वात॑रशना ह॒ वा ऋष॑यश् श्रम॒णा ऊ॒र्ध्वम॑न्थि॒नो ब॑भूवु॒स्,
तानृष॑यो॒ ऽर्थमा॑यँ॒स्,
ते नि॒लाय॑मचरँ॒स्,
तेऽनु॑प्रविशुः कूश्मा॒ण्डानि॑।
ताँस् तेष्वन्व॑विन्दञ् छ्र॒द्धया॑ च॒ तप॑सा च।
तानृष॑यो ऽब्रुवन् क॒था नि॒लाय॑ञ् चर॒थेति॑।
त ऋषी॑न् अब्रुव॒न्नमो॑ वोऽस्तु।
भगवन्तो॒ ऽस्मिन् धा॑म्नि॒ केन॑ वस् सपर्या॒मेति॑।
तानृष॑यो ऽब्रुवन् प॒वित्र॑न्नो ब्रूत॒, येना॑रे॒पस॑स् स्या॒मेति॑।
त ए॒तानि॑ सू॒क्तान्य॑पश्य॒न्।
यद्दे॑वा देव॒हेळ॑नय्ँ॒यददी॑व्यन्नृ॒णम॒हं ब॒भूवायु॑ष्टे वि॒श्वतो॑ दध॒दित्ये॒तैराज्य॑ञ्जुहुत।
वैश्वान॒राय॒ प्रति॑वेदयाम॒ इत्युप॑तिष्ठत।
यद॑र्वा॒चीन॒मेनो॑ भ्रूणह॒त्याया॒स् तस्मा॑न् मोक्ष्यध्व॒ इति॑।
त ए॒तैर॑जुहवु॒स्, तेऽरे॒पसो॑ ऽभवन्।
कर्मा॒दिष्वे॒तैर् जु॑हुयात्।
पू॒तो दे॑वलो॒कान्त् सम॑श्नुते । 10 ॥ 7 ।
कू॒श्मा॒ण्डैर् जु॑हुया॒द् यो ऽपू॑त इव॒ मन्ये॑त॒ - यथा॑ स्ते॒नो, यथा॑ भ्रूण॒हा, एवमे॒ष +++(भ्रूणहन्समः)+++ भ॑वति॒ योऽयोनौ॒ रेत॑स्सि॒ञ्चति॑।
दीक्षाकाले तारतम्यम्
यद॑र्वा॒चीन॒मेनो॑ भ्रूणह॒त्याया॒स्, तस्मा॑न् मुच्यते। याव॒देनो॑ दी॒क्षामुपै॑ति। दीक्षि॒त ए॒तैस् स॑त॒ति+++(=नित्यं)+++ जु॑होति।
सव्ँवत्स॒रन्दी॑क्षि॒तो भ॑वति। सव्ँवत्स॒रादे॒वात्मानं॑ पुनीते।
+++(पापाल्पत्वे)+++ मास॑न्दीक्षि॒तो भ॑वति॒ - यो मास॒स् स सव्ँ॑वत्स॒रस्, सव्ँ॑वत्स॒रादे॒वात्मानं॑ पुनीते।
चतु॑र्विँशतिँ॒ रात्री॑र् दीक्षि॒तो भ॑वति। चतु॑र्विँशतिरर्धमा॒सास् सव्ँ॑वत्स॒रस्, +++(अतः)+++ सव्ँ॑वत्स॒रादे॒वात्मानं॑ पुनीते।
द्वाद॑श॒ रात्री॑र् दीक्षि॒तो भ॑वति। द्वाद॑श॒ मासा॑स् सव्ँवत्स॒रस्, सव्ँ॑वत्स॒रादे॒वात्मानं॑ पुनीते।
षड्रात्री॑र् दीक्षि॒तो भ॑वति। षड्वा ऋ॒तव॑स् सव्ँवत्स॒रस्, सव्ँ॑वत्स॒रादे॒वात्मानं॑ पुनीते।
ति॒स्रो रात्री॑र् दीक्षि॒तो भ॑वति। त्रि॒पदा॑ गाय॒त्री। गा॑यत्रि॒या ए॒वात्मानं॑ पुनीते।
यम-नियमाः
न माँ॒सम॑श्नीया॒न्, न स्त्रिय॒मुपे॑या॒न्, नोपर्या॑सीत॒, जुगु॑प्से॒तानृ॑ता॒त्।
पयो॑ ब्राह्म॒णस्य॑ व्र॒तय्ँ, य॑वा॒गू रा॑ज॒न्य॑स्या॒मिक्षा॒ वैश्य॒स्य।
अथो॑ सौ॒म्येप्य् अ॑ध्व॒र ए॒तद् व्र॒तं ब्रू॑यात्।
यदि॒ मन्ये॑तोप॒दस्या॒मीत्य् - ओ॑द॒नन् धा॒नास् सक्तू॑न् घृ॒तम् इत्य् अनु॑व्रतयेद् आ॒त्मनो ऽनु॑पदासाय । 11 ॥ 8 ।