१९-२० दुष्परिग्रहः

अनापदि

रिच्य॑त +++(=रिक्तो भवति)+++ इव॒ वा ए॒ष प्रेव +++(परलोकेऽपि)+++ रि॑च्यते॒, यो +++(अयोग्यं)+++ या॒जय॑ति॒ प्रति॑ वा गृ॒ह्णाति॑।

या॒जयि॑त्वा प्रतिगृ॒ह्य वा ऽन॑श्न॒न् त्रिः स्वा॑ध्या॒यव्ँ वे॒दम् अधी॑यीत।
त्रिरा॒त्रव्ँ वा॑ सावि॒त्रीङ् गा॑य॒त्रीम् अ॒न्वाति॑रेचयति।

वरः ...{Loading}...

विश्वास-प्रस्तुतिः

वरो॒+++(=महार्हो गौरिव)+++ दक्षि॑णा। वरे॑णै॒व वरँ॑+++(=श्रेष्ठं)+++ स्पृणोति+++(=प्रीणाति)+++।
आ॒त्मा हि वरः॑ +++(अत आत्मैव दत्तः)+++ ।

आपदि

दु॒हे ह॒ वा ए॒ष छन्दाँ॑सि॒, यो +++(आपदि)+++ या॒जय॑ति।

स्तुतिः, अनशनम्

स येन॑ यज्ञ-क्र॒तुना॑ या॒जये॒त्,
सो ऽर॑ण्यं प॒रेत्य॑
शुचौ दे॒शे स्वा॑ध्या॒यम् ए॒वैन॒म्+++(=तदेव यज्ञक्रतुम्)+++ अधी॑यन्न् आसी॒त।

तस्या॒नश॑नन् दी॒क्षा,
स्था॒नम् उ॑प॒सदः॒,
आस॑नँ सु॒त्या+++(=अभिषवः सोमस्य)+++म्
वाग् जु॒हूर्, मन॑ उप॒भृद्,
धृ॒तिर् ध्रु॒वा,
प्रा॒णो ह॒विस्,
सामा॑ध्व॒र्युस्,
स वा ए॒ष य॒ज्ञः प्रा॒ण-द॑क्षि॒णो ऽन॑न्त-दक्षिण॒स् समृ॑द्धतरः। (20) ॥ 17 ।