विश्वास-प्रस्तुतिः
प्रसृ॑तेन॒ वै य॒ज्ञेन॑ दे॒वास् स्व॒र्गल्ँ लो॒कम् आ॑य॒न्।
अप्रसृ॑ते॒नासु॑रा॒न् परा॑भावय॒न्।
मूलम्
प्रसृ॑तेन॒ वै य॒ज्ञेन॑ दे॒वास् स्व॒र्गल्ँ लो॒कम् आ॑य॒न्।
अप्रसृ॑ते॒नासु॑रा॒न् परा॑भावय॒न्।
भट्टभास्कर-टीका
2अथ कीदृशः पुनस्स यज्ञः येन देवास्स्वर्गं लोकमायन् यद्रहिताश्चासुराः पराभवन् ? अत्राह - प्रसृतेनेति ॥ प्रसृतेन प्रकृष्टसरणेन प्रशस्तगमनेन यज्ञेन इष्ट्वा देवाः स्वर्गं लोकं गताः, नप्रसृतेन प्रसृतविपरीतेन यज्ञेनेष्टवतोऽसुरान् पराभावयन् । नप्रसृतमप्रसृतं नलोपाभावश्छान्दसः । असुराः पराभूता इत्यर्थः ॥
विश्वास-प्रस्तुतिः
प्रसृ॑तो ह॒ वै य॑ज्ञोपवी॒तिनो॑ य॒ज्ञो,
ऽप्र॑सृ॒तो ऽनु॑पवी॒तिनः।
यत्किञ् च॑ ब्राह्म॒णो य॑ज्ञोपवी॒त्य् अधी॑ते॒
यज॑त ए॒व तत्।
तस्मा॑द् यज्ञोपवी॒त्य् ए॑वाधी॑यीत
या॒जये॒द् यजे॑त वा।
मूलम्
प्रसृ॑तो ह॒ वै य॑ज्ञोपवी॒तिनो॑ य॒ज्ञो, ऽप्र॑सृ॒तो ऽनु॑पवी॒तिनः।
यत्किञ् च॑ ब्राह्म॒णो य॑ज्ञोपवी॒त्य् अधी॑ते॒ यज॑त ए॒व तत्।
तस्मा॑द् यज्ञोपवी॒त्य् ए॑वाधी॑यीत या॒जये॒द् यजे॑त वा।
भट्टभास्कर-टीका
3कः पुनस्तर्हि प्रसृतो यज्ञ इत्याह - यज्ञोपवीतिनो यज्ञः प्रसृतः प्रसृतगुणकः । यज्ञोपवीतस्य लक्षणमिदानीमेव वक्ष्यते । अनुपवीतिनो ऽयज्ञोपवीतिनः यज्ञोपवीतिविपरीतस्य यो यज्ञः सोऽप्रसृतः प्रसृतगुणरहितः । ‘देवलक्ष्ममेव तत् कुरुते’ इति श्रुतेर् यज्ञोपवीतस्य यज्ञसाधनत्वात् तद्वतो यज्ञः प्रसृतः, इतरस्साधनवैकल्येन अयज्ञत्वादप्रसृतः ।
तस्माद् यत्किञ्च ब्राह्मणो यज्ञोपवीतवान् अधीते अध्ययनेनार्थमवबुध्यते तत्तेन यजते एव, न केवलमयमधीते नार्थं जानाति, अपितु यजत एव ।
तस्माद्यज्ञोपवीत्येव अध्ययनं यजनं याजनं च कुर्याद् यज्ञस्य प्रसृत्यै प्रसृतगुणकत्वाय ॥
विश्वास-प्रस्तुतिः
य॒ज्ञस्य॒ प्रसृ॑त्या॒
अजि॑नव्ँ॒ वासो॑ वा
दक्षिण॒त उ॑प॒वीय॒
दक्षि॑णं बा॒हुम् उद्-ध॑र॒ते,
ऽव॑ धत्ते स॒व्यम्
इति॑ यज्ञोपवी॒तम् ए॒तद् ए॒व।
मूलम्
य॒ज्ञस्य॒ प्रसृ॑त्या॒
अजि॑नव्ँ॒ वासो॑ वा
दक्षिण॒त उ॑प॒वीय॒
दक्षि॑णं बा॒हुम् उद्-ध॑र॒ते,
ऽव॑ धत्ते स॒व्यम्
इति॑ यज्ञोपवी॒तम् ए॒तद् ए॒व।
भट्टभास्कर-टीका
4अथ कथं नाम यज्ञः प्रसृतस्स्यादिति - अजिनं वासो वेति द्रव्यविधिः । अथ यज्ञोपवीतस्य लक्षणमाह - दक्षिणत उपवीय देहस्यदक्षिणमर्धमुपवीय उपच्छाद्य । व्येञ् संरवणे, ल्यपि सम्प्रसारणे ‘हलः’ इति दीर्घः ।
स च न सर्वात्मना उपच्छाद्यः, अपि तु प्रागन्तावीतं दक्षिणमर्धं कृत्वा दक्षिणं बाहुमुद्धरते उपरि करोति सव्यम् अवधत्ते अधस्तात्करोति स्थापयति इत्येतद् यज्ञोपवीतं यज्ञसाधनमुपवीतं देवसम्बन्धीत्यर्थः ।
विश्वास-प्रस्तुतिः
विप॑रीतं प्राचीनावी॒तँ
सव्ँ॒वीतं॑ मानु॒षम् । 1 ।
मूलम्
विप॑रीतं प्राचीनावी॒तँ
सव्ँ॒वीतं॑ मानु॒षम् । 1 ।
भट्टभास्कर-टीका
एतदेव विपरीतं प्राचीनावीतं यथा सव्यत उपवीय सव्यं बाहुमुद्धरते अवधत्ते दक्षिणमिति । सञ्ज्ञेयं ‘प्राचीनावीती निर्वपति’ इत्याद्यर्थम् । अन्वर्था चेयं सञ्ज्ञा, प्राचीनस्य उपवीतस्य आवीतम् आवेष्टनरूपं विपरीतात्मकत्वादिति । तेन पित्र्यमुक्तं भवति दैवविपरीतत्वात्पित्र्यस्य । संवीतं समं वीतम् अंसद्वयावलम्बनेन वीतं संवीतम् । उभावपि बाहू यत्राधः क्रियते तत् संवीतं मानुषं मनुष्याणां स्वं भवति ॥
इत्यारण्यके द्वितीये प्रथमोनुवाकः ॥