अ॒जान् ह॒ वै पृश्नीँ॑स् +++(=शुक्लान्)+++ तप॒स्यमा॑ना॒न् ब्रह्म॑ स्वय॒म्भ्व॑भ्यान॑र्ष॒त्+++(=अभ्यागच्छत्)+++। त ऋष॑यो ऽभव॒न्। +++(ब्रह्माभ्यानर्षद् इति)+++ तदृषी॑णाम् ऋषि॒त्वम्।
तान् दे॒वता॒म् उपा॑तिष्ठन्त। य॒ज्ञका॑मा॒स् त ए॒तं ब्र॑ह्मय॒ज्ञम् अ॑पश्य॒न्। तमाह॑र॒न्। तेना॑यजन्त।
यदृ॒चोऽध्यगी॑षत॒, ताः पय॑आहुतयो दे॒वाना॑म् अभवन्।
यद्यजूँ॑षि घृ॒ताहु॑तयो॒, यत् सामा॑नि॒ सोमा॑हुतयो॒, यदथ॑र्वाङ्गि॒रसो॒ मध्वा॑हुतयो॒,
यद् ब्रा॑ह्म॒णानी॑तिहा॒सान् पु॑रा॒णानि॒ कल्पा॒न् गाथा॑ नाराशँ॒सीर् मे॑द+++(=मांस)+++ाहु॒तयो॑,
दे॒वाना॑मभव॒न्। ताभिः॒ क्षुधं॑ पा॒प्मान॒म् अपा॑घ्न॒न्। अप॑हतपाप्मानो दे॒वास् स्व॒र्गल्ँ लो॒कमा॑य॒न्। ब्रह्म॑ण॒स् सायु॑ज्य॒म् ऋष॑यो ऽगच्छन् । 12 ॥ 9 ।