒त्वा प्रय॑ताञ्ज॒लिः कवा॑तिर्यङ्ङ्+++(=ईषत्तिर्यङ्)+++ अ॒ग्निम॒भिम॑न्त्रयेत॒ - “सम्मा॑ऽऽसिञ्चन्तु म॒रुत॒स् समिन्द्र॒स् सं बृह॒स्पतिः॑ । सम्मा॒यम॒ग्निस् सि॑ञ्च॒त्वायु॑षा च॒ बले॑न॒ चायु॑ष्मन्तङ् करोत॒ मा” इति।
प्रति॑ हास्मै म॒रुतः॑ प्रा॒णान् द॑धति॒, प्रतीन्द्रो॒ बलं॒, प्रति॒ बृह॒स्पति॑र् ब्रह्मवर्च॒सं, प्रत्य॒ग्निरि॒तर॒त्सर्वँ॒। सर्व॑तनुर्भू॒त्वा सर्व॒मायु॑रेति।
त्रिर॒भिम॑न्त्रयेत॒ - त्रिष॑त्या॒+++(=त्रिवारानुष्ट्ःआने सत्यमिदं न तु कपटरूपमिति विश्वासो येषाम्)+++ हि दे॒वा।
… यो ऽपू॑त इव॒ मन्ये॑त॒ +++(ब्रह्मचारी)+++ स इ॒त्थञ् जु॑हुयादि॒त्थम॒भिम॑न्त्रयेत। पुनी॑त ए॒वात्मान॒म्। आयु॑रे॒वात्मन् ध॑त्ते।
वरः ...{Loading}...
विश्वास-प्रस्तुतिः
वरो॒+++(=महार्हो गौरिव)+++ दक्षि॑णा। वरे॑णै॒व वरँ॑+++(=श्रेष्ठं)+++ स्पृणोति+++(=प्रीणाति)+++।
आ॒त्मा हि वरः॑ +++(अत आत्मैव दत्तः)+++ ।
द्राविडपाठः
क॒ति॒धाव॑कीर्णी प्रवि॒शति॑ चतु॒र्धेत्या॑हुर्ब्रह्मवा॒दिनो॑ म॒रुतः॑ प्रा॒णैरिन्द्रं॒ बले॑न॒ बृह॒स्पतिं॑ ब्रह्मवर्च॒सेना॒ग्निमे॒वेत॑रेण॒ सर्वे॑ण॒ तस्यै॒तां प्राय॑श्चित्तिं वि॒दाञ्च॑कार सुदे॒वः का॑श्य॒पो यो ब्र॑ह्मचा॒र्य॑व॒किरे॑दमावा॒स्या॑याँ॒ रात्र्या॑म॒ग्निं प्र॒णीयो॑पसमा॒धाय॒ द्विराज्य॑स्योप॒घात॑ञ्जुहोति॒ कामाव॑कीर्णो॒ऽस्म्यव॑कीर्णोऽस्मि॒ काम॒ कामा॑य॒ स्वाहा॒ कामाभि॑द्रुग्धो॒ऽस्म्यभि॑द्रुग्धोऽस्मि॒ काम॒ कामा॑य॒ स्वाहेत्य॒मृतव्ँ॒ वा आज्य॑म॒मृत॑मे॒वात्मन्ध॑त्ते हु॒त्वा प्रय॑ताञ्ज॒लिः कवा॑तिर्यङ्ङ॒ग्निम॒भिम॑न्त्रयेत॒ सम्मा॑ऽऽसिञ्चन्तु म॒रुत॒स्समिन्द्र॒स्सं बृह॒स्पतिः॑ । सम्मा॒यम॒ग्निस्सि॑ञ्च॒त्वायु॑षा च॒ बले॑न॒ चायु॑ष्मन्तङ्करोत॒मेति॒ प्रति॑ हास्मै म॒रुतः॑ प्रा॒णान्द॑धति॒ प्रतीन्द्रो॒ बलं॒ प्रति॒ बृह॒स्पति॑र्ब्रह्मवर्च॒सं प्रत्य॒ग्निरि॒तर॒त्सर्वँ॒ सर्व॑तनुर्भू॒त्वा सर्व॒मायु॑रेति॒ त्रिर॒भिम॑न्त्रयेत॒ त्रिष॑त्या॒ हि दे॒वा योऽपू॑त इव॒ मन्ये॑त॒ स इ॒त्थञ्जु॑हुयादि॒त्थम॒भिम॑न्त्रयेत॒ पुनी॑त ए॒वात्मान॒मायु॑रे॒वात्मन्ध॑त्ते॒ वरो॒ दक्षि॑णा॒ वरे॑णै॒व वरँ॑ स्पृणोत्या॒त्मा हि वरः॑ । (21) ॥ 18 ।