भास्करोक्त-विनियोगः
1अथ कूश्माण्डमन्त्राश्चत्वारोऽनुवाकाः ।
‘कर्मादिष्वेतैर्जुहुयात्’ इत्यादिषु विनियोगः।
यद्दे॑वा देव॒हेळ॑न॒न्देवा॑सश्चकृ॒मा व॒यम् ।
आदि॑त्या॒स्तस्मा॑न्मा मुञ्चत॒र्तस्य॒र्तेन॒ मामि॒त ॥
देवा॑ जीवनका॒म्या यद्वा॒चाऽनृ॑तमूदि॒म ।
तस्मा॑न्न इ॒ह मु॑ञ्चत॒ विश्वे॑ देवास्स॒जोष॑सः ॥
ऋ॒तेन॑ द्यावापृथिवी ऋ॒तेन॒ त्वँ स॑रस्वति ।
कृ॒तान्नः॑ पा॒ह्येन॑सो॒ यत्किञ्चानृ॑तमूदि॒म ॥
इ॒न्द्रा॒ग्नी मि॒त्रावरु॑णौ॒ सोमो॑ धा॒ता बृह॒स्पतिः॑ ।
ते नो॑ मुञ्च॒न्त्वेन॑सो॒ यद॒न्यकृ॑तमारि॒म ॥
स॒जा॒त॒शँ॒सादु॒त जा॑मिशँ॒साज्ज्याय॑स॒श्शँसा॑दु॒त वा॒ कनी॑यसः ।
अना॑धृष्टन्दे॒वकृ॑तय्ँ॒यदेन॒स्तस्मा॒त्त्वम॒स्माञ्जा॑तवेदो मुमुग्धि ॥
यद्वा॒चा यन्मन॑सा बा॒हुभ्या॑मू॒रुभ्या॑मष्ठी॒वद्भ्याँ॑ शि॒श्नैर्यदनृ॑तञ्चकृ॒मा व॒यम् ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गार्ह॑पत्यः॒ प्रमु॑ञ्चतु चकृ॒म यानि॑ दुष्कृ॒ता ॥
येन॑ त्रि॒तो अ॑र्ण॒वान्नि॑र्ब॒भूव॒ येन॒ सूर्य॒न्तम॑सो निर्मु॒मोच॑ ।
येनेन्द्रो॒ विश्वा॒ अज॑हा॒दरा॑ती॒स्तेना॒हञ्ज्योति॑षा॒ ज्योति॑रानशा॒न आ॑क्षि ॥
यत्कुसी॑द॒मप्र॑तीत्तं॒ मये॒ह येन॑ य॒मस्य॑ नि॒धिना॒ चरा॑मि ।
ए॒तत्तद॑ग्ने अनृ॒णो भ॑वामि॒ जीव॑न्ने॒व प्रति॒ तत्ते॑ दधामि ॥
यन्मयि॑ मा॒ता यदा॑ पि॒पेष॒ यद॒न्तरि॑क्षय्ँ॒यदा॒शसाति॑क्रामामि त्रि॒ते दे॒वा दि॒वि जा॒ता यदाप॑
इ॒मम्मे॑ वरुण॒
तत्त्वा॑ यामि॒ त्वन्नो॑ अग्ने॒ सत्वन्नो॑ अग्ने॒ त्वम॑ग्ने अ॒यासि॑ । 3 ।
यददी॑व्यन्नृ॒णम॒हं ब॒भूवादि॑त्सन्वा सञ्ज॒गर॒ जने॑भ्यः ।
अ॒ग्निर्मा॒ तस्मा॒दिन्द्र॑श्च सव्ँ विदा॒नौ प्रमु॑ञ्चताम् ॥
यद्धस्ता॑भ्याञ्च॒कर॒ किल्बि॑षाण्य॒क्षाणाव्ँ॑ व॒ग्नुमु॑प॒जिघ्न॑मानः ।
उ॒ग्रं॒प॒श्या च॑ राष्ट्र॒भृच्च॒ तान्य॑प्स॒रसा॒वनु॑दत्तामृ॒णानि॑ ॥
उग्रं॑पश्ये॒ राष्ट्र॑भृ॒त्किल्बि॑षाणि॒ यद॒क्षवृ॑त्त॒मनु॑दत्तमे॒तत् ।
नेन्न॑ ऋ॒णानृ॒णव॒ इत्स॑मानो य॒मस्य॑ लो॒के अधि॑रज्जु॒राय॑ ॥
अव॑ ते॒ हेळ॒ उदु॑त्त॒ममि॒मं मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वन्नो॑ अग्ने॒ सत्वन्नो॑ अग्ने ।
सङ्कु॑सुको॒ विकु॑सुको निर्ऋ॒थो यश्च॑ निस्व॒नः ।
ते१॒॑ऽस्मद्यक्ष्म॒मना॑गसो दू॒राद्दू॒रम॑चीचतम् ।
निर्य॑क्ष्ममचीचते कृ॒त्यान्निर्ऋ॑तिञ्च ।
तेन॒ यो१॒॑ऽस्मत्समृ॑च्छातै॒ तम॑स्मै॒ प्रसु॑वामसि ।
दु॒श्शँ॒सा॒नु॒शँ॒साभ्या॑ङ्घ॒णेना॑नुघ॒णेन॑ च ।
तेना॒न्यो१॒॑ऽस्मत्समृ॑च्छातै॒ तम॑स्मै॒ प्रसु॑वामसि ।
सव्ँ वर्च॑सा॒ पय॑सा॒ सन्त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सँ शि॒वेन॑ ।
त्वष्टा॑ नो॒ अत्र॒ विद॑धातु रा॒योऽनु॑मार्ष्टु त॒न्वो१॒॑ यद्विलि॑ष्टम् । 4 ।
आयु॑ष्टे वि॒श्वतो॑ दधद॒यम॒ग्निर्वरे॑ण्यः ।
पुन॑स्ते प्रा॒ण आया॑ति॒ परा॒यक्ष्मँ॑ सुवामि ते ॥
आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि ।
घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्य॑म्पि॒तेव॑ पु॒त्रम॒भिर॑क्षतादि॒मम् ॥
इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि ति॒ग्ममोजो॑ वरुण॒ सँशि॑शाधि ।
मा॒तेवा॑स्मा अदिते॒ शर्म॑ यच्छ॒ विश्वे॑ देवा॒ जर॑दष्टि॒र्यथाऽस॑त् ॥
अग्न॒ आयूँ॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः ।
आ॒रे बा॑धस्व दु॒च्छुना॑म् ॥
अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्च॑स्सु॒वीर्य॑म् ।
दध॑द्र॒यिं मयि॒ पोष॑म् । 5 ।
अ॒ग्निर् ऋषिः॒ पव॑मानः॒ पाञ्च॑जन्यः पु॒रोहि॑तः ।
तमी॑महे महाग॒यम् ॥
अग्ने॑ जा॒तान्प्रणु॑दा नस्स॒पत्ना॒न्प्रत्यजा॑ता- ञ्जातवेदो नुदस्व ।
अ॒स्मे दी॑दिहि सु॒मना॒ अहे॑ळ॒ञ्छर्म॑न्ते स्याम त्रि॒वरू॑थ उ॒द्भौ ॥
सह॑सा जा॒तान्प्रणु॑दा नस्स॒पत्ना॒न्प्रत्यजा॑ताञ्जातवेदो नुदस्व ।
अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒यँ स्या॑म॒ प्रणु॑दा नस्स॒पत्ना॑न् ॥
अग्ने॒ यो नो॒ऽभितो॒ जनो॒ वृको॒ वारो॒ जिघाँ॑सति ।
ताँस्त्वव्ँ वृ॑त्रहञ्जहि॒ वस्व॒स्मभ्य॒माभ॑र ॥
अग्ने॒ यो नो॑ऽभि॒दास॑ति समा॒नो यश्च॒ निष्ट्यः॑ ।
तव्ँ व॒यँ स॒मिध॑ङ्कृ॒त्वा तुभ्य॑म॒ग्नेऽपि॑ दध्मसि ।
6 ।
यो न॒श्शपा॒दश॑पतो॒ यश्च॑ न॒श्शप॑त॒श्शपा॑त् ।
उ॒षाश्च॒ तस्मै॑ नि॒म्रुक्च॒ सर्वं॑ पा॒पँ समू॑हताम् ।
यो न॑स्स॒पत्नो॒ यो रणो॒ मर्तो॑ऽभि॒दास॑ति देवाः ।
इ॒ध्मस्ये॑व प्र॒क्षाय॑तो॒ मा तस्योच्छे॑षि॒ किञ्च॒न ।
यो मान्द्वेष्टि॑ जातवेदो॒ यञ्चा॒हन्द्वेष्मि॒ यश्च॒ माम् ।
सर्वाँ॒स्तान॑ग्ने॒ सन्द॑ह॒ याँश्चा॒हन्द्वेष्मि॒ ये च॒ माम् ।
यो अ॒स्मभ्य॑मराती॒याद्यश्च॑ नो॒ द्वेष॑ते॒ जनः॑ ।
निन्दा॒द्यो अ॒स्मान्दिप्सा॑च्च॒ सर्वाँ॒स्तान्म॑ष्म॒षा कु॑रु ।
सँशि॑तं मे॒ ब्रह्म॒ सँशि॑तव्ँ वी॒र्य १॒॑ म् बल॑म् ।
सँशि॑तङ्क्ष॒त्रं मे॑ जि॒ष्णु यस्या॒हमस्मि॑ पु॒रोहि॑तः ।
उदे॑षां बा॒हू अ॑तिर॒मुद्वर्चो॒ अथो॒ बल॑म् ।
क्षि॒णोमि॒ ब्रह्म॑णा॒ऽमित्रा॒नुन्न॑यामि॒ स्वा १॒॑ म् अ॒हम् ।
पुन॒र्मनः॒ पुन॒रायु॑र्म॒ आगा॒त्पुन॒श्चक्षुः॒ पुनः॒ श्रोत्र॑म्म॒ आगा॒त्पुनः॑ प्रा॒णः पुन॒राधी॑तं म॒ आगा॑त् ।
वै॒श्वा॒न॒रो मेऽद॑ब्धस्तनू॒पा अव॑बाधतान्दुरि॒तानि॒ विश्वा॑ ।
7 ।
वै॒श्वा॒न॒राय॒ प्रति॑वेदयामो॒ यदी॑नृ॒णँ स॑ङ्ग॒रो दे॒वता॑सु ।
स ए॒तान्पाशा॑न् प्र॒मुच॒न् प्रवे॑द॒ स नो॑ मुञ्चातु दुरि॒तादव॒द्यात् ।
वै॒श्वा॒न॒रः पव॑यान्नः प॒वित्रै॒र्यत्स॑ङ्ग॒रम॒भिधावा॑म्या॒शाम् ।
अना॑जान॒न्मन॑सा॒ याच॑मानो॒ यदत्रैनो॒ अव॒ तत्सु॑वामि ।
अ॒मी ये सु॒भगे॑ दि॒वि वि॒चृतौ॒ नाम॒ तार॑के ।
प्रेहामृत॑स्य यच्छतामे॒तद्ब॑द्धक॒मोच॑नम् ।
विजि॑हीर्ष्व लो॒कान्कृ॑धि ब॒न्धान्मु॑ञ्चासि॒ बद्ध॑कम् ।
योने॑रिव॒ प्रच्यु॑तो॒ गर्भ॒स्सर्वा॑न्प॒थो अ॑नुष्व ।
स प्र॑जा॒नन्प्रति॑गृभ्णीत वि॒द्वान्प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ ।
अ॒स्माभि॑र्द॒त्तञ्ज॒रसः॑ प॒रस्ता॒दच्छि॑न्नं॒ तन्तु॑मनु॒ सञ्च॑रेम ।
8 ।
त॒तन्तन्तु॒मन्वेके॒ अनु॒ सञ्च॑रन्ति॒ येषा॑न्द॒त्तं पित्र्य॒माय॑नवत् ।
अ॒ब॒न्ध्वेके॒ दद॑तः प्र॒यच्छा॒द्दातु॒ञ्चेच्छ॒क्नवाँ॒सस्स्व॒र्ग ए॑षाम् ।
आर॑भेथा॒मनु॒ सँर॑भेथाँ समा॒नं पन्था॑मवथो॒ घृ॒तेन॑ ।
यद्वां॑ पू॒र्तं परि॑विष्टय्ँ॒यद॒ग्नौ तस्मै॒ गोत्रा॑ये॒ह जाया॑पती॒ सँर॑भेथाम् ।
यद॒न्तरि॑क्षं पृथि॒वीमु॒त द्याय्ँयन्मा॒तरं॑ पि॒तरव्ँ॑ वा जिहिँसि॒म ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गार्ह॑पत्य॒ उन्नो॑ नेषद्दुरि॒ता यानि॑ चकृ॒म ।
भूमि॑र्मा॒ताऽदि॑तिर्नो ज॒नित्रं॒ भ्राता॒न्तरि॑क्षम॒भिश॑स्त एनः ।
द्यौर्नः॑ पि॒ता पि॑तृ॒याच्छं भ॑वासि जा॒मि मि॒त्वा मा वि॑वित्सि लो॒कात् ।
यत्र॑ सु॒हार्द॑स्सु॒कृतो॒ मद॑न्ते वि॒हाय॒ रोग॑न्त॒न्वा १ँ॒॒॑ स्वाया॑म् ।
अ॒श्लो॒णाङ्गै॒रह्रु॑तास्स्व॒र्गे तत्र॑ पश्येम पि॒तर॑ञ्च पु॒त्रम् ।
यदन्न॒मद्म्यनृ॑तेन देवा दा॒स्यन्नदा॑स्यन्नु॒त वा॑ करि॒ष्यन् ।
यद्दे॒वाना॒ञ्चक्षु॒ष्यागो॒ अस्ति॒ यदे॒व किञ्च॑ प्रतिजग्रा॒हम॒ग्निर्मा॒ तस्मा॑दनृ॒णङ्कृ॑णोतु ।
यदन्न॒मद्मि॑ बहु॒धा विरू॑पव्ँ॒ वासो॒ हिर॑ण्यमु॒त गाम॒जामवि॑म् ।
यद्दे॒वाना॒ञ्चक्षु॒ष्यागो॒ अस्ति॒ यदे॒व किञ्च॑ प्रतिजग्रा॒हम॒ग्निर्मा॒ तस्मा॑दनृ॒णङ्कृ॑णोतु ।
यन्मे॒ मन॑सा वा॒चा॒ कृ॒त॒मेनः॑ कदा॒चन ।
सर्वस्मा॑न्मेळि॑तो मो॒ग्धि॒ त्वँ हि वेत्थ॑ यथात॒थम् । 9 ।