भास्करोक्त-विनियोगः
तैत्तिरीयारण्यकम् ॥
अथ द्वितीयः प्रपाठकः ॥
अथ स्वाध्यायब्राह्मणं काठकशेषमारभ्यते ।
उक्तं च -
स्वाध्यायब्राह्मणं काण्डं
काठके पठितो विधिः ।
इति ।
ऋषिर्ब्रह्मा स्वयम्भूर् नाम ।
तत्र “स्वाध्यायोऽध्येतव्यः” इत्यादौ यज्ञोपवीतविधानार्थो ऽयम् अनुवाकः[दः] ।
एतेनैव सिद्धे “निवीतं मनुष्याणां” इत्यादि-विधानं
तद्-भ्रेषे श्रौतप्रायश्चित्तार्थम् ।
विश्वास-प्रस्तुतिः
सह॒ वै दे॒वाना॒ञ् चासु॑राणाञ् च य॒ज्ञौ प्रत॑ताव् आस्ताव्ँ,
“व॒यँ स्व॒र्गल्ँ लो॒कम् ए॑ष्यामो, व॒यम् ए॑ष्याम॒” इति।
मूलम्
सह॒ वै दे॒वाना॒ञ् चासु॑राणाञ् च य॒ज्ञौ प्रत॑ताव् आस्ताव्ँ,
“व॒यँ स्व॒र्गल्ँ लो॒कम् ए॑ष्यामो, व॒यम् ए॑ष्याम॒” इति।
भट्टभास्कर-टीका
1सह वा इति ॥ सह वै यज्ञौ प्रततौ आरब्धौ आस्तां देवानामसुराणां च वयं स्वर्गं लोकं स्वामित्वेन एष्याम इति कृत्वा । यदा देवानां प्रवृत्तिरासीत् तदा असुराणामपि वयं स्वर्गं लोकमेष्याम इत्यासीत् । एवमन्योन्याभिभवेनैव यज्ञौ युगपदास्ताम् ।
विश्वास-प्रस्तुतिः
ते ऽसु॑रास् स॒न्नह्य॒ सह॑सै॒वाच॑रन्।
ब्रह्म॒चर्ये॑ण॒ तप॑सैव दे॒वाः।
मूलम्
ते ऽसु॑रास् स॒न्नह्य॒ सह॑सै॒वाच॑रन्।
ब्रह्म॒चर्ये॑ण॒ तप॑सैव दे॒वाः।
भट्टभास्कर-टीका
तत्र तेऽसुराः सन्नह्य कतोत्साहाः कृतसन्नाहाः सहसा भुजबलमात्रेणैव आचरन् यागमारब्धवन्तः । ते देवास् तु ब्रह्मचर्यात्मना तपसा इत्थम्भूता एव यथोक्तं यज्ञमाचरन् । ब्रह्म व्रतं शास्त्रीयो नियमः यज्ञोपवीतीत्यादि, तस्य चरणं ब्रह्मचर्यम् । ‘गदमदचरयमश्चानुपसर्गे’ इति यत् ।
विश्वास-प्रस्तुतिः
तेऽसु॑रा अमुह्यँ॒स्, ते न प्राजा॑नँ॒स्, ते परा॑ऽभव॒न्, ते न स्व॒र्गल्ँ लो॒कमा॑य॒न्।
मूलम्
तेऽसु॑रा अमुह्यँ॒स्, ते न प्राजा॑नँ॒स्, ते परा॑ऽभव॒न्, ते न स्व॒र्गल्ँ लो॒कमा॑य॒न्।
भट्टभास्कर-टीका
ततस् ते असुरा अयथोक्तमाचरन्तो अमुह्यन् वैचित्यमगमन् । मुह वैचित्ये । ततो न किञ्चित् कर्तव्याकर्तव्यम् अजानन् ।
ततश्चैव ते पराभवन् विनष्टा अभवन्, प्रारब्धकर्मफलालाभो विनाशः । ततस् ते स्वर्गं लोकं नायन्न गताः । अय गतौ ॥