क्रमः
ब्र॒ह्म॒य॒ज्ञेन॑ य॒क्ष्यमा॑णः॒
प्राच्या॑न्दि॒शि ग्रामा॒द् अछ॑दिर्-द॒र्श+++(=छदतृणानि यथा न दृश्यन्ते)+++ उदी॑च्यां प्रागुदी॒च्याव्ँ वो॒दित॑ आदि॒त्ये
द॑क्षिण॒त उ॑प॒वीयो॑प॒विश्य॒
आचमनम्
हस्ता॑व् अव॒निज्य॒+++(=प्रक्षाल्य)+++ त्रिर् आचा॑मे॒द्,
+++(ततः)+++ द्विः +++(ओष्ठौ)+++ प॑रि॒मृज्य॑,
स॒कृद् उ॑प॒स्पृश्य॒,
शिर॒श्, चक्षु॑षी॒, नासि॑के॒, श्रोत्रे॒, हृद॑यम् आ॒लभ्य॑ +++(वर्तेत)+++।
यत् त्रिर् आ॒चाम॑ति॒ - तेन॒ ऋचः॑ प्रीणाति।
यद् द्विः प॑रि॒मृज॑ति॒ - तेन यजूँ॑षि।
यत् स॒कृद् उ॑प॒स्पृश॑ति॒ - तेन॒ सामा॑नि।
यच् छिर॒श्, चक्षु॑षी॒, नासि॑के॒, श्रोत्रे॒, हृद॑यम् आ॒लभ॑ते॒ - तेनाथ॑र्वाङ्गि॒रसो॑, ब्राह्म॒णानी॑तिहा॒सान्, पु॑रा॒णानि॒, कल्पा॒न् गाथा॑ नाराशँ॒सीः प्री॑णाति।
आसनम्
दर्भा॑णां म॒हद् उ॑प॒स्तीर्यो॒पस्थ॑ङ्+++(=आसनविशेषम्)+++ कृ॒त्वा
प्राङ्+++(मुख)+++-आसी॑नस् स्वाध्या॒यम् अधी॑यीत - अ॒पाव्ँ वा ए॒ष ओष॑धीनाँ॒ रसो॒ यद् द॒र्भास्, सर॑समे॒व ब्रह्म॑ कुरुते।
ॐकारः
दक्षिणोत्त॒रौ पा॒णी +++(“पा॒दौ” इत्य् अधिकं द्राविडपाठे)+++ कृ॒त्वा सप॒वित्रा॒व्,
ओम् इति॒ प्रति॑पद्यत - ए॒तद् वै यजु॑स्, त्रयीव्ँ वि॒द्यां प्रत्य् ए॒षा वाग्, ए॒तत् प॑र॒मम् अ॒क्षर॒न्, तद् ए॒तद् ऋ॒चा ऽभ्यु॑क्तम् -
३९ ऋचो अक्षरे ...{Loading}...
ऋचो᳓ अक्ष᳓रे परमे᳓ वि᳓ओमन्
य᳓स्मिन् देवा᳓ अ᳓धि वि᳓श्वे निषेदुः᳓
य᳓स् त᳓न् न᳓ वे᳓द कि᳓म् ऋचा᳓ करिष्यति
य᳓ इ᳓त् त᳓द् विदु᳓स् त᳓ इमे᳓ स᳓म् आसते
इति।
व्याहृति-सावित्र्यौ
त्रीन् ए॒व +++(वेद-सारान् लोक-त्रयात्मकान्)+++ प्रायु॑ङ्क्त॒ - भूर् भुव॒स् स्व॑र् इत्य् आ॑ह।
ए॒तद्वै वा॒चस् स॒त्यम्।
यद् ए॒व वा॒चस् स॒त्यन् तत् प्रायु॒ङ्क्त।
अथ॑ सावि॒त्रीङ् गा॑य॒त्रीन् त्रिर् अन्वा॑ह -
प॒च्छो॑+++(=पद्-शः)+++ ऽर्धर्च॑शो ऽनवा॒नँ+++(=पूर्णम्)+++ - स॑वि॒ता श्रियः॑ प्रसवि॒ता।
श्रिय॑म् ए॒वाप्नो॒ति।
पाठः
अथो॑ +++(पूर्वेद्युः)+++ प्र॒ज्ञात॑यै॒व+++(=स्मृतयैव)+++ प्र॑ति॒पदा॒+++(=आरम्भ-भागेन)+++ +++(परेद्युः)+++ छन्दाँ॑सि॒ प्रति॑पद्यते ।
अशक्तपक्षः
ग्रामे॒ मन॑सा स्वाध्या॒यमधी॑यीत॒ - दिवा॒ नक्तव्ँ॑ वे॒ति ह॑स्मा॒ह शौ॒च आ॑ह्ने॒य, उ॒तार॑ण्ये॒बल॑ उ॒त वा॒चा+++(=जिह्वास्पन्दनमात्रेण)+++ +उत तिष्ठ॑न्नु॒त व्रज॑न्नु॒तासी॑न उ॒त शया॑नो॒ऽधीयी॑तै॒व। स्वा॑ध्या॒यन्तप॑स्वी॒ पुण्यो॑ भवति॒ य ए॒वव्ँ विद्वान्त् स्वा॑ध्या॒यमधी॑ते।
पर्यवसानम्
स वा ए॒ष य॒ज्ञस्, स॒द्यः प्रता॑यते स॒द्यस् सन्ति॑ष्ठते। तस्य॒ प्राक् सा॒यम् अ॑वभृ॒थो -
नमो ब्रह्मणे ...{Loading}...
(ॐ)
नमो॒ ब्रह्म॑णे॒+++(=वेदाय)+++, नमो॑ अस्त्व॒ग्नये॒
नमः॑ पृथि॒व्यै, नम॒ ओष॑धीभ्यः ।
नमो॑ वा॒चे, नमो॑ वा॒चस्पत॑ये॒,
नमो॒ विष्ण॑वे बृह॒ते क॑रोमि ॥
+++(शतुरनुमो नद्यजादी ⇒ बृहन्महतोरुपसंख्यानम्। (वा॰) इति॑ बृहच्छ॒ब्दाद् अ॒नुमोऽजा॑दि॒र् विभ॑क्ति॒र् अस॑र्वनामस्थानम् उ॒दात्ता॑ भवति।)+++
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॒ ॥
ततो॒ यत् किञ् च॒ ददा॑ति॒ सा दक्षि॑णा । (16) ॥ 13 ।
मध्याह्ने विशेषः
म॒ध्यन्दि॑ने प्र॒बल॒मधी॑यीत -अ॒सौ खलु॒ वाव+++(?)+++ +एष आ॑दि॒त्यो यद् ब्रा॑ह्म॒णस्, तस्मा॒त् तर्हि॒ तेक्ष्णि॑ष्ठन्+++(=बहुतीक्ष्णं)+++ तपति।
तदे॒षा ऽभ्यु॑क्ता - “चि॒त्रन्दे॒वाना॒मुद॑गा॒द् अनी॑क॒ञ् चक्षु॑र् मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षँ॒ सूर्य॑ आ॒त्मा जग॑तस् त॒स्थुष॒श्” चेति।
पाठग्रहणाय +अनध्यायेऽपि स्वाध्यायः
तस्य॒ वा ए॒तस्य॑ य॒ज्ञस्य॒ मेघो॑ हवि॒र्धानव्ँ॑, वि॒द्युद् अ॒ग्निर्, व॒र्षँ ह॒विस्, स्त॑नयि॒त्नुर् व॑षट्का॒रो, यद॑व॒स्फूर्ज॑ति॒ सो ऽनु॑वषट्का॒रो वा॒युरा॒त्मा ऽमा॑वा॒स्या॑ स्विष्ट॒कृत्।
य ए॒वव्ँ वि॒द्वान् मे॒घे व॒र्षति॑, वि॒द्योत॑माने, स्त॒नय॑त्यव् अ॒स्फूर्ज॑ति॒, पव॑माने वा॒याव्, अ॑मावा॒स्या॑याँ स्वाध्या॒यमधी॑ते॒ - तप॑ ए॒व तत् त॑प्यते।
फलम्
तपो॑ हि स्वाध्या॒य इति। उ॑त्त॒मन् नाकँ॑ रोहत्य्, उत्त॒मस् स॑मा॒नानां॑ भवति। याव॑न्तँ ह॒ वा इ॒माव्ँ वि॒त्तस्य॑ पू॒र्णान् दद॑त् स्व॒र्गल्ँ लो॒कञ् ज॑यति॒, ताव॑न्तल्ँ लो॒कञ् ज॑यति। भूयाँ॑सञ् चाक्ष॒य्यञ् चाप॑पुनर्मृ॒त्युञ्ज॑यति। ब्रह्म॑ण॒स् सायु॑ज्यङ्गच्छति ॥17॥14।
अनध्यायः
तस्य॒ वा ए॒तस्य॑ य॒ज्ञस्य॒ द्वाव॑नध्या॒यौ यदा॒त्माऽशुचि॒र् यद्दे॒शः।
फलम्
समृ॑द्धिर्+++(=यज्ञार्थसामग्री)+++ दैव॒तानि॒ +++(अतो यज्ञान्तरापेक्षया सरलतरम्)+++।
य ए॒वव्ँ वि॒द्वान् म॑हारा॒त्र उ॒षस्युदि॑ते॒ व्रजँ॒स् तिष्ठ॒न्न् आसी॑न॒श् शया॑नो॒, ऽरण्ये॑ ग्रामे॒ वा, याव॑त् त॒रसँ॑
स्वाध्या॒यमधी॑ते॒ सर्वाल्ँ॑ लो॒काञ्ज॑यति। सर्वाल्ँ॑ लो॒कान॑नृ॒णोऽनु॒ सञ्च॑रति। तदे॒षाभ्यु॑क्ता - “अ॒नृ॒णा अ॒स्मिन्न॑नृ॒णाः पर॑स्मिँस्तृ॒तीये॑ लो॒के अ॑नृ॒णास्स्या॑म । ये दे॑व॒याना॑ उ॒त पि॑तृ॒याणा॒स्सर्वा॑न्प॒थो अ॑नृ॒णा आक्षी॑ये॒मे"ति ।
अ॒ग्निं वै जा॒तं पा॒प्मा ज॑ग्राह। तन्दे॒वा आहु॑तीभिः पा॒प्मान॒म् अपा॑घ्न॒न्, आहु॑तीनाय्ँ य॒ज्ञेन॑, य॒ज्ञस्य॒ दक्षि॑णाभि॒र्, दक्षि॑णानां ब्राह्म॒णेन॑, ब्राह्म॒णस्य॒ छन्दो॑भि॒श्, छन्द॑साँ स्वाध्या॒येन। अप॑हतपाप्मा स्वाध्या॒यो॑ दे॒वप॑वित्रव्ँ॒ वा ए॒तत्। तय्ँ यो ऽनू॑त्सृ॒जत्य्+++(=त्यजति)+++ अभा॑गो वा॒चि भ॑व॒त्यभा॑गो ना॒के। तदे॒षाऽभ्यु॑क्ता- “यस्ति॒त्याज॑ सखि॒विदँ॒ सखा॑य॒न् न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति । यदीँ॑ शृ॒णोत्य॒लकँ॑ शृणोति॒ न हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था॒मि"ति॑।
तस्मा॑त् स्वाध्या॒यो ऽध्ये॑त॒व्यो॑ - यय्ँय॑ड्क्र॒तुमधी॑ते॒ तेन॑ तेनास्ये॒ष्टं भ॑वत्य्, अ॒ग्नेर्वा॒योरा॑दि॒त्यस्य॒ सायु॑ज्यङ्गच्छति॒ तदे॒षाऽभ्यु॑क्ता -
ये अर्वाङुत वा पुराणे ...{Loading}...
विश्वास-प्रस्तुतिः
ये अ॒र्वाङु॒त वा॑ पुरा॒णे
वे॒दव्ँ वि॒द्वाँस॑म् अ॒भितो॑ वदन्त्य्,
आदि॒त्यम् ए॒व ते परि॑वदन्ति॒ सर्वे॑,
अ॒ग्निन् द्वि॒तीय॑न् तृ॒तीय॑ञ्च हँ॒सम्+++(→गमनशीलम् वायुम्)+++ इति॑।
याव॑ती॒र् वै दे॒वता॒स् - तास् सर्वा॑ वेद॒विदि॑ ब्राह्म॒णे व॑सन्ति।
तस्मा॑ ब्राह्म॒णेभ्यो॑ वेद॒-विद्भ्यो॑ दि॒वे-दि॑वे॒ नम॑स्-कुर्या॒त्।
नाश्ली॒लङ् की॑र्तयेत्। ए॒ता ए॒व दे॒वताः॑ प्रीणाति ।