१३ पञ्च-महा-यज्ञः

पञ्च॒ वा ए॒ते म॑हाय॒ज्ञास्, स॑त॒ति+++(=प्रतिदिनम्)+++ प्रता॑यन्ते+++(=अनुष्ठीयन्ते)+++, सत॒ति सन्ति॑ष्ठन्ते+++(=समाप्यन्ते)+++।
देवय॒ज्ञः पि॑तृय॒ज्ञो भू॑तय॒ज्ञो म॑नुष्यय॒ज्ञो ब्र॑ह्मय॒ज्ञ इति।
यद॒ग्नौ जु॒होत्य॒पि स॒मिध॒न् - तद् दे॑वय॒ज्ञस् सन्ति॑ष्ठते।
यत् पि॒तृभ्य॑स् स्व॒धा क॒रोत्य् अप्य् अ॒पस् तत् पि॑तृय॒ज्ञस् सन्ति॑ष्ठते।
यद्भू॒तेभ्यो॑ ब॒लिँ हर॑ति॒ तद्भू॑तय॒ज्ञस् सन्ति॑ष्ठते।
यद्ब्रा॑ह्म॒णेभ्यो ऽन्न॒न् ददा॑ति॒, तन् म॑नुष्यय॒ज्ञस् सन्ति॑ष्ठते।
यत् स्वा॑ध्या॒यम् अधी॑यी॒तैका॑मप्यृ॒चय्ँ यजु॒स् साम॑ वा॒, तद्ब्र॑ह्मय॒ज्ञस् सन्ति॑ष्ठते।

यदृ॒चोऽधी॑ते॒ पय॑सः॒ कूल्या॑+++(=महानद्यः)+++ अस्य पि॒तॄन्त् स्व॒धा अ॒भिव॑हन्ति।
यद्यजूँ॑षि घृ॒तस्य॑ कूल्या। यत् सामा॑नि॒ सोम॑ एभ्यः पवते।
यदथ॑र्वाङ्गि॒रसो॒ मधोः॑ कूल्या।
यद्ब्रा॑ह्म॒णानी॑तिहा॒सान् पु॑रा॒णानि॒ कल्पा॒न् गाथा॑ नाराशँ॒सीर् मेद॑सः॒+++(=मांसस्य)+++ कूल्या॑ अस्य पि॒तॄन्त् स्व॒धा अ॒भिव॑हन्ति।

यदृ॒चोऽधी॑ते॒ पय॑आहुतिभिरे॒व तद् दे॒वाँस् त॑र्पयति।
यद्यजूँ॑षि घृ॒ताहु॑तिभि॒र्, यत् सामा॑नि॒ सोमा॑हुतिभि॒र्, यदथ॑र्वाङ्गि॒रसो॒ मध्वा॑हुतिभि॒र्,
यद्ब्रा॑ह्म॒णानी॑तिहा॒सान्पु॑रा॒णानि॒ कल्पा॒न्गाथा॑ नाराशँ॒सीर् मे॑दाहु॒तिभि॑रे॒व तद्दे॒वाँस्त॑र्पयति।
त ए॑नन् तृ॒प्ता आयु॑षा॒ तेज॑सा॒ वर्च॑सा श्रि॒या यश॑सा ब्रह्मवर्च॒सेना॒न्नाद्ये॑न च तर्पयन्ति ॥ 13 ॥ । 10 ॥