विश्वास-प्रस्तुतिः
रक्षाँ॑सि॒ ह वा॑ पुरोऽनुवा॒के तपोग्र॑म् अतिष्ठन्त।
तान् प्र॒जाप॑तिर् व॒रेणो॒पाम॑न्त्रयत।
तानि॒ वर॑म् अवृणीत - “आदि॒त्यो नो॒ योद्धा॒” इति।
तान् प्र॒जाप॑तिर् अब्रवी॒द् - “योध॑य॒ध्वमि"ति।
तस्मा॒द् उत्ति॑ष्ठन्तँ॒ ह वा॒ तानि॒ रक्षाँ॑स्यादि॒त्यय्ँ योध॑यन्ति॒ याव॑दस्त॒मन्व॑गा॒त्।
मूलम्
रक्षाँ॑सि॒ ह वा॑ पुरोऽनुवा॒के तपोग्र॑म् अतिष्ठन्त।
तान् प्र॒जाप॑तिर् व॒रेणो॒पाम॑न्त्रयत।
तानि॒ वर॑म् अवृणीत - “आदि॒त्यो नो॒ योद्धा॒” इति।
तान् प्र॒जाप॑तिर् अब्रवी॒द् - “योध॑य॒ध्वमि"ति।
तस्मा॒द् उत्ति॑ष्ठन्तँ॒ ह वा॒ तानि॒ रक्षाँ॑स्यादि॒त्यय्ँ योध॑यन्ति॒ याव॑दस्त॒मन्व॑गा॒त्।
भट्टभास्कर-टीका
अथ स्वाध्यायात्प्राग्भावित्वादादावेव सन्ध्योपासनविधिं तावदाह - रक्षांसीति ॥ पुरोऽनुवाके पूर्वस्मिन्काले । अनु पश्चादुच्यत इत्यनुवाकः । इत्थं पूर्वमासीदिति यस्सर्वदाऽनूच्यते स कालः पुरोऽनुवाकः, पुराकल्प इति यावत् । तत्र रक्षांसि हवा हवार्थं युद्धार्थं ‘सुपां सुलुक्’ इति चतुर्थ्या आकारः । यद्वा - हवेति निपातसमुदायः प्रसिद्ध्यर्थः । वैशब्दसमानार्थो वा हवाशब्दः । तपो ऽग्रं श्रेष्ठं तीव्रम् अतिष्ठन्त आस्थितवन्तः । आस्थाने तिष्ठतिर्वर्तते । व्यत्ययेनात्मनेपदम् । यद्वा - ‘प्रकाशनस्थेयाख्ययोश्च’ इत्यात्मनेपदम् । तीव्र तपः प्रकाशितवन्तः । अन्तर्भावितण्यर्थोऽयम् । तपसश्च अनुष्ठेयत्वेनाज्ञीप्स्यमानत्वात् ‘श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः’ इति चतुर्थ्यभावः । अन्य आह - पुरोऽनुवाकः प्रातरनुवाकः । तेन चाग्निष्टोमो लक्ष्यते - यज्ञे वर्तमानास्तपः कृतवन्त इति । अपर आह - पूर्वस्यां दिश्यनूच्यमाने देशे पुरोऽनुवाके कुरुक्षेत्रे इति । अथ तान् तानि रक्षांसि । लिङ्गव्यत्ययः । यद्वा - शेर्लोपेऽपि नुम् प्रवर्तते । प्रजापतिर् वरेण देयेन उपामन्त्रयत वरं वृणीध्वमिति रहस्युपच्छन्दितवान् । अथ तानि वरमवृणीत अवृणत । वर्णव्यत्ययेन ईकारः । वचनव्यत्ययो वा । वरमाह - आदियो नो ऽस्मान् योद्धै योधयेत्, वयं च तं योधयेम इति । प्रजापतिश् च अब्रवीद् योधयध्वमिति । युधेर्लेटि शपो लुकि ‘छन्दस्युभयथा’ इति तिङ आर्धधातुकत्वाद्गुणः । टेरेत्वे ‘वैतोऽन्यत्र’ इत्य् ऐकारे कृते संहितायामायादेशे ‘लोपश्शाकल्यस्य’ इति लोपः । ण्यन्तादेव वा लेटि पूर्ववदार्धधातुकत्वेन णिलोपः । ‘बुधयुधनश’ इति परस्मैपदं व्यत्ययेन न प्रवर्तते । यो मन्यते ‘अस्तु’ इत्यध्याहारेण आदित्योऽस्माकं योद्धाऽस्त्विति, तस्यापि संहितायां गुणाभावाय यतितव्यमिति नाश्वासः । यस्मादेवं वरमलभन्त तस्माद्वरबलेन उत्तिष्ठन्तं - उर्ध्वकर्मत्वेन परस्मैपदं - उद्यन्तमादित्यं तानि रक्षांसि योधयन्ति । हवेति व्याख्यातम् ।
यावदस्तमन्वगाद् यावति कालेऽस्तं गच्छति तदाऽपीत्यर्थः । अस्तं यन्तं च योधयन्तीत्युक्तं भवति । छान्दसो लुङ् ॥
अर्घ्यम्
विश्वास-प्रस्तुतिः
तानि॑ ह॒ वा ए॒तानि॒ रक्षाँ॑सि
गायत्रि॒याऽभि॑मन्त्रिते॒नाम्भ॑सा शाम्यन्ति।
मूलम्
तानि॑ ह॒ वा ए॒तानि॒ रक्षाँ॑सि
गायत्रि॒याऽभि॑मन्त्रिते॒नाम्भ॑सा शाम्यन्ति।
भट्टभास्कर-टीका
2इदानीं तेषां रक्षसां शान्तिं विदधाति - तानि तथा युध्यमानानि रक्षांस्य् एतानि गायत्र्या साविञ्या अभिमन्त्रितेनाम्भसा ऊर्द्धं विक्षिप्तेन शाम्यन्ति । तस्मात्तथा कुर्यादिति विधिः ।
विश्वास-प्रस्तुतिः
तदु॑ ह॒ वा ए॒ते ब्र॑ह्मवा॒दिनः॑ पू॒र्वाभि॑मु॒खाः स॒न्ध्याया॑ङ्
गायत्रि॒या ऽभि॑मन्त्रिता॒ आप॑ ऊ॒र्ध्वं विक्षि॑पन्ति।
ता ए॒ता आपो॑ व॒ज्रीभू॒त्वा तानि॒ रक्षाँ॑सि म॒न्देहारु॑णे द्वी॒पे प्रक्षि॑पन्ति।
मूलम्
तदु॑ ह॒ वा ए॒ते ब्र॑ह्मवा॒दिनः॑ पू॒र्वाभि॑मु॒खाः स॒न्ध्याया॑ङ्
गायत्रि॒या ऽभि॑मन्त्रिता॒ आप॑ ऊ॒र्ध्वं विक्षि॑पन्ति।
ता ए॒ता आपो॑ व॒ज्रीभू॒त्वा तानि॒ रक्षाँ॑सि म॒न्देहारु॑णे द्वी॒पे प्रक्षि॑पन्ति।
भट्टभास्कर-टीका
तदु ह वै तस्मादेव हि खल्व् एते ब्रह्मवादिनः ब्रह्मणो वेदितारो ब्राह्मणादयः पूर्वाभिमुखास्तिष्ठन्तः सन्ध्याथां प्रातः गायत्र्या आभिमन्त्रिता आपो ऽपः - विभक्तिव्यत्ययः - ऊर्ध्वं विक्षिपन्ति । उपलक्षणत्वात्सायं प्रत्यङ्मुखा इत्यवगम्यते । ता एता आपो वज्रीभूत्वा तानि रक्षांसि मन्देहा मन्देहनाम्नां रक्षसां - “सुपां सुलुक्” इति षष्ठ्या आकारः - तेषां रक्षसां स्वभूते अरुणे अरुणनाम्नि द्वीपे प्रक्षिपन्ति पातयन्ति ।
प्रदक्षिणीकरणम्
विश्वास-प्रस्तुतिः
यत् प्र॑दक्षि॒णं प्रक्र॑मन्ति॒, तेन॑ पा॒प्मान॒म् अव॑धून्वन्ति।
मूलम्
यत् प्र॑दक्षि॒णं प्रक्र॑मन्ति॒, तेन॑ पा॒प्मान॒म् अव॑धून्वन्ति।
भट्टभास्कर-टीका
यत्प्रदक्षिणं प्रक्रमन्ति दक्षिणप्रारम्भमावर्तन्ते तेन पाप्मानम् आत्मस्थम् अवधून्वन्ति ।
ब्रह्म-भावनम्
विश्वास-प्रस्तुतिः
उ॒द्यन्त॑म् अस्तय्ँ॒ यन्त॑म् आदि॒त्यम् अ॑भिध्या॒यन्
कु॒र्वन् ब्रा॑ह्म॒णो वि॒द्वान्त् स॒कलं॑ भ॒द्रम् अ॑श्नुते -
असाव् आ॑दि॒त्यो ब्र॒ह्मेति॒ -
ब्रह्मै॒व सन् ब्रह्मा॒प्येति॒-
य ए॒वव्ँ वेद॑ ।2।
मूलम्
उ॒द्यन्त॑म् अस्तय्ँ॒ यन्त॑म् आदि॒त्यम् अ॑भिध्या॒यन्
कु॒र्वन् ब्रा॑ह्म॒णो वि॒द्वान्त् स॒कलं॑ भ॒द्रम् अ॑श्नुते -
असाव् आ॑दि॒त्यो ब्र॒ह्मेति॒ -
ब्रह्मै॒व सन् ब्रह्मा॒प्येति॒-
य ए॒वव्ँ वेद॑ ।2।
भट्टभास्कर-टीका
तस्माद् उद्यन्तमस्तंयन्तञ्चादित्यमभिध्यायन् आभिमुख्येन चिन्तयन् कुर्वंश्च प्रदक्षिणं विद्वांश्च असावादियो ब्रह्मेत्य् असावेवादित्यः परम्ब्रह्मेति ब्रह्मादित्ययोरभेदम् आदित्येन चात्मन ऐक्यं जानन् ब्राह्मणः सकलं भद्रं कल्याणम् अश्नुते न केवलं स्वर्गादिकमेव, अपितु सकलं कल्याणम् । अथ य एवं वेद सोऽपि ब्रह्मैव सन् ब्रह्माप्येति ब्रह्मणा ऐक्यं प्रतिपद्यते, किं पुनस्स्वर्गादि सकलं भद्रमश्नुत इति । यद्वा - असावादित्यो ब्रह्मेति विद्वान् तेन चादित्येनात्मन ऐक्यात् स्वयमपि ब्रह्मैव आदित्यः सन् कुर्वन् आचरन् एवं विशिष्टमादित्योपस्थानम् आचरन् सकलं भद्रमश्नुते अपवर्गमपि प्राप्नोति । अथ य एवं वेदिता सोऽपि ब्रह्माप्येति प्राप्नोति ॥
इति द्वितीथे द्वितीयोऽनुवाकः ॥