सव्ँवत्सरमेत॑द्व्रत॒ञ्चरेत् ।
द्वौ॑ वा मा॒सौ ।
नियमस्स॑मासे॒न ।
तस्मिन्नियम॑विशे॒षाः ।
त्रिषवणमुदको॑पस्प॒र्शी ।
चतुर्थकालपान॑भक्त॒स्स्यात् ।
अहरहर्वा भैक्ष॑मश्नी॒यात् ।
औदुम्बरीभिस्समिद्भिरग्निं॑ परि॒चरेत् ।
पुनर्मामैत्विन्द्रियमित्येतेनानु॑वाके॒न ।
उद्धृतपरिपूताभिरद्भिः कार्य॑ङ्कुर्वी॒त ।
[129]
अ॑सञ्च॒यवान् ।
अग्नये वायवे॑ सूर्या॒य ।
ब्रह्मणे प्र॑जाप॒तये ।
चन्द्रमसे न॑क्षत्रे॒भ्यः ।
ऋतुभ्यस्सव्ँव॑त्सरा॒य ।
वरुणायारुणायेति व्र॑तहो॒माः ।
प्र॒व॒र्ग्यव॑दादे॒शः ।
अरुणाः का॑ण्डऋ॒षयः ।
अरण्ये॑ऽधीयी॒रन् ।
भद्रङ्कर्णेभिरिति द्वे॑ जपि॒त्वा ।
[130]
महानाम्नीभिरुदकँ सँ॑स्प॒र्श्य ।
तमाचा॑र्यो द॒द्यात् ।
शिवा नश्शन्तमेत्योषधी॑राल॒भते ।
सुमृडीके॑ति भू॒मिम् ।
एवम॑पव॒र्गे ।
धे॑नुर्द॒क्षिणा ।
कँसव्ँ वास॑श्च क्षौ॒मम् ।
अन्य॑द्वा शु॒क्लम् ।
य॑थाश॒क्ति वा ।
एवँ स्वध्याय॑धर्मे॒ण ।
अरण्ये॑ऽधीयी॒त ।
तपस्वी पुण्यो भवति तपस्वी पु॑ण्यो भ॒वति ॥ [131]